176 वीरशृङ्गारयोर्व्यभिचारी निर्वेदो यथा—
आत्मानुरूपं रिपुं रमणीं वालभमानस्य निर्वेदादियमुक्तिः । एवं रसान्तराणामप्यङ्गभाव उदाहार्यः ।
रसानङ्गस्वतन्त्रो निर्वेदो यथा—
एवं निर्वेदमात्रमुक्तम् । इदानीं तस्याङ्गत्वमप्याह वीरेति । क्वचित् तस्य स्वातन्त्र्यमप्यस्तीत्याह रसानङ्गेति । एवं विभावभेदाद्, अनुभावभेदाद्, व्यभिचारिभेदाद्, रसाङ्गत्वाद्, अनङ्गत्वाच्च बहुप्रकारो निर्वेदो निदर्शनीय इत्याह विभावानुभावेति ।
अथ ग्लानिः—
निधुवनकलाभ्यासादिश्रमतृट्क्षुद्वमनादिभिर्निप्प्राणतारूपा ग्लानिः । अस्यां च वैवर्ण्यकम्पानुत्साहादयोऽनुभावाः ।