अथ नेतुः कार्यान्तरसहायानाह—
तस्य नेतुरर्थचिन्तायां तन्त्रावापादिलक्षणायां मन्त्री वात्मा वोभयं वा सहायः ।
तन्त्रावापादिलक्षणायामिति । तन्त्रं स्वराष्ट्रचिन्ता647 । आवापः परराष्ट्रचिन्ता ।
तत्र विभागमाह—
उक्तलक्षणो ललितो नेता मन्त्र्यायत्तसिद्धिः । शेषाः=धीरोदात्तादयः । अनियमेन मन्त्रिणा स्वेन वोभयेन वाङ्गीकृतसिद्धय इति ।
धर्मसहायास्तु—
ब्रह्म=वेदः, तं वदन्ति व्याचक्षते वा तच्छीला ब्रह्मवादिनः, आत्मज्ञानिनो वा । शेषाः प्रतीताः ।
दुष्टदमनं=दण्डः, तत्सहायास्तु—