९ ॥ योगिनिर्णयप्रकरणम् ॥
यद् यद् भाव्यते तत् तद् भावनाप्रकर्षपर्यन्ते स्फुटाभं संभवति । यथा
कामुकस्य कामिन्याकारः । भाव्यन्ते च परमपुरुषार्थिना क्षणिकत्वे नैरात्म्यादयो
वस्तुधर्मा इति । अत्रेदं चिन्त्यते भवतु भावनया मानसी स्फुटाभता, केवलं भूताभूतार्थ
साधारणत्वाद् भावनोद्भूतवै56b शद्यस्यापि संवादनियमानुपपत्तेः कुतः प्रामाण्यमिति
कथं प्रत्यक्षता योगिज्ञानस्येति ?
अथानुमानव्यवस्थापितवस्तुभावनायास्तद्व्यभिचारशङ्काविरहात् तज्जस्यापि
ज्ञानस्य कुतः शङ्कावकाश इति चेत् ? आस्तां तावदनुमानपौरुषप्रत्याशा, प्रत्यक्षेणापि
विद्युद्दहनादिकं गृहीत्वा भावनाप्रकर्षपर्यन्तजातं स्थिरतरतदाकारं च ज्ञानं भवेद् यावन्न
विपरीतभावनाभियोगपर्यन्तः । अस्तं गतश्च तद्विषय इति कथं प्रमाणोपनीतवस्तु
गोचरत्वेऽपि संवादाश्वासः ? अनस्तङ्गमेऽपि वा तावत्कालमनलस्य नावस्थानियमः ।
समुद्रादेरप्येवम् । महीरुहादीनां चाल्पाल्पकालेन वैसदृश्यं दृश्यते । महीधरादीनां च
दहनाशनिप्रभृतिभिः । भावना तु यामवस्थामभिनिविश्य भवति तदेकावस्थानियतः
स्फुटाभाव इति तद्विषयापेक्षया भ्रान्तिराकारभेदादिति न प्रामाण्यं न च प्रत्यक्षता ।
यदा च हालिक एव हव्याशनमनुमाय भावनया स्फुट्येत्, तदा न तद् योगिज्ञानं परमार्थ
विषयत्वाभावादिति प्रत्यक्षान्तरप्रसङ्गः ।
अत्रोच्यते । न हि तावदियमनन्तराशंका संभविनी । भावना हि रागशोकाद्यावे
शाद् वा स्वयमुपनमेत्, प्रयोजनानुरोधाद् वा प्रेक्षवता संचिन्त्यारभ्येत ? तत्र परमप्रयो
जनवार्ताविरहाद्दाहपाकादिमात्रमनुमितेनैव हुतभुजा तद्देशोपसर्पणात् सिद्धम्, अनुपमृष्ट
देशेऽपि भावनावैफल्यम् । पुरस्तात्तु भाविते परिस्फुरति तदर्थापेक्षया भ्रान्तिः । एवं
शोकाद्युपनतायामपि भावनायाम् । तत् कथं प्रत्यक्षान्तरप्रसङ्गसङ्गतिः ?
अस्तु वा यथा कथञ्चित् तादृगर्थभावना, शिरसि शृङ्गभावनावत् । अथाप्य
भ्रमपक्षे योगिज्ञान एवान्तर्भावः । योगो हि समाधिर्मनस एकाग्रतालक्षण इति न
दोषः । शृङ्गाकारस्फुटोभावे तु पृथ्वी कृत्स्नेत्यादिवदप्रत्यक्षतैव निरालम्बनत्वात् । यद्
वार्तिकम्,
यत् पुनरस्तं गतेऽपि वस्तुन्याकारान्तरभाजि वा स्थिराकारतया भावना,
यस्य निरालम्बनत्वमापादितं सर्वस्य, तदपि वस्तुभावनापक्षे शोभते, न वस्तुधर्म
भावनापक्षे । वस्तुधर्माश्च क्षणिकत्वादयः संसारवैराग्यात् स्फुटीभावभाजो भावयितु
मुपक्रान्ताः । अथैकत्र प्रमाणपरिशुद्धेऽपि भावनाजनितवैशद्यस्य वस्तुनि विसंवाद
संदर्शनादन्यत्रापि क आश्वासः, प्रमाणपरिशुद्धिमन्तरेणाश्वासहेतोरप्यस्याभावात्,
तस्याश्च संवादनियतावसामर्थ्यात् ? तन्न, स्थिरास्थिरविषयत्वेन विशेषात् । अस्थिरं
हि वस्तु प्रध्वंसविकाराभ्यां ग्रस्यत इति न संवादः, 57a वस्तुधर्मास्तु
क्षणिकत्वादयो न कदाचिद्विच्छिद्यन्त इति तद्विषयः स्फुटीभावः सर्वदा सालम्बन
एव ।
नन्वेतदपि न युक्तम् । न हि क्षणिकत्वादिकं नाम किञ्चिदस्ति वस्तु, सत्त्वे वा
तदेव नित्यमासक्तमिति सर्वमयत्नशीर्णम् । अवस्तुत्वे च तदेव निरालम्बनत्वम् । तस्माद्
भवन्मतेऽपि क्षणिकत्वं नाम क्षणिका एव भावराशयोऽपरामृष्टभेदाः भेदान्तरतिरस्कारे
णोच्यन्ते । तथा च सति क्षणिकत्वभावनेत्यपि क्षणिकपदार्थसार्थभावनेत्येवार्थः । तावता
तान्येव वस्तूनि भाव्यमानानि स्फुटीभवन्तीति स एव दोषः । अथाभिन्नान्यपि क्षणिकत्वा
दीनि भिन्नानीव तावत्प्रतिभान्ति ? तथाप्यध्यवसायाद् वस्तुगतान्येव भाव्यन्त इति न
तद्दोषान्मुक्तिः, तटस्थतया भावयितुमशक्यत्वात् । तथा च त्रुट्यद्रूपमेतद् वस्तुजातमित्यय
मेवाकारो भावनायाः ।
तत्कथं वस्तुतत्त्वभावनापक्षेऽपि वस्तुसंस्पर्शपरिहारः ? परिहारे चावस्त्वन्तर
भावनैव स्यान्न धर्मभावना । सत्यम् । यद्यपि वस्तुतत्त्वभावनयापि सामान्येनाक्षिप्तं वस्तु,
तथापि न तस्य स्फुटीभावः, तत्त्वमात्रतात्पर्यपर्यवसानात् । तत्त्वभावनैव हि स्फुटीभवन्ती
संसारापसारणसरणिः । न हि कामिनीकलेवरं साक्षात्कृतं रागसंकोचमाचरति, किं
त्वनित्यदुःखादित्वमेव । अतस्तत्रैव तात्पर्यात् तदेव वैशद्यमापद्यते भावनया, न वस्तु ।
ननु तत्र तात्पर्येऽपि वस्तुधर्मः स्फुटीभवति न वस्त्विति का सङ्गतिः, भावनया द्वयोरपि
क्रोडीकरणात् ? कीदृशो वा धर्मिणमस्पृशतो धर्ममात्रस्य स्फुटीभावः ? तदेतदाकाश
चित्रणम् न खलु हालिकस्यापि प्रत्ययमातनोति ।
नैष दोषः, धर्मिणः स्फुटीभावमस्पृशतोऽपि धर्ममात्रस्य स्फुटीभावदर्शनात् ।
केवलं वस्तुप्रत्यासत्त्यनपेक्ष्य न स्फुटस्फुरणमिति स्यात् । स्फुटीभावोऽपि तस्य तद्विषय
सन्निधौ यत्नमनपेक्ष्य झगिति तज्ज्ञाने तत्तदाकारस्फुरणं नाम, वस्तुप्रत्त्यासत्त्यपेक्षा तु
न क्षीयते, धर्मत्वादेव, प्रियत्वादिवत् । तथा हि निम्बरसादौ तावत् प्रियत्वमभ्यस्यमानं
स्फुटीभवद्दृष्टम् । न च निम्बादेः स धर्म इति तद्भावनया निम्बाद्यपि स्वजन्मदेशस्थं
रसनाप्रसङ्गि वा स्फुटं स्फुरदस्ति यावन्न विपर्ययभावनाभियोगप्रकर्षः । न च स्फुटीभूतं
प्रियत्वमपि तटस्थमुपलभ्यते निम्बाद्यनुभवमनपेक्ष्य, किं तु यदा यदा निम्बाद्यनुभवः
तदा तदा झगिति प्रियत्वमनुभवविषयः, न प्रागिवोद्वेजकमनुभयं वेत्येष एव धर्म
स्फुटीभावार्थः ।
यथा हि कामिन्यादिवस्तुनि स्फुटीभूतेऽपि न यथा समयसिद्धस्तत्त्वस्फुटीभावः,
तथा तत्त्वभावनयापि न वस्तुस्फुटीभाव उभयोः परस्पराव्यभिचारेऽपीति कीदृशो
दोषः ? अथ न बाह्यधर्मः प्रियत्वमसाधारणत्वाद् भावनाधेयत्वाच्चेति चेत् ? कस्य
पुनरयं धर्मोऽस्तु प्रियत्वादिः प्रत्यात्मवेद्यत्वेनापह्नोतुमशक्यः ? ज्ञानस्य 57b चेत् ?
