128 यथा वीरचरिते—
अथ संघात्यः—
मन्त्रशक्त्या, यथा मुद्राराक्षसे राक्षससहायादीनां चाणक्येन स्वबुद्ध्या भेदनम् । अर्थशक्त्या तत्रैव, यथा पर्वतकाभरणस्य राक्षसहस्तगमनेन मलयकेतुसहोत्थायिभेदनम् । दैवशक्त्या तु, यथा रामायणे रामस्य दैवशक्त्या रावणाद्विभीषणस्य भेद इत्यादि ।
अथ परिवर्तकः—
प्रस्तुतस्योद्योगकार्यस्य परित्यागेन कार्यान्तरकरणं=परिवर्तकः ।
यथा वीरचरिते—
भगवन्, परिरम्भणमिति प्रस्तुतप्रतीपमेतत् ।