256-a
दशमूलीकषायं तु सर्पिःसैन्धवसंयुतम् ।
नस्यमर्धावभेदघ्नं सूर्यावर्तशिरोऽर्तिनुत् ॥ ४१ ॥
शिरीषमूलकफलैरवपीडं च योजयेत् ।
अवपीडो हितो वा स्याद्वचापिप्पलीभिः शृतः ॥ ४२ ॥
जाङ्गलानि च मांसानि कारयेदुपनाहनम् ।
तेनास्य शाम्यति व्याधिः सूर्यावर्तः सुदारुणः ।
एष एव विधिः कृत्स्नः कार्यश्चार्धावभेदके ॥ ४३ ॥
शारिवोत्पलकुष्टानि मधुकं चाम्लपेषितम् ।
सर्पिस्तैलयुतो लेपः सूर्यावर्तार्धभेदयोः ॥ ४४ ॥
पिवेत्सशर्करं क्षीरं नीरं वा नारिकेलजम् ।
सुशीतं वापि पानीयं सर्पिर्वा नस्ततस्तयोः ॥ ४५ ॥
अनन्तवाते कर्तव्यः सूर्यावर्तहितो विधिः ।
शिरावेधश्च कर्तव्योऽनन्तवातप्रशान्तये ॥ ४६ ॥
आहारश्च विधातव्यो वातपित्तविनाशनः ।
मधुमस्तुकसंयावहविःपूरैश्च यः क्रमः ॥ ४७ ॥
सूर्यावर्ते हितं यत्तच्छङ्खके स्वेदवर्जितम् ।
क्षीरसर्पिः प्रशंसन्ति नस्तपानं च शङ्खके ॥ ४८ ॥