238-a
निम्बस्य पत्रैः परिलिप्य लोध्रं
स्वेदाग्निना चूर्णमथापि कल्कम् ।
आश्च्योतनं मानुषदुग्धयुक्तं
पित्तास्रवातापहमग्र्यमुक्तम् ॥ २३ ॥
कफजे लङ्गनं स्वेदो नस्यं तिक्तान्नभोजनम् ।
तीक्ष्णैः प्रधमनं कुर्यात्तीक्ष्णैश्चैवोपनाहनम् ॥ २४ ॥
फणिज्जकास्फोतकपीतबिल्व-
पत्तूरपीलुसुरसार्जभङ्गैः ।
स्वेदं विदध्यादथवा प्रलेपं
बर्हिष्ठशुण्ठीसुरदारुकुष्ठैः ॥ २५ ॥
शुण्ठीनिम्बदलैः पिण्डः सुखोष्णैः स्वल्पसैन्धवैः ।
धार्यश्चक्षुषि संलेपाच्छोथकण्डूरुजापहः ॥ २६ ॥
वल्कलं पारिजातस्य तैलकाञ्जिकसैन्धवम् ।
कपोद्भूताक्षिशूलघ्नं तरुघ्नं कुलिशं तथा ॥ २७ ॥