द्वितीयः स्वार्थानुमानपरिच्छेदः ।
एवं प्रत्यक्षं व्याख्यायानुमानं व्याख्यातुकाम425 आह--
अनुमानं द्विधा ॥ १ ॥
अनुमानं द्विधा द्विप्रकारम् । अथानुमानलक्षणे वक्तव्ये किमकस्मात् प्रकारभेदः कथ्यते ?
उच्यते । परार्थानुमानं शब्दात्मकम्, स्वार्थानुमानं तु ज्ञानात्मकम् । तयोरत्यन्तभेदात्
नैकं लक्षणमस्ति । ततस्तयोः प्रतिनियतं लक्षणमाख्यातुं प्रकारभेदः कथ्यते । प्रकारभेदो
हि व्यक्तिभेदः । व्यक्तिभेदे च कथिते प्रतिव्यक्तिनियतं लक्षणं शक्यते वक्तुम् । नान्यथा ।
ततो लक्षणनिर्देशाङ्ग426मेव प्रकारभेदकथनम् । अशक्यतां च प्रकारभेदकथनमन्तरेण लक्षण
निर्देशस्य ज्ञात्वा प्राक्427 प्रकारभेदः कथ्यत इति ॥
प्रत्यक्षानुमानभेदेन द्वैधं प्रमाणमुद्दिष्टम् । तत्र व्याख्यातं प्रत्यक्षम् । यथोद्देशमधुनाऽ
नुमानं व्याख्यातुमवसरप्राप्तमित्यभिसन्धायाह--एवमिति । एवमनन्तरोक्तेन चतुर्विध
विप्रतिपत्तिनिराकरणप्रकारेण । प्रकारे धाप्रत्ययोऽयमिति दर्शयन्नाह--द्विप्रकारमिति ।
ननु चानुमानस्य लक्षणं वक्तुकामेनास्य लक्षणमेव वक्तव्यम् । तत्किमिदमप्रस्तुता
भिधानमास्थीयत इति पूर्वपक्षम्--अथेत्यादिनोत्थापयति । अथशब्दोऽत्र प्रश्ने । अकस्मादिति
निपातो निर्निमित्तवचनः । उच्यत इत्यादिना परिहरति । तयोर्ज्ञानाभिधानात्मनोः । एकमिति
साधारणम् । यथा चतुर्णामपि प्रत्यक्षाणां ज्ञानरूपत्वादेकं कल्पनापोढत्वादिसाधारणं लक्षणं
सम्भवति, तथा यदि स्यात् प्रत्यक्षवल्लक्षणमेव प्रथममुक्तं स्यादिति भावः । प्रतिनियतं
प्रातिस्विकम् । प्रकारस्य भेदो नानात्वम् ।
ननु प्रतिव्यक्तिनियतं लक्षणं व्यक्तिविशेषोपदर्शनं विना न शक्यते दर्शयितुमिति किं पुनस्तद् द्वैविध्यमित्याह-- स्वार्थं परार्थं च ॥ २ ॥ स्वस्मायिदं स्वार्थम् । येन स्वयं प्रतिपद्यते तत् स्वार्थम् । परस्मायिदं परार्थम् ।
व्यक्तिभेद एव कथयितव्यः । तत्किं प्रकारभेदः कथ्यत इत्याह--प्रकारेति । हिर्यस्मात् ।
यदि तस्मिन् दर्शितेऽपि प्रतिनियतलक्षणाख्यानं न शक्यं तर्हि किं तेन कथितेनेत्याह--व्यक्तीति ।
चो यस्मादर्थे । प्रतिशब्दोऽत्र नियतार्थवृत्तिः, तेन प्रति विशिष्टा व्यक्तिस्तत्र नियतमिति,
88
येन परं प्रतिपादयति तत् परार्थम् ॥
सप्तमीपाणिनि २-१-४० इति योगविभागात्समासः । यद्वा नियतं विशिष्टं लक्षणं न
शक्यं वक्तुम् । क्व च नियतमित्याशङ्क्योक्तं--प्रतिव्यक्तीति । व्यक्तौ व्यक्तावित्य
व्ययीभावः । यस्मादन्यथा प्रतिनियतलक्षणाख्यानस्याशक्यत्वं ततस्तस्मात् । लक्षणनिर्देशा
ङ्गमेवेति लक्षणनिर्देशनिमित्तमेव ।
एतेन यच्चोद्यते लक्षणमात्रे कथिते विशिष्टलक्षणमनुमानमेकमनेकं वाऽस्तु । किं तस्य
प्रकारभेदकथनेन इति तत्परिहृतम् । यदि हि साधारणं लक्षणमभिप्रेत्येदमुच्यते तदा तन्नास्तीति
किं कथ्येत । अथ विशिष्टं लक्षणं तदपि व्यक्तिभेदकथनमन्तरेण वक्तुं यदि शक्येत किं न
कथ्येत । केवलमिदमेव नास्तीति । अत एवादावेव तदभिधानं न्याय्यम्, न तु पश्चादिति
दर्शयितुमाह--अशक्यताम् इति । तदन्तरेण लक्षणनिर्देशस्याशक्यतां ज्ञात्वा । चोऽवधारणे ।
प्राग्लक्षणकथनात्पूर्वम् ।
स्यादेतत्--स्वार्थानुमानमेवंलक्षणं परार्थानुमानमेवंलक्षणमिति किं विशिष्टं लक्षणं न
शक्यते वक्तुम् ? एवमपि किमनुमानद्वैतं नावेदितं भवति येन ससंख्येया संख्या--अनुमानं
द्विधा स्वार्थं परार्थं चेत्युच्यत इति ? सत्यमेतत् । केवलं नियमार्थमेतद् विभागवचनमिति ब्रूमः ।
अनुमानं द्विधा--द्विधैवैवमात्मकमिति कथं नाम 37b प्रतीयेतेति । इतरथेह तावदेतावदेव
व्युत्पाद्यतया प्रस्तुतम्, अन्यत्र पुनरन्यदप्यनुमानं व्युत्पाद्यमस्तीत्याशङ्का नाहत्य निराकृता
स्यादिति ॥
पूर्ववच्छेषवदादिरूपेण अन्यथाऽपि द्वैविध्यसम्भवात् संशयानः पृच्छति--किं पुनरिति ।
किमिति सामान्यात् पृच्छति । पुनरिति विशेषतः ।
स्वार्थशब्दस्य विग्रहं दर्शयति--स्वस्मायिति । अर्थशब्देन नित्यसमासादस्य पदविग्र
हमाह । इदमित्यनुमानन् । स्वार्थमिति समस्तपदनिर्देश एषः । अस्य चात्मप्रतिपत्तिः प्रयोजन
मित्यर्थः । अमुमेवार्यं स्फुटयन्नाह--येनेति । येनानुमानेन करणभूतेनानुमाता स्वयं प्रतिपद्यते
परोक्षमर्थमिति शेषः, प्रकरणलभ्यं वा । तत्स्वार्थज्ञानमात्मप्रतिपत्तिप्रयोजनमिति यावत् ।
अयमाशयः--त्रिरूपलिङ्गस्य ज्ञानं यस्य सन्तान उत्पद्यते तत्तदर्थमेव । तेनाऽन्यस्या
प्रतिपत्तेः । ततः स्वार्थमुच्यते । न तु किञ्चिज्ज्ञानं क्वचित्पुंसि नियतमस्ति । यदपेक्षया
स्वार्थमुच्येत । येन स्वयं प्रतिपद्यत इति ब्रुवतश्चायमभिप्रायः । यद्यपि प्रतिपत्तिरनुमानज्ञा
नात्मिका तथाप्येकस्यापि व्यवस्थाप्यव्यवस्थापनभावेन क्रियाकरणभेदो दर्शित इति सारूप्यभागः
करणमनुमानम्, अधिगमरूपा फलावस्था प्रतिपत्तिरिति ।
तत्र तयोः स्वार्थपरार्थानुमानयोर्मध्ये स्वार्थं ज्ञानं किंविशिष्टमित्याह--त्रिरूपादिति ।
त्रीणि रूपाणि यस्य वक्ष्यमाण430लक्षणानि तत् त्रिरूपम् । लिङ्ग्यते गम्यतेऽनेनाऽर्थ इति
परार्थमित्यस्य विग्रहमाह--परस्मायिति । पूर्ववदस्य पदविग्रहः । परार्थमिति समस्तं
पदमुक्तम् । अस्य च परप्रतिपत्तिः प्रयोजनमित्यर्थः । अमुमर्थं येनेत्यादिना स्पष्टयति । येन
वाक्येन करणेन परं प्रति वाच्यं प्रतिपादयति परोक्षमर्थं बोधयति तत् त्रिरूपलिङ्गाख्यानं वाक्यं
परार्थमनुमानम् ।
अत्राप्ययमस्याभिप्रायः--यद्यपि अभिधानरूपमप्यनुमानं न नियतं पुंसि तथाऽपि तत्परार्थ
मेव । तथाहि यद् यदुद्दिश्य प्रवर्त्तते तत् तदर्थमुच्यते । परमुद्दिश्य प्रवर्त्तते च शब्दो
नात्मानम् । अतो नानवस्थितपारार्थ्यः शब्दः । प्रयोक्तृसंमीहाविषयस्यार्थस्य पर एव
प्रयोजको यस्मादिति । परोक्षार्थप्रतिपत्तिफलत्वेन पारम्पर्येणाविशिष्टविषयत्वेऽपि स्वार्थादस्य
पृथग्वचनम्, साक्षादनयोर्व्यापारभेदादिति च द्रष्टव्यम् ।
ननु च परार्थानुमानोत्पादकवाक्यवदस्ति किञ्चिद् वाक्यं यत्परप्रत्यक्षोपयोगि । यथा एष
कलभो धावति इति वाक्यम् । अतः परार्थानुमानवत्परार्थं प्रत्यक्षं किं न व्युत्पाद्यत इति ?
अत्रोच्यते--परोक्षार्थप्रतिपत्तेर्या सामग्री--लिङ्गस्य पक्षधर्मता साध्यव्याप्तिश्च--तदाख्यानाद्
वाक्यमुपचारतः परार्थानुमानमुच्यते । न तु तत्र कथञ्चिदङ्गभावमात्रेण, स्वास्थ्यादेरपि तथा
प्रसङ्गात् । इदं पुनः अयं कलभः इत्यादिवाक्यं न प्रत्यक्षोत्पत्तेर्या सामग्रीन्द्रियालोकादि
तदभिधानात्तन्निमित्तं भवत्तथा व्यपदेशमश्नुते येन व्युत्पाद्यतामप्यश्नुवीत । किं तर्हि ? कस्यचिद्
दिदृक्षामात्रजननेन । यथा कथञ्चित्परप्रत्यक्षोत्पत्तावङ्गभावमात्रेण ताद्रूप्ये नेत्रोत्सवे वस्तुनि
सन्निहितेऽपि कथञ्चित्पराङ्मुखस्य परेण यदभिमुखीकरणं 38a शिरसस्तदपि वचनात्मकं
परार्थप्रत्यक्षं व्युत्पादयितुर्व्युत्पाद्यमापद्येत । एतच्च कः स्वस्थात्मा मनसि निवेशयेत् । किञ्च
भवतु तथाविधं वचनं परार्थं प्रत्यक्षम् । किं नश्छिन्नम् ? तस्यापि व्युत्पादनार्हस्याव्यु
त्पादनात्प्रमाद एव महती क्षतिरिति चेत् । न तथारूपस्य व्युत्पादनम्, अविप्रतिपत्तेः ।
विप्रतिपत्तिनिराकरणेन हि स्वरूपप्रतिपादनं व्युत्पादनम् । न तु केचित् तथाविधे वचने
परार्थप्रत्यक्षोपयोगिनि विप्रतिपद्यन्ते । येन तदपि व्युत्पाद्येत । परार्थानुमाने431... ... ...
वस्तु प्रतिपद्यमाना अपि तद्धर्मव्याप्तिव्यतिरेकाभ्यां निगदन्तो दृष्टाः, अविनाभावावचनात्,
उपनयसाध्यतदावृत्तिवचनानाञ्च प्रयोगादिति तद् व्युत्पाद्यते । यदि तु तत्रापि न विप्रति
पद्येरन् परे तदा तदपि नैव व्युत्पादितं स्याद्, इत्यलमतिविस्तरेण ॥
इह यथैव स्वयं प्रतिपन्नः परोक्षार्थस्तथैव परस्मै प्रतिपाद्यत इति स्वार्थानुमानपूर्वकत्वा लिङ्गम् । तस्मात् त्रिरूपाल्लिङ्गात् यत् जातं ज्ञानम् इति । एतद् 432हेतुद्वारेण विशेषणम् । त्रिरूपाल्लिङ्गाद्यदुत्पन्नमनुमेयालम्बनं ज्ञानं तत् 434स्वार्थमनुमानमिति ॥ लक्षणविप्रतिपत्तिं निराकृत्य फलविप्रतिपत्तिं निराकर्त्तुमाह-- प्रमाणफलव्यवस्थाऽत्रापि प्रत्यक्षवत् ॥ ४ ॥ प्रमाणस्य435 यत् फलं तस्य या व्यवस्था 436साऽत्रानुमानेऽपि 437प्रत्यक्ष इव प्रत्यक्षवत्
त्परार्थानुमानस्य प्रथमं स्वार्थानुमानमुक्तम् । यथोद्देशमेव च लक्षणं प्रणेयमिति स्वार्थानुमान
90
तत् 433त्रिरूपाच्च लिङ्गात् त्रिरूपलिङ्गालम्बनमप्युत्पद्यत इति विशिनष्टि--अनुमेय इति ।
एतच्च विषयद्वारेण विशे षणम् ।
वेदितव्या ।
स्यैवं लक्षणं तत्रेत्यादिनाऽऽदित उपदिष्टमाचार्येण तद् व्याचष्टे तत्रेति । स्वार्थपरार्थानुमान
समुदायात् स्वार्थानुमानं स्वार्थत्वज्ञात्या निर्धार्यते । तस्मात्त्रिरूपाल्लिङ्गाद् यज्जातमिति
व्याचक्षाणो मूले त्रिरूपाल्लिङ्गादिति या पञ्चमी सा गम्यमानजनिक्रियापेक्षया जनिकर्त्तुः
प्रकृतिः पाणिनि १. ४. ३० इत्यनेन लब्धापादानसंज्ञकादपादान एवेति दर्शयति । हेतुद्वारेण
जनकमुखेन । त्रिरूपाल्लिङ्गादिति चाचक्षाणेनाचार्येणैकद्विपदव्युदासेन षट्पक्षीं प्रतिक्षिप्य
सप्तमपक्षपरिग्रहेण लिङ्गस्य लक्षणमभिप्रेतं प्रकाशितमिति । यथा चैतत् तथा भट्टार्चट
निबन्धनमर्चटालोकसंज्ञितं विधास्यन्तो विस्तरेण स्पष्टयिष्यामः ।
अनुमेयग्रहणस्य व्यावर्त्त्यं दर्शयति--त्रिरूपाच्चेति । चो यस्मादर्थे । इतिर्हेतौ ।
त्रिरूपलिङ्गालम्बनमिति धूमं दृष्ट्वा सर्वत्रायं वह्निनान्तरीयक इति ज्ञानं वाच्यम् । तद्धि
परम्परया त्रिरूपाल्लिङ्गाज्जातमिति । इतिना विशेषणस्य स्वरूपमुक्तम् । विशेषितमेव
ज्ञानम् । किम्पुनर्विशिष्यत इत्याह--एतच्चेति । चो यस्मात् । विषयद्वारेणावसीयमानविषय
द्वारेण विशेषणं व्यवच्छेदकम् ।
अवयवार्थं व्याख्याय समुदायार्थं त्रिरूपेत्यादिना व्याचष्टे । अनुमेयो धर्मधर्मिसमुदायः
आलम्ब्यत इत्यालम्बनं यस्येति विग्रहः । इतिर्वाक्यार्थपरिसमाप्तौ एवमर्थः सन्नापरेण
सम्बद्ध्यते--एवमुक्तेन प्रकारेण लक्षणविप्रतिपत्तिं निराकृत्येति ॥
ननु च प्रमाणस्य फलमिति यद्याचार्यस्य विवक्षितं धर्मोत्तरेण चैवं व्याख्यायते तदा यथा हि 438नीलसरूपं प्रत्यक्षमनुभूयमानं नीलबोधरूपमवस्थाप्यते439, तेन नीलसारूप्यं एवमिह संख्या-लक्षण-फलविप्रतिपत्तयः । प्रत्यक्षपरिच्छेदे तु गोचरविप्रतिपत्ति त्रैरूप्यं पुनर्लिङ्गस्यानुमेये सत्त्वमेव, सपक्ष एव सत्त्वम्, असपक्षे त्रैरूप्यमित्यादि । लिङ्गस्य यत् त्रैरूप्यं यानि त्रीणि रूपाणि तदिदमुच्यत इति शेषः ।
प्रमाणभागव्यवस्थायां किमुक्तमाचार्येण, धर्मोत्तरेणापि नीलसारूप्यं व्यवस्थापनहेतुः प्रमाणम्
इत्युपरिष्टात्पृ० ९१ किमिति दर्शयिष्यते इति चेत् । नैष दोषः । नहि प्रमाणस्येत्यादिना
91
440व्यवस्थापनहेतुः प्रमाणम्, नीलबोधरूपं तु 441व्यवस्थाप्यमानं प्रमाणफलम्; तद्वद् अनुमानं
नीलाकारमुत्पद्यमानं नीलबोधरूपमवस्थाप्यते, तेन नीलसारूप्यमस्य442 प्रमाणम्, नीलविकल्पन
रूपं त्वस्य443 प्रमाणफलम् । सारूप्यवशाद्धि तन्नीलप्रतीतिरूपं सिध्यति । नान्यथेति ॥
र्निराकृता । लक्षणनिर्देशप्रसङ्गेन तु त्रिरूपं लिङ्गं प्रस्तुतम् । तदेव व्याख्यातुमाह--
चासत्त्वमेव निश्चितम् ॥ ५ ॥
किं पुनस्तत्444 त्रैरूप्यमित्याह--अनुमेयं वक्ष्यमाणलक्षणम् । तस्मिन् लिङ्गस्य सत्त्वमेव
निश्चितम्--एकं रूपम् । यद्यपि चात्र निश्चितग्रहणं न कृतं तथापि अन्ते कृतं प्रक्रान्तयो
र्द्वयोरपि रूपयोरपेक्षणीयम् । यतो न योग्यतया लिङ्गं परोक्ष445 ज्ञानस्य निमितम् । यथा
मौलस्य प्रमाणशब्दस्य फलशब्देन विग्रहो दर्शितः । किन्त्व38b र्थप्रदर्शनं कृतम् ।
एतच्चोपलक्षणं तेन फलस्य साधनं च यत्तस्यापि या व्यवस्था साऽपि गृह्यते । मूले तु द्वन्द्व
समास एवाभिप्रेतो वार्त्तिककारस्य । पूर्वनिपातविधेश्चानित्यत्वात् न फलशब्दस्य पूर्वनिपातः ।
अत एव विनिश्चयः--न प्रमाणफलयोर्विषयभेदः इति ।446...लक्षणगोचरफलविषय इति ।
नीलसारूप्यम् अस्पष्टनीलसारूप्यम्, अनुमानस्यापरोक्षीकरणाभावात्, विजातीयमात्रव्या
वृत्तस्यानुमानेन प्रतीतेः । नीलप्रतीतिरूपं नीलविकल्पनरूपं सिद्ध्यति निश्चीयते ॥
ननु सङ्ख्यालक्षणफलविप्रतिपत्तय एवानुमानस्य निराकृता, न तु विषयविप्रतिपत्ति
रित्याह--एवमिति । एवमनन्तरोक्तेन प्रकारेण इहानुमानपरिच्छेदे निराकृता इति शेषः,
वक्ष्यमाणं वा निराकृतेति पदं वचनविपरिणामेन सम्बन्धनीयम् ।
त्रैप्रूयमित्यादिग्रन्थस्य यत उत्थानम्, तत् लक्षणेत्यादिना दर्शयति । प्रसङ्गेन प्रस्तावेन बीजमङ्कुरस्य । अदृष्टाद् धूमाद् अग्नेरप्रतिपत्तेः । 447नापि स्वविषयज्ञानापेक्षं 448परोक्षार्थ तत्र सत्त्ववचनेनासिद्धं चाक्षुषत्वादि निरस्तम्452 । एवकारेण पक्षैकदेशासिद्धो
यानि त्रीणि रूपाणि तान्येव तथेत्यावेदयति । तदिदं त्रैरूप्यमिति प्रकृतत्वात् शेषोऽध्याहारः ।
अबाधितविषयत्वाद्यनेकरूपसम्भवे पृच्छति किं पुनरिति । किमिति सामान्यतः पृच्छति ।
पुनरिति विशेषतः । कस्मात् पुनस्तदपेक्षणीयमित्याह--यत इति । परोक्षो योऽर्थस्तस्य यज्ज्ञानं
तस्य । बीजं वैधर्म्यदृष्टान्तः । कस्मान्न तथेत्याह--अदृष्टादिति । अप्रतिपत्तेः परोक्षार्थस्येति
प्रकरणात् । यद्यज्ञातं लिङ्गं न परोक्षज्ञाननिमित्तं तर्हि पक्षधर्मतया ज्ञातमेवास्तु परोक्षप्रकाशनं
92
प्रकाशनं । यथा प्रदीपो घटादेः । 449दृष्टादप्यनिश्चितसम्बन्धादप्रतिपत्तेः450 । तस्मात्
451परोक्षार्थनान्तरीयकतया निश्चयनमेव लिङ्गस्य परोक्षार्थप्रतिपादनव्यापारः । नापरः
कश्चित् । अतोऽन्वयव्यतिरेकपक्षधर्मत्वनिश्चयो लिङ्गव्यापारात्मकत्वादवश्यकर्त्तव्य इति
