42b क्रमेऽपि कृतायाः
करिष्यमाणायाश्च करणात्1595 कादाचित्क्येव क्रिया, सहकार्यपेक्षायाः क्षिप्तत्वात् । ततः1596
कादाचित्काकादाचित्कक्रियत्वयोः परस्परपरिहारस्थितलक्षणतया विरोधः सिद्धः1597
एवं सति प्रतियोगिनि नित्ये विकल्प्यमाने एकज्ञानसंसर्गिलक्षणप्राप्ते विरुद्धस्या
नुपलभ्यमानस्य क्रमाक्रमस्य तदुपलब्धिरेवानुपलब्धिः । सैव वार्थक्रियाशक्ते
र्व्यापकानुपलब्धिः । तस्माद् व्यापकधर्म्युपलब्धितया न व्यापकानुपलम्भान्तरादस्य
विशेषः । यदि च धर्मित्वेऽपि वस्त्ववस्तुतया विभागो भाग्यहीनस्य भवतो मतिमद्यापि
दुःस्थयति, वस्तुन्यपि धर्मिणि एकत्र प्रदेशः कठिनो धर्मी द्रवरूपमन्यत्र जलमित्यादयो
विभागा भङ्गवन्तस्तदन्विष्यन्तः1598 केन वारणीयाः ? तस्माद् वस्त्ववस्तुतयापि भेदचिन्ता
कोपयोगिनी ?

ननु महानस्या उपयोगः । तथा हि वस्तुनि धर्मिणि परम्परया तत्प्रतिबद्धं व्याप
कानुपलम्भलक्षणमनुमानं प्रमाणं प्रमाणभाजनीभवति1599, वस्त्वधिष्ठानत्वात्प्रमाण
व्यवस्थायाः । न चैवमवस्तुनि शक्यमिति चेत् ? किं तावत्परम्परयापि वस्तुनः सकाशा
दागतत्वमेव वस्त्वधिष्ठानत्वम्1600 तदा क्रमाक्रमस्यार्थक्रियायाश्च व्याप्तिग्रहणगोचरवस्तु
प्रतिबद्धत्वमस्यापि न क्षीणम्, धर्मिविकल्पवस्तुप्रतिबद्धत्वं वा ।

अथ वस्तुनि केनचिद् रूपेण व्यवहारकारणत्वं1601 वस्त्वधिष्ठानत्वम् ? तदपि
क्षणभङ्गिवस्तुसाधनोपायत्वेन प्रतिष्ठितमस्य, तस्यैव वा धर्मिविकल्पस्य वस्तुनोऽवस्तू
पादानत्वव्यवहारकारणत्वेन धर्मिवस्तुनैव तु वस्त्वधिष्ठानत्वमिति किमनेन ? यदि
चैष ग्रहण एव1602 तत् किमनुमान एव वस्त्वधिष्ठानत्वं प्रामाण्यं वा ? न प्रत्यक्षे, लिङ्गा
श्रयणमेव1603 हि धर्मिचिन्तामवकाशयति । तदनाश्रयं तु प्रत्यक्षं वस्तुन आगतं1604 वस्तु
निमित्तव्यवहारकमित्येव1605 वस्त्वधिष्ठानम्, एवमनुमानमपि तथैव 1606वस्त्वधिष्ठानमिति

  1. ०याश्चाकरणात् र

  2. ततः इति नास्ति र

  3. सिद्धिः र

  4. भङ्ग
    मन्तस्तनिष्यन्तः अ

  5. लक्षणप्रामाण्यता?जननी भवति अ

  6. ०धिष्ठानं अ

  7. करणत्वं आ. र

  8. ग्रह एव अ

  9. लिङ्गाश्रयमेव आ, र

  10. वस्तुन आगतमिति नास्ति आ

  11. वस्तुनि च अ

  12. तथैवं अ