बाह्यस्य प्रियत्वमभ्यस्यमानं ज्ञानस्य स्फुटीभवतीति क एष न्यायः ? उत्कृष्टमिदं निम्बा
दिति भावनाकारोऽपि न तज्ज्ञानमुत्कृष्टमिति । अथापि ज्ञानस्यैव प्रियतया स्फुटीभावे
न जातु कश्चिदप्रियमनुभवेत् । न हि बहिरिव ज्ञानमपि कादाचित्कसन्निधानम् ।
ज्ञानस्यापि कस्यचिदेव प्रियत्वव्यक्तिरिति चेत् ? किंकृतः पुनरयं विभागः ? यद्यभ्यास
कृतः, यत्रैवाभ्यासो बाह्ये तत्रैव भवतु । तदनपेक्षायां कस्यचिदपि प्रत्यासत्तिविप्रकर्षा
भावान्मनोमात्रमधिष्ठानीभूतमिति न कश्चिद्विशेषः ।
बाह्ये तु विशिष्टजातिनिम्बादिकमभ्यासविषयीकृतमिति नातिप्रसङ्गः । ज्ञान
मपि तर्हि भावितनिम्बगोचरमेव प्रत्यासन्नमिति विशेषः । एवं तर्हीदमायातम्, यद्वस्तु
केनचिद् रूपेण भाव्यते तद्वस्तु विहाय तत्प्रत्यासन्नस्य स्फुटीभाव इति कामिनीं भाव
यतस्तत्प्रत्यासन्नस्य पित्रादेरेव स्फुटीभावप्रसङ्गो न कामिन्याः । अथ विषयस्य विष
यिणा ज्ञानेन सह विशिष्टैव काचित्प्रत्यासत्तिः ? एवमपि निम्बे प्रियतया अभ्यस्यमाने
तज्ज्ञानं प्रियतया स्फुरतीति निम्बादिकं प्राग्वदप्रियमेव भवेत् । ततो यथा सर्पादाव
प्रिये परिहाराङ्गतया तन्निश्चयः प्रिय एव न सर्पादिस्तथेदमपीति कृतं भावनया ।
अथ भावनाबलात् प्रियाकारमेव तद्विषयं ज्ञानमुपजायत इति कल्पना ? एवं
सति निम्बरसः प्रियो भाव्यत इति तद्विषयज्ञानमेव प्रियाकारं भाव्यत इत्यापन्नम् ।
326
स्फुटाभतापि तस्य तद्विषयोपनिधौ तद्ग्राहिज्ञानस्य झगिति यत्नमनपेक्ष्य प्रियाकार
स्फुरणम्, न विषयस्यैवासन्निहितस्य साक्षाद्भावः । एवं क्षोणीधरादयोऽपि क्षणिनो
भाव्यन्त इति तद्विषयज्ञानमेव क्षणिकाकारं भाव्यत इति । तस्यापि स्फुटीभावो
भूधरादिसन्निधौ तद्ग्राहकस्य क्षणिकाकारोदयो न भूधरादेरसन्निहितस्यापि स्फुटी
भावः । इयमेव धर्मभावना शब्दार्थनिष्ठेति न प्रस्तुतवस्तुक्षतिः ।
वस्तुतस्तु प्रियत्वं नाम सुखकरत्वम् । तत्र यद्विषये यस्य प्रियत्वभावना
तच्चित्तसन्तानं भावनापरिष्कृतमुपादानमुपादाय स विषयः सहकारी सुखमुत्पादयतीति
स्थितौ न सर्वं प्रियत्वम् । तत्र प्रीणकत्वं तु तस्यैव धर्मः, सर्वं च प्रतीति न दोषः ।
स चाभ्यासादेव । एवं कृपादिष्वपि मानसेषु धर्मेषु योज्यम् । दुःखिनमुद्धरामीति
दुःखिपरोद्धरणभावनायाः स्फुटीभावस्तद्विषयसन्निधौ झगिति तत् ज्ञानं तदनुरूपा
नुष्ठानप्रसवहेतुः । एवं शुचिकपालभावानायामपि नैर्घृण्यस्फुटीभावो नाम कर्परोप
सर्पणे वेदितव्यः । न तु संबन्धिनैब प्रत्यासन्नेनेतरेण वा सहस्फु58a रत्ता ।
यथोक्तं सर्वज्ञसिद्धौ,
तस्मात् क्षणिकत्वधर्माभ्यासेऽपि प्रकर्षगामिनि यावदनुभवितव्यमनेन, तावत्
त्रुट्यद्रूपमस्मदादिदर्शनविलक्षणमेव । यथास्माकमत्यन्तसदृशेऽपि भिन्नदेशपटुतर
भेदानुकारि दर्शनं विकल्पश्च झगित्येव तथा स्यात्, अनुष्ठानं वा तदनुरूपम्, एवं
योगिनः क्षणभेदिनि भावद्वये दर्शनविकल्पौ । स्थैर्यादिभ्रमोद्भवरागादिकलङ्कानङ्कितं
चास्य चेत इति इयती तस्य स्फुटाभता ।
ननु परिभाषामात्रमेतत् इयत्येव तस्य प्रकर्षगतिरिति । तथादृष्टत्वादिति
नोत्तरम् । यद्यपि दृष्टमेवं तथापि तावतैव स्थितिरिति न शक्यं प्रस्तुते । कदाचिदति
रिच्यमानः प्रकर्षो विषयेणैव सह स्फुटयेदिति न पूर्वदोषशोषः । प्रियत्वादावपि च
कदाचिदन्यैव निष्ठेति चेत् ? भवत्विति भावनया अभिमतां स्थितिमुल्लङ्घ्य स्फुटी
भावशङ्का । यस्तु प्रेक्षापूर्वकारी स्वार्थं परार्थं वा भावनाभियुक्तः, तस्य तावतैव
कृतार्थत्वं जातमिति किमिति श्रमान्तरमाविशेत्, अनर्थकत्वादनर्थकरत्वाच्च ? यथा
भोज्यभैषज्यादिष्वभिमतपाकप्राप्तौ । यथा चात्र संभवत्यपि पाकान्तरेऽभिमते ताव
327
तैव पाकप्रकर्षपर्यन्तव्यवहारः, तथा प्रस्तुतेऽपीति न कश्चिद्दोषः । तदेवं यद्यपि धर्मिविषय
भावनायाः स्फुटीभावो विसंवादसंवासी स्थैर्यविपर्ययाद्विषयस्य, तथापि न यथोक्तधर्मगोच
रायास्तदाशङ्केति स्थितम् । यद्येवमनुचितः कामिनीदृष्टान्त इति न चोद्यम्, भावनाया
वैशद्यमात्रनिदर्शनस्य विवक्षितत्वात् । अत एव वार्तिकम्,
इत्याह ।
तत्तर्हि योगिज्ञानमिन्द्रियज्ञानाद्भिन्नमभिन्नं वा ? किं चातः ? अभेदपक्षे न योगि
ज्ञानं नाम प्रत्यक्षभेदः, इन्द्रियज्ञानेनैव संग्रहात् । न च भावनोपस्कृतसन्तानस्य तथोदयाद्
भेदव्यवस्था, रसायनादिसंस्कारापेक्षयापि प्रत्यक्षान्तरव्यवस्थाप्रसङ्गात् । भेदपक्षे च
भावनासंभवं क्षणिकत्वसाक्षात्कारिज्ञानमन्यदन्यथेति साध्वी शुद्धिः, इन्द्रियज्ञानस्यापि
तदवस्थायामस्थैर्यसाक्षात्करणे कृतं योगिज्ञानेन । न च तस्याकस्मिकः क्षणिकत्वबोधः ।
भावनोद्भतवैशद्यस्य हि तद्वोधः । न चेन्द्रियज्ञाने भावना, अपि तु मनसः । तामन्तरेणापि
साक्षात् क्रियालाभे च भावनावैयर्थ्यम् ।
किं च भिन्नकालं वा तद्द्वयमभिन्नकालं वा ? तत्राभिन्नकालत्वमनुपपन्नम् ।
इन्द्रियज्ञानोपनीतस्य हि धर्मिणः क्षणिकता साक्षात्कर्तव्या भावनाभाविनाऽनुभवेन ।
अन्यथा धर्मिणं धर्मं च स्वातन्त्र्येण 58b साक्षात्कुर्वतो धर्मिद्वारकं दूषणमनिवार्यम् ।
न च धर्मभावनाया वस्तुसाक्षात्कारव्यापारो निम्बादिवदिति निवेदितमेतत् ।
तस्मादिन्द्रियज्ञानगोचरादधिक एव तत्त्वसाक्षात्कार इति प्रथममिन्द्रियज्ञानं धर्मिग्राहि,
पश्चान्मानसं क्षणिकताग्राहीति नियतः कालभेदः । कालभेदे च प्राचीनापेक्षया पश्चिमस्य
गृहीतग्राहित्वादप्रामाण्यमेकार्थत्वे । भिन्नार्थत्वे त्विन्द्रियज्ञानगोचरादन्यत्र प्रवर्तमानं
स्वातन्त्र्येण धर्मिणमुपस्थापयतीति न च प्राच्यदोषान्मुक्तिरिति ।
अत्र ब्रूमः । प्रथमपक्षे तावन्न वस्तुदूषणम्, तादृक्पुरुषविशेषस्य साध्यस्य
सिद्धत्वात् । व्यवस्थादूषणमपि नास्ति, साध्यतयैव तादृशादशविशेषस्य लोकातिक्रान्त
रूपत्वे तत्साधनविशेषप्रतिपादनाय पृथग्जनसाधारणेन्द्रियज्ञानाद् भेदेन निर्देशात् ।
न चेन्द्रियज्ञानशब्देन कोष्ठशुद्ध्या रसायनादिजनितविशेषस्येव संग्रहमात्रेण शास्त्र
साफल्यम् । अत एवाञ्जनादिकृतविशेषापेक्षयापि न भेदनिर्देशः, लोकातिक्रान्त
328
रूपस्य विशेषस्याभावात् । प्रयोजनापेक्षया हि बहुलमेकप्रकारसंग्राह्यस्यापि प्रकारभेद
निर्देश इष्यत एव, यथा संप्रयुक्तसंस्कारस्कन्धसंगृहीतयोरपि वेदनासंज्ञयोः, विकल्प
संगृहीतस्यापि क्लिष्टमनोज्ञानस्य । तस्मान्नेन्द्रिययोगिज्ञानयोरभेदपक्षे तावद्दोषः । तदेव
धर्मिरूपापेक्षयेन्द्रियज्ञानं धर्मापेक्षया योगिज्ञानं, यथा धर्मिप्रत्यक्षमेव निषेधापेक्षया
नुपलब्धिः ।
भेदकपक्षेऽपि न तावत् स्थैर्येतरस्फुरणकृतोपालम्भसंभवः इन्द्रियज्ञानेनापि
वस्तु सर्वात्मना गृह्णता त्रुट्यद्रूपस्यैव ग्रहणात् । अध्यवसायोऽपि पूर्वं दुर्लभः स
संप्रति भावनाबलावलम्बिना मनसा आसादितपाटवेन घटित इति विशेषः ।
नन्विन्द्रियस्यापि तद्दशायां निरतिशयविशेषलाभाद् दूरसूक्ष्माद्यनुभवं को निवारयति
बाह्ययोगिवत्, तिरश्चामपि कुतश्चित् कर्माक्षेपान्मात्रया तथोपलब्धेः ? विद्यमानानां
च क्षणानामवश्यं वैसदृश्यमणीयोऽपि संभवि, अन्यथा सर्वात्मना सादृश्ये तत्त्व
प्रसङ्गात् । तत् तथाविधसूक्ष्मभेदावधारणधूर्येणाक्षविज्ञानेनैव साध्यसिद्धेरनर्थकं
योगिज्ञानम् ।
एतेन दुःखानात्मादिसाक्षात्कारो व्याख्यातः । पुरुषवपुषा चेन्द्रियमन्तरेण
भवितुमशक्यमिति योगिज्ञानमनुत्पादनीयमस्तु । तदप्ययुक्तम् । न हि संभावना
मात्रोपनीतं नेत्रबलमवलम्ब्य संव्यवहारिणा प्रेक्षेण प्रमाणपरायणो मार्गः परिहर्तु
शक्यः । तदभ्याससहकारिकमेव वा तथाविधेन्द्रियशक्तिसाधनमित्यपरिहार्येण योगिज्ञानेन
समानकक्षतायामपि इन्द्रियज्ञानस्य न कश्चिद् दोषः । वैयर्थ्य59a मेकस्येति चेत् ?
