181 अथौग्र्यम्—
यथा वीरचरिते— जामदग्न्यः उत्कृत्योत्कृत्य गर्भानपि शकलयतः क्षत्रसंतानरोषा- दुद्दामस्यैकविंशत्यवधि विशसतः सर्वतो राजवंश्यान् । पित्र्यं तद्रक्तपूर्णह्रदसवनमहानन्दमन्दायमान- क्रोधाग्नेः कुर्वतो मे न खलु न विदितः सर्वभूतैः स्वभावः ॥846
अथ चिन्ता—
यथा— पक्ष्माग्रग्रथिताश्रुबिन्दुनिकरैर्मुक्ताफलस्पर्धिभिः कुर्वत्या हरहासहारि हृदये हारावलीभूषणम् । बाले बालमृणालनालवलयालंकारकान्ते करे विन्यस्याननमायताक्षि सुकृती कोऽयं त्वया स्मर्यते ॥
यथा वा— अस्तमितविषयसङ्गा मुकुलितनयनोत्पला बहुश्वसिता । ध्यायति किमप्यलक्ष्यं बाला योगाभियुक्तेव ॥
अथ त्रासः—
Generating a file for download may take up to a few minutes. Please wait.
This dialog should close automatically when the download has completed.