124-a
चित्रकं ग्रन्थिकैरण्डशुण्ठीधान्यं जलैः शृतम् ॥ ३९ ॥
शूलानाहविवन्धेषु सहिङ्गु बिडदाडिमम् ।
दीप्यकं सैन्धवं पथ्या नागरं च चतुःसमम् ।
भृशं शूलं जयत्याशु मन्दस्याग्नेश्च दीपनम् ॥ ४० ॥
समाक्षिकं बृहत्यादि पिबोत्पित्तानिलात्मके ।
व्यामिश्रं वा विधिं कुर्याच्छूले पित्तानिलात्मके ॥ ४१ ॥
पित्तजे कफजे वापि या क्रिया कथिता पृथक् ।
एकीकृत्य प्रयुञ्जीत तां क्रियां कफपित्तजे ॥ ४२ ॥
पटोलत्रिफलारिष्टक्वाथं मधुयुतं पिबेत् ।
पित्तश्लेष्मज्वरच्छर्दिदाहशूलोपशान्तये ॥ ४३ ॥
रसोनं मधुसंमिश्रं पिबेत्प्रातः प्रकाङ्क्षितः ।
वातश्लेष्मभवं शूलं विहन्तुं वह्निदीपनम् ॥ ४४ ॥