सर्वेषु रूपेषु निश्चितग्रहणमपेक्षणीयम् ।
निरस्तः453 । यथा चेतनास्तरवः स्वापादिति । पक्षीकृतेषु तरुषु पत्रसङ्कोचलक्षणः स्वाप
एकदेशे न सिद्धः । न हि सर्वे वृक्षा रात्रौ पत्रसंकोचभाजः किन्तु केचिदेव । सत्त्ववचनस्य
तत् किमन्वयव्यतिरेकनिश्चयेन तस्य ? इत्याशङ्क्याह--नापीति । लिङ्गमिति सम्बध्यते ।
प्रदीपोऽपि दृष्टादनिश्चितादपि । न केवलमदृष्टादित्यपिशब्दः । यत एवं तस्माद् हेतोः ।
अन्तरं व्यवधानम्, न तथा नान्तरम् । न भ्राड् पाणिनि ६. ३. ७१इत्यादिसूत्रे नेति
योगविभागान्नलोपाभावः । नान्तरे भव इति गहादित्वाच्छ । ततः स्वार्थिकः कन् । परोक्षस्य
वह्न्यादेर्नान्तरीयकोऽविनाभावी तस्य भावस्तत्ता तया निश्चयनम्--सर्वत्रायमेतदविनाभावीति
विकल्पनम् । लिङ्गस्य गमकस्य व्यापृतं रूपं व्यापारः । तथानिश्चयारूढस्यैव रूपस्य लिङ्ग
त्वात् । एवकारेण व्यवच्छिन्नमेवान्यस्य तद् व्यापाररूपत्वं स्पष्टार्थं नापर इत्यनेनानूदितम् ।
यत्पुनरत्राप्ययमेतन्नान्तरीयक इति ज्ञानं तदनुमानज्ञानमिति ज्ञेयम् । पूर्वकं तु लिङ्गज्ञान
मिति । अतः सत्त्वेनानिश्चिताल्लिङ्गादनिश्चितसम्बन्धाच्चाप्रतिपत्तेः कारणादन्वयादिनिश्चयो
ऽवश्यकर्त्तव्यः । तथापि कथं कर्त्तव्य इत्याशङ्क्य व्यतिरेकमुखेणोक्तमेव हेतुमन्वयमुखेनापि
दर्शयन्नाह--लिङ्गेति । लिङ्गव्यापारस्य परोक्षप्रतिपादने गमकव्यापारस्यात्मा स एव तथेति
स्वार्थिकः कन् कर्त्तव्यः । तस्य भावस्तस्मादिति हेतुपदं कृत्वाऽयमुपसंहारः । सर्वेष्वनुमेय
सत्त्वादिषु रूपेषु लक्षणेषु । 39a
सम्प्रत्येकैकस्य रूपस्य यद् व्यावर्त्त्य तत्क्रमेण दर्शयितुमाह--तत्रेति । आदिग्रहणाद्
व्यधिकरणासिद्धविशेषणासिद्धविशेष्यासिद्धानां सङ्ग्रहः । अमीषामपि स्वरूपासिद्ध एवान्त
र्भावात् । यथा तु प्रभेदो यथा वान्तर्भावस्तथोपरिष्टाद् वक्ष्यामः । केचिदेव तिन्तिडिका
प्रभृतयः ।
अथापि स्यात् स्वापवत् धूमोऽप्ययमेकदेशासिद्ध एव । तथाहि पर्वतादिरिह पक्षस्तत्र
च क्वचिदेव देशे सिद्धो न सर्वत्र । न च पर्वतादिरेकोऽवयव्यभ्युपगतः । अथैवंविधोऽपि
पक्षव्यापक उच्यते तर्हि स्वापेन किमपराद्धं येनासावेवैको न युक्त इति ।
93
पश्चात्कृतेनैव454कारेणासाधारणो धर्मो निरस्तः । यदि हि अनुमेय एव सत्त्वम् इति कुर्यात्455
श्रावणत्वमेव हेतुः स्यात् । निश्चितग्रहणेन सन्दिग्धासिद्धः 456सर्वो निरस्तः ।
सपक्षो वक्ष्यमाणलक्षणः । तस्मिन्नेव सत्त्वं निश्चितमिति द्वितीयं रूपम् । इहापि
अत्र केचिदेवं प्रतिविदधति । जिज्ञासितधर्मविशेषवत्त्वेन हि रूपेण धर्मी पक्ष उच्यते ।
यश्चासौ पर्वतादिस्तत्र न वह्निर्जिज्ञासितः । किन्तर्हि ? यत्र तत्रोद्देशे । तत्रैकदेशस्थधूम
दर्शनेऽप्येकदेशवह्निर्जिज्ञासितो ज्ञायत इति किं सर्वपर्वतव्यापिना धूमेन कार्यम् ? यदि पुनः
सर्वत्रैव वह्निमत्त्वं जिज्ञासितं स्यात्, स्यादेवायं पक्षैकदेशासिद्धः । न चैतदेवम् । ततः
कथमस्य तथात्वम् ? अत्र पुनः सर्वेषामेव तरूणां चैतन्यं जिज्ञासितमिति सकलपादपव्यापिनैव
स्वापेन प्रयोजनम् । यथा वेदस्य सर्वस्यैव पौरुषेयत्वे साध्ये सकलाम्नायव्यापकेनैव वाक्यत्वेन
प्रयोजनम् । न चायं सर्वान् व्याप्नोति । ततः पक्षैकदेशासिद्ध उच्यते ।
एके तु--लोकाध्यवसायसिद्धं महीधरादेरेकत्वमवलम्ब्यायं व्यवहारः, न च सर्वेषां
तरूणां तथैकत्वं लोकोऽध्यवस्यति, येन स्वापस्यापि तथा सिद्धिर्भवति, ततः किमवद्यं
नामेति प्रतिपन्नाः ।
अथाभिधीयते--यदि कश्चित्तिन्तिडिकाप्रभृतीनेव पादपान् पक्षयित्वा स्वापं हेतूकरोति,
तदाऽयं न पक्षैकदेशासिद्ध इति किं न साधयेच्चैतन्यमिति ।
असदेतत्--विकल्पानुपपत्तेः । यदि सर्वजनप्रसिद्ध इन्द्रियव्यापारविरोध्यवस्थाविशेषः
स्वापो निद्रापरनामा हेतुरभिप्रेतस्तदाऽयं तेष्वपि तरुष्वसिद्ध इति कथं चैतन्यमनुमापयेत् ?
अथ येन केनचिदुपाधिना स्वापशब्दमात्रवाच्योऽर्थो हेतुः; तथाविधस्य स्वापस्य चैतन्येन
व्याप्त्यसिद्धेः सन्दिग्धविपक्षव्यावृत्तिकतयाऽनैकान्तिकः ।
षष्ठ्यतसर्थप्रत्येयनपाणिनि २. ३. ३०इत्यनेन पश्चाच्छब्दयोगे सत्त्ववचनात्षष्ठी ।
असाधारणः सपक्षासपक्षसाधारणो यो न भवति । पक्षस्यैव यो धर्म इति यावत् । निरस्तो
हेतुत्वेन प्रतिक्षिप्तः । पूर्वावधारणे तु नायं निराकृतः स्यादिति दर्शयति यदीति । हिर्यस्मात् ।
अयमस्याशयः--यद्यनुमेय एव सत्त्वं यस्येति लक्षणं स्यात्तदा सपक्ष एव सत्त्वमिति वचनमति
रिच्यमानं लक्षणान्तरं भविष्यति । व्याघात एव वा भविष्यतीति । निश्चितग्रहणस्येहा
पेक्षितस्य व्यवच्छेद्यं दर्शयति--निश्चितेति । सन्दिग्धश्चासावस्य हेतुत्वेन विशेषणत्वेन
चासिद्धोऽनिश्चितश्चेति विग्रहः । सन्दिग्धविशेषणासिद्धः, सन्दिग्धविशेष्यासिद्धश्च सन्दिग्धासिद्ध
एवान्त39b र्भवतीति, सोऽप्यनेनैव निरस्तः । यथाऽनयोर्भेदो यथा चान्तर्भावस्तथा
परस्तात्प्रदर्शयिष्यामः । इहाश्रितत्वादार्थेन न्यायेन हेतुसत्त्वस्य विशेषणरूपत्वाद् अनेन
सहोदिति457एवकारो धर्मायोगस्य व्यवच्छेदको द्रष्टव्यः ।
94
सत्त्वग्रहणेन विरुद्धो निरस्तः । स हि नास्ति सपक्षे । एवकारेण साधारणानैकान्तिकः458 ।
स हि न सपक्ष एव वर्त्तत किन्तूभयत्रापि । सत्त्वग्रहणात् पूर्वावधारणवचनेन 459सपक्षाव्यापि
सत्ताकस्यापि प्रयत्नानन्तरीयकस्य हेतुत्वं कथितम् । पश्चादवधारणे460 त्वयमर्थः स्यात्—
सपक्षे सत्त्वमेव यस्य स हेतुरिति प्रयत्नानन्तरीयकत्वं न हेतुः स्यात् । 461निश्चितवचनेन
सन्दिग्धान्वयोऽनैकान्तिको निरस्तः । यथा सर्वज्ञः कश्चिद् वक्तृत्वात् । वक्तृत्वं हि सपक्षे
सन्दिग्धम् ।
असपक्षो वक्ष्यमाणलक्षणः । तस्मिन्नसत्त्वमेव निश्चितम्--तृतीयं रूपम् । तत्रा
सत्त्वग्रहणेन विरुद्धस्य निरासः462 । विरुद्धो हि विपक्षेऽस्ति । एवकारेण साधारणस्य विपक्षैक
देशवृत्तेर्निरासः । 463प्रयत्नानन्तरीयकत्वे साध्ये ह्यनित्यत्वं विपक्षैकदेशे विद्युदादौ अस्ति,
आकाशादौ नास्ति । ततो 464नियमेनास्य निरासः । 465असत्त्वशब्दाद्धि पूर्वस्मिन्नवधारणेऽयमर्थः
स्यात्--विपक्ष एव यो नास्ति स हेतुः । तथा च प्रयत्नानन्तरीयकत्वं सपक्षेऽपि 466सर्वत्र
साधारणश्चासौ सपक्षासपक्षवृत्तित्वादनैकान्तिकश्चैकस्मिन्नन्ते साध्ये विपर्यये वाऽव्यव
स्थितश्चेति तथा निरस्त इति वर्त्तते । सपक्षाव्यापिनी सकलसपक्षावर्त्तिनी सत्ता यस्येति
विग्रहः । प्रयत्नानन्तरीयकत्वमप्यनित्यत्वसिद्धौ समर्थो हेतुरिति दर्शयितुं सकलसपक्षाव्यापि
प्रयत्नानन्तरीयकत्वमुदाहृतमिति द्रष्टव्यम् । वस्तुतस्तु सर्व एव कार्यहेतुर्धूमादिः सपक्षैक
देशवृत्तिर्बोद्धव्यः । इतिरेवमर्थे । एवं सति प्रयत्नानन्तरीयकत्वमुपलक्षणत्वादस्य धूमादिक
मपि न हेतुः स्यात् । सन्दिग्धोऽन्वयो यस्य स तथा । इहाश्रयत्वादार्थेन न्यायेन सपक्ष
लक्षणस्य धर्मिणो विशेष्यत्वादनेन सहोदितो निपातः पक्षे वृक्षे वृत्तौ लब्धायां समुच्चीय
मानावधारणत्वादसपक्षलक्षणधर्म्यन्तरयोगस्य व्यवच्छेदको द्रष्टव्यः ।
तृतीयं रूपं व्याख्यातुमाह--असपक्ष इति । वक्ष्यमाणं लक्षणमस्येति विग्रहः । नास्ति । ततो न हेतुः स्यात् । ततः पूर्वं न कृतम् । निश्चितग्रहणेन सन्दिग्धविपक्ष ननु च सपक्ष एव सत्त्वमित्युक्ते विपक्षेऽसत्त्वमेवेति यम्यत एव । तत् किमर्थं 468पुनरुभयो
कथमस्य निरास इत्याह--विरुद्धो हीति । हिर्यस्मात् । साधारणस्य सपक्षासपक्ष
साधारणस्य । कस्मिन् साध्ये किन्तदीदृशमित्याह--प्रयत्नेति । प्रयत्नः पुरुषव्यापारः । नियमेना
95
व्यावृत्तिकोऽनैकान्तिको467 निरस्तः ।
रुपादानं कृतम् ? उच्यते 469। अन्वयो व्यतिरेको वा प्रयुज्यमानः नियमवानेव प्रयोक्तव्यो
नान्यथेति दर्शयितुं470द्वयोरप्युपादानं कृतम् । अनियते471 हि द्वयोरपि प्रयोगेऽयमर्थः स्यात्—
सपक्षे योऽस्ति विपक्षे च यो472 नास्ति स हेतुरिति । तथा च सति स श्यामः473तत्पुत्रत्वात् दृश्यमान-
वधारणेन एवकारणेति यावत् । असपक्ष एवेति किं नावधार्यत इत्याह--असत्त्वेति ।
हिर्यस्मात् । भवत्वेवं का क्षतिरित्याह तथा चेति । प्रयत्नानन्तरीयकग्रहणं पूर्ववदुप
लक्षणम् । निश्चितग्रहणस्य व्यावृत्त्यर्थमाह--निश्चितेति । विपक्षाद् व्यावृत्तिर्विपक्षव्यावृत्तिः ।
सन्दिग्धा विपक्षव्यावृत्तिर्यस्य स तथा ।
ननु न सन्दिग्धविपक्षव्यावृत्तिकत्वं नागायं हेतुदोषः । तत्कथं निरस्यते ? तथाहि—
य एव विपक्षे वीक्षितो हेतुः स एव प्रमेयत्वादिवदभिमतं न साधयेत् । यः पुनर्महताऽपि
प्रयत्नेन मृग्यमाणोऽसपक्षे नोपलक्षितः स कथमङ्ग साध्यं न साधयेदिति ? तदेतदवद्यम् ।
यतो योऽपि विपक्षे वीक्षितो हेतुः सोऽपि इष्टो दुष्टः । कथं ? साध्यं विनाऽप्युपलब्धेरिति
चेत् । ननु यदि नामासौ साध्यमन्तरेणान्यत्र दृष्टस्तथापि विवादाध्यासिते धर्मिणि साध्यं
किं न साधयति ? नहि अयमत्रापि साध्यं विनैव वर्त्तत इति प्रसाधकं प्रमाणमस्ति । न चैकत्र
येन विना यो दृष्टः सर्वत्रासौ तेन विनैव वर्त्तते इति सिद्धम् । अन्यथाऽपि बहुलं दर्शनात् ।
अथ साध्यमन्तरेण यो वृत्तः साध्ये सत्येवासौ वर्त्तत इति नियमाभावाद् विवादाध्यासिते सन्देह
हेतुर्न सम्यग् हेतुर्भवितुमर्हति । हन्त तर्हि विपक्षे वीक्षणं तस्य साध्यधर्मिणि साध्यविनाकृतां
वृत्तिं सम्भावयद् हेतुमनिश्चयहेतूकरोतीति आयातम् । सति चैवं साध्यविपर्यये हेतुसत्ता
वाधकप्रमाणादर्शनमपि--यद्ययं च धर्मो भविष्यति, न च ततः साध्यमित्येवंविधां वृत्तिमस्य—
सम्भावयति तदा किमयं निश्चयहेतुर्भवितुमर्हति ? ततो वि40a पक्षे दर्शनं वा तथा शङ्का
बीजमस्तु विपर्यये वा बाधकप्रमाणादर्शनं वेति को विशेषः ? तथा चाह वार्त्तिककारः--न
तु सपक्षविपक्षयोः सत्त्वमसत्त्वं वा निश्चयापेक्षम् । निश्चयेऽपि सन्देहमुखेनैव दोषात् ।
सोऽनिश्चयेऽपि तुल्य इति तथाविधोद्भावनमप्यत्र दूषणमेव । तथा विपक्षप्रचाराशङ्काव्य
वच्छेदेन लभ्यं गमकत्वं कथमात्मसात्कुर्याद् इति ।
ननु चेत्यादिना लक्षणे चोद्यमाशङ्कते । विपक्षेऽसत्त्वमेवेति गम्यत इति ब्रुवतोऽयं पुत्रवदिति तत्पुत्रत्वं हेतुः स्यात् । तस्मान्नियमवतोरेवान्वयव्यतिरेकयोः प्रयोगः कर्त्तव्यो येन त्रैरूप्यकथनप्रसङ्गेनानुमेयः सपक्षो विपक्षश्चोक्तः । तेषां लक्षणं वक्तव्यम् । तत्र अनुमेयोऽत्र जिज्ञासितविशेषो धर्मी ॥ ६ ॥
भावः । पक्षे वृत्तौ लब्धायां सपक्ष एव सत्त्वं निश्चितमिति खलु समुच्चीयमानावधारणोऽयं
निर्णयः । अयं चासपक्षेऽसत्त्वेऽनिश्चिते सन्दिग्धे वा न घटत इति अवश्यमसपक्षेऽसत्त्वमेव
96
प्रतिबन्धो गम्येत साधनस्य साध्येन । नियमवतोश्च प्रयोगेऽवश्यकर्त्तव्ये द्वयोरेक एव प्रयोक्तव्यो474
न द्वाविति नियमवानेवान्वयो व्यतिरेको वा प्रयोक्तव्य इति शिक्षणार्थं द्वयोरुपादानमिति ॥
कोऽनुमेय इत्याह--
निश्चितमाक्षिपतीति । एवमुपलक्षणत्वादस्यासपक्षे चासत्त्वमेव निश्चितमित्यनेन सपक्षे
वृत्तिमात्रं लब्धमेव । तेनैव च प्रयोजनमिति किं सपक्ष एव सत्त्वमित्यनेनेति द्रष्टव्यम् ।
उच्यत इति परिहारः । साध्येनान्वीयमानत्वं सत्येव साध्ये भवितृत्वं साधनस्य
स्वगतो धर्मोऽन्वयः । साध्याभावे व्यतिरिच्यमानत्वम् अभवितृत्वं हेतोः स्वगतो धर्मो
व्यतिरेकः । स चासश्च 475प्रयुज्यमानः शब्देन प्रतिपाद्यमानो नियमवानव्यभिचारवान्
प्रयोक्तव्योऽन्यथा परोक्षप्रतीत्यङ्गं नोक्तं स्यात् । कथं च तथा प्रयुक्तो भवति ? यदाऽन्वय
वाक्ये साध्ये नियतं साधनं व्यतिरेकवाक्ये च साधनाभावे नियतः साध्याभावः । साधनानु
वादपूर्वसाध्यविधानेन साध्याभावानुवादपूर्वसाधनाभावविधानेन वीप्सापदयुक्तेन सर्वशब्द
संहितेन एवकारोपेतेन । अन्यथा न प्रतिपाद्यते ।
अनियमेनापि प्रयोगे यद्यन्वयव्यतिरेकयोस्तादृशोः प्रतीतिरस्ति तदा किं नियमवत्प्रयोगेणे
त्याह--अनियते हीति । हिर्यस्मादनियते विवक्षितनियमाख्यापके । आस्तां तावदेकस्य
प्रयोगे द्वयोरप्ययमर्थः स्यादित्यपिशब्दः । इतिरर्थस्याकारं दर्शयति । अस्त्वयमर्थः । का
क्षतिरित्याह--तथा चेति । काकतालीयन्यायेन चाश्यामेषु निकटवर्त्तिषु अतत्पुत्रेषु एतद्
द्रष्टव्यम् । अन्यथा ह्यनियतोऽपि व्यतिरेकोऽत्र नोक्त इति वचनावकाशः स्यात् । यत
एवं तस्माद् येन नियमवत्प्रयोगेण प्रतिबन्धः प्रतिबद्धत्वमायत्तत्वम् । कस्येत्याकाङ्क्षायामाह—
साधनस्येति । कुत्रेत्यपेक्षायामाह--साध्य इति ।
यद्येवमेकस्मिन्नेव साधनवाक्ये नियमवानेवान्वयो व्यतिरेकश्च प्रयुज्यतामित्याह--नियम
वतोश्चेति । चो वक्तव्यान्तरसमुच्चये । अयमाशयः--अन्वयवाक्येनापि तथाप्रयुक्तेन
सामर्थ्याद् व्यतिरेकस्य, व्यतिरेकवाक्येनापि सामर्थ्यादन्वयस्य प्रकाशनात् किं प्रतीतप्रत्यायकेन
द्वितीयवाक्येन कार्यमिति ? यत एवमितिस्तस्माद् । द्वितीय इतिः शिक्षणस्य स्वरूपं दर्शयति ।
शिक्षणमज्ञमुद्दिश्यज्ञापनम् । तदर्थं तन्निमित्तम् । अनेन प्रयो40b गसमास एव दर्शितो न
रूपसमास इति दर्शितम् । प्रयोगदर्शनाभ्यासात्कश्चित्प्रयोगभङ्ग्यैव स्वयमपि परोक्षमर्थं
प्रतिपद्यत इति स्वार्थेऽप्यनुमाने निर्णीतमिदं लक्षणकथनप्रसङ्गेन । ततो न दोष इति द्रष्टव्यम् ।
एतच्चोपरिष्टान्निवेदयिष्यते ॥
97
अनुमेयोऽत्रेत्यादि । अत्र हेतुलक्षणे निश्चेतव्ये476 धर्मो अनुमेयः । अन्यत्र तु 477साध्य
प्रतिपत्तिकाले समुदायोऽनुमेयः । व्याप्तिनिश्चयकाले तु धर्मोऽनुमेय इति दर्शयितुम् अत्र
ग्रहणम् । जिज्ञासितो ज्ञातुमिष्टो विशेषो धर्मो यस्य धर्मिणः स तथोक्तः ॥
कः सपक्षः ?
