समाहितमालक्षयन्नाह—

किञ्चिदारभमाणस्य कार्य दैववशात् पुनः ।
तत्साधनसमापत्तिर्या तदाहुः समाहितम् ॥ २९६ ॥

किञ्चित्कार्यं प्रसादनादिकमारभमाणस्य साधयितुं सज्जीभूतस्य पुंसो दैववशात् विधिबलात् कारणात् न तु स्वसामर्थ्यात् । तस्य सिषाधयिषितस्य कार्यस्य साधनं साध्यते अनेनेति तस्य पुनरपरस्य प्रत्ययस्य कस्यचित्समापत्तिः सन्निधानं या तदेवंलक्षणं समाहितमाहुः ब्रुवते कवय इति ॥