83 चेति । तेषां हि दक्षिणत्वादीनामुत्पत्तिशिष्टैव सापेक्षतेति वक्ष्यते । अन्यस्यां नायिकायामनुरक्तः पूर्वां प्रति दक्षिणः शठो धृष्टो वा भवति । तस्मात् तेषां दाक्षिण्यादीनां नित्यसापेक्षत्वादुपात्तावस्थातोऽवस्थान्तराभिधानमङ्गवदङ्गिनोऽप्यविरुद्धं भवति । एकप्रबन्धगतस्याङ्गिनो नायकस्यावस्थान्तराभिधानमनुचितमित्येतत् 529नित्यसापेक्षाण्यवस्थान्तराणि विहायेत्यर्थः ।
अथ शृङ्गारनेत्रवस्थाः—
नायकप्रकरणात् पूर्वां नायिकां प्रत्यन्ययापूर्वनायिकयापहृतचित्तस्व्यवस्थो वक्ष्यमाणभेदेन सह चतुरवस्थः । तदेवं पूर्वोक्तानां चतुर्णां प्रत्येकं चतुरवस्थत्वेन षोडशधा नायकः ।
तथाविधान् दक्षिणादीनेव दर्शयति अथेति । ननु पूर्वामाद्यां प्रतीत्येतावन्मात्रोक्तौ नायिकां प्रतीति कथं गम्यते । तत्राह नायकप्रकरणादिति । वक्ष्यमाणभेदेन सहेति । अनुकूल इत्यपि हि कश्चिन्नायकभेदो वक्ष्यते । तेन सह शृङ्गारनायकश्चतुरवस्थो भवति—दक्षिणः शठो धृष्टोऽनुकूलश्चेति । तदेवं धीरललितादीनां नायकानां प्रत्येकं दक्षिणशठधृष्टानुकूलभेदेन चातुर्विध्यात् नायकानां षोडशत्वं भवतीति ।
तत्र—
योऽस्यां ज्येष्ठायां हृदयेन सह व्यवहरति स दक्षिणः । यथा ममैव—
-
What a brilliant comment at the end of the discussion !
↩