साध्यधर्मसामान्येन समानोऽर्थः सपक्षः ॥ ७ ॥
समानोऽर्थः सपक्षः । समानः सदृशो478 योऽर्थः पक्षेण स479 पक्ष उक्त उपचारात्
समानशब्देन विशेष्यते । समानः पक्षः सपक्षः, समानस्य च सशब्दादेशः480 ।
ननु यदि धर्मधर्मिसमुदायो मुख्योऽनुमेयोऽत्र गृह्यते तदा न कस्यचित्साधनस्य तद्धर्मत्वं
ग्रहीतुं शक्येत । ग्रहणे वा व्यक्तमेव वैयर्थ्यमित्यभिप्रायवान् पृच्छति--तत्र क इति
तेषु मध्ये ।
अत्रेत्यस्य तात्पर्यार्थमत्रेत्यादिना निरूपयति । धर्मिधर्मयोश्चानुमेयत्वम् । तस्मिं
स्तस्मिन् कालेऽनुमेयैकदेशत्वादुपचारतो द्रष्टव्यम् । तदुक्तम्--
अथ यदि सह पक्षेण वर्त्तते इति सपक्षोऽभिप्रेतस्तदाऽर्थासङ्गतिः । अथापि समानः
पक्षेणेति मतं तदा पक्षसमान इति प्राप्नोतीत्यभिप्रेत्य पृच्छति क इति । समानोऽर्थ इति
सिद्धान्ती । समानशब्दस्यार्थमाह--समानः सदृशोऽर्थ इति । अर्थशब्दोऽत्र प्रतीयमानार्थोऽर्थ्यते
गम्यत इति कृत्वा । न त्वर्थोऽर्थक्रियासमर्थो वाच्यः । क्रमाक्रमायोगेनाक्षणिकस्य सामर्थ्याभाव481
साध्येऽम्बरारविन्दादेरपि सपक्षत्वेनेष्टत्वात् ।
ननु समानश्चासौ पक्षश्चेति किं नाभिप्रेतम् ? तत्र पक्ष एवासौ दृष्टान्तधर्मी कथं स्यादेतत्--किं तत् पक्षसपक्षयोः 483सामान्यं येन समानः सपक्षः पक्षेणेत्याह--साध्य कोऽसपक्ष इत्याह-- न सपक्षोऽसपक्षः ॥ ८ ॥ न सपक्षोऽसपक्षः । सपक्षो यो न भवति सोऽसपक्षः ॥ कश्च सपक्षो न भवति ?
येन समानशब्देन विशिष्यत इत्याह--पक्ष इति । कथमन्यार्थेन तेन शब्देन स तथोच्यता
मित्याह--उपचारादिति । क्वचित्सपक्ष उक्त इति पाठः । तत्र सोऽर्थः पक्ष उक्तः
इति योज्यम् । उपचारे च साध्यधर्मयोगो निमित्तम् । स उपचाराद् यः पक्ष उक्तः
विशि482ष्यते व्यवच्छेद्यते तदसमानात् । यदि समानशब्दो विशेषणमस्य तर्हि सशब्दश्रुतिः
कथमित्याह--समानस्येति । समानस्य समानशब्दस्य स्थाने सशब्दादेशश्च समानस्य
पाणिनि ६. ३. ८४.इति योग वेभागात् । समानः पक्षो यस्य स तथेति बहुव्रीहिः किमिति धर्मो
त्तरेण नाश्रितो येनैवमात्मा प्रयासित इति चेत् । सत्यम् । केवलं विनिश्चयानुरोधादेव
98
धर्मसामान्येनेति । साध्यश्चासौ असिद्धत्वात्, धर्मश्च पराश्रितत्वात् साध्यधर्मः । न च
विशेषः साध्यः, अपि तु सामान्यम् । अत इह सामान्यं 484साध्यमुक्तम् । साध्यधर्मश्चासौ
सामान्यं चेति साध्यधर्मसामान्येन समानः पक्षेण सपक्ष इत्यर्थः ॥
माचरितम् । विनिश्चये हि नवपक्षधर्मप्रवेदननिर्देशप्रकरणे साध्यधर्मसामान्येन समानः पक्षः सपक्ष
स्तदभावोऽसपक्षः इत्युक्तम् । अतो वार्त्तिककारस्यैव दृष्टान्तधर्मी पक्षोऽभिप्रेत उपचारादित्यत्रा
प्येवमयं व्याचष्ट इत्यदोषः ।
येन सामान्येन पक्षेण समानः सपक्ष इत्याहेति योज्यम् । साध्यशब्देनोपचाराद्
वह्न्यादिकमभिप्रेतम् । साध्यत्वे हेतुमाह--असिद्धत्वात् तत्रानिश्चितत्वात् ।
ननु साध्यधर्मश्चासौ सामान्यं चेति कर्मधारयगर्भः कर्मधारय इहाभिप्रेतः, विशेषश्च
साध्यत इति कथं सामान्यशब्देन साध्यधर्मशब्दस्य समास इत्याशङ्क्याह--न चेत्यादि । चो
यस्मादर्थे अवधारणे वा । सामान्यमतद्रूपव्यावृत्तवस्तुमात्रम् । तथाविधेनैव हेतोः 41a
व्याप्यत्वादित्यभिप्रायः । यत एवमतोऽस्माद्धेतोरिह सपक्षलक्षणकाले । सामान्यस्य
साध्यतामुक्त्वा साध्यधर्मशब्देन सह सामान्यशब्दस्य विग्रहं दर्शयति--साध्येति । साध्यधर्म्ये
485त्यादिनोपसंहरति । समान एवेत्यवधारणीयम् न तु सामान्येनैवेति, अन्येनापि
वस्तुत्वादिना सादृश्यात् दृष्टान्तधर्मिणः सपक्षत्वाभावप्रसङ्गादिति ।
यदि सपक्षादन्योऽसपक्षोऽन्यधर्मयोगाच्चान्यस्तदा सपक्ष एवान्यधर्मयोगादन्य इति
तत्रासपक्षे वर्त्तमानो हेतुः सर्व एवानैकान्तिकत्वादहेतुः प्रसज्येत । अथ विरुद्धे नञो
विधानात् सपक्षविरुद्धोऽसपक्षः सहानवस्थानलक्षणेन विरोधेन विरुद्धस्तदाऽग्निलक्षणो
हेतुरौष्ण्यं न गमयेत् । अथाभावे नञिष्यते, तदाऽभावे कस्यचित्सत्त्वासम्भवात् साधारणा
नैकान्तिको न कश्चित्स्यादिति मनसि निवेश्य पृच्छति--कोऽसपक्ष इति । अनीदृशाशयस्या
ज्ञस्यैव वा प्रश्नः ।
न सपक्ष इत्याद्युत्तरम् । सपक्षो यो न भवतीति साध्यधर्मवान् यो न भवतीत्यर्थः ।
एवञ्चाचक्षाणः प्रसज्यप्रतिषेधवृत्तिं नञं दर्शयति । यद्येवम्, समासः कथमिति चेत् । गमक
त्वादसूर्य्यम्पश्यानीत्यादिवत् । अपुनर्ज्ञेयानि सामानि, अलवणभोजी, असूर्य्यम्पश्यानि
मुखानि सुडनपुंसकस्य पाणिनि १. १. ४३ इति । प्रयोगसंख्यानियमस्तु भाष्यकारीयो
यथाऽनुपपन्नस्तथा चाचार्येणैव विनिश्चये दुःखं बतायं तपस्वी इत्याद्युपहासपूर्वकं--यथा
निकेतेन प्रतिपत्तेः इत्यादिना प्रतिपादित इति नेहोच्यते ।
99
ततोऽन्यस्तद्विरुद्धस्तदभावश्चेति ॥ ९ ॥
ततः सपक्षाद् 486अन्यः । तेन च487 विरुद्धः488 । तस्य च सपक्षस्याभावः489 ।
सपक्षादन्यत्वं तद्विरुद्धत्वं च न तावत् प्रत्येतुं शक्यं यावत् सपक्षस्वभावाभावो न विज्ञातः ।
तस्मादन्यत्वविरुद्धत्वप्रतीतिसामर्थ्यात् सपक्षाभावरूपौ प्रतीतावन्यविरुद्धौ ।
एवं सत्यन्यविरुद्धयोरसपक्षत्वं न स्यादित्यसपक्षशब्देन तदभावतदन्यतद्विरुद्धनां त्रयाणा
मपि सङ्ग्रहं दर्शयितुं कश्चेत्यादिना प्रश्नपूर्वमुपक्रमते । चकारः पुनःशब्दस्यार्थे ।
अन्य इति विवक्षितधर्मानाधारः, अन्यविषयेऽपि नञि विभागेन नियोगवृत्तेः । न हि
स एव ब्राह्मणस्तज्जातियोगाद्, अब्राह्मणश्च धर्मान्तरसमावेशाल्लोके प्रतीयत इति । विरुद्ध
इति सहस्थितिलक्षणेनाऽन्योन्यात्मपरिहारस्थितिलक्षणेन च विरोधेन विरुद्धः । चोऽन्यापेक्षया
विरुद्धमसपक्षत्वेन समुच्चिनोति । तस्य चाभावस्तुच्छरूपः प्रसज्यात्मा व्यवहर्त्तव्यैकस्वभावः ।
अयमत्र प्रकरणार्थः--सपक्षाभावोऽसपक्षः । साध्यधर्मवान् यो न भवतीत्यर्थः ।
साध्यधर्माभावार्थत्वादसपक्षशब्दस्य । न चैवं निषेधमात्रमसपक्षः । किन्तर्हि ? सर्वः प्रतियोगी
निषेधः पर्युदस्तश्च, अतत्त्वलक्षणत्वादसपक्षस्य । तद् विवक्षिते प्रतियोगिनि तुल्यम्, व्यतिरेकगतेः
सर्वत्र तुल्यत्वात्, साक्षादर्थापत्त्या वेति । चः पूर्वापेक्षः समुच्चये । अन्यविरुद्धयोरपि वस्तु
सतोः कल्पितयोश्चासपक्षत्वात् । तत्र वर्त्तमानस्य साधारणानैकान्तिकत्वान्न तदभावदोषः, अन्य
विरुद्धयोश्च स्वरूपकथनेन तदसपक्षत्वपक्षोक्तो दोषो निरस्त इति सर्वमवदातम् ।
ननु च सपक्षो यो न भवतीति वचनेन यस्य सपक्षाभावस्वभावत्वं तस्यैवासपक्षत्वं
41b प्रतिपाद्यते । न चान्यविरुद्धयोस्तदभावस्वभावता सम्भव490नी, विधिरूपत्वात् ।
तत्कथं तयोस्तथात्वमित्याशङ्क्याह--सपक्षादिति । अन्यत्वं ततो भिद्यमानत्वं पृथक्त्वमिति
यावत् । तेन च विरुद्धत्वं तावन्न शक्यं ज्ञातुम्, यावत्सपक्षाभावस्वभावो न विज्ञातो भवति ।
सोऽन्यो विरुद्धश्चेत्यर्थात् ।
अयमाशयः--यदि तस्यान्यत्वाभिमतस्य यतोऽन्यत्वं व्यवहर्त्तव्यं तद्रूपता चेत्तस्यासिद्धा
सन्दिग्धा वा भवेत् तदाऽन्यत्वमेव न स्यात्, तदात्मवत्, धूमस्येव वा बाष्पादिभावेन सन्दिह्य
मानस्य न बाष्पादेरन्यत्वनिश्चयः । येन च विरुद्धं यत् तद्रूपं चेत् सिद्धं सन्दिग्धं वा
ताद्रूप्येण, तदा तेन सह तस्यावस्थितिः, तदात्मपरिहारेण वाऽवस्थानं कथम्, कथं च निश्चीयेत
तदात्मवत् पूर्वोक्तधूमवत् ?