कतरेण पुनः स्वकारणोपनिधानधर्मणोरनयोः स्वव्यापारवैयर्थ्यभयान्निवर्तितव्यम्,
बीजादिष्विवान्त्यक्षणप्राप्तेषु ।
अप्रामाण्यमेकस्यास्त्विति चेत् ? बीजादिष्वप्येकस्याकारणत्वमस्तु । सर्वषां
समानसामर्थ्यानां कतमदेकमकारणमवस्थापयितुं शक्यमिति चेत् ? परिच्छेदबलवतो
र्ज्ञानयोरपि किमेकमप्रमाणीक्रियताम् । परस्परापेक्षया मा भूदुभयमपि प्रमाणमिति चेत् ?
बीजादिष्वपि नैकमपि कारणत्वमस्त्विति समानम् । गृहीतग्राहित्वं नाम नास्त्येव । तर्हि
दोष इति चेत्—न, कालभेदेन तस्य स्वीकारात् । गृहीतग्रहणं हि तदुच्यते, न गृह्यमाणस्य,
यथा कृतस्य करणस्वीकारेऽकारकत्वम्, न तु क्रियमाणकरणे बीजादिवदेव । तस्मादभिन्न
कालपक्षे नैष दोषः ।
ननु तथाप्याकारद्वयस्फुरणप्रसङ्ग इति चेत् ? सत्यम्, सत्यज्ञानाकारस्तावद्धन्त
समानदेशः, अन्यथा भ्रमत्वप्रसङ्गात् । अतस्तावाकारावप्रतिघौ कया रीत्या स्फुरत इति
को निर्णेतुं क्षमः, यदाह,
इति ? तस्माद् दृष्टान्ताभावात् किमिवानिष्टं किमिव वा न दोष इत्युभयोरपि नावसरः ।
समसमयतया तर्हीन्द्रियज्ञानानपेक्षायां स्वातन्त्र्यदोष उक्तः कथं परिहर्तव्यः ? इन्द्रियापेक्षयैव
परिहरिष्यत इति नोत्तरम् । तदा हि तदपीन्द्रियज्ञानमेव स्यात्, तद्व्यापारानुविधानात् ।
न योगिज्ञानं नाम किञ्चित् ।
तद्वरमेकमेव स्वीकृतमिति न भेदपक्षः क्षमः । नैवम्, तथा हि मा भूदिन्द्रिया
पेक्षा । वीक्षणं तु यथा स्वसामर्थ्यानुरूपां योग्यदेशावस्थितिमपेक्ष्य स्वविज्ञानजनने
प्रवर्तते तथा मनैन्द्रियमपि प्रवर्तिष्यते, अप्राप्यकारिताया उभयोः साधारणत्वात्,
अर्थवत्तायाश्च मनसोऽपि तदानीमिष्टत्वात् । पृथग्जनसन्तानस्य तु न तादृशी शक्तिः
यतो नेत्रश्रोत्रवन्मनोऽपि तादृङ्मर्यादया योग्यदेशस्थमर्थसहकारिणमासाद्य वेदनम्
उत्पादयेदिति नातिप्रसङ्गः । तद्दशायां तु श्रुतिनयनयोरिव मनसोऽपि कियद्दूरेण
विषयसन्निधिव्यवस्थेति क एवं प्रमातुं क्षमः ? केवलमेतावदुच्यते, यावत्तेन शक्यम्
अधिगन्तुं स्वाकारार्पणसहं सहकारि वस्तु तावदितरजनासाधारणत्रुट्यद्रूपतया तस्य
गोचरीभवति । तथा च सति वस्त्वाकारो वस्तुकृत एव न भावनाजनित इति न
विसंवादशङ्का ।
ननु चक्षुरादेस्तावद्दूरतरगोचरीकरणे दृष्टा शक्तिः, मनसस्तु नेन्द्रियातिक्रमेण
सर्वविषयस्येति चेत्—न, परचित्तज्ञानादीनां संभवात् । तदपि नेष्टमेकेषामिति
चेत् ? अदृष्टमात्रेण प्रतिक्षेपायोगात् । उपायाभावादिति चेत् ? उपायाभावेऽपि
नानुपलम्भमात्रादन्य उपायः । तस्माद् यद्येवं स्यात् तदा योगि59b नामिन्द्रियमनो
ज्ञानयोर्भेदपक्षेऽपि न निर्वाह इत्युपक्षेपार्थः । निर्वाहस्त्वन्यथाऽपि दर्शित एव । एवं
च सति कालभेदपक्षेऽपि न दोषः, यदि सा प्रथमं मनोज्ञानवृत्तिः, यदि
चेन्द्रियपथातिक्रमेण वृत्तिः । इन्द्रियज्ञानं तु तस्य तदपेक्षया प्रामाण्यविरहेऽपि न
व्यथयतीत्यलं विस्तरेण ।
तदेवं योगिज्ञाने तत्त्वभावनाधिकारादर्थाकारोऽर्थकृत एव । भावनया पुनस्तदीय
सन्ताने नेत्र इवाञ्जनविशेषेण शक्तिरतिशयवती काचिदर्पिता ययेतरजनासाधारणं
दर्शनमस्य । यथोक्तं प्राक् । यदि तर्हि विषयजन्यमेव योगिज्ञानमतीतानागतपरिज्ञानस्य
का वार्ता ? तदेतत्प्रस्तावानवगाहनस्य फलम् । उपयुक्तसर्वज्ञाधिकारेण हि वस्तुधर्मभाव
नोपक्षेपः कृतः । न सर्वसर्वज्ञपक्षापेक्षया ततोऽतीतानागतमप्रतीयमानमपि न बाधकम् ।
तावतैव दुःखनिरोधसिद्धेः, परस्मै च निष्कम्पदेशनावतारात् ।
यत् पुनः कणिकायां क्षणिकादितत्त्वभावनाद्वारेण तद्धर्मिणां समस्तवस्तूनामेव
भावनया तदाकारज्ञानोत्पादनात्साक्षात्करणमुत्थाप्य दूषणमभिधीयते योगिज्ञानस्य,
तदवधीरणीयमेव, वार्तिकभाष्यादिवादबहिर्भावात् । अन्यथारब्धैव नित्यदुःखादिभावना,
सा च सर्वसर्वज्ञत्वमेवार्पयतीति यद्यभिप्रेतं स्यात्, कथं यत्नेनोत्थाप्य तत्परिहारो
वार्तिके,
इत्यादिना भाष्ये च ? यदि पुनस्तदवस्थाप्राप्तौ निरावरणान्तःकरणस्य कारुण्यातिशयात्
सर्वाकारपरार्थप्रार्थनपरतया सकलगोचरचारिणि चेतसि चिरविरूढोत्साहस्य तादृगुपाय
विशेषाधिगमो भविष्यति, यमनुतिष्ठतः प्रतिपरमाणु सर्ववस्तुविषयं यथादेशकालं प्रत्यव
स्थानुकारि स्फुटतरं ज्ञानमुदीयात् । तदा न तावद्वस्तुव्यभिचारकृतं विसंवादित्वम्, नापि
निरालम्बनत्वम्, वस्तूनामेव प्रतिभासनात् ।
अथोत्पत्तिसारूप्याभ्यामालम्बनव्यवस्था,
इति वचनात्, ततः सारूप्यमेकमकिञ्चित्करमिति कथमनालम्बनत्वपरिहारः ?
