11 91अनुकारात्मकत्वेन 92रूपकाणामभेदात् किंकृतो भेद इत्याशङ्क्याह—
94इतिवृत्तभेदान्नायकभेदाद्रसभेदाच्च95 रूपकाणामन्योन्यं भेद इति ।
ऐक्यप्रसङ्गे हि भेदकथनस्य प्रयोजनवत्त्वम् । तेनाह अनुकारात्मकत्वेन रूपकाणामभेदादिति । इतिवृत्तादीनामवान्तरभेदो96 रूपकभेदहेतुः । तेनाह इतिवृत्तभेदादित्यादि । इतिवृत्तस्य इतिवृत्तान्तरेभ्यो भेदात्, नायकस्य नायकान्तरेभ्यो भेदात्, रसस्य रसान्तरेभ्यो भेदादिति नेयम् । ननु विजातीयेभ्यो नृत्तेभ्यो भेदः पूर्वमेव प्रतिपादितः । तत्राह अन्योन्यमिति ।
तत्र97 वस्तुभेदमाह—
कथमित्याह—
प्रधानभूतमितिवृत्तमाधिकारिकम्98 । यथा रामायणे रामसीतावृत्तान्तः । तदङ्गभूतं प्रासङ्गिकम् । यथा तत्रैव विभीषणसुग्रीवादिवृत्तान्त इति ।
निरुक्त्याधिकारिकं लक्षयति—
फलेन स्वस्वामिसंबन्धोऽधिकारः, फलस्वामी चाधिकारी, 99तेनाधिकारिणा निर्वृत्तं फलपर्यन्ततां नीयमानमितिवृत्तमाधिकारिकम् ।
-
A.T.A. anukaraṇātma-, etc.
↩ -
N.S.P. rūpāṇām, etc.
↩ -
A.T.A. seems to read here vastunetṛrasās teṣāṃ rūpakāṇāṃ hi bhedakāḥ.
↩ -
N.S.P. vastubhedād, etc.
↩ -
N.S.P. rasabhedād rūpāṇām, etc.
↩ -
M.G.T. alone reads itivṛttanāyakarasabhedo rūpakabhedahetuḥ.
↩ -
N.S.P. omits tatra.
↩ -
itivṛttam missing in N.S.P.
↩ -
N.S.P. tenādhikāreṇādhikāriṇā vā, etc.
↩