105
गृह्यताम् । केवलं परम्परया प्रत्यक्षस्यापि1607 हि जन्मैव साक्षात्, व्यवहरणं तु विकल्पा
दिव्यवधानेनैव । अनुमानस्य पुनरुभयमपि परम्परया । व्यवहाराणामपि स्मृत्यभि
लाषादिना व्यवधानात् । एवं वस्त्वधिष्ठानत्वमनुमाने1608 व्यवधानेन 1609दूषणमेव ।
केवलमनुमानेऽप्यन्यत्र साध्यधर्मापेक्षया यद्व्यवधानं ततोऽतिरिक्तमिदं व्याप्तिग्रहणा
पेक्षं वर्तत इति धान्ध्यं धियः । तत्रापि 1610न सर्वोऽनुमानान्तरसाधारणोऽयं धर्मः ।
स्वसाध्ये हि साक्षात्प्रतिबन्धमवधूय विपर्ययव्याप्त्या गमकत्वं कार्यकारणव्यापकानु
पलब्धिषु । तद्वद् वस्त्वधिष्ठानत्वमपि यदि यथोक्तव्यवधानेन विषयविशेषे भवेत्
कीदृशो दोषः, कस्यचिद् बाधकस्याभावात् ? धर्मिविकल्पापेक्षया तु न तावतोऽपि
व्यवधानस्य संभवः,

  1. प्रत्यया इत्यधिकम् र

  2. ०ष्ठानमनु० र

  3. भूषण० र

  4. नार्थो र