तदयुक्तम्, तत् खलु लक्षणं पृथग्जनापेक्षया बहिरर्थं प्रति समसमयभाविना
नुपकार्येण ज्ञानेन ग्रहणनिषेधपरम्, तथा प्रस्तावात् । तत्त्वतस्तु यदेव यत्र प्रतिभासते
तदेव तस्यालम्बनमुच्यते । यथेन्द्रियप्रत्यक्षे बाह्यमन्यत्र स्वाकारः, प्रतिभासवशात्
331
प्रत्यक्षस्य ग्रहणाग्रहणे इति हि प्रथमपरिच्छेदवृत्तिः । तत्र बाह्यस्य प्रतिभासो नाम
तदाकारोत्पत्तिमात्रम् । तथा हि बहिर्विच्छिन्नाकारोदयसंवेदनमात्रादिदं दृष्टमिति
भवति । न खलु तत्संकल्पकाले उत्पत्तिरपरापेक्ष्यते, 60a तस्याः पश्चान्निश्चेयत्वात्
फलप्राप्त्या वा अभ्यासेन वा । स च तदाकारोदय इन्द्रियप्रत्यक्षेऽर्थाद् भ्रमे विप्लवात् ।
विकल्पे वासनातः । तत्रार्थजन्ये संवादोऽन्यत्र विपर्ययो बहिरपेक्षया, स्वरूपे सर्वत्र
संवादनियमात् । ततोऽभिप्रेतसंवादे वेदने तदुत्पत्तिमन्तरेण न संवादो नापि ताद्रूप्यमिति
तत्र तदुत्पत्तिप्रार्थना । अतएव तदाकारतैव प्रामाण्यम्, सारूप्यतदुत्पत्ती च संवेद्यलक्षण
मित्युभयमविरोधि ।
यत्र तु भावनाविशेषबलादेव देवताधिपत्यात् सत्यस्वप्नवदर्थाकारमर्थयाथात्म्य
नान्तरोयकं ज्ञानम्, तत्र न किञ्चित् तदुत्पत्त्या । यद् वार्तिकम्—
इति । तस्माद् बाह्ये पृथग्जनस्य सारूप्योत्पत्तिभ्यां वेद्यस्थितिः योगिनः सारूप्यमात्रे
णापि । स्वरूपे योग्यतामात्रेणैवेति न्यायः । 2517भाविभूतयोस्तर्हि यदि स्वरूपस्फुरणं
वर्तमानतैव स्यात् ।
अथ स्वरूपमसन्निहितं ज्ञानमेव तदाकारमिति निरालम्बनं नियमेन, तदपि
नास्ति । यस्मादसन्निहितेऽप्यर्थे भावनाबलाच्चेत् तद्देशकालानुकारि विज्ञानं कथमना
लम्बनम् ? स्फुरणरीतिविशेषेण तु कालभेदविकल्पोदयात् तदनुरूपानुष्ठाने नियतत्वात्
तत्प्राप्तेः । यद्भाष्यम्,
इति । यद्वा संचित्यैव कालभेदभागिवस्तुरूपप्रतीतये समाधिसमापत्तेर्व्युत्थाने काल
भेदाध्यवसायः । यथोक्तम्,
इत्यादि । क्रमेण त्वनाभोगमपि ज्ञानमविरोधि । ज्ञानमात्रस्य तत्त्वतः स्फुरणाच्च न
332
वर्तमानताप्रसङ्गः, यथा निराकारवादे वस्तुस्वरूपस्यैव स्फुरणादिति । यद्यपि च
वर्तमानेऽपि ज्ञानाकारस्यैव स्फुरणं तथापि वर्तमानतयैवाध्यवसायस्तत्र । एवं
दूरासन्नादिभेदेऽपि वेदितव्यम् । तत्र यथाध्यवसायप्राप्तौ नियमेन संवादात् प्रामाण्यम्
अन्यदा विपर्ययः यथा स्वप्नकामिन्यादौ । प्रतिभास्वर्गसाधनाग्निष्टोमादिविकल्पे च
भाविनः स्पष्टरूपस्य प्रतिभासाभावादेव न चिन्ता । न च तत्र प्रेक्षव्यावहारिकस्य
प्राप्तिनियमनिश्चयोऽस्ति ।
प्रस्तुतेऽपि को निश्चय इति चेत् ? कस्य पुनरत्र निश्चयश्चिन्त्यते, तस्य तदन्यस्य
वा ? यदि तस्य, तदा यथाभ्यासात् परितो निरस्तविभ्रमाशङ्के साधनज्ञाने पृथग्जनस्य
तथा योगिनोऽप्यत्यन्ताभ्यासाद् भाविभूतादिप्रतिभासः केन वार्यते ? अथान्यस्य,
तदेदमायातम् । यावदन्यस्य न प्रामाण्यबोधस्तावन्न प्रमाणम् । यावच्च न प्रमाणं
तावन्नान्यस्य प्रामाण्यबोधोऽभ्रान्त इति न किञ्चित्प्रमाणं स्यात् । तन्नाभिवेशपारवश्येन
किञ्चित् । तस्मादुपायविशेष60b सचिवभावनाभेदस्याहत्यास्फुरणात् तादृक्सिद्धावेव
संशयो, न तु सिद्धेऽपि निरालम्बनत्वादिदोषैरुपद्रवः शक्यः ।
यच्च विकल्पेन बाह्यस्याग्रहणेऽप्यध्यवसेयतया स्फुटीभावमाशंक्य, यदनुमानेन
गृह्यते यच्चाध्यवसोयते ते द्वेऽन्यनिवृत्ती न वस्तुनी, स्वलक्षणावगाहित्वेऽभिलापसंसर्गयोग्य
प्रतिभासानुपपत्तेरित्याह, तदप्यसंबद्धम् । तथा हि, यथा तथा वा बौद्धसिद्धान्तगन्धेन
व्यवहारः, कामिन्याकारविकल्पभावनवत् क्षणिकाकारस्यापि पर्यन्ते विशदोपादेयक्षण
प्रसवस्तु दुर्निवारः । यदि पुनरीदृगपोहस्थितिः क्षणिकविकल्पैकतल्पशायिनी न कामिन्यादि
विकल्पमन्वेतीत्युपपादयिष्यसि तथैव ग्रहीष्यामः । न चाध्यवसेयमवस्तुनिवृत्तिमात्रं वा ।
धर्मोत्तरेऽपि हि मते स्वलक्षणमध्यवसेयमिति स्थितिः ।
ननु वह्निः प्रतीतो मयेत्यध्यवसायाकारः । तत्र च स्वलक्षणस्फुरणमिति
साहसम्, विकल्पाध्यवसाययोरेकार्थत्वात् । सत्यम्, न तु तत्र स्फुरतीति तावता
स्वलक्षणमध्यवसितमुच्यते । अस्फुरणे तर्ह्यबोधात् कथमवसायः ? स्फुरणेऽपि प्रति
भास एवासौ, कथमध्यवसायः ? न च प्रतिभासाध्यवसायावप्येकार्थौ । प्रतिभासो
हि साक्षात् स्फुरणमस्फुरणेऽपि प्रवृत्तिविषयीकरणमेकव्यावृत्युल्लेखसामर्थ्यादध्यवसायो
भाष्यमतः । अतो यदनुरूपमनुष्ठानं तदध्यवसेयम्, प्रतिभासमानरूपाननुप्रविष्टमेव ।
तच्च क्वचिदारोपितमात्रम् । क्वचिद्वस्तुरूपम् । प्रकृतं तु प्रमाणव्यापारस्वीकाराद् वस्तु
रूपमेवेति कथमुच्यते निवृत्तिमात्रमवस्तु वाध्यवसेयमित्यास्तां तावदनारब्धनिर्बन्धः ।
333
प्रतिभासोऽपि विकल्पे व्यावृत्ताकारस्य, न व्यावृत्तिमात्रस्य यद्यनुभवानुसारः । सर्वदा
यद् वा तद् वा राक्षसादि प्रतिभासेत । भावनया पुनरध्यवसिताकारेण परिणतिः
अबाध्या तत्रारोपितमात्रेऽध्यवसेये निरालम्बनत्वम् । सति तु तदेवालम्बनं यथानन्तर
मुक्तम् ॥
यत्त्वाह, अर्थस्यालम्बनप्रत्ययत्वं विज्ञानं प्रतीन्द्रियापेक्षत्वेन व्याप्तम् । तच्चा
स्मात् स्वविरुद्धोपलब्ध्या निवर्तमानमालम्बनप्रत्ययत्वमप्यर्थस्य निवर्तयतीति, तत्रा
लम्बनप्रत्ययत्वेन्द्रियापेक्षत्वयोर्व्याप्यकभावमप्रसाध्य प्रमाणेन व्यापकविरुद्धोप
लब्धिं स्फुटयतीति महद्वैदग्ध्यम् । तथा दर्शनादिति चेत् ? दर्शनादर्शनमेव तर्हि
प्रमाणीकृत्य स्थीयताम्, किमेवंविधप्रमाणोपन्यासव्यसनेन ? तस्मादिन्द्रियमन
पेक्ष्यापि यद्यालम्बनभावं भावः स्वीकुर्यात् न बाधकमुत्पश्यामः । अथात्रोक्तमेव न
खल्विन्धनविशेषो धूमहेतुरिति विनापि दहनं सहस्रेणापि संस्कारैर्धूममाधत्ते । तदा
धाने वा समस्तकार्यहेत्वनुमानोच्छेदप्रसङ्गः । तस्मात् ज्ञानमपीन्द्रियसापेक्षादर्थाद्
उत्पत्तिधर्मकम् ।
इन्द्रियव्यापारविरहे च समस्ता61a परकारणसन्निधावसन्निधीयमानसत्ताकं
