255-b
सुपर्णदृष्टिप्रतिमं च चक्षु-
र्बाह्वोर्बलं चाभ्यधिकं ददाति ॥ ३२ ॥
क्षयजे क्षयमासाद्यं कर्तव्यो बृंहणो विधिः ।
पाने नस्ये च सर्पिः स्याद्वातघ्नैर्मधुरैः शृतम् ॥ ३३ ॥
क्रिमिजे व्योषनक्ताह्वशिग्रुबीजैश्च नावनम् ।
अजामूत्रयुतं नस्यं क्रिमिजे क्रिमिजित्परम् ॥ ३४ ॥
अपामार्गफलव्योषनिशाक्षारकरामठैः ।
सविडङ्गं शृतं मूत्रे तैलं नस्यं क्रिमिं जयेत् ॥ ३५ ॥
नागरं सगुडं विश्वं पिप्पली वा ससैन्धवा ।
भुजस्तम्भादिरोगेषु सर्वेषूर्ध्वगदेषु च ॥ ३६ ॥
सूर्यावर्ते विधातव्यं नस्यकर्मादि भेषजम् ।
पाययेत्सगुडं सर्पिर्घृतपूरांश्च भक्षयेत् ॥ ३७ ॥
सूर्यावर्ते शिरोवेधो नावनं क्षीरसर्पिषा ।
हितः क्षीरघृताभ्यासस्ताभ्यां चैव विरेचनम् ।
क्षीरपिष्टैस्तिलैः स्वेदो जीवनीयैश्च शस्यते ॥ ३८ ॥
सशर्करं कुङ्कुममाज्यभृष्टं
नस्यं विधेयं पवनासृगुत्थे ।
भ्रूशङ्खकर्णाक्षिशिरोर्धशूले
दिनाभिवृद्धिप्रभवे च रोगे ॥ ३९ ॥
कृतमालपल्लवरसे
खरमञ्जरिकल्कसिद्धनवनीतम् ।
नस्येन जयति नियतं
सूर्यावर्तं सुदुर्वारम् ॥ ४० ॥