यं नाट्यवेदं वेदेभ्यः सारमादाय ब्रह्मा कृतवान्, यत्संबद्धमभिनयं भरतश्चकार करणाङ्गहारानकरोत्31 हरस्ताण्डवमुद्धतं नृत्तं कृतवान्, लास्यं सुकुमारं नृत्तं पार्वती कृतवती, अस्य32 सामस्त्येन लक्षणं कर्तुं कः शक्तः । तदेकदेशस्य लक्षणं संक्षेपतः क्रियत इत्यर्थः ।
स्वप्रवृत्तेर्विषयं दर्शयतीति । स्वशब्देन श्रोतृप्रवृत्तेः स्वप्रवृत्तिं व्यावर्तयति । 33स्वस्य प्रवृत्तिः प्रकरणनिर्माणम् । तत्प्रयोजनस्य श्रोतृप्रवृत्त्यैव दर्शितत्वात् संप्रति विषयं दर्शयतीत्यर्थः । उद्धृत्योद्धृत्येत्यस्य अयमर्थः—34नाट्यवेदप्रणीतानां सामस्त्येन लक्षणं किं न क्रियत इति मां प्रत्यचोदनीयम् । 35यत्र विरिञ्चादिष्वपि क्वचिदेव कश्चिदेव समर्थः, तदर्थस्य प्रतिपदलक्षणकरणे36 कोऽपरः शक्नुयात् । किंतु तदुक्तानां नाट्यानामेव लक्षणं किंचित् प्रगुणया रचनया संक्षेपेण वदामीति । तथैव व्याचष्टे यं नाट्यवेदमिति । 37आसनस्थानादिरङ्गहारजनकः करणम् । अङ्गहारस्तु अङ्गविक्षेपः ।
विषयैक्यप्रसक्तं पौनरुक्त्यं परिहरति—
व्याकीर्णे विक्षिप्ते 38विस्तृते च शास्त्रे अल्पबुद्धीनां व्यामोहो भवति पुंसाम् । तेन तस्य नाट्यवेदस्यार्थस्तत्पदैरेव संक्षिप्य ऋजुवृत्त्या क्रियत इति ।
स्वकृतेरेव विषयकथनपरतया प्रतिभासमानस्योत्तरस्य श्लोकस्य39 तात्पर्यमाह विषयैक्येति । 40एकवक्तृकत्वेऽपि विषयैक्यमेव पौनरुक्त्यप्रयोजकम् । तस्यैव41 वक्तुर्भिन्नार्थवाक्यकथने पौनरुक्त्याभावात् । पुनःशब्दोऽप्युक्ता
-
A.T.A. hārān anekān akarot.
↩ -
N.S.P. tasya, and the next line as tadekadeśasya tu daśarūpasya saṃkṣepaḥ kriyata ity arthaḥ.
↩ -
M.G.T. reads yasya pravṛttiḥ.
↩ -
T.MS. reads nāṭyavedena, whereas the others read as given in the text.
↩ -
M.G.T. reads yatra viriñcādiṣv api kvacid eva kaścid eva. Tri. MS. reads yatra viriñcādir api, etc. T.MS. reads atra viriñcādir api kvacid eva samarthaḥ. Gr.MS. is corrupt here.
↩ -
T.MS. reads tadarthasya pratipādakalakṣaṇakaraṇe, whereas the other read as given in the text.
↩ -
M.G.T. reads āsanasthānādir aṅgādijanakaṃ karaṇam, and Tri. MS. āsanasthānādir aṅgādhijanakam. T.MS. gives the reading as in the text.
↩ -
MSS. of Avaloka read vistīrṇe instead of vistṛte and matimoho instead of vyāmoho. N.S.P. vistīrṇe ca rasaśāstre mandabuddhīnāṃ puṃsāṃ matimoho bhavati.
↩ -
T.MS. omits ślokasya.
↩ -
Tri.MS. gives this reading. M.G.T. reads ekavaktṛivo ’pi. T.MS. reads ekavaktṛkaraṇatve ’pi.
↩ -
Here M.G.T. is corrupt.
↩