तत्प्रतिबद्धं सिद्धमिति कथमिन्द्रियानपेक्ष्यस्यार्थस्य स्वविज्ञानं प्रत्यालम्बनभाव
इति चेत् ? एतदपि परचित्तज्ञानसंभवेन प्रतिव्यूढम् । इष्टाश्च परचित्तवेदिनश्चार्वाक
मीमांसकव्यतिरिक्तैः । चार्वाकादेरपि सन्देहान्नापरा गतिः । सन्देहे च विपक्षादेकान्त
व्यावृत्तेरयोगः । ननु ज्ञानकार्यस्येन्द्रियापेक्षानियमादेव नान्यत्र सन्देहो दहनापेक्ष
धूमवत् । यद्येवं रूपज्ञानस्य वीक्षणापेक्षणे यादृशी सामग्री सा न संचरणविशेषस्य
चरणापेक्षणे कलयापि हीयते, तत् कथं न धूमदृष्टान्तश्चरणविरहिणामुरगादीनां
गमननिषेधाय प्रभुरभूत् ? कथं वा करादिव्यापारसङ्गि सावेगमन्त्रोद्गारपरम्परा
साध्यमेकेषां विषशमनादिकार्यं समाधिमात्रादन्यस्य ? न चैवं धूमोऽपि क्वचिदिन्धने
दहनानपेक्षोदयो दृष्टो यतोऽत्रापि तथा शङ्क्येत ।
तस्माद् बहिर्भुवो भावा यथा हेतुफलभावेनोपलम्भभाजः ते तथैव नियत
वृत्तयः । चित्तसन्तानस्य तु विचित्रकर्माभिसंस्कारसामर्थ्याद् विचित्र एव विवर्तः ।
अतस्तदाश्रयकार्यमेकत्र यावदपेक्षं तावदपेक्षमन्यत्रापीति न नियन्तुं शक्यम् । तत्
कथं परचित्तवेदनादेरभाव एव ? यदि च धूमवदनलमनपेक्ष्य नेन्द्रियं बुद्धिः, तदा
स्वविषयेऽप्युत्कर्षघोषणावीक्षणादीनां दीनैव स्यात् । तथा हि यावद्देशं दहनेन्धनादि
334
धूमादिसाधनमुपलब्धं न तावद्देशातिक्रमे समर्थम् । एवं यावद्देशेऽस्माकं विषये
न्द्रियादिवेदनमुत्पादितवत् कथं तदतिक्रमे गृध्रादीनामुत्पादयेत् ? उत्पादने वा नेन्धन
दहनादिकक्षां क्षमते चित्तसन्तानाश्रया सामग्री । नापि धूमकक्षां बुद्धिः ।
अतः सहकारिणोऽतिव्यवधानवद्वैकल्येऽपि किं न कुतश्चित् विशेषात्
संभाव्यते ? जातिकृतोऽसौ विभागः, न चित्तसन्तानाश्रयादिति चेत्—न, जातिरपि
हि विचित्रकर्माधिपत्यादेव विचित्रस्वरूपोपसंहारस्वभावा, कर्म च न चित्तादन्यदिति
न चित्ताश्रयत्वपरिहारः । अथेन्द्रियस्य प्राप्यकारितया सर्वैव विज्ञानजननसामग्री
साधारणदेशेत्युच्यते । तथापि कस्मात् पुनस्तावद् दूरदेशस्थितिमति क्वचिल्लोचन
रुढांशश्लेषः क्वचिदर्वागेव विश्राम इति किमत्र वक्तव्यं कर्माधिपत्यादन्यत्र ? तस्मात्
तदाश्रयस्य चित्तसन्तानस्य चित्रैव शक्तिः ।
न हि बहिरपि शक्यमेवम् । अन्यथा सदृशप्रदेशस्थायिनोः प्रदीपयोरल्पकस्य
कस्यचिद् दूरसारिणी किरणसंहतिरितरस्य पुनरर्वाचीनचारिणी स्यात् । अथ मन्त्र
प्रभावादेवमपि स्यात्, सरीसृपदृशा च मान्द्यमादधातीति चेत् ? स तर्हि चित्त
सन्ततेरेव प्रभावः । मन्त्रेऽपि पुरुषमाहात्म्यकृत एव । यथा वार्तिके निर्णीतम्,
अपौरुषेयत्वेऽपि मन्त्राणां न पुरुषनिरपेक्षाणां 61b शक्तिः । ततश्च पुरुष एव
मन्त्राद्युपायेन बाह्यवस्तुशक्तिव्यवस्थां दुस्थयतीति आयातमिति प्रस्तुते किमसंभावनम् ?
यथा च लोचनापेक्षः पदार्थस्यालम्बनभावो दृष्ट इति तन्नियत इष्टः, तथालोकापेक्षोऽपि
दृष्ट इति न संतमसे पश्येयुरुलूकादयः । तथा दृष्टत्वान्न दोष इति चेत् ? तथा
दृष्टत्वादेव हतोऽसि । तथा हि नेत्रालोकयोः समानेऽप्यपेक्षासाधनन्याये चित्तस्या
चिन्त्यशक्तितया अन्यतरोल्लङ्घनदर्शनमन्यदपि शङ्कया कलङ्कयति । न त्वदर्शने शक्य
मेवम् । अथ तादृशि ज्ञानत्वसामान्यवन्त्यपि कार्याणीतरजातिभेदभाञ्जीति नानपेक्ष्य
साधनसामग्रीभेदमुदियुरित्युच्यते ।
केन पुनः प्रकृतज्ञानस्याप्यलौकिकस्य पृथग्जनज्ञानेन सहैकजातितायां प्र
तारितोऽसि ? असत्त्वादेव तर्हि तस्य न जातिभेद इति चेत् ? असत्त्वमिति जातिभेदा
भावादेवेन्द्रियापेक्षया नियमसंभवादितीतरेतराश्रयः । तस्मात् साधारणकर्मनिर्जा
तानामस्मदादीनामनुभवभेदं प्रतीन्द्रियापेक्षत्वमालम्बनत्वस्य व्यापकमपि न स्व
निवृत्त्या अनुभवमात्रं प्रति निवर्तकं भवितुमर्हति, विशेषोद्देशेनैव व्याप्तिसिद्धेः ।
अथानुभवमात्रमेकीकृत्य व्याप्तिरिष्यते ? तदा विपर्ययाधकाभावात् व्याप्तिरेव न
335
सिध्यति हेतुफलनियमाश्रयस्तु ध्वस्तो धूमादिसाधारण्यानुपपत्तेर्विचित्रकर्माभिसं
स्कारादचिन्त्यशक्तिस्वान्तसन्तानसंभाविनोऽनुभवमात्रस्य । विशेषाश्रये च न सर्वोप
संहारवती व्याप्तिरिति स एव दोषो विशेषवत्त्वं नाम ।
यदप्ययमाह2519, भावनायाश्चाभूतार्थाया अर्थानपेक्षाया एव विशदज्ञानजनन
सामर्थ्यमुपलब्धं कामातुरादिवर्तिन्या इति भूतार्थापि तन्निरपेक्षैव समर्थेति नार्थस्य
आलम्बनप्रत्थयत्वं शक्यावगममिति । तत्रापि केयमर्थनिरपेक्षता ? किमर्थाविषयत्वं
साक्षादर्थाप्रतिभासो वा, यद् वा अर्थाहेतुत्वमथार्थव्यभिचार इति पक्षाः । प्रथमपक्षे
भूतार्थत्वमविषयत्वं चेति व्याहतम्, तत्प्र भवानुमानस्येव तस्याप्यध्यवसायापेक्षया
तद्विषयत्वात् । प्रतिभासापेक्षया तु मा भूत् तद्विषयत्वं तस्यास्तज्जनितज्ञानस्यैव तदिष्टे
रिति न द्वितीयोऽपि पक्षः । तृतीयोऽसंभवी, स्वप्रभवानुमानद्वारेण तस्यापि भूतार्थ
कार्यत्वात् । अतएव व्यभिचारोऽपि सिद्ध इति न चतुर्थः । अतस्तज्जविशदज्ञानस्य
संवादनियमादर्थस्य कथमालम्बनत्वमशक्यावगमम् ? तस्मात् प्राचीनरीत्यैव चोद्यं
चारु, परिहारश्चोक्त एव ।
यच्चानेन 2520पुरस्तात्तना एवास्य विषयक्षणा ग्राह्या युज्यन्ते न पूर्वतरा इत्यादिना
भूतानागतबोधिनिषेधाय प्रयत्तं, तत् प्रागेव प्रत्यादिष्टम् । प्रकृतसर्वज्ञपक्षे तु यावन्तो
ज्ञानमुपजनयन्तः स्वज्ञानगोचरतामनुभवन्ति 62a तावन्तः क्षणिकदुःखानात्मा
कारेणैवेत्येतावतैव साध्यसिद्धिः । प्रतीतातीतेषु स्मरणं भाविनि संभावनेवेति ।
यद्यतीते स्मरणमेव, तत् कथं समुदयाकाराणां स्फुटीभाव इति चेत् ? पञ्चस्कन्धा
एवोत्तरापेक्षया समुदयः । तत्रायमेव समुदयाकारस्फुटी भावो यदभिमुखीभूतेषु परा
पेक्षया झगिति तदनुरूपविकल्पानुष्ठानादिप्रसवहेतुः स्फुरणरीतिः काचित्, यया पृथग्
जनाद्विभागभागी भवति पूर्ववत् । अतीतेषु च तथैव पटुतरस्मरणोदयः । परानपेक्ष
स्वरूपमात्रेण तु क्षणिकाद्याकारैर्दुःखसत्यप्रतीतिः । ननु विकल्पा नामसहसंभवस्वभाव
