29-b
पाठाबिल्वानलव्योषजम्बूदाडिमधातकी ।
कटुकातिविषामुस्तदार्वीभूनिम्बवत्सकैः ॥ २८ ॥
सर्वैरेतैः समं चूर्णं कौटजं तण्डुलाम्बुना ।
सक्षौद्रं च पिबेच्छर्दिज्वरातीसारशूलवान् ॥ २९ ॥
तृड्दाहग्रहणीदोषारोचकानलसादजित् ।
यवानीपिप्पलीमूलचतुर्जातकनागरैः ॥ ३० ॥
मरिचाग्निजलाजाजीधान्यसौवर्चलैः समैः ।
वृक्षाम्लधातकीकृष्णाबिल्वदाडिमतिन्दुकैः ॥ ३१ ॥
त्रिगुणैः षड्गुणसितैः कपित्थाष्टगुणैः कृतः ।
चूर्णोऽतिसारग्रहणीक्षयगुल्मगलामयान् ॥ ३२ ॥
कासं श्वासारुचिं हिक्कां कपित्थाष्टमिदं जयेत् ।