111-b
गोधूमचूर्णाजपयो घृतं च
सच्छागदुग्धो रुबुबीजकल्कः ।
लेपे विधेयं शतधौतसर्पिः
सेके पयश्चाविकमेव शस्तम् ॥ १२ ॥
लेपः पिष्टास्तिलास्तद्वद्भृष्टाः पयसि निर्वृताः ।
कटुकामृतयष्ट्याह्वं शुण्ठीकल्कं समाक्षिकम् ॥ १३ ॥
गोमूत्रपीतं जयति सकफं वातशोणितम् ।
धात्रीहरिद्रामुस्तानां कषायो वा कफाधिके ॥ १४ ॥
कोकिलाक्षामृताक्वाथे पिबेत्कृष्णां कफाधिके ।
पथ्याभोजी त्रिसप्ताहान्मुच्यते वातशोणितात् ॥ १५ ॥
कफरक्तप्रशमनं हृद्यं गुडघृतं स्मृतम् ।
संसर्गेषु यथोद्रेकं मिश्रं वा प्रतिकारयेत् ॥ १६ ॥
सर्वेषु सगुडां पथ्यां गुडूचीक्वाथमेव वा ।
पिप्पलीवर्धमानं वा शीलयेत्सुसमाहितः ॥ १७ ॥