यत एवं तस्मात् । तयोः साध्यधर्मवत्त्वाभावादित्यर्थः । यत एवं ततो हेतोः साक्षाद ततोऽभावः साक्षात् सपक्षाभावरूपः प्रतीयते । अन्यविरुद्धौ तु सामर्थ्यादभावरूपौ त्रिरूपाणि च त्रीण्येव लिङ्गानि ॥ १० ॥ उक्तेन त्रैरूप्येण त्रिरूपाणि च त्रीण्येव लिङ्गानि इति । चकारो वक्तव्यान्तर कानि पुनस्तानीत्याह-- अनुपलब्धिः स्वभावः491 कार्यं चेति ॥ ११ ॥ प्रतिषेध्यस्य साध्यस्यानुपलब्धिस्त्रिरूपा । विधेयस्य साध्यस्य स्वभावश्च492 त्रिरूपः,
व्यवधानेन । अनेन यद्येक एवासपक्षो वक्तव्यः तदा तदभाव एवेति सूचितम् । तुरभावा
100
प्रतीयेते । ततस्त्रयाणामप्यसपक्षत्वम् ॥
समुच्चयार्थः । त्रैरूप्यमादौ पृष्टं त्रिरूपाणि च लिङ्गानि परेण । तत्र त्रैरूप्यमुक्तम् ।
त्रिरूपाणि चोच्यन्ते--त्रीण्येव त्रिरूपाणि लिङ्गानि । त्रयस्त्रिरूपलिङ्गप्रकारा इत्यर्थः ॥
कार्य च ॥
दन्यविरुद्धयोर्वैधर्म्यमाह । यतोऽन्यो विरुद्धश्चोक्तया नीत्या सपक्षाभावरूपौ ततस्तस्मात् ।
आस्तामेकस्य द्वयोर्वा त्रयाणामपीत्यपिशब्दः ।
त्रैरूप्येण त्रिरूपेणेत्यर्थः । त्रीणि रूपाणि लक्षणानि येषामिति विग्रहः । त्रीण्येव
त्रिसंख्यान्येव । त्रिरूपाणीत्यनेनाबाधितविषयत्वादिरूपान्तरयोगेन चतुर्लक्षणत्वं षड्लक्षणत्वं वा
पराभिमतं हेतोः प्रतिषेधति, त्रीण्येवेत्यनेन संयोग्यादिभेदेन भूयिष्ठसंख्यत्वम् ।
पृष्ट इति पाठे त्वाचार्य इति शेषः । यत् त्रैरूप्यं पृष्टो यद् वा यत्त्रैरूप्यं पृष्टं
तत्त्रैरूप्यमुक्तमुक्तेन ग्रन्थेन । अथवा यद् यस्मात्त्रैरूप्यं पृष्ट आचार्यः, पृष्टं वा तत् तस्मात्
त्रैरूप्यमुक्तमिति । चस्त्रैरूप्येण समं त्रिरूपाणामुक्तकर्मतां समुच्चिनोति ।
ननु न तावत्परस्यैतद् द्वितयप्रश्नवाक्यं श्रुतम् । तत्कथं परस्य द्वेधा प्रश्नः संकीर्त्त्यत
इति चेत् । उच्यते । त्रिरूपाल्लिङ्गादिति श्रुतवता पूर्वपक्षवादिनाऽवश्यं किं तत् त्रैरूप्यं
कियच्च त्रिरूपं लिङ्गमित्याकाङ्क्षितव्यम्, तेन पृष्टमित्युच्यते । एतदेव कथमवसीयत इति चेत् ।
त्रैरूप्यं लिङ्गस्यैवमात्मकमित्यभिधानादाचार्यस्य पूर्वपक्षवादिन एवंरूप प्रश्नोऽवसीयते ।
त्रिरूपाणि च त्रीण्येवेत्यभिधानाच्च संख्याप्रश्नः । ततः साधूक्तं त्रैरूप्यमादावित्यादि ।
लिङ्गप्रकारा लिङ्गस्वरूपाणि ॥
संयोग्यादिभेदेन त्रित्वासम्भवात् पृच्छति--कानीति । सामान्यविशेषाकाराभ्यां
प्रश्नः । कार्यं च विधेयस्येति प्रकृतम् । केवलं विधेयस्येति पूर्वं सामर्थ्यादनर्थान्तरस्य
विधेयस्य, अधुना त्वर्थान्तरस्य विधेयस्येत्यवसेयम् । विधेयस्यार्थान्तरस्य कार्यं त्रिरूपमिति
योजनीयम् । चकारौ पूर्वापेक्षया समुच्चयार्थौ ॥
101
अनुपलब्धिमुदाहर्त्तुमाह--
तत्रानुपलब्धिर्यथा--न प्रदेशविशेषे क्वचिद् घटः, उपलब्धिलक्षणप्राप्तस्या
नुपलब्धेरिति ॥ १२ ॥
यथेत्यादि । यथेत्युपप्रदर्शनार्थम् । यथेयमनुपलब्धिस्तथान्यापि । न त्वियमेवेत्यर्थः ।
प्रदेश एकदेशः । विशिष्यत इति विशेषः प्रतिपत्तृप्रत्यक्षः । तादृशश्च न सर्वः प्रदेशः ।
तदाह--क्वचिद् इति । प्रतिपत्तृप्रत्यक्षे क्वचिदेव प्रदेश इति धर्मो । न घट इति साध्यम् ।
493उपलब्धिर्ज्ञानम् । तस्या 494लक्षणं जनिका सामग्री । तया हि495 उपलब्धिर्लक्ष्यते । तत्प्राप्तोऽर्थो
496जनकत्वेन सामग्र्यन्तर्भावात् । उपलब्धिलक्षणप्राप्तो दृश्य इत्यर्थः । तस्यानुपलब्धेः—
इत्ययं हेतुः ।
अथ यो यत्र नास्ति स कथं तत्र दृश्यः ? दृश्यत्वसमारोपादसन्नपि दृश्य उच्यते ।
497यश्चैवं सम्भाव्यते--यद्यसावत्र भवेद् दृश्य एव भवेदिति । स तत्र अविद्यमानोऽपि दृश्यः
समारोप्यः । कश्चैवं सम्भाव्यः ? यस्य समग्राणि स्वालम्बनदर्शनकारणानि भवन्ति ।
कदा च तानि समग्राणि गम्यन्ते ? यदैकज्ञानसंसर्गिवस्त्वन्तरोपलम्भः । एकेन्द्रियज्ञान
ग्राह्यं लोचनादिप्रणिधानाभिमुखं 498वस्तुद्वयमन्योन्यापेक्षमेकज्ञानसंसर्गि 499कथ्यते । तयोर्हि
न घट इति घटाभावव्यवहारयोग्यतेति द्रष्टव्यम् । घटाभावस्य प्रत्यक्षसिद्धत्वात् ।
एतच्च परस्तादभिधास्यते । तया लक्ष्यत इति ब्रुवता लक्ष्यतेऽनेनेति लक्षणमिति व्यक्तीकृतस् ।
तदित्युपलब्धिलक्षणम् । कथं तत्प्रान्त इत्याह--जनकत्वेन । किं तेनैकेन सा जन्यते ये42a
नैवमुच्यत इत्याह--सामग्र्यन्तर्भावादिति ।
समुदायार्थं स्फुटयति । दृश्यो दर्शनयोग्यः । इतिरेवमर्थे । एवमभिधेयो यस्यो
पलब्धिलक्षणप्राप्तशब्दस्य ।
यद्यविद्यमानः समारोपाद् दृश्य उच्यते तदा भिन्नेन्द्रियग्राह्यमपि तत्रानेकमस्ति ।
तस्यापि तर्हि तथात्वमायातमित्याशङ्क्याह--यश्चैवमिति । चोऽवधारणे । स तादृशो
दृश्यतया समारोप्यो न सर्व इत्यर्थात् । कश्चैवं सम्भाव्य इति पृच्छति । पुनः
शब्दार्थश्चकारः ।
यस्येति सिद्धान्ती । यस्येति प्रतिषेध्यस्य । स्वमात्मानमालम्बत इत्यालम्बनं । यस्य
दर्शनस्य । तस्य कारणानि । तच्चेन्नास्ति कथं तद्दर्शनकारणसामग्र्यावगतिरित्याशयः पृच्छति
कदेति । च पूर्ववत् । एकस्मिन् ज्ञाने संसर्गः प्रतिभासः स यस्यास्ति । तच्च तद् वस्त्वन्तरं
चेति तथा तस्योपलम्भो यदेत्युक्तम् ।
102
सतोर्नैकनियता भवति प्रतिपत्तिः । योग्यताया द्वयोरप्यविशिष्टत्वात् । तस्मादेक
ज्ञानसंसर्गिणि दृश्यमाने500 सत्येकस्मिन्नितरत्501 समग्रदर्शनसामग्रीकं यदि भवेद् दृश्यमेव
भवेदिति सम्भावितं 502दृश्यत्वमारोप्यते । तस्यानुपलम्भो दृश्यानुपलम्भः । तस्मात् स एव
503घटविविक्तप्रदेशस्तदालम्बनं च ज्ञानं दृश्यानुपलम्भनिश्चयहेतुत्वात् दृश्यानुपलम्भ उच्यते ।
यावद्धि एकज्ञानसंसर्गि वस्तु504 न निश्चितम्, तज्ज्ञानं च, न तावद् दृश्यानुपलम्भ
निश्चयः । ततो वस्तु अनुपलम्भ उच्यते, तज्ज्ञानं च । दर्शननिवृत्तिमात्रं तु स्वयमनिश्चित
त्वादगमकम्506 । 507ततो दृश्यघटरहितः प्रदेशः, तज्ज्ञानं च वचनसामर्थ्यादेव दृश्यानुपलम्भ
रूपमुक्तं द्रष्टव्यम् ॥
तत्र यदि निराकारं विज्ञानमिति स्थितिस्तदैकशब्दो द्वयादिसंख्यानिरासार्थः । यदा
तु साकारमिति स्थितिस्तदा पक्षद्वयम्--एकमेव वाऽनेकाकारमशक्यविवेचनं चित्रं ज्ञानम्,
प्रतिवस्त्वनेकमेव वा तत्तदाकारानुकारि । पूर्वस्मिन् पक्षे पूर्ववदेकशब्दः । शेषपक्षे त्वेक
चक्षुरायतनप्रभवत्वादेकरूपालम्बनत्वाच्चैकशब्दो गौणः ।
ननु यदि तत् प्रतिषिध्यमानमनेन भूतलादिना सहैकस्मिन् ज्ञाने प्रतिभासेत तदपेक्ष
मिदमेकज्ञानसंसर्गि कथ्येत । यावतेदमेव नास्तीत्याशङ्क्य तथात्वमेव तयोरेकेन्द्रियेत्यादिना
दर्शयति । लोचनादीनां प्रणिधानं स्वज्ञानोपजनने योग्यीभवनं तत्राभिमुखमनुगुणम् ।
अन्योन्यापेक्षमिति घटाद्यपेक्षं भूतलादि, तदपेक्षं च घटादीत्यर्थः ।
यदि नाम द्वयं तत्रावस्थितं तथाप्येकमेव तत्रावभासिष्यत इत्याह--तयोरिति ।
हिर्यस्मात् । उपपत्तिमाह--योग्यताया इति । यत एव तयोर्घटादिभूतलाद्योरेकज्ञानसंसर्गः
सम्भवी तस्मात् । एकस्मिन् भूतलादिके दृश्यमाने सतीतरद् घटादिकं परिपूर्णदर्शनसामग्रीकं
ज्ञातव्यम् । तथासदविद्यमानमपि समारोपाद् दृश्यमुच्यत इति दर्शयति ।
भवेदितिना सम्भावनाया आकारः कथितः । तस्यैव सम्भावनार्हस्यानुपलम्भस्तद्
विविक्तान्योपलम्भरूपः । यस्मात्तस्यैकज्ञानसंसर्गिणो भूतलादेर्दर्शनात् तदनुपलम्भो निश्चीयते
तस्मात् ।
ननु भूतलादिज्ञाननिश्चय एव तदनुपलम्भनिश्चयहेतुत्वादनुपलम्भोऽस्तु भूतलादिकं तु
कथमित्याह--यावदिति । हिर्यस्मात् । अनेन ज्ञानविशिष्टं भूतलादि, भूतलाद्यवच्छिन्नञ्च
ज्ञानं दृश्यस्यानुपलम्भमुपलम्भाभावं व्यवहर्त्तव्यैकस्वभावं निश्चाययतीति दर्शितम् । वस्त्विति
भूतलादि । ज्ञानमिति तद्ग्राहि । चस्तुल्योपायत्वं समुच्चिनोति ।
103
का पुनरुपलब्धिलक्षणप्राप्तिरित्याह--
उपलब्धिलक्षणप्राप्तिरुपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश्च ॥ १३ ॥
उपलब्धिलक्षणप्राप्तिः--उपलब्धिलक्षणप्राप्तत्वं घटस्य उपलम्भप्रत्ययान्तरसाकल्यमिति ।
ज्ञानस्य घटोऽपि जनकः, अन्ये च चक्षुरादयः । घटाद् दृश्यादन्ये हेतवः प्रत्ययान्तराणि ।
तेषां साकल्यं सन्निधिः । स्वभाव एव विशिष्यते तदन्यस्मादिति विशेषो विशिष्ट इत्यर्थः ।
तदयं विशिष्टः स्वभावः प्रत्ययान्तरसाकल्यं चैतद् द्वयमुपलब्धिलक्षणप्राप्तत्वं घटादेर्द्रष्टव्यम् ॥
यद्येकस्मिन् ज्ञाने ययोः संसर्गोऽस्ति तयोरेकतरोपलम्भस्तदितरानुपलम्भनिश्चयहेतुत्वाद्
अनुपलम्भस्तस्माच्च तस्याभावव्यहारस्तदा नीलज्ञानानुभवे पीतज्ञानाभावव्यवहारो न स्यात्
तयोरेकज्ञा42b नसंसर्गाभावात् । न हि भवन्मते ज्ञानं ज्ञानान्तरेण वेद्यते, स्वसंवेदनत्वा
भावप्रसङ्गादिति चेत् । सत्यमेतत् । केवलमेकज्ञानसंसर्गिशब्देनान्योन्याव्यभिचरितोपलम्भत्वमिह
विवक्षितम् । तच्च ज्ञानेऽप्यस्ति । यदि हि तज्ज्ञानं विद्यमानं स्यात् तदा नीलज्ञानवत्संविदित
मेव भवेत् । न च संवेद्यते । तस्मान्नास्तीति व्यवह्रियत इति किमवद्यम् ।
स्यादेतत् । किं पुनर्ज्ञातृज्ञेयधर्मोपलब्धिव्युदासेन पर्युदासवृत्तिना नञा ज्ञातृज्ञेयधर्म
लक्षणा द्विविध पलब्धिः प्रतिपाद्यते ? न तूपलम्भाभावमात्रं प्रसज्यप्रतिषेधाश्रयेणोच्यते
यथेश्वरसेनो मन्यत इत्याशङ्क्याह--दर्शनत्यादि । दर्शनमुपलब्धिस्तस्य निवृत्तिरभावस्तुच्छरूपः
सैव तन्मात्रं वस्त्वन्तरसंसर्गविरहः । तुः पूर्वस्मादनुपलम्भाद् वैधर्म्यमस्य द्योतयति ।
स्वयमनिश्चितत्वादिति ब्रुवताऽनुपलम्भात् तत्प्रतिपत्तावनवस्थादोषप्रसङ्गेन तस्य साधकाभावः
सूचितः । अनिश्चितत्वादेवागमकः । एवञ्च व्याचक्षाणेन इदं सूचितम्--तथाविधानुपलब्धिः
प्रमाणनिवृत्तावप्यर्थाभावाभावादभावव्यवहारे साध्येऽनैकान्तिकीति । वचनसामर्थ्यादित्युप
लब्धिलक्षणप्राप्तस्येतिवचनसामर्थ्यात्, अन्यथैतदतिरिच्येतेति भावः ॥
ननूपलब्धिलक्षणप्राप्तः स उच्यते यस्योपलब्धिलक्षणप्राप्तिरस्ति । यथा यस्याप्ति
र्यथार्थदर्शनादिरूपाऽस्ति स आप्त इत्युच्यते । सा चोपलब्धिलक्षणप्राप्तिर्यद्यात्ममनःसन्निकर्षः,
इन्द्रियमन संयोगः, इन्द्रियार्थसन्निकर्षः, विषयप्रकाशसंयोगः, अनेकद्रव्यवत्त्वम्, रूपं चोद्भूतं
समाख्यातं तदा त्वन्मतेऽमीषामभावादुपलब्धिलक्षणप्राप्तिरसम्भविनीति मन्यमानः पृच्छति
का पुनरिति । सामान्यविशेषाकाराभ्यामयं प्रश्नः । आचार्यस्यापि नामून्युपलब्धिलक्षण
प्राप्तिशब्देन विवक्षितानि ।
किं तर्हीयमित्यभिप्रायेण यदुपलब्धिलक्षणेत्यादिप्रतिवचनं तदुपलब्धीत्यादिना व्याख्यातु
मुपक्रमते । व्याख्येयमेवोपलब्धिलक्षणप्राप्तिशब्दसमानार्थेनोपलब्धिलक्षणप्राप्तत्वशब्देनानु
वदति । अयं चास्याशयः--यस्योपलब्धिलक्षणप्राप्तिस्तस्यावश्यमुपलब्धिलक्षणप्राप्तत्वमस्तीति ।
अत एवोपलब्धिलक्षणप्राप्तिरुपलब्धिलक्षणप्राप्तत्वमित्युक्तम् । कस्येत्याकाङ्क्षायामाह—
घटस्येति ।
ननु साकल्यं नामानेकधर्मः । न च ज्ञानस्य हेतवो बहवः । किञ्च यदि प्रतिषेध्योऽपि कीदृशः स्वभावविशेष इत्याह-- 508यः स्वभावः सत्स्वन्येषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति 509स स्वभाव सत्स्वित्यादि । उपलम्भस्य यानि घटाद् दृश्याद् प्रत्ययान्तराणि तेषु सत्सु विद्यमानेषु
ज्ञानस्य हेतुः स्यात्तदा तस्मात्प्रत्ययादन्ये प्रत्ययाः प्रत्ययान्तराण्युच्यन्त इत्याशङ्क्याह--ज्ञानस्येति । 104
विशेषः ॥ १४ ॥
यः स्वभावः सन् प्रत्यक्ष एव भवति स स्वभावविशेषः । तदयमत्रार्थः--एकप्रतिपत्त्रपेक्षमिदं
प्रत्यक्षलक्षणम् । तथा च सति द्रष्टुं प्रवृत्तस्यैकस्य द्रष्टुर्दृश्यमान उभयवान् भावः । अदृश्य
मानास्तु देशकालस्वभावविप्रकृष्टाः स्वभावविशेषरहिताः प्रत्ययान्तरसाकल्यवन्तस्तु । यैर्हि
प्रत्ययैः स द्रष्टा पश्यति ते सन्निहिताः । अतश्च सन्निहिता510 यद् द्रष्टुं 511प्रवृत्तः सः ।
न केवलं प्रत्ययान्तरसाकल्यमुपलब्धिलक्षणप्राप्तिः किन्त्वन्यदपीत्याह--स्वभावेति । चस्तुल्य
बलत्वं समुच्चिनोति । तदन्यस्मात् पिशाचादेर्विशिष्यते । ज्ञानजननयोग्यतया विशेषणत्वेऽ
प्यस्य राजदन्तादिपाठाद् विशेषशब्दस्य पूर्वनिपाता43a भावः । कर्मसाधनस्यैव विशेष-
शब्दस्यार्थमाह--विशिष्ट इति ।
द्वयमेतन्मिलितमेवोपलब्धिलक्षणप्राप्तिशब्दवाच्यमुपसंहारव्याजेन तदित्यादिना दर्शयति ।
यतः प्रत्ययान्तरसाकल्यं स्वभावविशेषश्चोपलब्धिलक्षणप्राप्तिर्विवक्षिता तत्तस्मादुपलब्धि
लक्षणप्राप्तिशब्दवाच्यमुपलब्धिलक्षणप्राप्तत्वं घटादेः प्रतिषेध्यस्य ॥
अथ किं स्थवीयान् स्वभावः स्वभावविशेष उतस्वित्पररूपामिश्रस्वलक्षणात्मक
इत्यभिप्रेत्य पृच्छति कीदृश इति । सत्स्वित्याद्युत्तरमुपलम्भस्येत्यादिना व्याचष्टे ।
ननु किमस्य सम्भवोऽस्ति यदुत प्रत्ययान्तरसाकल्ये सत्यपि स्वभावः प्रत्यक्ष एव
भवतीति । तथा हि सत्यपि घटस्य तादृशे स्वभावे विदूरवर्त्तिनः पुरुषस्य लोचनादि
प्रणिधानेऽपि नासौ प्रत्यक्षो भवतीत्याशङ्क्याह--तदयमिति । यस्माद् द्वयमेतदुपलब्धिलक्षण
प्राप्तिमवोचदाचार्यस्तत्तस्मादत्र प्रस्तावेऽयमर्थो वाच्योऽभिमतः ।
कोऽसावित्याह--एकेति । एकश्चासौ विवक्षितः प्रतिपत्ता चेति तथा तदपेक्ष
मिदं प्रत्यक्षलक्षणम् । यः स्वभावः सत्स्वन्येषूपलम्भप्रत्ययान्तरेषु सन् प्रत्यक्ष एव भवतीत्येवं
रूपः । एकश्च प्रतिपत्ता स एव वाच्यो योऽव्यवधानादिदेशो द्रष्टुं प्रवृत्तश्च । तथाविधे च
द्रष्टरि तथाविधोऽवश्यं प्रत्यक्ष एव भवतीति ।
तथापि कथं पूर्वपक्षातिक्रम इत्याह--तथा चेति तस्मिश्च प्रकारे सति । दृश्यमान द्रष्टुमप्रवृत्तस्य तु योग्यदेशस्था अपि द्रष्टुं ते न शक्याः प्रत्ययान्तरवैकल्यवन्तः, स्वभावविशेष
इति हेतुभावेन विशेषणम् । उभयवान् स्वभावविशेषवान् प्रत्ययान्तरसाकल्यवांश्च । यद्य
105
युक्तास्तु । दूरदेशकालास्तु उभयविकलाः । तदेवं पश्यतः कस्यचिन्न प्रत्ययान्तरविकलो
नाम, स्वभावविशेषविकलस्तु भवेत् । अपश्यतस्तु512 द्रष्टुं शक्यो योग्यदेशस्थः प्रत्ययान्तर
विकल । अन्ये तूभयविकला इति ॥
दृश्यमाना अपि स्वभावविशेषवन्तस्तदा किं स्वभावविशेषग्रहणेनेत्याह--अदृश्यमाना इति ।
तुर्दृश्यमानेभ्योऽदृश्यमानान् भिनत्ति । देशादिविप्रकृष्टत्वमदृश्यमानत्वे निबन्धनम्, हेतु
भावेन विशेषणात् । ते प्रत्ययान्तरसाकल्यवन्तः । तुः स्वभावविशेषविरहात्प्रत्ययान्तरसाकल्य
वत्त्वेन तान् विशिनष्टि । द्रष्टुं प्रवृत्तस्येत्यस्यानुवृत्ताविदं द्रष्टव्यम् ।
अयमत्र प्रकरणार्थः--एकप्रतिपत्त्रपेक्षया यस्तथाविधः स्वभावः सोऽपि यद्युपलब्धि
लक्षणप्राप्तिलक्षणत्वेन नोपादीयते, तदा तेषामपि देशादिविप्रकर्षिणां प्रत्ययान्तरसाकल्य
