152-b
न्यग्रोधोदुम्बराश्वत्थस्योनाकारग्वधाशनम् ।
आम्रजम्बूकपित्थं च प्रियालं ककुभं धवम् ॥ २२ ॥
मधुको मधुकं लोध्रं वरुणं पारिभद्रकम् ।
पटोलं मेषशृङ्गी च दन्ती चित्रकमाढकी ॥ २३ ॥
करञ्जत्रिफलाशक्रभल्लातकफलानि च ।
एतानि समभागानि श्लक्ष्णचूर्णानि कारयेत् ॥ २४ ॥
न्यग्रोधाद्यमिदं चूर्णं मधुना सह लेहयेत् ।
फलत्रयरसं चानु पिबेन्मूत्रं विशुध्यति ॥ २५ ॥
एतेन विंशतिर्मेहा मूत्रकृच्छ्राणि यानि च ।
प्रशमं यान्ति योगेन पीडका न च जायते ।
न्यग्रोधाद्यमिदं त्वत्र चाम्रजम्ब्वस्थि गृह्यते ॥ २६ ॥
त्रिकण्टकाश्मन्तकसोमवल्कै-
र्भल्लातकैः सातिविषैः सलोध्रैः ।
वचापटोलार्जुननिम्बमुस्तै-
र्हरिद्रया दीप्यकपद्मकैश्च ॥ २७ ॥
मञ्जिष्ठपाठागुरुचन्दनैश्च
सर्वैः समस्तैः कफवातजेषु ।
मेहेषु तैलं विपचेद्धृतं तु
पित्तेषु मिश्रं त्रिषु लक्षणेषु ॥ २८ ॥