17
कार्यसिद्धिहेतोः प्रयत्नादन्यः किमारम्भो नामावस्थान्तरमस्ति । तत्राह इदमहमिति । इदमहं संपादयामीति मनसा संकल्प्य हि कश्चित् कार्यार्थं व्याप्रियते । तस्मात् स संकल्प एव प्रयत्नपूर्वभावी कार्यारम्भ इत्युच्यते । तद्दर्शितम् औत्सुक्यमात्रमिति । अत एव हि 130 कार्यसाधनेच्छामात्रमाद्यप्रवृत्तिरित्युच्यते इति । ननु फलभोक्तुर्वत्सराजस्यैव कार्यारम्भेण भवितव्यम् । किमत्र यौगंधरायणेन । तत्राह सचिवायत्तसिद्धेरिति । यथा यजमानेन वृतानामृत्विजां व्यापारो यजमानस्य फलहेतुर्भवति तद्वत् वत्सराजसचिवव्यापारोऽपि वत्सराजस्य131 व्यापारो भवति । तदायत्तसिद्धित्वात् तस्येति ।
प्राप्त्याशामाह—
- १।८↩
-
M.G.T. reads kāryasādhake kasyecchāmātram. Gr.MS. reads kāryasādhakasyecchāmātra (ṃ?) tv ādyā prakṛtir ity ucyate iti.
↩ -
Tri.MS. which has skipped over some lines before (see Note 49) starts again here, and reads vyāpārasyaiva.
↩ -
N.S.P. omits satyām.
↩ -
‘तथापि मे नास्त्यन्यो दर्शनोपाय इति यथातथालिख्य यथासमीहितं करिष्यामि ।’ इति च्छाया.
↩ -
There are different readings in the edition of the Ratnā:alī to which I had access.
↩ - रत्ना० पृ० ४६↩