26-a
त्वक् पिण्डं दीर्घवृन्तस्य काश्मरीपत्रवेष्टितम् ।
मृदावलिप्तं सुकृतमङ्गारेष्ववकूलयेत् ॥ ८१ ॥
स्विन्नमुद्धृत्य निष्पीड्य रसमादाय यत्नतः ।
शीतीकृतं मधुयुतं पाययेदुदरामये ॥ ८२ ॥
शतं कुटजमूलस्य क्षुण्णं तोयार्मणे पचेत् ।
क्वाथे पादावशेषेऽस्मिंल्लेहं पूते पुनः पचेत् ॥ ८३ ॥
सौवर्चलयवक्षारबिडसैन्धवपिप्पली ।
धातकीन्द्रयवाजाजीचूर्णं दत्वा पलद्वयम् ॥ ८४ ॥
लिह्याद्बदरमात्रं तच्छृतं क्षौद्रेण संयुतम् ।
पक्वापक्वमतीसारं नानावर्णं सवेदनम् ।
दुर्वारं ग्रहणीरोगं जयेच्चैव प्रवाहिकाम् ॥ ८५ ॥