29-a
भूनिम्बकटुकाव्योषमुस्तकेन्द्रयवान्समान् ॥ १८ ॥
द्वौ चित्रकाद्वत्सकत्वग्भागान्षोडश चूर्णयेत् ।
गुडशीताम्बुना पीतं ग्रहणीदोषगुल्मनुत् ॥ १९ ॥
कामलाज्वरपाण्डुत्वमेहारुच्यतिसारनुत् ।
गुडयोगाद्गुडाम्बु स्याद्गुडवर्णरसान्वितम् ॥ २० ॥
ग्रहण्यां श्लेष्मदुष्टायां वमितस्य यथाविधि ।
कट्वम्ललवणक्षारैस्तीक्ष्णैश्चाग्निं विवर्धयेत् ॥ २१ ॥
समूलां पिप्पलीं क्षारौ द्वौ पञ्च लवणानि च ।
मातुलुङ्गाभयारास्नाशठीमरिचनागरम् ॥ २२ ॥
कृत्वा समांशं तच्चूर्णं पिबेत्प्रातः सुखाम्बुना ।
श्लैष्मिके ग्रहणीदोषे बलवर्णाग्निवर्धनम् ॥ २३ ॥
एतैरेवौषधैः सिद्धं सर्पिः पेयं समारुते ।
भल्लातकं त्रिकटुकं त्रिफला लवणत्रयम् ॥ २४ ॥
अन्तर्धूमं द्विपलिकं गोपुरीषाग्निना दहेत् ।
सक्षारः सर्पिषा पेयो भोज्ये वाप्यवचारितः ॥ २५ ॥
हृत्पाण्डुग्रहणीदोषगुल्मोदावर्तशूलनुत् ।
सर्वजायां ग्रहण्यां तु सामान्यो विधिरिष्यते ॥ २६ ॥
चूर्णं मरिचमहौषध
कुटजत्वक्संभवं क्रमाद्द्विगुणम् ।
गुडमिश्रमथितपीतं
ग्रहणीदोषापहं ख्यातम् ॥ २७ ॥