मुपलब्धिलक्षणप्राप्तिरस्तीत्युपलब्धिलक्षणप्राप्तानामनुपलम्भादभावव्यवहारः प्रवर्त्तनीयः स्यात् ।
न चैतद् युज्यते । तस्माद् विशिष्टप्रतिपत्त्रपेक्षमिदं स्वभावविशेषस्य लक्षणमित्युपलब्धि
लक्षणप्राप्तिलक्षणं सूक्तमिति ।
प्रत्ययान्तरसाकल्यवत्त्वमेव तेषां साधयन्नाह--यैरिति । हिर्यस्मादर्थे । एतदेव कुतः
सिद्ध्यतीत्याह--अत इति ॥ अत इत्ययं निपातो वक्ष्यमाणहेत्वर्थः । चो वक्तव्यमेतदित्य
स्मिन्नर्थे । सन्निहितास्ते प्रत्यया यद् यस्माद् द्रष्टुं प्रवृत्तस्तद् विविक्तं द्रष्टुं प्रवृत्तो यत
इत्यर्थः । यद् वा तदेव निरीक्षितुं प्रवृत्तो यत इति । तदा तु43b प्रेक्षापूर्वकारीति द्रष्टव्यम् ।
दर्शनप्रवृत्तपुरुषापेक्षया तावदर्थस्यैवंप्रकारवत्त्वम्, द्रष्टुमप्रवृत्तस्य तु स कीदृश इत्याह—
द्रष्टुमप्रवृत्तस्येति । तुना द्रष्टुं प्रवृत्तादप्रवृत्तस्य भेदमाह । यावत्येव देशे सति तस्मिन् प्रत्यया
न्तरे दृश्यन्तेऽर्थाः स एव योग्यो देशः, तत्रस्थाः ।
तस्माद् दृश्यादन्ये ये चक्षुरादयो हेतवस्तानि प्रत्ययान्तराणि । तेषां वैकल्यमभाव
स्तद्वन्तः, हेतुभावेन विशेषणाद् । अत एव द्रष्टुं ते न शक्याः । स्वभावविशेषस्तु तेषामस्तीति
दर्शयन्नाह--स्वभावेति । तुना प्रत्ययान्तरवैकल्यवत्त्वात्स्वभावविशेषयुक्तत्वेनतान् विशिनष्टि ।
तथाविधपुरुषापेक्षया देशकालविप्रकृष्टानां तु का वार्त्तेत्याह--दूरेति । दूरौ देशकालौ येषां
ते तथोक्ताः । ये हि देशेन विप्रकृष्टास्ते दूरदेशाः, ये च कालेन ते दूरकाला भवन्तीति
भावः । । तुः पूर्वेभ्य इमान् भिनत्ति । अत्रापि द्रष्टुमप्रवृत्तस्येत्यनुवर्त्तते । तदेवमित्यादिनो
क्तमेवोपसंहरति ।
अथवा एकप्रतिपत्त्रपेक्षमिदमित्यन्यथा व्याख्यायते--इहोपलब्धिलक्षणप्राप्तस्येत्यनेन अनुपलब्धिमुदाहृत्य स्वभावमुदाहर्त्तुमाह-- स्वभावः 513स्वसत्तामात्रभाविनि साध्यधर्मे हेतुः ॥ १५ ॥ 514स्वभाव इत्यादि । स्वभावो हेतुरिति सम्बन्धः । कीदृशो हेतुः साध्यस्य515 स्वभाव उदाहरणम्-- यथा वृक्षोऽयं शिंशपात्वादिति518 ॥ १६ ॥ 519यथेति । अयम् इति धर्मो । वृक्ष इति साध्यम् । शिंशपात्वादिति हेतुः ।
देशकालस्वभावविप्रकृष्टतयाऽनुपलब्धिलक्षणप्राप्ताः किल व्यावर्त्तयितव्याः । न च तेऽप्यनु
पलब्धिलक्षणप्राप्ताः शक्या वक्तुं यतो व्यवच्छिद्येरन्, तथापि पिशाचोऽपि सजातीयैरुपलभ्यते ।
एवं देशविप्रकृष्टोऽपि तद्देशीयैः । तथा कालविप्रकृष्टोऽपि तत्कालिकैरिति व्यावर्त्त्याभावादुप
106
इत्याह--स्वस्य आत्मनः सत्ता । सैव केवला स्वसत्तामात्रम् । तस्मिन् सति भवितुं शीलं
यस्येति । यो हेतोरात्मनः सत्तामपेक्ष्य विद्यमानो भवति, न तु हेतुसत्ताया व्यतिरिक्तं
कञ्चिद्धेतुमपेक्षते स516 स्वसत्तामात्रभावी साध्यः । तस्मिन् साध्ये यो हेतुः स स्वभावः तस्य
साध्यस्य 517नान्यः ॥
तदयमर्थः--वृक्षव्यवहारयोग्योऽयम्, शिंशपाव्यवहारयोग्यत्वादिति । यत्र प्रचुरशिंशपे520
देशेऽविदितशिंशपाव्यवहारो जडो 521यदा केनचिदुच्चां 522शिंशपामुपादर्श्योच्यते अयं वृक्षः
इति तदासौ जाड्याच्छिंशपाया उच्चत्वमपि 523वृक्षव्यवहारस्य निमित्तमधस्यति तदा
यामेवानुच्चां 524पश्यति शिंशपां 525तामेवावृक्षमवस्यति । स मूढः शिंशपात्वमात्रनिमित्ते
लब्धिलक्षणप्राप्तस्येति विशेषणमनर्थकमित्याशङ्क्याह--तदयमत्रार्थ इति । तदा तु प्रत्यक्ष
शब्देनोपलब्धिलक्षणप्राप्तत्वं वाच्यम्, तस्य लक्षणमिदं पूर्वोवतमिति योज्यम् । एकप्रतिपत्त्र
पेक्षमिदं प्रत्यक्षलक्षणमुपलब्धिलक्षणमित्यर्थः ।
तथापि कथं चोद्यातिक्रम इत्याह--तथा चेति । शेषं पूर्वमेव कृतव्याख्यानम् ॥
सम्प्रति स्वभावहेतुं विवरितुमनुपलब्धिमित्यादिनोपक्रमते । सामान्यवृत्तिरप्ययं
स्वभावशब्दः साध्यधर्मस्य श्रुतत्वात्तस्यैव स्वभावे वर्त्तते इत्यभिप्रायेण साध्यस्य स्वभाव
इत्यभ्यवादीत् । हेतोः स्वरूपस्य चिन्तनात्स्वशब्देन तस्यैवात्मा विवक्षितः । एतदेव यो
हेतोरित्यादिना स्फुटयति । तस्मिन् साध्ये यो हेतुर्गमकः ॥
107
वृक्षव्यवहारे प्रवर्त्त्यते । नोच्चत्वादि निमित्तान्तरमिह वृक्षव्यवहारस्य । अपि तु शिंशपा
त्वमात्रं निमित्तं--शिंशपागतशाखादिमत्त्वं निमित्तमित्यर्थः ॥
कार्यमुदाहर्त्तुमाह--
कार्यं यथा526 वह्निरत्र धूमादिति ॥ १७ ॥
527वह्निरिति साध्यम् । अत्रेति धर्मी । धूमादिति हेतुः । कार्यकारणभावो लोके
प्रत्यक्षानुपलम्भनिबन्धनः528 प्रतीत इति न स्वभावस्येव कार्यस्य लक्षणमुक्तम् ॥
उदाहरणमस्यार्थस्येति प्रकरणात् । उदाह्रियते प्रदर्श्यते स्वभावहेतुरनेनेत्युदाहरणं
स्वभावहेतुप्रतिपादकं वाक्यम् । इदं च स्वभावहेतोरर्थकथनं न तु तत्प्रयोगोपदर्शनम् ।
प्रयोगस्तु--यः शिंशपात्वव्यवहारयोग्यः, स वृक्षत्वव्यवहारयोग्यः । यथा प्रवर्त्तितवृक्षत्वव्यवहारा
पूर्वाधिगता शिंशपा । शिंशपाव्यवहारयोग्यश्चायमिति ।
ननु च यः शिंशपां पश्यति स वृक्षं जानात्येव । तत्कथमत्र साध्यसाधनभाव इत्याह—
तदयमिति । यस्मात् शिंशपा साधनत्वेनोपन्यस्ता, वृक्षः साध्यत्वेन । न चैतद् यथाश्रुति
सङ्गच्छते तत् तस्मात्, वृक्षोऽयं--वृक्षव्यवहारयो44a ग्योऽयं शिंशपात्वात् शिंशपाव्यवहार
योग्यत्वादित्ययमर्थो वाच्यः--वृक्षोऽयं शिंशपात्वादित्यस्य वाक्यस्येति प्रकरणात् । इतिर्वाक्यार्थं
स्यैव स्वरूपं दर्शयति ।
ननु यो विदितवृक्षव्यवहारः स स्वयं प्रत्यक्षेणैव तं व्यवहारं प्रवर्त्तयिष्यति तत्कथ
मस्यानुमानस्यावतार इत्याह--तत्रेति वाक्योपक्षेपे । निमित्तमित्यन्तं सुबोधम् ।
अनेन च प्रबन्धेन मूढं प्रत्येतद् व्यवहारसाधनमनुमानमिति दर्शितम् । केवल
मिदमत्र निरूपणीयम् । यदा च वृक्षत्वव्यहारव्युत्पत्तिं कार्यमाण एवारोपितोच्चत्वादि
निमित्तः, तदा केन दृष्टान्तेन बोधयितव्यः ? आदित एव तेन शाखादिमत्त्वमात्रं निमित्तं
न गृहीतमिति । सत्यमेतत् । केवलं बोधे यत्नः करणीयः । तदासौ जाड्यादुच्चत्वमपि
निमित्तमवस्यतीतीदमेतस्मिन् मूढे प्रतिपत्तरि योजनीयम् । यः प्रथमं तावत् शिंशपागतं
शाखादिमत्त्वमात्रमेव निमित्तमवसाय वृक्षव्यवहारं प्रावर्त्तयत् पश्चाज्जाड्यवशात्तन्मात्रं
निमित्तं विस्मृत्यान्यदेव वृक्षव्यवहारकाले उच्चत्वमपि निमित्तमासीदिति व्यामुह्य तदोच्चत्वमपि
वृक्षव्यवहारनिमित्तमवकल्पयतीति । स चैवंभूतो जडः शिंशपाव्यवहारयोग्यत्वेन हेतुना प्रथमं
प्रवर्त्तिततन्मात्रनिमित्तवृक्षव्यवहारया तदानीं तथास्मारितया शिंशपया दृष्टान्तेन वृक्षव्यवहार
योग्यतां बोधयितुं शक्यत एव । यः पुनरादित एवारोपितोच्चत्वादिनिमित्तस्तं प्रति हेतूपन्यास
एव न युज्यते । किन्तर्हि ? वृक्षव्यवहारसमयमेवासौ ग्राहयितव्य इति सर्वमवदातम् ॥
108
ननु त्रिरूपत्वादेकमेव लिङ्गं529 युक्तम् । अथ प्रकारभेदाद्भेदः । एवं सति स्वभावहेतो
रेकस्यानन्तप्रकारत्वात् त्रित्वमयुक्तमित्याह--
अत्र द्वौ वस्तुसाधनौ । एकः प्रतिषेधहेतुः ॥ १८ ॥
अत्र द्वौ इति । अत्रेत्येषु त्रिषु हेतुषु मध्ये द्वौ हेतू वस्तुसाधनौ--विधेः साधनौ गमकौ ।
एकः प्रतिषेधस्य हेतुर्गमकः । प्रतिषेध इति चाभावोऽभावव्यवहारश्चोक्तो द्रष्टव्यः ।
इदानीं कार्यहेतुं विवरीतुमाह--कार्यमिति । हेतोः प्रकृतत्वात्कार्यमिति कार्यहेतुमित्य
वसेयं सुखप्रतिपत्त्यर्थम् ।
साध्यादिस्वरूपमाह वह्निरिति । एतदपि हेतोरर्थकथनम् । न तु प्रयोगप्रदर्शनम् ।
व्याप्तेर्दर्शयितव्याया अप्रदर्शनात् । अनिर्देश्यायाश्च प्रतिज्ञाया निर्देशात् । व्याप्तिवेदिन्यपि
पुंसि हेतुरनुवाद्येनैव रूपेण निर्दिश्यमान प्रथमान्त एव निर्देश्यः--अत्र धूम इति । न तु धूमा
दिति । न च तथाविधं प्रत्यपि प्रतिज्ञा प्रयोज्या अन्यथा क एनामसाधनाङ्गं ब्रूयात् ।
साधनाङ्गत्वे च शतमुखी बाधा वादन्यायस्यापद्येत ।
ईदृशस्तु प्रयोगः करणीयः--यत्र धूमस्तत्र सर्वत्र वह्निर्यथा महानसे, धूमश्चात्रेति ।
स्वभावानुपलब्ध्योरिव कार्यहेतोरपि कस्माल्लक्षणमाचार्येण न प्रणीतमित्याशङ्कामपाकुर्वन्नाह—
कार्येति । लोके व्यवहर्त्तरि जने । प्रतीतः प्रसिद्धः । इतिर्हेतौ । नोक्तमाचार्येणेति शेषः ।
अयमभिप्रायः--अनुपलब्धौ खलु बहवो विप्रतिपन्नाः । उपलब्ध्यभावमात्रमनुपलब्धि
मीश्वरसेनो मन्यते । कुमारिलस्तु वस्त्वन्तरस्यैकज्ञानसंसर्गितामनपेक्ष्यैवान्यमात्रस्य ज्ञानमनुप
लब्धिमभावप्रमाणतया वर्णयति । तथा, विवक्षितज्ञानानाधारतालक्षणमात्मनोऽपरिणामं स्वापादि
साधारणम44b पि तथात्वेन वर्णयति । यदाह--सात्मनोऽपरिणामो वा विज्ञानं
वाऽन्यवस्तुनि श्लोकवा० अभाव० ११ इति ।
तथा स्वभावेऽपि हेतौ बहवो विप्रतिपेदिरे । केचिदर्थान्तरापेक्षिण्यपि धर्मे स्वभावं
हेतुमध्यवसिताः । केचित्तु वस्तुनो धर्मविशेषमाश्रितं स्वभावमिति ।
तद्विप्रतिपत्तिनिराकरणार्थं तयोर्लक्षणमाख्यातम् । अत्र तु कार्यत्वरूपे न केचिद्
विप्रतिपद्यन्त इति नास्य लक्षणमुक्तमिति । कार्यकारणभावेन गम्यगमकभावे सर्वथा
गम्यगमकभावप्रसङ्ग इत्यादिकायां विप्रतिपत्तावपि न कार्यस्य लक्षणे विप्रतिपत्ति ।
किन्तर्हि ? तस्य गमकत्वे । सा चान्यत्र निराकृताऽत्रापि प्राज्ञैः स्वयमभ्यूह्या प्राज्ञजना
धिकारेणास्य प्रारम्भादिति ॥
सम्प्रति त्रिरूपाणि च त्रीण्येवेत्यसहमानः प्राह--नन्विति । ननु प्रश्नः । अथशब्दो
यदिशब्दस्यार्थे । प्रकारस्य स्वरूपस्य भेदाद् विशेषात् भेदो नानात्वम् । एवमभ्युपगमे सति ।
एकस्येत्यभिन्नस्य । अभिन्नत्वञ्चास्वभावहेतुत्वव्यावृत्तेः सर्वत्र भावात् ।
109
तदयमर्थः--हेतुः साध्यसिद्ध्यर्थत्वात् साध्याङ्गम्, साध्यं प्रधानम् । अतश्च साध्योप
करणस्य हेतोः प्रधानसाध्यभेदाद्भेदः न 530स्वरूपभेदात् । साध्यश्च कश्चिद्विधिः, कश्चित्
प्रतिषेधः । विधिप्रतिषेधयोश्च 531परस्परपरिहारेणावस्थानात् तयोर्हेतू भिन्नौ । विधिरपि
कश्चिद्धेतोर्भिन्नः, कश्चिदभिन्न । भेदाभेदयोरप्यन्योन्यत्यागेनात्मस्थितेर्भिन्नौ हेतू । ततः
साध्यस्य परस्परविरोधात् हेतवो532 भिन्नाः, न तु स्वत एवेति ॥
कस्मात् पुनस्त्रयाणां हेतुत्वम्, कस्माच्चान्येषामहेतुत्वमित्याशङ्क्य यथा त्रयाणामेव
हेतुत्वमन्येषां चाहेतुत्वं तदुभ्यं दर्शयितुमाह--
स्वभावप्रतिबन्धे हि सत्यर्थोऽर्थं गमयेत् ॥ १९ ॥
अनन्तप्रकारत्वादिति ब्रुवतोऽयं भावः--सविशेषणनिर्विशेषणव्यतिरिक्ताव्यतिरिक्त
विशेषणत्वादिभेदेनानन्तस्वभावत्वादिति । गमकाविति विवृण्वन् साधयत इति साधनाविति
कर्त्तरि ल्युटं दर्शयति । अत्र च वस्तुनः साधनावेवेत्यवधारणीयं न तु वस्तुन एवेति । इतर
व्यवच्छेदस्यापि ताभ्यां साधनात् । प्रतिपत्त्रध्यवसायानुरोधात्तु विधिसाधनत्वमनयोरुच्यते ।
प्रतिषेधस्य हेतुरेवेत्यवधारणीयम्, न त्वयमेवेति, पूर्वाभ्यामपि सामर्थ्यात्प्रतिषेधस्य साधनात् ।
ननु न दृश्यानुपलम्भेनाभावः साध्यते, तस्य प्रत्यक्षसिद्धत्वात् । किन्तु व्यवहारः ।
तत्कथं प्रतिषेधोऽनुपलम्भसाध्यः ? अथाभावव्यवहारः प्रतिषेध उच्यते । तर्हि व्यापकानुप
लम्भादिना व्याप्याद्यभावे साध्ये केनाभावः साधितः ? ततः किमत्र प्रतिषेधशब्देन
प्रतिपत्तव्यमित्याशङ्क्याह--प्रतिषेध इति । इतिः प्रतिषेधशब्दं प्रत्यवमृशति ।
तेन प्रतिषेध इत्यनेन शब्देनाभावोऽभावव्यवहारश्चोक्तो द्रष्टव्य इत्यर्थः । एकस्य प्रतिषेधेन
इति मुख्यया वृत्त्या सङ्ग्रहोऽन्यस्य प्रतिषेधाश्रयतया गौण्या वृत्त्येति भावः । नास्तीति ज्ञानं
नास्तीत्यभिधानं निःशङ्काऽत्र गमनागमनलक्षणा प्रवृत्तिर्व्यवहारः । स च हठात्प्रवर्त्तयितुं न
शक्यत इति तद्योग्यतैव साध्येति द्रष्टव्यम् । एवं तु स्वभावहेतावन्तर्भावेऽप्यनुपलम्भस्य
ततः पृथक्करणं प्रतिपत्त्रध्यवसायवशादित्यवसेयम् ।
ननु विधिप्रतिषेधसाधनत्वेऽप्यमीषां त्रिरूपत्वमविशिष्टम् । तत्त्वादेव चाभेदश्चोदितः ।
तत्कथमिदमुत्तरं पूर्वपक्षमतिवर्त्ततामित्याशङ्क्याह--तदयमिति । यस्मादिदमुत्तरीकृतमाचार्येण
यथाश्रुति च पूर्वपक्षं नातिक्रामति तत्तस्मादयमर्थो वाक्यस्यायं तात्पर्यार्थ इत्यर्थः । एतमेवार्थं
हेतुरित्यादिना न तु स्वत एवेत्यन्तेन ग्रन्थेन प्रतिपादयति ॥
अथ कथमन्योऽर्थोऽन्यमर्थं न व्यभिचरति येनैते त्रयो हेतवः ? य45a था चामीषां
स्वसाध्यसाधनाद् गमकत्वं तथाऽन्येषामप्यकार्यस्वभावानुपलम्भात्मनां किं न भवतीति मन्वानः
प्रश्नेनोपक्रमते--कस्मादिति । कस्मादिति सामान्यतो हेतुं पृच्छति पुनरिति विशेषतः ।
त्रयाणामनुपलब्ध्यादीनाम् । चः पूर्वनिमित्तापेक्षया निमित्तान्तरसमुच्चयार्थः । अन्येषा
मनीदृशात्मनां संयोग्यादीनाम् ।
110
स्वभावप्रतिबन्ध इति । स्वभावेन प्रतिबन्धः 533स्वभावप्रतिबन्धः । साधनं कृता व्या०
महा० २. १. ३३ इति समासः । स्वभावप्रतिबद्धत्वं प्रतिबद्धस्वभावत्वमित्यर्थः । कारणे
534स्वभावे च साध्ये स्वभावेन प्रतिबन्धः कार्यस्वभावयोरविशिष्ट इत्येकेन समासेन द्वयोरपि
संग्रहः । हिर्यस्मादर्थे । यस्मात् स्वभावप्रतिबन्धे सति साधनार्थः साध्यार्थ गमयेत्, तस्मात्
त्रयाणां गमकत्वम्, अन्येषामगमकत्वम् ॥
कस्मात् पुनः स्वभावप्रतिबन्ध एव सति गम्यगमकभावो नान्यथेत्याह--
तदप्रतिबद्धस्य तदव्यभिचारनियमाभावात् ॥ २० ॥
तदप्रतिबद्धस्येति । तद् इति स्वभाव उक्तः । तेन स्वभावेन अप्रतिबद्धः--तदप्रति
बद्धः । यो यत्र स्वभावेन न प्रतिबद्धः तस्य535 536तदप्रतिबद्धस्य तदव्यभिचारनियमाभावात्537 ।
538तस्याप्रतिबन्धविषयस्याव्यभिचारः तदव्यभिचारः, तस्य नियमः तदव्यभिचारनियमः,
तस्याभावात् ।
539तदयमर्थः--न हि यो यत्र स्वभावेन540 न प्रतिबद्धः, स 541तमप्रतिबन्धविषयमवश्यमेव
न व्यभिचरतीति नास्ति तयोरव्यभिचारनियमः--अविनाभावनियमः । अव्यभिचार-
स्वभावेन स्वरूपेण । साधनं कृता व्या० महा० २. १. ३३इति पाणिनीयभाष्यकारस्येदं
सूत्रम् । तेन कर्त्तृकरणे कृता बहुलम् पाणिनि २. १. ३२ इति सूत्रमपनीय गलेचोपक
इत्यादिसिद्ध्यर्थ साधनं कृता इति सूत्रं कृतम् । वार्त्तिकसूत्रिकाणां तु तृतीया पाणिनि
२. १. ३० इति योगविभागात्समासोऽवसेयः । अनेन च तृतीयासमासेनैव कार्यस्वभावयोः
संग्रहादावृत्त्या षष्ठीसप्तमीसमासाभ्यां कार्यस्वभावयोः संग्रह इति यत्पूर्वैर्व्याख्यातं तदप
व्याख्यानमिति ख्यापितम् ।
समस्तस्य पदस्यार्थमाह--स्वभावेति । अनेन प्रतिबन्धशब्देन प्रतिबद्धत्वमायत्तत्व
मुच्यत इति दर्शयति । अस्यैवार्थं स्पष्टयति । प्रतिबद्धेति । यः स्वरूपेण क्वचिदायत्तस्तस्य
स्वभावस्तत्र प्रतिबद्ध आयत्त इत्यर्थाभेदेन प्रतिबद्धस्वभावत्वमित्यर्थ इति स्पष्टीकृतम् ।
ननु पूर्वेषामभिमतसमासव्युदासेन तृतीयासमासं दर्शयता किंस्विदति यो लब्धः ?