त्वाद् यदा दुःखाकाराणामवसायः, तदा न समुदयाकाराणाम्, पश्चाच्च निर्विषयः
अवसाय इति चेत् ? सत्यमेतदेकैकसत्यस्यापि नाकारचतुष्टयविकल्पनमेककालम् ।
न च काचिदेवं क्षतिः । ग्रहणरीतिविशेष एव हि स्फुटीभूतसकलाकारः साक्षात्कारणम् ।
यतो बीजविकल्पावकीर्णाभिमतविकल्पक्रमाविर्भावः । यथा हि नीलचलविकचादि
विशेषणमुत्पलं पश्यतो जनस्य न विकल्पक्रमेण तद्विषयसकलाकारसाक्षात्क्रिया
336
व्याघातः, तथा प्रस्तुतेऽप्युन्नेयः । अपरस्पराश्च क्षणास्तवैवापरापरैरनुभवैः साक्षा
त् यन्ते । विकल्पाश्च यथाभिमतं प्रवर्तन्ते गृहीतानुसन्धानरूपाः । अनुभवेनैव च
सार्वज्ञस्थितिरिति वेदितव्यम् । एवं निरोधधर्ममार्गसत्ययोरपि स्वसंवेदनेन वेदने
सकलमूह्यम् ॥
यच्च सर्ववस्तुनो मिथः कथञ्चित् साक्षात् पारम्पर्येण च संबन्धद्वारकं कतिपय
दर्शने सर्वदर्शनस्य दूषणं तदनभ्युपगमेनैव गतम् । संबन्धद्वारकस्तु विशेषणतया
समस्तवस्तुविषयः सङ्कल्पो यदि तदवस्थायां जन्मपरम्परास्मरणसंभवे भवेत्, न
दोषमुत्पश्यामः । यथाभ्यासवतो हुताशादिदर्शने झगित्येव एधस्य कार्यं हेतुश्च
पावकस्यायमिति विकल्पः, तथा विकल्पगृहीतानां भावनाप्रकर्षे वैशद्यमप्यस्तु । न तु
संबन्धमात्रेणैकदर्शनादन्यदर्शनं सङ्गिरामहे । मा भूद् वा वैशद्यमपि सर्वविषय
विकल्पमात्रेणैव संवादिना सार्वज्ञ्यकार्यपर्याप्तेस्तदवस्थस्य । अथवा 2521स्वालम्बन
प्रत्ययमात्रगोचरमेवाविकल्पकं समस्तवस्तुविशिष्टालम्बनाध्यवसायहेतुः । तेनावसाया
नुगतव्यापारमविकल्पमपि समस्तवस्तुविषयं भवति । यदाह,
एतत्त्वाशङ्क्य यदाह कतिपयवस्त्ववलम्बनस्यानुभवस्य कुतस्त्य एष महिमा
यतः समस्तवस्त्ववसायः ? रागाद्यावरणविगमादिति चेत् ? तर्हि यथावद् वस्तूनि
62b पश्येत्, न तु पुनरस्मादशेषवस्तुव्यवसायनिर्माणकौशलमस्य युज्यते । तत्त्वा
वरकता हि सुलभा मलानां न पुनर्विजल्पनिर्माणप्रतिबन्धतेति ।
अत्र पर्यनुयोगः, किं तावद् वस्तुनि दृश्यमाने विकल्पप्रतिबन्ध एव न दृष्ट उत
क्लेशकृतो वेति ? तच्च द्वयं नास्ति । न ह्यनुभववत् सर्वाकारकल्पनं क्वचित् । न च
तद्विकल्पवैकल्यं क्लेशानन्तरेण । यदा हि प्रिये वस्तुनि दृष्टे दोषवत्यपि दोषा
विकल्पनं, तदा व्यक्तं रागो हेतुः । यदा पुनरप्रिये गुणवत्यपि गुणाविकल्पनं,
तदा द्वेषः । अनभ्यासे तु सर्वसद्रूपाविकल्पनं मोहकृतमेव । न च कम्बलादिवदा
वरणम्, किं तु सन्तानवैगुण्याधानेन । ततो यथा यथा मोहादिपराजयः तथा तथा
यत्नेन वैगुण्यव्यावृत्त्या तावत्सु आकारेषु यदा धियो व्यवसायभाजः पर्यन्ते सर्वा
कारेषु सर्ववस्तुषु यदि स्युर्न कश्चिद्विरोधः । बुद्धिपाटवपरम्परया दृष्टेषु स्मृतेष्वपि
337
स्मरणसंभवादीक्षमाणेषु च गाढतरस्मरणसंस्काराधानादनाद्यनन्तत्वाज्जन्मनः, एकप्र
कारनिश्चयस्य च तज्जातीयाशेषनिश्चयस्वभावत्वान्न सर्वविषयसङ्कल्पानुदयकृतो दोषः ।
यच्चेदमूचे, 2523अप्रमाणं च तन्नितान्तविशदाभत्वे सति भावनाजनितत्वात् ।
यन्नितान्तविशदाभत्वे सति भावनाजं विज्ञानं तदप्रमाणम्, यथा अनुमितभावित
विषयविशदं ज्ञानमिति । तत्र वह्नेरनुमाय भावनैव नास्तीति दर्शितत्वात् दृष्टान्ता
भावः ।
यच्चानेन2524 काव्यायितम्, अस्ति चेह शिशिरभरसंभृतजडिममन्थरतरकाय
काण्डस्यानुमितवह्निभावनाभियोग इति । तत्र यदि जाड्यातुरतया स्वयं चित्तावेशाद्
भावनोपनतिः, तदा क्वानुमानवार्ता ? अनुमानं हि प्रवृत्तिपाटवभृता प्रार्थ्यते । तद
वस्थस्य तथा अशक्तौ च किं भावनया ? स्फुटीभाव एव वा पुरस्तादस्तु क्वानुमानाव
काशः ? न हि कामुको यावन्न कामिनीमनुमिमीते, तावन्न भावनायामभियुज्यत
इत्यस्ति संभवः । तस्मात् जाड्यातुरस्य भावनाजनितवैशद्यमग्निज्ञानमात्रमस्तु
दृष्टान्तः । तदपि कामिनीदृष्टान्तेन स्वकाव्यालंकृतेन गतम् । न चैकस्य भावनाभुवो
ज्ञानस्य विसंवादादप्रामाण्येऽप्रामाण्यमन्यस्य संवादिनोऽपीति न्यायः, इन्द्रियोदय
स्यापि सर्वस्य केशादिविप्लववदप्रामाण्यप्रसङ्गात् ।
यच्च भावनाप्रकर्षलक्षणस्य कारणस्य साम्येन फलयोरपि दृष्टान्तदार्ष्टान्तिकयोः
साम्यनियमाय प्रपञ्चितम्, तत्रापि किं न चक्षुरेव द्विचन्द्रैकचन्द्रदर्शनयोः समानं
कारणमुत्पश्यसि ? तिमिरोपघातानुपघातकृतो विशेषश्चक्षुषोरिति चेत् ? भावनयोरपि
भूताभूतविषयत्वेन किं न भेदः ? चक्षुषि तिमिरकृतो विकार एव कश्चिद् भेदकः,
भावनाया तद्वैशद्ये वा कश्चित् स्वरूपभेदोऽभेदेऽपि विषयस्येति चेत्—न, संवादेतर
कारणत्वेन शक्ति63a भेदस्यैव बलीयसः संभवे किमपरेण ? सविषेतरयोरिव
अन्नयो रूपरसदृष्टीनामभेदेन हेतुहेत्वाभासभाविन्योरिव वा साध्यबुद्ध्योस्तत्कृतप्र
वृत्त्योश्च किं च लोचनेऽपि न विकार इत्येव दोषः अञ्जनजनितेऽपि विकारी दोष
व्यवस्थाप्रसङ्गात् । किं तु भ्रान्तिहेतुतयेति शक्तिकृत एव तत्रापि भेदः । तदेवं भावना
प्रकर्षेण स्फुटाभत्वमेव साध्यते न प्रामाण्यम्, यतो दृष्टान्तासिद्ध्यादिदोषावकाशः ।
प्रामाण्यं तु भूतार्थत्वेन संवादात् प्रत्यक्षत्वं च कल्पनापोढाभ्रान्तत्वेनेति तावतैवास्या
शेषोऽप्यविद्यादुष्टनयः प्रतिहतो वेदितव्यः ॥
न्यायप्रकीर्णककारस्याप्यभूतविषयतोपलम्भस्तावत् क्षणभङ्गादिसाधनादेव प्रति
व्यूढः । यच्चानुमानस्य विकल्पतां प्रस्तुत्याह, 2525तत्र यावद्विकल्पैरुपदर्शितं तत् सर्वमसत्,
शब्दसंसृष्टत्वात् । तस्मिश्च भाव्यमाने असत्ये तावकस्य विकल्पस्य भावनयोपहिते
विशदभावे शब्दसंसृष्टग्राह्यत्वनिमित्तं विकल्पकत्वं व्यावर्तते । तद्व्यावृत्तौ च ग्राह्य
सर्वशब्दसंसृष्टं निवर्तते । अतो निर्विकल्पकमपि योगिज्ञानं निर्विषयं प्रसक्तमिति ।
तत्र किमिदं निर्विषयत्वं नाम ? ग्राह्याकारभ्रंशादनाकारता वा, यद् वान्या
कारता, अथ तदाकारत्वेऽपि तद्वस्तुरूपासंसर्गितेति ? प्रथमपक्षस्तावदसंभवी, ज्ञानस्य
निराकारत्वानुपपत्तेः, कामिन्यादौ भावनया तदाकारस्यैव वैशद्यदर्शनात् । अतएव न
