अपरमिति प्रासङ्गिकमितिवृत्तमेकाद्यैरनुसंधिभिर्न्यूनमिति प्रधानेतिवृत्तादेकद्वित्रिचतुर्भिरनुसंधिभिरूनं, पताकेतिवृत्तं न्यसनीयम् । अङ्गानि च प्रधानाविरोधेन यथालाभं न्यसनीयानि । प्रकरीवृत्तं त्वपरिपूर्णसंधि विधेयम् ।
अपरस्मिन् प्रासङ्गिकेतिवृत्ते नाङ्गसंख्यानियम इत्याह अपरं तथेति ।760 ऊनमिति । यथा प्रधानेतिवृत्तम् अङ्गैः पूर्णं विन्यस्यते नैवं प्रासङ्गिकमितिवृत्तम् । किं तु एकद्वित्रिभिः761 अनुसंधिभिरूनं पताकेतिवृत्तं762 न्यसनीयमिति । असंधिं प्रकरीं न्यसेदित्यस्य विवरणं प्रकरीवृत्तं त्विति ।763 असंधिं प्रकरीं न्यसेदिति तस्य संधेरेव विगमे संधीनां पञ्चत्वं व्याहन्यते । तेनाह अपरिपूर्णसंधि विधेयमिति । संध्यङ्गानां पूर्णना न भवत्यस्मिन्नित्यर्थः ।
तत्रैवं विभक्ते—
इयमत्र कार्ययुक्तिः—
एवं विभक्तावयवस्य नाटकस्य रचनाप्रकारमाह तत्रेति । अपेक्षितं परित्यज्येति । नीरसं वस्तुविस्तरं परित्यज्य, अपेक्षितं शेषं यदा संदर्शयेत् तदा