23-b
कञ्चटजम्बूदाडिमशृङ्गाटकपत्रबिल्वह्रीवेरम् ॥ ३५ ॥
जलधरनागरसहितं गङ्गामपि वेगिनीं रुन्ध्यात् ।
कृत्वालवालं सुदृढं पिष्टैर्वामलकैर्भिषक् ॥ ३६ ॥
आर्द्रकस्वरसेनाशु पूरयेन्नाभिमण्डलम् ।
नदीवेगोपमं घोरमतीसारं निरोधयेत् ॥ ३७ ॥
किराततिक्तकं मुस्तं वत्सकं सरसाञ्जनम् ।
पिबेत्पित्तातिसारघ्नं सक्षौद्रं वेदनापहम् ॥ ३८ ॥
पलं वत्सकबीजस्य श्रपयित्वा जलं पिबेत् ।
यो रसाशी जयेच्छीघ्रं सपैत्तं जठरामयम् ॥ ३९ ॥
मधुकं कट्फलं लोध्रं दाडिमस्य फलत्वचम् ।
पित्तातिसारे मध्वाक्तं पाययेत्तण्डुलाम्बुना ॥ ४० ॥
कुटजातिविषा मुस्तं हरिद्रा पर्णिनीद्वयम् ।
सक्षौद्रशर्करं शस्तं पित्तश्लेष्मातिसारिणाम् ॥ ४१ ॥
कुटजत्वक्फलं मुस्तं क्वाथयित्वा जलं पिबेत् ।
अतीसारं जयत्याशु शर्करामधुयोजितम् ॥ ४२ ॥
बिल्वचूतास्थिनिर्यूहः पीतः सक्षौद्रशर्करः ।
निहन्याच्छर्द्यतीसारं वैश्वानर इवाहुतिम् ॥ ४३ ॥
पटोलयवधन्याकक्वाथः पेयः सुशीतलः ।
शर्करामधुसंयुक्तश्छर्द्यतीसारनाशनः ॥ ४४ ॥
प्रियङ्ग्वञ्जनमुस्ताख्यं पाययेत्तु यथाबलम् ।
तृष्णातिसारच्छर्दिघ्नं सक्षौद्रं तण्डुलाम्बुना ॥ ४५ ॥
कलिङ्गकवचामुस्तं दारु सातिविषं समम् ।
कल्कं तण्डुसतोयेन पिबेत्पित्तानिलामयी ॥ ४६ ॥
कुटजं दाडिमं मुस्तं धातकीबिल्वबालकम् ।
लोध्रचन्दनपाठाश्च कषायं मधुना पिबेत् ॥ ४७ ॥
सामे सशूले रक्तेऽपि पिच्छास्रावेषु शस्यते ।
कुटजादिरिति ख्यातः सर्वातीसारनाशनः ॥ ४९ ॥
समङ्गातिविषा मुस्तं विश्वं ह्रीवेरधातकी ।
कुटजत्वक्फलं विल्वं क्वाथः सर्वातिसारनुत् ॥ ५० ॥
दलोत्थः स्वरसः पेयो हिज्जलस्य समाक्षिकः ।
जयत्याममतीसारं क्वाथो वा कुटजत्वचः ॥ ५१ ॥
वटारोहं तु संपिष्य श्लक्ष्णं तण्डुलवारिणा ।
तं पिबेत्तक्रसंयुक्तमतीसाररुजापहम् ॥ ५२ ॥
तण्डुलजलपिष्टाङ्कोठमूलकर्षार्धपानमपहरति ।
सर्वातिसारग्रहणीरोगसमूहं महाघोरम् ॥ ५३ ॥
कल्कः कोमलववोलदलात्पीतोऽतिसारहा ।
कुटजत्वक्कृतः क्वाथो घनीभूतः सुशीतलः ॥ ५४ ॥