133a त्यक्तं तु तेषां रूपाणामबोधेऽपि न बाधकम् ।
साध्यसिद्धेः प्रकाशो हि विद्यते परतो न तु ॥ ३० ॥
स्वतोऽपि मा भूदिति चेत् यदि भासो न सर्वथा ।
युक्तमेतत् प्रकाशस्तु सन्नास्त्यस्मान्न किं स्वतः ॥ ३१ ॥
प्रकाशोऽस्ति न तु स्वस्मादतोऽन्यस्मात् कथं न चेत् ।
अन्यथा बाधकं यद्वत् तद्वन्नास्ति स्वतो मतौ ॥ ३२ ॥
स्वात्मन्यथ क्रियारोधो धारयोः स्वच्छिदा न हि ।
धारापि तीक्ष्णा स्वयमित्युच्यते किं न सूरिणा ॥ ३३ ॥
स्वहेतोरेव तीक्ष्णा सा जायते नान्यतो यदि ।
प्रकाशरूपज्ञानं च स्वहेतोरेव जायते ॥ ३४ ॥
उपकार्योपकारित्वकृतं मा भूत् प्रकाशनम् ।
तद्रूपजन्म रूपं तु स्वयंशब्देन शब्दितम् ॥ ३५ ॥