2-b
मुस्तपर्पटकोशीरचन्दनोदीच्यनागरैः ।
शृतशीतं जलं दद्यात्पिपासाज्वरशान्तये ॥ १९ ॥
मुख्यभेषजसम्बन्धो निषिद्धस्तरुणे ज्वरे ।
तोयपेयादिसंस्कारे निर्दोषं तेन भेषजम् ॥ २० ॥
यदप्सु शृतशीतासु षडङ्गादि प्रयुज्यते ।
कर्षमात्रं ततो दत्त्वा साधयेत्प्रास्थिकेऽम्भसि ॥ २१ ॥
अर्धशृतं प्रयोक्तव्यं पाने पेयादिसंविधौ ।
वमितं लङ्घितं काले यवागूभिरुपाचरेत् ॥ २२ ॥
यथास्वौषधसिद्धाभिर्मण्डपूर्वाभिरादितः ।
लाजपेयां सुखजरां पिप्पलीनागरैः शृताम् ॥ २३ ॥
पिबेज्ज्वरी ज्वरहरां क्षुद्वानल्पाग्निरादितः ।
पेयां वा रक्तशालीनां पार्श्वबस्तिशिरोरुजि ॥ २४ ॥
श्वदंष्ट्राकण्टकारिभ्यां सिद्धां ज्वरहरां पिबेत् ।
कोष्ठे विबद्धे सरुचि पिबेत्पेयां शृतां ज्वरी ॥ २५ ॥
मृद्वीकापिप्पलीमूलचव्यचित्रकनागरैः ।
पञ्चमूल्या लघीयस्या गुर्व्या ताभ्यां सधन्यया ॥ २६ ॥
कणया यूषपेयादिं साधनं स्याद्यथाक्रमम् ।
वातपित्ते वातकफे त्रिदोषे श्लेष्मपित्तजे ॥ २७ ॥
यवागूः स्यात्त्रिदोषघ्नी व्याघ्रीदुस्पर्शगोक्षुरैः ।
कर्षार्धं वा कणाशुण्ठ्योः कल्कद्रव्यस्य वा पलम् ॥ २८ ॥
विनीय पाचयेद्युत्तया वारिप्रस्थेन चापराम् ।
षडङ्गपरिभाषैव प्रायः पेयादिसंमता ॥ २९ ॥
यवागूमुचिताद्भक्ताच्चतुर्भागकृतां वदेत् ।