22-b
धन्याकं नागरं मुस्तं वालकं बिल्वमेव च ॥ २० ॥
आमशूलविबन्धघ्नं पाचनं वह्निदीपनम् ।
इदं धान्यचतुष्कं स्यात्पित्ते शुण्ठीं विना पुनः ॥ २१ ॥
पिप्पलीं नागरं धान्यं भूतिकं चाभयां वचाम् ।
ह्रीवेरभद्रमुस्तानि बिल्वं नागरधान्यकम् ॥ २२ ॥
पृश्निपर्ण्या श्वदंष्ट्रा च समङ्गा कण्टकारिका ।
तिस्रः प्रमथ्या विहिताः श्लोकार्धैरतिसारिणाम् ॥ २३ ॥
कफपित्ते च वाते च क्रमादेताः प्रकीर्तिताः ।
संज्ञा प्रमथ्या ज्ञातव्या योगे पाचनदीपने ॥ २४ ॥
त्र्यूषणातिविषाहिङ्गुबलासौवर्चलाभयाः ।
पीत्वोष्णेनाम्भसा हन्यादामातीसारमुद्धतम् ॥ २५ ॥
अथवा पिप्पलीमूलपिप्पलीद्वयचित्रकान् ।
सौवर्चलवचाव्योषहिङ्गुप्रतिविषाभयाः ॥ २६ ॥
पिबेच्छ्लेष्मातिसारार्तश्चूर्णिताश्चोष्णवारिणा ।
हरिद्रादिं वचादिं वा पिबेदामेषु बुद्धिमान् ॥ २७ ॥
खण्डयूषयवागूषु पिप्पल्यादिं प्रयोजयेत् ।
तक्रे कपित्थचाङ्गेरीमरिचाजाजिचित्रकैः ॥ २८ ॥
सुपक्वः खण्डयूषोऽयमयं काम्बलिकोऽपरः ।
दध्याम्लो लवणस्नेहतिलमाससमन्वितः ॥ २९ ॥
नागरातिविषामुस्तैरथवा धान्यनागरैः ।
तृष्णातीसारशूलघ्नं पाचनं दीपनं लघु ॥ ३० ॥
पाठावत्सकबीजानि हरीतक्यो महौषधम् ।
एतदामसमुत्थानमतीसारं सवेदनम् ॥ ३१ ॥
कफात्मकं सपित्तं च वर्चो बध्नाति च ध्रुवम् ।
पयस्युत्क्वाथ्य मुस्तां वा विंशतिं भद्रकाह्वयाः ॥ ३२ ॥