218 तस्मादपि नानुकार्ये स वर्तत इत्यर्थः । तथा व्याचष्टे काव्यार्थेति । 1043तद्वृत्तनिर्देशयोग्यं प्रकृतं किंचिदपश्यन्तं प्रत्याह काव्यार्थोपप्लाविति इति । काव्यशब्दानां साक्षात्तत्संबद्धमर्थमपश्यन्तं प्रत्युक्तम् उपप्लावित इति । प्रकृतत्वप्रकारकथनं रसिकवर्तीति । ननु शब्दोपहितानामेवालम्बनादिभाव इत्युक्तम् । तच्च रूपं वर्तमानमेवेति चोदयति अथेति । परिहरति तथापीति । यद्यपि नायकादीनां शब्दोपहितरूपाणामेवालम्बनादिभाव इत्युक्तम् । तच्च रूपं वर्तमानमेव । तथापि तस्य रूपस्य रसानुभवं प्रत्यसत्समतैव । रसानुभवितृत्वमेव 1044ह्यनुकार्यस्य निषिध्यते । सामाजिकानां च विधीयते । तदनुभवितरि शाब्दे रूपे विद्यमानेऽपि तस्य रसास्वादं प्रति नोपयोगः । नायकादिभावं प्रत्युपयोगोऽस्त्येव । न हि तत्र =नायकादिभावे चेतनत्वेन भवितव्यमिति । तदिदमुक्तं स्वादं प्रत्यसत्समतैवेति । लौकिकस्य तात्पर्यस्यैव काव्येषु भाव्यभावकलक्षणसंबन्धद्वारेण निर्वाहे व्यञ्जकत्वं नाम शक्त्यन्तरं काव्यशब्दानां नाङ्गीकर्तव्यमित्याह एवं चेति । किं च यद् व्यज्यते लोके तदन्यतो लब्धसत्ताकं भवति । मृदादिभिरिव घटादि । इह तु शब्द एव रसमुत्पादयति व्यञ्जयति चेति 1045दुर्वहमित्याह अन्यत इति । इयमनुपपत्तिर्भाव्यभावकलक्षणसंबन्धे 1046नास्तीत्याह भाव्यन्ते चेति ।
ननु च सामाजिकाश्रयेषु रसेषु को विभावः ? कथं सीतादीनां देवीनां विभावत्वे न विरोधः ? उच्यते—
न हि कवयो योगिन इव ध्यानचक्षुषा ज्ञात्वा प्रातिस्विकीं रामादीनामवस्थां इतिहासवदुपनिबध्नन्ति । किं तर्हि ? सर्वलोकसाधारण्यात् स्वोत्प्रेक्षाकृतसंनिधयो धीरोदात्ताद्यवस्थाः तन्निबद्धाः क्वचिदाश्रयमात्रदायिन्यो(?)
-
tadvṛttaṃ means tacchabdaḥ, the demonstrative pronoun. See Note 27a to L.Ṭ..
↩ -
Before anukāryasya, rūpaṃ is found in M.G.T. and Tri.MS. In Gr. MS. many lines are missing here.
↩ -
Tri.MS. reads durbhaṇam ity āha.
↩ -
MSS. are corrupt here. M.G.T. reads: bhāvyabhāvakalakṣaṇasaṃbandho ’stīty āha. Tri.MS. reads bhāvyabhāvakalalakṣasaṃbandhadvāreṇa nāstīty āha.
↩