171-a
तैलं पिबेच्चामृतवल्लिनिम्ब-
हिंस्राह्वयावृक्षकपिप्पलीभिः ।
सिद्धं बलाभ्यां च सदेवदारु
हिताय नित्यं गलगण्डरोगी ॥ १६ ॥
माक्षिकाढ्यः सकृत्पीतः क्वाथो वरुणमूलजः ।
गण्डमालां निहन्त्याशु चिरकालानुबन्धिनीम् ॥ १७ ॥
पिष्टा ज्येष्ठाम्बुना पेयाः काञ्चनारत्वचः शुभाः ।
विश्वभेषजसंयुक्ता गण्डमालापहाः पराः ॥ १८ ॥
आरग्वधशिफाक्षिप्रं पिष्ट्वा तण्डुलवारिणा ।
सम्यङ्नस्यप्रलेपाभ्यां गण्डमालां समुद्धरेत् ॥ १९ ॥
गण्डमालामयार्तानां नस्यकर्मणि योजयेत् ।
निर्गुण्ड्याश्च शिफां सम्यग्वारिणा परिपेषिताम् ॥ २० ॥
कोषातकीनां स्वरसेन नस्यं
तुम्ब्यास्तु वा पिप्पलिसंयुतेन ।
तैलेन वारिष्टभवेन कुर्या-
द्वचोपकुल्ये सह माक्षिकेण ॥ २१ ॥
ऐन्द्र्या वा गिरिकर्ण्या वा मूलं गोमूत्रयोगतः ।
गण्डमालां हरेत्पीतं चिरकालोत्थितामपि ॥ २२ ॥
अलम्बुषादलोद्भूतात्स्वरसाद्द्वे पले पिबेत् ।
अपच्या गण्डमालायाः कामलायाश्च नाशनः ॥ २३ ॥
गलगण्डगण्डमालाकूरण्डांश्च विनाशयेत् ।
पिष्टं ज्येष्ठाम्बुना मूलं लेपाद्ब्राह्मणयष्टिकम् ॥ २४ ॥