द्वितीयोऽपि पक्षः । यदयमेवाह शोकातुरस्यापि निरुद्धेन्द्रियव्यापारस्य तनयभावनया
पित्रादिप्रतिभासप्रसङ्गादिति । केवलं न चास्मिन् संसृष्टे भाव्यमाने स्फुटमन्यद्रूपं
भवतीति प्रस्तुत्याकुलः प्रलाप एषः । अनेन हि भावनया सर्वथा स्फुटीभाव एव
निषिद्धः, विकल्पमन्तरेण भावनानुपपत्तेः । विकल्पस्य च शब्दसंसर्गमन्तरेणेति क्व
स्फ्टीभावः ? तनयभावनायां च पित्रादिप्रतिभासप्रसङ्गवादिना तनयप्रतिभासोऽनु
ज्ञात एव । अन्यथा तनयाभावनयापि तनयप्रतिभासप्रसङ्गादित्यभिदधीत । न
चानिष्टिमात्रं दृष्टापलापाय प्रभवति ।
तथा च कणिकाकार एव कामिन्याकारवैशद्यं कामुकस्य वचनचेष्टाविशेष
काव्यरचनया2526 द्रढयति स्म । स्वयं चायं भावनयोपहिते विशदभावे इत्यादिवचनं
केनाकारेण चरितार्थीकुर्यात् ? तस्मादन्यभावनया नान्यस्फुटीभाव इत्यध्यवसेया
पेक्षया अन्यत्वव्यवस्थापनं साधु । न विकल्परूपस्य गोचराभिमतस्य च परस्परम्,
तयोरेकताध्यासात् । स्पष्टीभावोऽपि हि बहिरभिमतस्य पर्यन्ते विकल्पोपादेयक्षण
स्यैव स्फुटस्योदयः । तावतैव स विषयस्तेन साक्षात्कृत इति व्यवहारः । केवलं सति
वस्तुनि तदाकारज्ञानं संवादि, विसंवादि त्वसतीति चिन्तितप्रायम् ।
63b अत एव तृतीयोऽपि विकल्पः प्रत्युक्तः । संवादसाक्षात्क्रियाभ्यामन्यस्य
ज्ञानेन वस्तुरूपसंस्पर्शस्य निर्वक्तुमशक्तेः । अपि च तनयभावनायामित्यत्र कस्तनय
भावनार्थः ? तनयस्य पुनः पुनश्चेतसि निवेशनमिति चेत् ? चेतसि निवेशनार्थोऽपि
तदाकारविकल्पनमेव । एवं तर्हि यदयं प्रलपति क्षणिकत्वे भाव्ये समारोपिते वास्तवं
339
क्षणिकत्वमेव योगिज्ञानप्रतिभासीति चेत्—न, सत्त्वासत्त्वयोरेकत्वाभावात्मके हि
भेदे सत्यसत्यभावनेऽपि यदि सत्यप्रतिभासः, स तर्हि सत्यतनयाभ्यासेऽपि शब्द
साम्यादभेदिनस्तनयसंज्ञकस्य कस्यचिदपरस्य स्वरूपप्रतिभासप्रसङ्गः । तस्मादभूत
विषयादभ्यासान्निर्विकल्पकमपि संवादान्न प्रमाणमिति, तदपि ध्वस्तम्, समारोपित
भावनाया एवाभावात् ।
यथा हि, तनयस्तनय इति विकल्पाभ्यासस्तथा यदि समारोपितं क्षणिकत्वं
समारोपितं क्षणिकत्वमिति विकल्पः, तदा समारोपितक्षणिकभावना भवेत्, न चैवम् ।
किं तु क्षणिकाः संस्कारा इति । ततः सत्थतनयवद् वास्तवमेव क्षणिकत्वं भाव्यते ।
सत्यतनयभावनाया वा अन्य आकारो वक्तव्यः । क्षणिकविकल्पेन क्षणिकस्वलक्षणास्पर्शात्
कथं तद्विकल्पो भावना वेति तनयविकल्पेऽपि समानम् । अध्यवसेयापेक्षया तद्विकल्पत्व
व्यवस्था च समानैव । न हि तनयविकल्पेऽप्यारोपिताद् अन्यस्य प्रतिभासः । तदयं
तनयभावनायामारोपितशब्दसंसृष्टप्रतिभासेऽपि सत्यतनयस्फुटीभावमिच्छन् प्रस्तुतं
प्रतिक्षिपतीति किमन्यन्मोहमहाग्रहग्रासीभावात् ।
एतच्च विकल्पस्फुरदारोपितापेक्षया बाह्यत्वमात्रेण सत्यभावनासाम्यमुक्तम् ।
बाह्यापेक्षया तु शोकातुरस्य तनयभावनमभूतभावनैव । अत एव तदभूतं पुरः स्फुरत्
तनयाकारं तदा तादृक्तनयाभावादप्रमाणम् । क्षणिकभावना तु सदा तत्प्रकृतित्वाद्
धर्माणां भूतविषयैवेति, तज्जनितवैशद्यमविसंवादात् प्रमाणम् । अथ विकल्पस्यावस्तु
विषयतया तनये तनयभावनेऽपि भिन्नमेव वैशद्यमापद्यते नास्मन्मत इति हृदिस्थम् ।
तदपि हृदय एव जीर्यतु । योगिनिर्णयो हि प्रारब्ध एषः, तस्य चोभयथापि न
क्षतिः । अपोहस्यापि प्रमाणेन परिशुद्धावध्यवसेयस्यैव वैशद्यं दृष्टमिति किमत्र क्रिय
ताम् ? अनुमाने वस्तुनिर्भासाभावात् कथं तदपेक्षया प्रमाणपरिशुद्धिरिति चेत् ?
प्रस्तावान्तरमेतत् ।
यच्चेदम्2527, अपि च भाव्यस्य वस्तुनः पुनः पुनश्चेतसि निवेशनमभ्यासः । स च
ब्रह्मचर्येण तपसा सादरदीर्घकालनिरन्तरमासेवितो दृढभूमिरस्फुटाकारस्य विकल्पस्य
स्फुटाभत्वजनन इष्टः । स च क्षणिकनैरात्म्यवादिना द्रढयितुमशक्यः । तथा हि,
भाव्यग्राही 64a यादृशो विकल्प उत्पन्नस्तादृश एव निरन्वयं निरुध्यते । तस्मिंश्च
निरुद्धे पुनरुत्पद्यमानः प्रत्ययस्तादृश एवापूर्व उत्पद्यते । तदनेन पर्यायेण कल्पसहस्रे
340
अप्यपूर्वोत्पत्तेरविशेषान्न तज्जन्यः संस्कारोऽभ्यास उत्पद्यते । एतेन विशिष्टविज्ञानो
त्पादोऽभ्यासो व्याख्यातः । निरन्वयनिरुद्धं हि पूर्वविज्ञानं कथमुत्तरोत्तरावस्थान्तरं
विशिष्टं जनयेत् ? सर्वथा क्रमभाविभिः प्रत्ययैरवस्थितमेव रूपं शक्यं संस्कर्तुमिति ।
तदेतदसंगतम् । 2528न हि यादृश एव भाव्यग्राही प्रत्ययः प्रथमो निरन्वयनिरुद्धः,
तादृश एवापर उत्पद्यत इति नियमनिश्चयकारणं किञ्चिदस्ति चण्डदेवतास्पर्शादन्यत् ।
क्षणिकत्वादिति चेत् ? ननु क्षणिकत्वं स्थायितया विरुध्यते, न विसदृशोत्पादेन । तद्धि
प्राचीनं निरन्वयनिरोधि यथा सदृशं क्षणान्तरमारभते, तथा यदि सामग्रीभेदलेशतो
विशेषलेशनिवेशिक्षणान्तरमुत्पादयति तदा का क्षतिः ? न हि भवत इव भावस्यापि
क्षणिकतायां प्रद्वेषः । अस्ति चेहापि लेशेन सामग्रीभेदः । तथा हि क्षणिकाः सर्वसंस्कारा
इत्यनुवादमात्रापेक्षया संसारदुःखक्षयार्थितया भावनायामभिप्रयुज्यमानस्य विशिष्ट एव
संकल्पः, सोऽपि विशिष्टमणुमात्रयातिरिक्तं जनयति यावत्तरतमादिक्रमेणान्तिमात्
फललाभः, बीजादिवत् । यदि तु व्यासङ्गादयो मध्यमध्यासीरन् मन्दतादितारतम्यमेव
स्यात् । यद् भाष्यम्,
इति । निरन्वयविनाशे तर्हि प्राचीनविशेषासंक्रमणाद् द्वितीयस्य कुतो विशेषलाभः ? एवं
तर्हि सामग्र्यन्तरेऽपि तादृशा विशेषेण भवितव्यम्, अस्य तत्रासंक्रमणात् । तस्मादसन्नपि
स विशेषः कारणबलादुदपादि यथा, तथायमपि । समानस्तर्हि तेनायमिति चेत्—न,
हेतुविशेषात् फलविशेषस्य दुर्निवारत्वात् ।
तथा हि प्रथमो विशेषस्तादृग्विशेषविनाकृतादुत्पन्नः । अयं तु तादृशविशेष
सचिवादिति कथं समानः स्यात् ? अन्वयस्तु विचारासह एव । यो हि हेतुतः संक्रान्तो
भागस्तत्र नापरस्य हेतोर्व्यापारः, य एव व्यापारः स पूर्वमसन्नेव । एवं यदङ्गस्य
निरोधो न तस्य स्थितिः, स्थितिमतश्च न निरोधः । तत्कथं सान्वये निरोधजन्मनी ?