केवलमाहोपुरुषिका प्रकाशितेत्याशङ्क्य पूर्वं बुद्धिस्थमेव स्फुटयितुमाह--कारण इति । कस्यासौ
111
नियमाच्च गम्यगमकभावः । न हि योग्यतया प्रदीपवत् परोक्षार्थप्रतिपत्तिनिमित्तमिष्टं
लिङ्गम् अपि त्वव्यभिचारित्वेन निश्चितम् । ततः स्वभावप्रतिबन्धे 542सत्यविनाभावित्व
निश्चयः, ततो गम्यगमकभावः । तस्मात् स्वभावप्रतिबन्धे सत्यर्थोऽर्थं गमयेन्नान्यथेति स्थितम् ॥
ननु च परायत्तस्य प्रतिबन्धोऽपरायत्ते । तदिह साध्यसाधनयोः कस्य क्व
प्रतिबन्ध इत्याह--
स च प्रतिबन्धः साध्येऽर्थे लिङ्गस्य ॥ २१ ॥
प्रतिबन्ध इत्य काङ्क्षायामाह--कार्यस्वभावयोस्तयोरेव प्रकृतत्वात् । अविशिष्टः साधारणः ।
द्वयोरपि कार्यस्वभावयोरतिशये सङ्ग्रहः स्वीकारः । अयमेवातिशय इति भावः । साधन
लक्षणोऽर्थः साध्यलक्षणमर्थं गमयेत् बोधयितुं शवनोति । यत एवं तस्माद् अन्येषां तद्व्यति
रिक्तानाम् । तेषां स्वभावप्रतिबन्धाभावात् । तदभावश्च तेषां तादात्म्यतदुत्पत्त्यभावात् ।
तदन्यस्य च सम्बन्धस्याभावात् । तादात्म्यतदुत्पत्तिभावे च कार्यस्वभावयोरेवान्तर्भाव
इति भावः ॥
तदित्यादिना समासं प्रदर्श्य तदप्रतिबद्धस्येति योजयता धर्मोत्तरेण मूले तदप्रतिबद्ध
स्येति पाठो दर्शितः । दृश्यते च बहुशस्तदप्रतिबद्धस्वभावस्येति पाठः । तत्रापि पाठे तदप्रतिबद्धः
साध्याप्रतिबद्धः स्वभावः स्वरूपं यस्य लिङ्गस्येति विग्रहः कार्यः । प्रतिबन्धः प्रतिबद्धत्वमा
यत्तत्वं यत्साधनस्य, तस्य विषयोऽव्यभिचारस्तेन विनाऽभवितृत्वम् । तस्य नियमोऽवस्य543न्ता ।
ननु तदप्रतिबद्धत्वेऽपि अद्यतन आदित्योदयोऽस्तमयमप्रतिबन्धविषयं न व्यभिचरतीत्या
शङ्क्याह--तदयमर्थ इति । यत एवमुक्तम् तत्तस्मादयं तात्पर्यार्थः । आदित्योदयोऽपि हि
भविष्यति । न च तदहरस्तमयः, महर्षिणाऽन्येन वा महर्धिना केनचित्तस्यास्तमयविबन्ध
सम्भवात् । तस्मादादित्यस्य तस्मादस्तमययोःयतैव साध्या--अयमादित्योदयोऽस्तमययोग्य
उदयत्वात् । श्वस्तनोदयवदिति । सति चैवं स्वभावहेतुत्वमस्यायातमिति भावः ।
ननु चाव्यभिचारमात्रेण प्रयोजनम्, तत्किं नियमेनेत्याह--अव्यभिचारेति । चोऽव
धारणे हेतौ वा । एतदेव कुत इत्याह--न हीति । 45b हिर्यस्मात् । प्रदीपो वैधर्म्य
दृष्टान्तः । अपि तु किन्त्वव्यभिचारित्वेन साध्यस्य प्रकृतत्वात् साध्याविनाभावित्वेन
निश्चितम् । नियमाभावे च कुतोऽव्यभिचारनिश्चय इत्यस्य तात्पर्यार्थः । निश्चीयतां
तदव्यभिचारोऽन्येषामपि, प्रतिबन्धस्तु कस्मान्मृग्यत इत्याह--तत इति । यतोऽवश्यमव्य
भिचारो निश्चेतव्यस्ततस्तस्मात् । अन्यथाऽव्यभिचार एव न शक्यते निश्चेतुमित्यर्थादनेन
दर्शितम् । एतावताऽपि कथं गमकत्वमित्याह--तत इति । ततो निश्चितादव्यभिचारा
ल्लिङ्गस्य गमकत्वे मिद्धे साध्यस्यापि गमक544त्वं सिद्ध्यतीति द्वयोरुपयासः । उक्त
मर्थमुपसंहरन्नाह--तस्मादिति । अर्थो लिङ्गलक्षणः, अर्थं लिङ्गिलक्षणम् ॥
तत्तस्मादिहानुमानानुमेयचिन्तायां स्वभावप्रतिबन्धचिन्तायां वा ।
112
स चेति । स च स्वभावप्रतिबन्धो लिङ्गस्य साध्येऽर्थे । लिङ्गं परायत्तत्वात्
प्रतिबद्धम् । साध्यस्त्वर्थोऽपरायत्तत्वात् प्रतिबन्धवियो न 545तु प्रतिबद्ध इत्यर्थः । तत्राय
मर्थः--तादात्म्याविशेषेऽपि यत् प्रतिबद्धं546 तद् गमकम् । यत् प्रतिबन्धविषयः तद् गम्यम् ।
यस्य च धर्मस्य 547यो नियतः स्वभावः स तत्प्रतिबद्धः । यथा प्रयत्नानन्तरीयकत्वाख्योऽनित्यत्वे ।
यस्य तु स चान्यश्च स्वभावः च प्रतिबन्धविषयः, न तु प्रतिबद्धः । यथाऽनित्यत्वाख्यः
प्रयत्नानन्तरीयकत्वाख्ये । निश्चयापेक्षो हि गम्यगमकभावः । प्रयत्नान्तरीयकत्वमेव
चानित्यत्वस्वभावं निश्चितम् । अतस्तदेव अनित्यत्वे प्रतिबद्धम् । तस्मान्नियतविषय एव
गम्यगमकभावः नान्यथेति ।
ननु भिन्नयोर्गम्यगमकभावे लिङ्गं तदुत्पत्त्या परायत्तत्वात्प्रतिबद्धम् । साध्यस्त्वपरायत्त
त्वात्प्रतिबन्धविषयः । तदाश्रयश्च साध्यसाधनभावनियमः स्यात् । स्वभावयोस्तु
तद्भावे हेतोस्तादात्म्यप्रतिबद्धत्वम् । तादात्म्यं चोभयोरविशिष्टम् । ततः प्रतिवद्धत्वं प्रतिबन्ध
विषयत्वं वा द्वयोरविशिष्टमायाति । तदाश्रयश्च नियतः साध्यसाधनभावः प्रसक्त इत्याह—
तत्रायमर्थ इति । न केवलमर्थान्तरत्व इत्यपिशब्दः । यत्प्रतिबद्धमिति यत्साध्यप्रतिबद्धतया
तदायत्ततया निश्चितमिति द्रष्टव्यम् । प्रतिबन्धविषयोऽपि तत्त्वेन निश्चितो द्रष्टव्यः ।
ननु तादात्म्याविशेषादेकस्तत्र प्रतिबन्धविषयतया न तु प्रतिबद्धतयेत्ययमेव विभागः कुत
इत्याह--यस्येति । यद्वा तादात्म्यानुभाविनि द्वये किन्तत्र प्रतिबद्धं यद् गमकं किञ्च प्रति
बन्धविषयो यद् गम्यमित्यजानन्तं प्रत्याह--यस्येति । चो हेतौ द्वितीयपक्षेऽवधारणे । यस्य
धर्मस्य व्यावृत्तिकल्पितस्य यो नियतः प्रतिनियतः स एव स्वभावो न तदन्योऽपि । स इति
यस्येति षष्ठ्यन्तेनोक्तः परामृष्टः । तदिति य इति प्रथमान्तेनोक्तः प्रत्यवमृष्टस्तस्मिन् प्रतिबद्ध
इति विग्रहः । निश्चीयत इति शेषः । प्रकरणलभ्यं वा । कः पुनरीदृश इत्याह--यथेति ।
प्रयत्नः पुरुषव्यापारस्तस्यानन्तरमव्यवधानम् । तत्र भव इति दिगादित्वाद् यत् । ततः
स्वार्थे कन् । तस्य भावस्तत्त्वम् । तदाख्या नाम यस्य स तथा । प्रयत्नानन्तर्यकत्वस्य
ह्यनित्यत्वमेव स्वभावो न तु नित्यत्वमपि । ततोऽनित्यत्वे प्रतिबद्धं निश्चीयते ।
ईदृशस्य तावदियं गतिरन्यस्य तु का वार्त्तेत्याह--यस्येति । धर्मस्येत्यनुवृत्तेर्यस्येति
धर्मस्य । तुर्विशिष्टं धर्मं दर्शयति । स च सोऽपि प्रयत्नानन्तर्याख्योऽन्यश्चासश्च548
प्रयत्नानन्तरीयको वनकुसुमादिरपि । स प्रतिबन्धस्य साधनगतप्रतिबद्धत्वस्य विषयो गोचरः ।
एतदेव व्यतिरेकमुखेण द्रढयति--न त्विति । पुनरर्थे तुशब्दः । कोऽसावीदृश इत्याह--यथेति ।
अनित्यत्वाख्यः प्रयत्नानन्तर्यत्वाख्येन प्रतिबद्ध इति योज्यम् । एवञ्चार्थात्प्रतिबन्धविषये
चेत्यव46a तिष्ठते । एतच्चानित्यत्वस्य तदसत्स्वभावत्वेनानियतस्वभात्वमनित्यत्वसामान्या
भिप्रायेणोक्तम् । अन्यथा घटादिगतानित्यत्वस्य प्रयत्नानन्तरीयकत्वमन्तरेण कुतोऽवस्थानम् ।
येनान्यस्वभावतयाऽस्यानियतत्वं स्यादिति ।
113
कस्मात् पुनः स्वभावप्रतिबन्धो 549लिङ्गस्येत्याह--
वस्तुत इत्यादि । स साध्योऽर्थ552 आत्मा स्वभावो यस्य तत् तदात्मा553 । तस्य
भावस्तादात्म्यम्554 । तस्माद्धेतोः । यतः साध्यस्वभावं साधनं तस्मात्555 तत्र स्वभावप्रतिबन्ध556
इत्यर्थः ।
यदि साध्यस्वभावं साधनं साध्यसाधनयोरभेदात् प्रतिज्ञार्थैकदेशो हेतुः स्यादित्या
वस्तुत इति । परमार्थसता रूपेणाऽभेदस्तयोः । विकल्पविषयस्तु यत् समारोपितं रूपम् ।
तदपेक्षः साध्यसाधनभेदः । 557निश्चयापेक्ष558 एव हि गम्यगमकभावः । ततो निश्चयारूढ
रूपापेक्ष एव तयोर्भेदो युक्तः वास्तवस्त्वभेद इति । न केवलात् 559तादात्म्यादपि तु ततः
साध्यादर्थाद् उत्पत्तिर्लिङ्गस्य--तदुत्पत्तेश्च साध्येऽर्थे स्वभावप्रतिबन्धो लिङ्गस्य ॥
स्यादेतत्तादात्म्यं तावत्तयोरस्ति । तत्किं प्रतिबद्धत्वप्रतिबन्धविषयत्वनिश्चयेन गम्य
गमकत्वव्यवस्थानिबन्धनीकृतेनेत्याह--निश्चयेति । हीति यस्मात् । तदपेक्षायामपि किमिति
प्रयत्नानन्तरीयकत्वमेव गमकमित्याह--प्रयत्नेति । चो यस्मादर्थे । यतस्तत्स्वभावं निश्चितम्
अतोऽस्मात्तदेवानित्यत्वे प्रतिबद्धमुच्यत इति शेषः । यतस्तादात्म्याविशेषेऽपि यत्प्रतिबद्धतया
निश्चितं तदेव गमकमितरद् गम्यं तस्मान्नियतः प्रतिनियतः प्रयत्नान्तरीयकमेव गमकम्,
अनित्यत्व च गम्यमेवेत्येवंरूपो विषयो यस्य गम्यगमकभावस्य स तथा । एतदेव व्यतिरेकमुखेण
द्रढयति नान्यथेति ॥
ननु च य एकस्यान्यत्र प्रतिबन्धस्तदायत्तत्वं स तावन्नाहेतुकः । कश्चासौ हेतुरित्यभि
प्रेत्य प्रश्नयति--कस्मादिति । निमित्तप्रश्नश्चैषः । तादात्म्यादिति मौलमुत्तर व्याख्यातु
माह--यत इति । तत्र साध्ये स्वभावेन प्रतिबन्धः प्रतिबद्धत्वं लिङ्गस्येति शेषः ।
प्रतिज्ञा साध्यनिर्देशः । तस्या अर्थो धर्मधर्मिसमुदायः । अत्र च साध्यसाधनयोरैका कस्मान्निमित्तद्वयात् स्वभावप्रतिबन्धो लिङ्गस्य नान्यस्मादित्याह-- अतत्स्वभावस्यातदुत्पत्तेश्च तत्राप्रतिबद्धस्वभावत्वात् ॥ २३ ॥ अतत्स्वभावस्येति । स स्वभावोऽस्य560 सोऽयं तत्स्वभावः । न तत्स्वभावोऽतत्स्वभावः ।
त्म्यस्य प्रस्तुतत्वात्साध्यलक्षणस्य प्रतिज्ञार्थस्य हेतुत्वमासक्तम् । ततश्च साध्यधर्मवत्साधन
धर्मस्याप्यसिद्धिः । सिद्धौ वा हेतुवैयर्थ्यमिति भावः । यदि परमार्थतोऽभेदः, कथं तर्हि
भेदनिबन्धनो गम्यगमकभाव इत्याह--विकल्पेति । तुः पारमार्थिकादभेदाद् वैधर्म्यमाह ।
कोऽसौ विकल्पविषयः ? यदि बाह्यस्तदा तदवस्थो दोष इत्याह--यदिति । तमपेक्षत
114
तस्मादुत्पत्तिरस्य सोऽयं तदुत्पत्तिः । न तथाऽतदुत्पत्तिः । यो यत्स्वभावो यदुत्पत्तिश्च
न भवति तस्य अतत्स्वभावस्य, अतदुत्पत्तेश्च । तत्र 561अतत्स्वभावे अनुत्पादके चाप्रतिबद्धः
स्वभावोऽस्येति 563सोऽयमप्रतिबद्धस्वभावः । तस्य 564भावोऽप्रतिबद्धस्वभावत्वम् । तस्मादप्रतिबद्ध
स्वभावत्वात् । यद्यतत्स्वभावेऽनुत्पादके च कश्चित् प्रतिबद्धस्वभावो भवेद्, भवेदन्यतोऽपि565
निमित्तात्566 स्वभावप्रतिबन्धः । प्रतिबद्धस्वभावत्वं हि स्वभावप्रतिबन्धः । न चान्यः567
कश्चिदायत्तस्वभावः । तस्मात् तादात्म्यतदुत्पत्तिभ्यामेव स्वभावप्रतिबन्धः ॥
इति तदपेक्षः । इदं साधनमिदं साध्यमिति साध्यसाधनरूपो भेदो नानात्वमित्यर्थः । यदि
नाम कल्पनानिर्मितो भेदस्तथापि कथं गम्यगमकभाव इत्याह--निश्चयेति । हिर्यस्मात् ।
निश्चयापेक्ष इति निश्चयविषयीकृतरूपापेक्ष इत्यर्थः । यत एवं ततस्तस्मात्तयोः साध्यसाधनयो
र्भेदो नानात्वं युक्त्या सङ्गतो युक्तः । वस्तुनोऽकृत्रिमाद् रूपादागतो वास्तवः ।
स्यान्मतम्--भेदेन कल्पितयोर्न तादात्म्यं गम्यगमकभावनिबन्धनमस्ति । वास्तवेन
च रूपेणैकत्वान्न गम्यगमकभाव इति कथं स्वभावहेतोर्गमकत्वम् ? नाहेतुत्वम् । यद्दर्शनद्वारा
यातावेतौ धर्मौ तथाप्रतीयमानौ तत् तावत्परमार्थतस्तदात्मकमित्येकस्य धर्मान्तरा
व्यभिचारः । वास्तवं तादात्म्यगतं च यस्य गमकत्वं स स्वभावहेतुरुच्यत इति को विरोधः ?
