237-b
आश्च्योतनं मारुतजे क्वाथो बिल्वादिभिर्हितः ।
कोष्णः सैरण्डबृहतीतर्कारीमधुशिग्रुभिः ॥ १४ ॥
एरण्डपल्लवे मूले त्वचि चाजं पयः शृतम् ।
कण्टकार्याश्च मूलेषु सुखोष्णं सेचने हितम् ॥ १५ ॥
सम्पक्वेऽक्षिगदे कार्यं चाञ्जनादिकमिष्यते ।
प्रशस्तवर्त्मता चाक्ष्णोः संरम्भाश्रुप्रशान्तता ॥ १६ ॥
मन्दवेदनता कण्डूः पक्वाक्षिगदलक्षणम् ।
अञ्जनादिविधिश्चाग्रे निखिलेनाभिधास्यते ॥ १७ ॥
बृहत्येरण्डमूलत्वक्शिग्रोर्मूलं ससैन्धवम् ।
अजाक्षीरेण पिष्टं स्याद्वर्तिर्वाताक्षिरोगनुत् ॥ १८ ॥
हरिद्रे मधुकं पथ्यादेवदारु च पेषयेत् ।
आजेन पयसा श्रेष्ठमभिष्यन्दे तदञ्जनम् ॥ १९ ॥
गैरिकं सैन्धवं कृष्णां नागरं च यथोत्तरम् ।
पिष्टं द्विरंशतोऽद्भिर्वा गुडिकाञ्जनमिष्यते ॥ २० ॥
प्रपौण्डरीकयष्ट्याह्वनिशामलकपद्मकैः ।
शीतैर्मधुसितायुक्तैः सेकः पित्ताक्षिरोगनुत् ॥ २१ ॥
द्राक्षामधुकमञ्जिष्ठाजीवनीयैः शृतं पयः ।
प्रातराश्च्योतनं पथ्यं शोथशूलाक्षिरोगिणाम् ॥ २२ ॥