तेन सहवृत्तेरिति चेत् ? आकाशेनापि सान्वयत्वकल्पनाप्रसङ्गात् । उभयकालानुवृत्ति
मात्रजन्यस्य सहार्थस्याभावात् । तच्च कलसकपालयोर्निधनसंभवकालेऽन्तरालस्य न
341
वार्यते । शेषं तु प्रक्रियामात्रघोषणं प्रमाणपरिपन्थीति किं तेन ? हरिपदवदवस्थिते
त्वात्मन्युत्कर्षापकर्षायोग इति बहुशश्चर्वितमास्तां तावत् ।
यच्चाह, 2529किं च चित्तमेकाग्रमवस्थापयितुं विक्षेपत्यागार्थमभ्यासोऽनुष्ठीयते,
न च 64b क्षणिकवादिनां विक्षिप्तं चित्तमस्ति, प्रत्यर्थ नियततया सर्वस्यैकाग्र
त्वादिति । तदप्यसंबद्धम् । अनुभवसिद्धं हि चेतसः कस्यचित् तत्त्वसंमुखीकरणम्,
कस्यचिद् विपर्ययः, कार्यादिमात्रपरामर्शोऽपरस्येति । 2530तत्र नैरात्म्यादितत्त्वपराङ्मुखं
सर्वमेव चित्तं विक्षिप्तमुच्यते । उक्तक्रमेण तु तत्त्वेकनिष्ठं समाहितमित्येतावता किं न
पर्याप्तम् ? यदवश्यमेकस्यैव विचित्रगोचरचारित्वमन्वेषितव्यम् । अथ च तत्त्व
साक्षात्क्रियाकालात् प्रागहमित्येकाकारावग्रहसंभवाद् व्यावहारिकं तदप्यस्ति, यतो
ममैव दोषक्षयो भावीति मार्गाभ्यासप्रवृत्तिरव्याहृता भवति । प्राप्यसंकल्पो हि सर्वत्र
प्रवर्तकः । स चेदस्ति वस्तुतथाभावव्यतिरेकेऽपि कः प्रवृत्तिं निवर्तयति ? येन हि
तर्हि तथानुमानेन निश्चितं क्षणिकतादि तस्य प्रवृत्तिरिति चेत् ? निश्चयस्य सात्मीभावा
भावादनाद्यविद्यावासनावशीकृतेन चेतसा निश्चयानुचितस्यैव व्यवहारस्य प्रवर्तनात् ।
अतएव दर्शनमार्गेऽपि लब्धे भावनामार्गापेक्षणमुक्तं वार्तिकेऽन्वेषणीयम् । तस्मात्
तत्फललाभादर्वागभ्यासोऽविद्ययेव संपाद्यते । अभ्यासाच्च सिद्धः सर्वज्ञ इति ॥
2531न्यायभूषणस्य च योगाचारपक्षापेक्षया दूषणमप्रस्तुतम्, बहिरर्थमभ्युपगम्यैव
साधनप्रक्रमात् । तत्रापि सर्वसर्वज्ञपक्षोपक्षिप्तो बाधस्तदनभ्युपगमादेव निरस्तः ।
न चासौ बाध एव, संशयमात्रसाधनत्वात् । तथा हि, यत्तावदतीतानागतविषयत्व
निषेधार्थमुक्तम्, न ह्यसतः कश्चिदाकारोऽस्तीति, सत्यमिदानीमेवमेतत् । ततस्तज्जन्य
ज्ञानेनाग्रहणमपि सत्यम् । सत्यस्वप्नादिवदन्यथापि तु संभावना न शक्यनिषेधेति
दर्शितम् । न च यथेदानीं न कश्चिदाकारस्तथा कालान्तरेऽपि भूतभाविनोः । तथा
सति भूतभावित्वमपि न स्यात्, करिकेसरवत् । अभ्रमाविसंवादौ च प्रागेव
चिन्तितौ ॥
यत्पुनराह, 2532न चाविसंवादित्वमपि त्वन्मते युक्तम्, यतः प्राप्यार्थदर्शकत्वं वा
प्रवृत्तिविषयोपदर्शकत्वं वावभातार्थक्रियानिष्पत्तिर्वा भवतामविसंवादित्वमभिप्रेतम् ।
न चैतदतीताद्यर्थज्ञानस्य संभवति, वर्तमानार्थज्ञानस्यापि क्षणिकत्वपक्षे नोपपद्यत
342
एवेति । तदपीर्ष्यापारवश्यमात्रम्, उपपत्तिविधुरत्वाद् । यदि तावद् भाविभूतयोः
कालव्यवधानेन तथोच्यते, तदा देशव्यवधानेऽपि एष प्रसङ्ग इति प्रवृत्तियोग्यदेशेऽपि
प्रदर्शकमप्रमाणं स्यात् । तदस्ति तावदिति चेत् ? अन्यदपि, भावि भूतं वा तत्काले
नास्तीति चेत् ? तद्देशे वर्तमानमपि नास्तीति समानम् । अर्थक्रियापि यथा तद्देश
सन्निधौ तथा तत्कालसन्निधाविति न कश्चिद् विशेषः । वर्तमानस्य क्षणिकत्वेऽपि
एकत्वारोपसामर्थ्यान्न व्यावहारिकं प्रति प्रमाणतायाः क्षतिः, तदभिप्रायात् संवादस्य
व्यवस्थितत्वादिति ॥
यच्च कौमारिलैः 65a सर्वसर्वविदि कारणानुपलब्धिमुपक्रम्य तस्य कारणम्
इन्द्रियज्ञानं वा मानसं वा भावनाबलजं वा, भावनाबलजमपि चाक्षुषं मानसं वेति
विकल्प्य दूषणमारब्धम्, तत् संभावनादौर्बल्याविष्करणमात्रं नाभावनिश्चयफलम्,
यथेन्द्रियापेक्षालम्बनत्वचिन्तायां चर्चितम् । न च कारणानुपलब्धेरनिश्चयः फलम्,
तत एव धर्माधर्मविषयेऽपि भावनाबलजस्य बलमपलपितुमशक्यम् । ततः काशिका
कारस्यापि 2533योगिनां धर्माधर्मयोरपरोक्षप्रतिभासं ज्ञानं नास्ति, इन्द्रियसन्निकर्षा
भावादस्मदादिवदित्यनुमानमनैकान्तिकम्, विपक्षव्यावृत्तेरेकान्तेन प्रतिपत्तुमशक्य
त्वात् । किं च धर्माधर्मज्ञानमिति कर्मफलसंबन्धमात्रपरिज्ञानमेतत् । तच्च जाति
स्मरत्वसंभवे दुर्निवारम् । ततः परिज्ञानसंभवात् भावनापरिनिष्पत्तौ इदं सुवर्णाद्येवं
प्रयुज्यमानमेतत्साधनमिति झगिति विकल्पोत्पादनपटीयः प्रत्यक्षमुदयमासादयेदिति
किमनुपपन्नम् ? केवलं जातिस्मृतौ प्रतिपत्तव्यम् । तत्र चादर्शनमात्रमप्रमाणमिति न
सर्वथा निषेधाभिधानं साधु । यथा हि सन्निपातादिभिरभ्यस्तविस्मरणसंभवेऽपि
स्मरणमपि केषाञ्चिद् दृष्टम्, तथा गर्भावासपीडयापि कस्यचित् प्रज्ञातैक्ष्ण्यात्
पुण्योदयात् पीडामान्द्याच्च समनन्तरजातिस्मरणमपि भवत् सर्वथा निषेद्धुमशक्यम्
अचार्वाकेण ।
संभवे चास्यानेकजन्मान्तरगोचरीकरणस्यापि संभवात् क्रमेण सर्वविषय
संकल्पसंभवाविरोधाद् विषयानवगमकृतो भावनानुदयदोषः परिहृतः, आगमाच्च
लोकसन्निवेशं यथावत् परिगृह्य भावनासंभवात् । यद्यपि नागमः प्रमाणम्, तथापि
गम्भीरप्रमाणान्तरसंवादसंदर्शिनः श्रद्धावतः किं न संभवेत् ? तत्प्रमेयस्यावैतथ्ये च
सिद्धं साध्यम् । समुदायविकल्पाभ्यामेवावयवस्यापि स्फुटीभावो दृष्ट एव । क्रमेण
सूक्ष्माद्यभिव्यक्तिश्चेति ।
एतेन तदपि निरस्तं यदभ्यस्तैकशास्त्रस्यान्यत्राशक्तिरुभया वा बहु बहुधाप्रति
रूपते परमपुरुषार्था पदादिभिः2534 । न ह्यत्र विमतिः । इदं पुनरस्ति, प्रथमशास्त्राभ्यासे
प्रयासो यावान् न तावान् विजातीयाभिधेयेऽप्यन्यत्र । एवं पाटवप्रकर्षपरम्परायाम्
अश्रुतेऽपि कस्यचित् तथा प्रकर्षो यथा नान्यस्य श्रुतेऽपि । ततो जन्मान्तरस्मृतिसंभवे
भूयोऽभ्यासादनभ्यस्तेष्वपि वस्तुरूपेषूहापोहसंभवान्न निःक्लेशावस्थः परार्थसमर्थतया
तावतैव स्थास्यति । यद् वा सर्वसंकल्पसंभवाद् भावनाभियुक्ता व्यक्तीकरिष्यन्ति
सर्व स्वेच्छातो योगिनः । अत एव सर्वावगतिपक्षे भावनानर्थक्योद्भावनमप्यनर्थकम्,
निष्पन्नावश्यकार्य65b चतुरार्यसत्यभावनस्य सर्वविषयानुमानसंभवे स्वेच्छायाः
प्रतिपादनात् ।
अथ सर्ववस्तुसाक्षात्कारेऽन्यदेव सुखं परार्थसाधनं वेति पश्येन्न भावनया
परिखेदः कश्चित्तदवस्थस्य सुकरश्च सर्वस्फुटीभावः संभवतीति महोदधिनापि नाधिकं
किञ्चिदुक्तम् । उक्तं च तावतैव प्रत्युक्तम् । तस्माद् यथा यथा चिन्त्यते संशयमात्र
फलः सर्वविदि दूषणोपन्यासो नैकान्तेन बाधे विकल्पः । प्रकृतसर्वज्ञस्य तु साधन
मेकान्तेनैव । तत्रापि न देशकालपुरुषनियम इति चेत्—न, तदपेक्षायां साधनस्य
अप्रयुक्तत्वात् । सर्वथापवादिनं प्रति हि साधनमेतत् । तच्च देशाद्यनियमेऽपि कृतार्थम् ।
तथा चैवंविधमुद्भेदितमस्माभिः सर्वज्ञसिद्धाविति ॥
- प्र. वा. २. २८६ ↩
- ↩
- ↩
-
तुल० रत्न० निब० पृः १९
↩ -
त. स. ३६२८ ?
↩ -
वाचस्पतिर्न्यायकणिकायाम्, पृः १४६; तुल० रत्न० निब० पृः १०.
↩ -
न्या० क० पृः १४९;
↩
तुल० रत्न० निब० पृः १०-११ -
न्या० क० पृः १५०; तुल० रत्न० निब० पृः ११
↩ - प्र. वा. २. १०७ ↩
-
न्या० क०, पृः १५२; तुल० रत्न० निव० पृः १२.
↩ -
न्या० क० पृः १५२; तुल० रत्न० निब० पृः १३
↩ -
तुल० रत्न० निब० पृः १३
↩ -
न्या० क० पृः १४८; तुल० रत्न निब० पृः ९-१०
↩ -
तुल० रत्न० निब० पृः १३-४,
↩ -
तुल० रत्न० निब० पृः १९.
↩ -
तुल० रत्न० निब पृः १४.
↩ -
तुल० सैव, पृः १९,
↩ -
तुल० सैव०, पृः १९,
↩ -
तुल०
↩
सैवु, पृः १४ -
श्लो० वा० काशिका, प्रथमसंपुटे पृः २१८
↩ -
वाक्येऽत्र पाठाशुद्धिः ।
↩