अयं प्रकरणार्थः--न निश्चयस्थे समारोपिते रूपे समारोपितत्वेनाध्यवसीयमाने गम्य
गमके किन्तु स्वलक्षणत्वेनाध्यवसीयमाने । तत्र तादात्म्यमस्ति । एतदुक्तं भवति--आरोप्यमाणं
रूपमारोपितभेद46b म् । आरोपितसदृशं च स्वलक्षणम् । तेनारोपितेन रूपेणानुगम्यमानं
भिन्नमघ्यवसीयते । तदवध्यवसितभेदनिबन्धनो गम्यगमकभावस्तस्य स्वतश्च तादात्म्यमिति ।
द्वितीयं प्रतिबन्धकारणं व्याख्यातुमाह--न केवलादिति । चः साधारणं निमित्तं
समुच्चिनोति ॥
ननु च समवायादितोऽपि निमित्तात्प्रतिबन्धो नासम्भवी । तत्कथं तादात्म्यात्तदुत्पत्तेरेव
च स उच्यते इत्यभिप्रायवान् पृच्छति--कस्मादिति । अन्यनिमित्तस्यानभिधानान्निमित्त
द्वयादित्याह ।
अतत्स्वभावस्येत्यादि ब्रुवतश्चाचार्यस्यायमाशयः--भवेदेवान्यतः सम्बन्धात्प्रतिबन्धो
115
यदि समवायादिरन्यः सम्बन्धः प्रमाणबाधितो न भवेत् । न चासौ न बाध्यते । तत्कुतो
ऽसावसन्नस्य निमित्तं भवेदिति ।
समुदायार्थं व्याचष्टे--यो यत्स्वभाव इति । अप्रतिबद्धस्वभावत्वादिति मूलस्य भाव
प्रत्ययं त्यक्त्वा विग्रहमाह--अप्रतिबद्ध इति । तस्य भावस्तत्त्वम् । तस्मादिति तु योज्यम् ।
अमुमेवार्थं यदीत्यादिना स्फुटयति । कस्मात्पुनरन्यतो निमित्तान्न भवतीत्याह--प्रतिबद्धेति ।
हिर्यस्मात् । प्रतिबद्धस्वभावत्वमेवान्यस्यान्यत्र भविष्यतीत्याह--न चेति । चोऽवधारणे हेतौ
वा । अन्यस्य सम्बन्धस्याभावात्तादात्म्यतदुत्पत्त्यभावे चेति प्रकरणलभ्यं कृत्वा न चान्यः
कश्चिदायत्तस्वभाव इत्युक्तम् ।
ननु चासत्यपि तादात्म्ये तदुत्पत्तौ चान्यत्रास्वभावेऽनुत्पादके चान्यत्प्रतिबद्धं यथा—
आतपो वृक्षच्छायायाम् । तुलाया अर्वाग्भागनमनावनमने परभागोन्नमनावनमनयोः । अर्वाग्भागः
परभागे । रसो रूपे । पाणिः पादयोः । अपतज्जलमाधारे । बलाका सलिले । नदीपूर
उपरिवृत्तायां वृष्टौ । चन्द्रोदयः समुद्रवृद्धौ कुमुदविकासे च । कृत्तिकोदयो रोहिण्युदये ।
पिपिलिकोत्सरणं मत्स्यविकारश्च वृष्टौ । शरदि जलप्रसादोऽगस्त्योदये । विशिष्टो मेघो
दयो वर्षकर्मणि । अद्यादित्योदयोऽस्तमये श्वस्तनोदये च । कुष्माण्डगुडकोऽन्तःस्थितबीजे ।
परिव्राजको दण्डे । सन्त्रस्तो नकुलः सर्पे । कियद् वा शक्यते निदर्शयितुम् ? एतावत्तूच्यते—
यद् येनाविनाभूतं दृश्यते तत्तत्र प्रतिबद्धम् । तस्य च लिङ्गम् । अत एव त्रीण्येव लिङ्गानीति
संख्यानियमोऽप्ययुक्तः । केवलं लिङ्गस्य रूपाण्येव वक्तव्यानि । यद्दर्शनात् हेतुत्वमवसीयत इति ।
नैष दोषः । अमीषां मध्ये येषां प्रतिबन्धोऽस्ति तेषां तादात्म्यतदुत्पत्त्योरन्यतर भवतु नाम तादात्म्यतदुत्पत्तिभ्यामेव स्वभावप्रतिबन्धः । कार्यस्वभावयोरेव तु ते च तादात्म्यतदुत्पत्ती स्वभावकार्ययोरेवेति ताभ्यामेव वस्तुसिद्धिः ॥ २४ ॥ ते चेति । इतिः तस्मादर्थे । यस्मात् स्वभावे कार्ये एव च तादात्म्यतदुत्पत्ती स्थिते, अथ प्रतिषेधसिद्धिरदृश्यानुपलम्भादपि कस्मान्नेष्टेत्याह-- प्रतिषेधसिद्धिरपि570 यथोक्ताया एवानुपलब्धेः ॥ २५ ॥ प्रतिषेधव्यवहारस्य सिद्धिर्यथोक्ता या दृश्यानुपलब्धिस्तत एव भवति यतस्तस्मा ततस्तावत् कस्माद्भवतीत्याह-- सति वस्तुनि तस्या572 असम्भवात् ॥ २६ ॥ सति तस्मिन् प्रतिषेध्ये वस्तुनि, यस्माद् दृश्यानुपलब्धिर्न सम्भवति तस्माद्--असम्भवात्
सम्भवाद्, येषु च तदभावस्तेषामप्रतिबन्धादगमकत्वात् । तथाहि वृक्षस्य छायायामेकसामग्र्य
धीनतयैव प्रतिबन्धः । ततस्तत्प्रतिपत्तिः कार्यलिङ्गजैव । छाया हि प्रतिभासमानरूपसंस्थान
वती शैत्याद्यर्थक्रियाकारिणी वस्त्वेव, न त्वेवालोकाभावः । सा च पूर्वस्मादालोकोपादानात्
पूर्ववृक्षक्षणाद् वृक्षक्षणेन सार्धमुत्पद्यते । तथाऽर्वाग्भागनमनावनमने अपि तुलायाः परभागो
न्नमनावनमनाभ्यामेव समं पुरुषप्रयत्नादेव तथाविधात्तदुपादानसह47a कारिण उत्पद्येते ।
तथाऽर्वाग्भागपरभागयोरसरूपयोरप्येकसामग्र्यधीनतैव । पाणिस्त्वप्रतिबद्ध एव, व्यङ्गस्यापि
सम्भवात् । अव्यभिचारे चैकसंसर्गाधीनतैव निबन्धनम् । तादृशं च जलमाधारस्य कार्यमेव,
तादृशी च बलाका सलिलस्य । नदीपूरोऽपि तथाविध उपरिवृष्टेः । दृश्यादृश्यसमुदायश्च
यथायोगं सर्वत्र धर्मी कर्त्तव्यः । नदीपूरे चान्योऽपि प्रकारो वक्तुं शक्यः । नदी
धर्मिणी । उपरिवृष्टिमद्देशसबन्धित्वमस्याः साध्यम् । तथाविधपूरत्वमात्रं हेतुः । एवं चन्द्रो
दयसमुद्रवृद्धिकुमुदविकाशा568नामप्येकसामग्र्यधीनतैव । एकस्मादेव महाभूतविशेषात्
कालव्यवहारविषयादेतदुत्पादापेक्षिणस्तेषामुत्पादात् । तथा य एव कृत्तिकोदयहेतु
र्महाभूतविशेषः कालसंज्ञितः स एव कतिपयकालव्यवधानेन रोहिण्युदयहेतुरिति तद्दर्शनाद्
हेतोस्तज्जननयोग्यताधर्मोऽनुमीयते एव । तथा पिपीलिकोत्सरणस्य मत्स्यविकारस्य च
यो हेतुः स एव कतिपयकालव्यवधानेन वर्षकरणयोग्यस्ततः पूर्ववद् हेतुधर्मानुमानम्, रूपरसयो
रिवैकसामग्र्यधीनतयैव वा तत्समकालिकवर्षणानुमानम् । तदा त्वश्रवणीयबहिःस्थितशब्दगर्भ
गृहादिव्यवस्थितोऽनुमाता प्रत्येतव्यः । तथा शरदादिजलप्रसादोऽगस्त्योदयस्य कार्यमेव । अथ
जलप्रसादं दृष्ट्वोदेष्यतीत्यनुमीयते, तदा तस्मादेव महाभूतात्कालसंज्ञिताज्जलप्रसादः । स 116
गमकत्वं कथमित्याह--
तन्निबन्धनश्च गम्यगमकभावस्तस्मात् ताभ्यामेव कार्यस्वभावाभ्यां वस्तुनो विधेः569 सिद्धिः ॥
दन्यतो571 नोक्ता ॥
ततः प्रतिषेधसिद्धिः ॥
च कतिपयकालव्यवधानेन तदुदयनिमित्तमिति पूर्ववद् हेतुधर्मानुमानम् । मेघस्यापि तथाविध
स्यात्यन्तायोग्यताव्यावृत्त्या वृष्टिकरणयोग्यताऽनुमेया । न तु भाविवर्षं व्यभिचारसम्भवात् ।
सा च स्वभावभूतैवानुमीयत इति तादात्म्यमेव निबन्धनम् । आदित्योदयस्य तु प्रभावातिशय
वता योग्यादिना विबन्धसम्भवात् नास्त्येवाविनाभावः । अन्यथाद्य गर्दभदर्शनस्याप्यस्तमयश्व
स्तनोदययोस्तथात्वं स्यात् । एवं तु युक्तम्--अयमुदेता अस्तमयश्वस्तनोदययोग्य इति । तथा
चोदयतथाविधयोग्यतयोस्तादात्म्यमेव निबन्धनम् । कुष्माण्डस्यापि बीजेनैकसामग्र्यधीनतैव ।
परिव्राजकनकुलौ दण्डसर्पयोरप्रतिबद्धावेव । अन्यथापि सम्भवात् । कियद् वा शक्यते परि
हर्त्तुम् ? एतावदुच्यते--असति तादात्म्ये तदुत्पत्तौ वा कस्यचित्क्वचित्प्रतिबन्धे ताद्रूप्येण च
गमकत्वे सर्वं सर्वत्र प्रतिबद्धं तद्गमकं प्रसज्येतेति ॥
कार्यस्वभावयोरेव तु गमकत्वं कथमिति ब्रुवतः पूर्वपक्षवादिनोऽयमाशयः--तादात्म्य
तदुपत्ती एवान्यस्य भविष्यतः, ततश्च गमकत्वमिति । कार्यस्वभावयोरिति द्वयोरुच्चारणे
चायं तस्य भावः--भवद्भिरेवानुपलम्भोऽनयोरन्तर्भावित इति ॥
573... ... ...नुपलब्धिरित्युक्ते कुतोस्य पूर्वपक्षस्योत्थानम् ? अथ तत एव कस्मादित्याह-- अन्यथा चानुपलब्धिलक्षणप्राप्तेषु देशकालस्वभाववि575प्रकृष्टेष्वर्थेष्वात्मप्रत्यक्ष अन्यथा चेति । सति वस्तुनि तस्या अदृश्यानुपलब्धेः सम्भवादित्यन्यथाशब्दार्थः । कुत एतत्--सत्यपि वस्तुनि तस्याः सम्भव इत्याह--अनुपलब्धिलक्षणप्राप्तेष्वित्यादि । तदिहानुपलब्धिलक्षणप्राप्तेष्विति प्रत्ययान्तरवैकल्यवन्त उक्ताः । देशकालस्वभाव कस्मान्निश्चयाभाव इत्याह--तेषु प्रतिपत्तुरात्मनो यत् प्रत्यक्षं तस्य निवृत्तेः कारणात्
सत्यमेतत्, केवलं तदेवा574... ... ...मित्यस्या अप्यनुपल47b ब्धेः
117
निवृत्तेरभावनिश्चयाभावात् ॥ २७ ॥
एतस्मात् कारणात् नान्यस्या576 अनुपलब्धेः प्रतिषेधसिद्धिः ।
इह प्रत्ययान्तरसाकल्यात् स्वभावविशेषाच्चोपलब्धिलक्षणप्राप्तोऽर्थ577 उक्तः । 578द्वयोरेकैक
स्याप्यभावेऽनुपलब्धिलक्षणप्राप्तोऽर्थ579 उच्यते ।
विप्रकृष्टेष्विति 580स्वभावविशेषरहिता उक्ताः । देशश्च कालश्च स्वभावश्च तैर्विप्रकृष्टा
इति विग्रहः । तेष्वभावनिश्चयस्याभावात् । सत्यपि वस्तुनि 581तस्या भाव इष्टः ।
निश्चयाभावः । यस्मादनुपलब्धिलक्षणप्राप्तेष्वात्मप्रत्यक्षनिवृत्तेरभावनिश्चयाभावः, तस्मात्
सत्यपि वस्तुनि आत्मप्रत्यक्षनिवृत्तिलक्षणाया अदृश्यानुपलब्धेः सम्भवः । ततो यथोक्ताया
एव प्रतिषेधसिद्धिः ॥
प्रतिषेधसम्भवादित्यभिप्रायेण पूर्वपक्षप्रवृत्तेरदोष एषः । प्रतिषेधशब्देन व्यवहारोऽभिप्रेत इति
प्रतिषेधव्यवहार इति विवृतम् । मूले त्वपिशब्दः साध्यान्तरसमुच्चये । काऽसौ यथोक्ते
त्याह--येति ।
मूलसामर्थ्यस्थितमभिव्यनवित--तस्मादन्यतोऽदृश्यानुपलब्धेर्नोवता प्रतिषेधसिद्धिरिति
प्रकृतेन सम्बन्धः ॥
यद्यदृश्यानुपलब्धेर्न भवति तदाऽनुपलब्धित्वाविशेषे विवक्षिताया अपि मा भूदित्यभि
प्रेत्याह--ततस्तावदिति । तस्मादसम्भवात् कारणातत इति तत एव दृश्यानुपलब्धेरिति
विवक्षितमितरथाऽन्यस्या अपि प्रतिषेधसिद्धिकथनप्रसङ्गात् ॥
ननु ततोऽप्यस्त्यन्यतोऽपि । कथं पुनस्तत एवेति नियमो लभ्यते इत्यभिप्रायवानाह— अथेयं दृश्यानुपलब्धिः कस्मिन् काले प्रमाणम्, किंस्वभावा, किंव्यापारा चेत्याह-- अमूढस्मृतिसंस्कारस्यातीतस्य वर्त्तमानस्य च प्रतिपत्तृप्रत्यक्षस्य 582निवृत्ति 584अमूढेत्यादि । प्रतिपत्तुः प्रत्यक्षो घटादिरर्थः, तस्य निवृत्तिरनुपलब्धिः तद्भावस्य
अथेति । अथशब्दः प्रश्ने । अन्यथा चेत्युत्तरं व्याचक्षाण इहैवच्छेदं दर्शयति चशब्दञ्च
यस्मादर्थे । दृश्यानुपलब्धेरुक्तात्प्रकाराददृश्यानुपलब्धेरन्यप्रकारत्वमन्यथात्वं विवक्षितमाचार्य
118
रभावव्यवहारप्रवर्त्तनी583 ॥ २८ ॥
भावेति यावत् । अत एवाभावो न साध्यः स्वभावानुपलब्धेः, सिद्धत्वात् । 585अविद्यमानोऽपि
586च घटादिरेकज्ञानसंसर्गिणि 587भूतले भासमाने समग्रसामग्रीको ज्ञायमानो 588दृश्तया सम्भावित
त्वात् प्रत्यक्ष उक्तः । अत एकज्ञानसंसर्गो589 दृश्यमानोऽर्थस्तज्ज्ञानं च प्रत्यक्षनिवृत्तिरुच्यते ।
ततो हि दृश्यमानादर्थात् तद्बुद्धेश्च समग्रदर्शनसामग्रीकत्वेन प्रत्यक्षतया सम्भावितस्य निवृत्ति
रवसीयते । तस्मादर्थज्ञाने एव प्रत्यक्षस्य घटस्याभाव उच्यते । न तु निवृत्तिमात्र
मिहाभावः, निवृत्तिमात्राद् दृश्यनिवृत्त्यनिश्चयात् ।
स्येति दर्शयन्नाह--सतीति । एतस्मात्सति वस्तुनि तत्सम्भवात् । मूले त्वन्यथा चानुपलब्धि
लक्षणप्राप्तेष्वित्येकवाक्यतयैवार्थः सङ्गच्छते । ना यशब्दार्थव्याख्या, नाप्युत्तरपदव्याख्याने पूर्व
पक्षवचना590प्रयासः कश्चित् । तथा तु न प्रक्रान्तं धर्मोत्तरेणेति किमत्र कुर्मः ? कुत एतदिति
सामान्येनोक्त्वा विशेषनिष्ठं करोति सत्यपीति । एतच्च विग्रह इत्यन्तं सुगमम् । तेष्वनुप
लब्धिलक्षणप्राप्तेष्वभावनिश्चयाभावात् । सत्यपि वस्तुनि तस्या अनुपलब्धेर्भाव इष्टः ।
अनेनैतदाह--नास्माकमत्र प्रमाणमस्ति यत्सत्येव वस्तुनि सा भवतीति । किन्तु तस्यां सत्यामपि
यस्मात्प्रत्ययो दोलायते तस्मादेवमुच्यत इति ।
सम्प्रति निश्चयाभावस्यावधिं पर्येषमाण आह--कस्मात्सकाशादिति । परप्रत्यक्ष
निवृत्तेरशक्यनिश्चयत्वे तन्निवृत्त्यर्थमात्मप्रत्यक्षग्रहणम् । ननु यद्ययमपादानप्रश्नो न तु हेतु
प्रश्नस्तदा कथमिदमाह--तस्य निवृत्तेः कारणान्निश्चयाभाव इति चेत् । न । अन्यार्थत्वात्
कारणशब्दस्य । निश्चयाभावस्य शाब्देन न्यायेन जायमानस्यैषा प्रकृतिः कारणम् । जनिकर्त्तुः
प्रकृतिः पाणिनि १. ४. ३०इत्यनेन लब्धापादानसंज्ञकादस्मादित्यर्थस्य विवक्षितत्वात् । अन्यथा
त्वसमञ्जसं स्यात् । यस्मादित्यादिनोवतमर्थमुपसंहरति । एतच्च प्रतिषेधसिद्धिरित्येतदन्तं
सुगमम् ॥
सम्प्रत्यनुपलब्धेरनुमानज्ञानहेतुत्वात् प्रामाण्यं स्वभावविशेषो व्यापारश्चोक्तोऽपि
कालपुरुषविशेषपरिग्रहेण वक्तुम्--अथेत्यादिना प्रश्नपूर्वमुपक्रमते । अथशब्द आरम्भे पूर्ववत् ।
119
ननु च दृश्यनिवृत्तिरवसीयते दृश्यानुपलम्भात् । सत्यमेवैतत् । केवलमेकज्ञान
संसर्गिणि दृश्यमाने घटो यदि भवेद् दृश्य एव भवेदिति दृश्यः सम्भावितः । 591ततो दृश्यानु
पलब्धिर्निश्चिता । 592दृश्यानुपलब्धिनिश्चयसामर्थ्यादेव च593 दृश्याभावो निश्चितः । 594यदि
हि दृश्यस्तत्र भवेद् दृश्यानुपलम्भो न भवेत् । अतो दृश्यानुपलम्भनिश्चयाद् दश्याभावः
सामर्थ्यादवसितः, न595 व्यवहृत इति दृश्यानुपलम्भेन व्यवहर्त्तव्यः ।
तस्मादर्थान्तरम्--एकज्ञानसंसर्गि दृश्यमानम्, तज्ज्ञानं च प्रत्यक्षनिवृत्तिनिश्चयहेतुत्वात्
प्रत्यक्षनिवृत्तिरुक्तं द्रष्टव्यम् ।
प्रत्यक्षपरिच्छेद्यत्वात् प्रत्यक्षो घटादिः । निवृत्तिशब्देनाचार्यस्यानुपलब्धिर्विवक्षितेति
दर्शयति तस्य निवृत्तिरनुपलब्धिरिति । अनुपलब्धिशब्देनापि विवक्षितकर्त्तृकर्मधर्मोपलब्धि
पर्युदासेनान्यदेकज्ञानसंसर्गि वस्तु तज्ज्ञानं च विवक्षितम् । 48a एतदेव स्पष्टयति तदभाव
स्वभावेति यावदिति । तस्य प्रतिषेध्यस्य घटादेरभावो विशिष्टो भावस्तत्स्वभावा । तदभाव
स्वभावशब्देन यावानर्थ उक्त तदनुपलब्धिशब्देनापीति इति यावदित्यस्यार्थः । यतोऽन्यो
पलब्धिरेव तदनुपलब्धिः । सैव च तदभावो नान्योऽत एवास्मादेव कारणादभावो घटादेर्न
साध्यः । कुतो न साध्य इत्याह--स्वभावानुपलब्धेर्लिङ्गात् । कुतो न साध्य इत्याह—
सिद्धत्वात् निश्चितत्वात् घटाभावस्येति प्रकरणात् ।
एवं मन्यते--तदेकज्ञानसंसर्गि वस्तु तज्ज्ञानं च घटाद्यनुपलब्धिस्तदभावश्च । तच्चेन्द्रियजेन यथा597 चैकज्ञानसंसर्गिणि प्रत्यक्षे घटस्य प्रत्यक्षत्वमारोपितम् असतोऽपि, तथा तस्मिन्नेक
प्रत्यक्षेण स्वसंवेदनेन च सिद्धमिति न लिङ्गादभावः साध्यत इति । नन्वविद्यमानो घटादिः कथं
प्रत्यक्षः ? अथ प्रत्यक्षः, कथं तदनुपलब्धिरुच्यत इत्याह--अविद्यमानोऽपि चेति । न केवलं
विद्यमानः प्रत्यक्ष उच्यते इत्यपिशब्दः । समग्रा समस्ता सामग्रीकारणकलापो यस्येति विग्रहः ।
शेषाद्विभाषा पाणिनि ५. ४. १५४ इति कप् । न कपि पाणिनि ७. ४. १४ इति ह्रस्वत्व
प्रतिषेधः । ज्ञायमानो निश्चीयमानो घटादिरेकज्ञानसंसर्गिणि प्र596...तदुपलब्धेरेवेत्यव
धारणीयम् । प्रत्यक्षनिवृत्तिर्घटाद्यनुपलब्धिः । कस्मात्तु द्वयं तथोच्यत इत्याह--ततो हीति । हीति
यस्मात् । यस्मादमू एव दृश्यघटादितुच्छरूपनिवृत्त्यवसेयहेतू तस्मात् कारणात् । अर्थ
एकज्ञानसंसर्गिवस्त्वन्तरम्, ज्ञानं च तस्यैव । एतदेव व्यतिरेकमुखेण द्रढयति--न त्विति ।
निवृत्तिमात्रमुपलब्ध्यभावमात्रम् । तस्य तथात्वे को दोष इत्याह--निवृत्तिमात्रादिति ।
दृश्यनिवृत्त्यनिश्चयाद् दृश्याभावानिश्चयात् । इह निवृत्तिमात्रस्य प्रसज्यप्रतिषेधात्मनो
निश्चेतुमशक्यत्वान्न हेतुत्वं युज्यत इति धर्मोत्तरस्याशयो निवृत्तिमात्राद् दृश्यनिवृत्त्यनिश्चया
दिति ब्रुवतः । पूर्वपक्षवादिना त्वेवं ज्ञातम्--निवृत्तिमात्रान्निर्विशेषणादयमेवं प्रतिषेधति ।
तदहं सविशेषणं निवृत्तिमात्रमेव दर्शयामीति प्रमोदमान आह--ननु चेति ।
दृश्यनिवृत्तिर्दृश्याभावः । दृश्यानुपलम्भादित्यत्रानुपलम्भशब्देनोपलम्भाभावमात्रं विवक्षित
मितरथा पूर्वपक्षवादिनः प्रकृतं हीयेत । अनेन सविशेषणमेवोपलम्भाभावमात्रं प्रसज्यप्रति
120
ज्ञानसंसर्गिण्यतीते598 चामूढस्मृतिसंस्कारे, वर्त्तमाने च घटस्य तत्त599द्रू600 पमारोपितमसत इति
द्रष्टव्यम् । अनेन च601 दृश्यानुपलब्धिः प्रत्यक्षघटनिवृत्तिस्वभावोक्ता । सा च सिद्धा ।
तेन न602 घटाभावः साध्यः, अपि तु अभावव्यवहार इत्युक्तम् ।
षेधरूपं लिङ्गमस्तु, न तु नञः पर्युदासवृत्त्या तदेकज्ञानसंसर्गि वस्तु, तज्ज्ञानं चेति पूर्वपक्षवादी
दर्शयति । सत्यमित्यादिना प्रतिविधत्ते । किन्त्वेकज्ञानसंसर्गिणि भूतलादौ दृश्यमाने सति
दृश्यः सम्भावित आरोपितः स प्रतिषेध्य इति प्रकरणात् । ततो दृश्यत्वसमारोपात् दृश्यानु
पलब्धिर्दृश्यज्ञानाभावस्तुच्छरूपो व्यवहर्त्तव्यमात्रं निश्चिता भवति । निश्चीयतामुपलब्ध्य
भावो ज्ञेयाभावस्तावन्न निश्चित इति तन्निश्चयार्थं निवृत्तिमात्रं व्यापरिष्यत इत्याह--दृश्येति ।
दृश्यज्ञानाभावनिश्चयसामर्थ्यादन्यथाऽनु48b पपत्तेः । चो हेतौ । दृश्यस्य ज्ञेयस्याभावो
व्यवहर्त्तव्यैकरूपः । सामर्थ्यमेव यदीत्यादिना दर्शयति । हिर्यस्मादर्थे । दृश्यानुपलम्भ इति
दृश्योपलम्भाव इत्यर्थः । अतोऽस्माद् दृश्यानुपलम्भनिश्चयात् । दृश्यस्य ज्ञेयस्याभाव उक्ता
त्सामर्थ्यादवसितः । दृश्योपलम्भाभावनिश्चयस्त्वेकज्ञानसंसर्गिवस्त्वन्तरोपलग्भेनेति द्रष्टव्यम् ।
ननु यदि ज्ञेयाभावोऽप्यवसितस्तर्हि कथं लिङ्गेन साध्यत इत्याह--न व्यवहृत इति ।
अदृष्टानामपि सत्त्वशङ्कया न प्रत्यक्षं व्यवहारयितुं शक्नोतीति भावः । केन तर्हि व्यवह्रियत
इत्याह--दृश्यानुपलम्भेन लिङ्गभूतेन ।
603...ऽभावव्यवहार एव 604... ... ...ज्ञानं चेति । चकारस्तुल्यकक्षतां दर्शयति ।
द्वयोश्च निवृत्तिनिश्चयहेतुत्वम्; ज्ञानमन्तरेण--यस्मादयं केवलः प्रदेशस्तस्मात् घटादिर्नास्ति
इत्यध्यवसातुमशक्यत्वात्; तथा विषयमन्तरेण--यस्मात्केवलप्रदेशापरोक्षीकरणं तस्मात् तज्ज्ञानं
नास्ति इति निश्चेतुमशक्यत्वादिति द्रष्टव्यम् । प्रत्यक्षस्य घटादेनिवृत्तिनिश्चयहेतुत्वात्प्रत्यक्ष
निवृत्ति605रुक्तं द्रष्टव्यम् ।
ननु च प्रतिषेध्यस्य घटादेरसतोऽपि तथाऽस्तु प्रत्यक्षत्वम् । यत्पुनस्तत्र नासीदेव तस्य
कथमतीतत्वम्; यच्च तत्र नास्त्येव तस्य कथं वर्त्तमानत्वम्, कथं च तत्रानुपलब्धेर्व्यापार
इत्याशङ्कामपाकुर्वन्नाह--यथेति । येन प्रकारेण घटो यदि भवेद् दृश्य एव भवेदित्येवं
रूपेण । चो हेतौ । तस्मिन्नेकज्ञानसंसर्गिण्यतीतेऽमूढस्मृतिसंस्कारे । चो वक्तव्यान्तरसमुच्चये ।
वर्त्तमाने च । समुच्चये चकारः । तथा तेन प्रकारेण--यदि तत्र पूर्वं घटः स्थितो यदि स्यात्,
उपलब्धः स्यात्, न चोपलभ्यते--इत्येवमात्मना घटस्यारोपात् प्रत्यक्षस्य तदानीमसत
स्तद्रूपमतीतत्वं वर्त्तमानत्वञ्चारोपितमारोपसिद्धम् इतिरेवं द्रष्टव्याकारं दर्शयति । द्रष्टव्यं
ज्ञातव्यमिति योजनीयमिदम् ।
121
606अमूढोऽभ्रष्टो दर्शनाहितः स्मृतिजननरूपः संस्कारो यस्मिन् घटादौ स तथोक्तः ।
तस्य अतीतस्य प्रतिपत्तृप्रत्यक्षस्येति सम्बन्धः । वर्त्तमानस्य च प्रतिपत्तृप्रत्यक्षस्येति सम्बन्धः ।
अमूढस्मृतिसंस्कारग्रहणं तु न वर्त्तमानविशेषणम् । यस्मादतीते घटविविक्तप्रदेशदर्शने स्मृति
संस्कारो मूढो दृश्यघटानुपलम्भे दृश्ये च घटे मूढो भवति । वर्त्तमाने तु607 घटरहितप्रदेशदर्शने न
स्मृतिसंस्कारमोहः । अत एव 608न घटाभावे, नापि घटानुपलम्भे मोहः । तस्मान्न वर्त्तमाननिषेध्य
विशेषणममूढस्मृतिसंस्कारग्रहणम्, 609स्मृतिसंस्कारव्यभिचाराभावाद् वर्त्तमानस्यार्थस्य । अत एव
वर्त्तमानस्य चेति चशब्दः कृतः, विशेषणरहितस्य वर्त्तमानस्य विशेषणवतातीतेन समुच्चयो
यथा विज्ञायेतेति610 ।
तदयमर्थः--अतीतोऽनुपलम्भः स्फुटः611 स्मर्यमाणः प्रमाणम्, वर्त्तमानश्च । ततो
नासीदिह घटः, अनुपलब्धत्वात्, नास्ति अनुपलभ्यमानत्वात् इति शक्यं ज्ञातुम् । न तु
न भविष्यत्यत्र घटः, 612अनुपलप्स्यमानत्वात् इति613 शक्यं ज्ञातुम् । अनागताया अनुपलब्धेः
सत्त्वसन्देहादिति कालविशेषोऽनुपलब्धेर्व्याख्यातः ।
ननु दृश्यानुपलब्धिः कस्मिन् काले प्रमाणं किंस्वभावा किंव्यापारा चेति त्रितयं पृष्ट
आचार्यस्तत्रानेन किमाख्यातमाचार्येणेत्याशङ्कामपाकुर्वन्नाह--अनेनेति । अनेन प्रतिपत्तृप्रत्यक्षस्य
निवृत्तिरिति वचनेन । चोऽवधारणे । स्वभावस्ये614त्यस्यानन्तरं द्रष्टव्यः ।
प्रत्यक्षस्य घटस्य । प्रसज्यप्रतिषेधलक्षणनिवृत्तिनिश्चयहेतुत्वात्प्रत्यक्षघटनिवृत्तिः प्रत्यक्षघटानुप
लब्धिः । नञः पर्युदासवृत्त्या । तदेकज्ञानसंसर्गि वस्तु तज्ज्ञानं च द्वयं स्वभावो रूपं यस्या
दृश्यानुपलब्धेः सा तथोवता व्याख्यातेति शेषः ।
ननु दृश्यानुपलब्धिरूपं लिङ्गमस्तु पर्युदासरूपम्, साध्यस्तु प्रसज्यप्रतिषेधरूपः किं न
भवतीत्याह--सेति । चो यस्मात् । सा तथाविधाऽनुपलब्धि... ... ...उक्तमाचार्येण
साऽभावव्यवहारप्रवर्त्तनीत्यनेन शब्देनेति भावः । धर्मोत्तरेण चात एव अभावो न साध्य इत्यनेन ।
घटविविक्तप्र49a देशदर्शनेनाहित आरोपितः संस्कारो विशिष्टशक्तियुक्तविज्ञानात्मिका
वासना, न तु पराभिमतो भावनाख्यः । अनुरूपस्मरणं जनयितुमनीशानो मूढ इति व्यपदिश्यते ।
दृश्यघटानुपलम्भे दृश्यस्य घटस्योपलब्ध्यभावे तुच्छरूपे । अत एव च दृश्ये घटे । अमूढस्मृति
संस्कारग्रहणं कस्मान्न वर्त्तमानविशेषणमित्याह--वर्त्तमाने त्विति । तुरतीताद्वर्त्तमानस्य वैधर्म्य
माह । अतो मोहाभावान्न घटाभावे व्यवहर्त्तव्यैकरूपे । नापि घटानुपलम्भे घटोपलब्ध्यभावे तुच्छ
रूपे । प्रत्यक्षवदारोपाद् वर्त्तमानस्यार्थस्य घटादेः । अत एव वर्त्तमानग्रहणस्य
निर्विशेषणत्वादेव ।
615 122
व्यापारं दर्शयति । अभावस्य व्यवहारः नास्ति इत्येवमाकारं ज्ञानम्, शब्दश्चैव
माकारः, निःशङ्कं616 गमनागमनलक्षणा च प्रवृत्तिः कायिकोऽभावव्यवहारः । घटाभावे हि
ज्ञाते निःशङ्कं गन्तुमागन्तुं च प्रवर्त्तते ।
618तदेतस्य त्रिविधस्याप्य619भावव्यवहारस्य दृश्यानुपलब्धिः 620प्रवर्त्तनी साधनी प्रवर्त्तिका ।
यद्यपि च नास्ति घटः इति ज्ञानमनुपलब्धेरेव भवति, अयमेव चाभावनिश्चयः, तथापि
यस्मात् प्रत्यक्षेण केवलः प्रदेश उपलब्धस्तस्मात् इह घटो नास्ति इत्येवं 621च प्रत्यक्षव्यापारमनु
सरत्यभावनिश्चयः; तस्मात् प्रत्यक्षस्य केवलप्रदेशग्रहणव्यापारानुसार्यभावनिश्चयः प्रत्यक्षकृतः ।
ननु यथा विकल्पेन विषयीक्रियमाणोऽतीतोऽनुपलम्भः प्रमाणमुच्यते तथा विकल्पस्या
व्याहतप्रसरत्वादनागतोऽप्यनुपलम्भो विकल्प्यमानः किं न तथाप्रमाणमित्याह--तदयमिति ।
यस्मात्केवलप्रदेशदर्शनाहितः संस्कारोऽतीते घटादावमूढो गृह्यते, वर्त्तमाने तु तस्मिन् स्मृति
संस्कारे मोहो न सम्भवत्येव तत्तस्मादयं तात्पर्यार्थः । अनुपलम्भनिश्चयहेतुत्वादनुपलम्भः
केवलप्रदेशादिः स्फुटो यथाऽसौ केवलोऽनुभूतस्तथा स्मृत्वा विषयीक्रियमाणः प्रमाणम् । वर्त्त
मानश्च तादृगनुपलम्भः स्फुटोऽभ्रान्तेन ज्ञानेन गृह्यमाण इति द्रष्टव्यम् । यत ईदृशोऽनुपलम्भः
प्रमाणं ततस्तस्मात् । कुतो न शक्यते ज्ञातुमित्याह--अनागताया इति । तथात्वेन निश्चितो हि
हेतुर्गमकोऽन्यथा सन्दिग्धासिद्धता हेतुदोषः स्यादित्यभिप्रायः । प्रत्यक्षनिवृत्तिशब्देन तावद्
दृश्यानुपलब्धेः स्वभावो दर्शितोऽमूढेत्यादिना तु किं दर्शितमित्याह--कालेति । इतिरेवमर्थे ते
नैवं कालविशेषोऽनुपलब्धेर्व्याख्यात इति । कालविशेषोऽतीतो वर्त्तमानश्च व्याख्यातः कथितो
ऽनेनेति शेषः । एतच्चातीते वर्त्तमाने च कालेऽनुपलब्धेः प्रामाण्याख्यानमस्योपलक्षणं द्रष्टव्यम्,
कार्यस्वभावहेत्वोरपि तयोः कालयोः प्रामाण्यात् । तथा ह्यासीदत्र वह्निर्धूमस्योपलब्धत्वात् ।
अस्ति वह्निरिह धूमस्योपलभ्यमानत्वात् । तथाऽसीदिह पादपः शिंशपाया उपलब्धत्वात् ।
अस्तीह वृक्षः शिंशपाया उपलभ्यमानत्वाद् इत्यपि भवत्येव ।
ननु दृश्यानुपलम्भे भवतु ज्ञानाभिधानलक्षणो व्यवहारः । कायिकस्तु कथमित्याह--घटेति ।
हिर्यस्मात् । प्रवर्त्तत इति योग्यतयोच्यते । प्रवृत्तियोग्यस्तावद् भवतीति । अत एव चाभाव
योग्यता साध्योच्यते ।
तदेतस्येति लोकोक्तिरेषा । तच्चैतच्चेति विग्रहः कार्यः । यद्वा यतोऽभाव
निश्चयोऽनुपलब्धिनिमित्तकस्तत्तस्मात् । अपिरतिशये । आस्तामेकस्य द्वयोर्वा प्रवर्त्तनी,
त्रिविधस्य यावत्प्रवर्त्तनीत्यर्थः । प्रवर्तनीत्यस्य द्वयमेतद् विवरणं स्पष्टार्थं साधनी प्रवर्त्तिके
49b ति प्रवर्त्तयतीति प्रवर्त्तनीति योग्यतयोक्तम् । साभावत्रितयमभावव्यवहारं प्रवर्त्तयितुं
योग्या तावन्मात्रनिमित्तकत्वात्तस्य । सत्यर्थित्वे पुरुषस्तान् व्यवहारानाचरतु मा वा ।
अत एवाभावव्यवहारयोग्यता प्रदेशादेः साध्यते दृश्यानुपलम्भेनेति परमार्थः ।
123
किञ्च । दृश्यानुपलम्भनिश्चयकरणसामर्थ्यादेव पूर्वोक्तया नीत्या प्रत्यक्षेणैवाभावो
निश्चितः । केवलमदृष्टानामपि सत्त्वसम्भवात्, सत्त्वशङ्कया न शक्नोत्यसत्त्वं622 व्यवहर्त्तुम् ।
अतोऽनुपलम्भोऽभावं623 व्यवहारयति--दृश्यो यतोऽनुपलब्धः, तस्मान्नास्ति इति । अतो
दृश्यानुपलम्भोऽभावज्ञानं कृतं प्रवर्त्तयति, न तु अकृतं करोती624त्यभावनिश्चयोऽनुपलम्भात्
प्रवृत्तोऽपि प्रत्यक्षेण कृतोऽनुपलम्भेन प्रवर्त्तित उक्त इत्यभावव्यवहारप्र625 वर्त्तन्यनुलब्धिः ॥
कस्मात् पुनरतीते वर्त्तमाने चानुपलब्धिर्गमिकेत्याह--
तस्या एवाभावनिश्चयात् ॥ २९ ॥
तस्या एव यथोक्तकालाया अनुपलब्धेरभावनिश्चयात् । अनागता ह्यनुपलब्धिः स्वयमेव
सन्दिग्धस्वभावा । तस्या असिद्धाया नाऽभावनिश्चयोऽपि त्वतीतवर्त्तमानाया इति ॥
ननु यदि नास्तीत्येवमाकारं ज्ञानमनुपलब्धेर्लिङ्गाद् भवति, कथं तर्हि प्रत्यक्षावसितोऽभाव
उक्त इत्याह--यद्यपि चेति निपातसमुदायो यद्यपिशब्दवद् विशेषाभिधाननिमित्ताभ्युपगमे
वर्त्तते । अभावनिश्चयशब्दसामानाधिकरण्यादयमेवेति निर्देशः । चशब्दो वक्तव्यमेतदित्यस्यार्थे
ऽत्र वर्त्तते । अभावनिश्चयस्य तदा स्थैर्यलाभादनुपलम्भादेवेत्युक्तं द्रष्टव्यम् । तथापीति
लौकिकोक्तिरियं निगदाभिधानारम्भे । तस्माच्छब्देन यस्माच्छब्द आक्षिप्तः । तेनायमर्थः ।
यस्मात्केवलप्रदेशग्रहणलक्षणव्यापारानुसारी घटो नास्तीत्यभावनिश्चयः तस्मात्प्रत्यक्षकृत उच्यत
इति शेषः । कस्य व्यापारानुसारीत्याकाङ्क्षायामुक्तम्--प्रत्यक्षस्य प्रमाणविशेषस्येति ।
अथ स्याद्--यद्ययं प्रत्यक्षकृतस्तदा प्रत्यक्षप्रवर्त्तितोऽपि । तत्किं दृश्यानुपलम्भेन क्रियत
इत्याशङ्क्याह--किञ्चेति वक्तव्यान्तरसमुच्चये । तद्विविक्तप्रदेशादिग्राहिणा प्रत्यक्षेणैवाभावो
निषेध्याभावः प्रसज्यप्रतिषेधात्मा निश्चितः । कथं ? दृश्यस्यानुपलम्भ उपलम्भाभाव
स्तुच्छरूपस्तन्निश्चयकरणसामर्थ्यादन्यथाऽनुपपत्तेः । पूर्वोक्तया नीत्या युक्त्या यदि हि दृश्यस्तत्र
भवेत्, दृश्यानुपलम्भो न भवेदित्येवमात्मिकया । यदि प्रत्यक्षमित्थं प्रतिषेध्याभावं निश्चाययति,
व्यवहारयितुमपि शक्नोत्येवेत्याह--केवलं किन्तु न शक्नोति व्यवहर्त्तुमित्यन्तर्भूतणिजर्थत्वान्नि
र्देशस्य व्यवहारयितुमित्यर्थः । कुतो न शक्नोतीत्याह--सत्त्वशङ्कयेति प्रतिषेध्यसत्त्वस्य
स्वरूपस्य सत्त्वशङ्कया सन्देहेन हेतुना ।
नन्वदर्शनेऽपि कथं सन्देह इत्याह--अदृष्टेति । तेन प्रत्यक्षेणादृष्टानामपि पिशाचादीनां सम्प्रत्यनुपलब्धेः प्रकारभेदं दर्शयितुमाह-- सा च प्रयोगभेदादेकादशप्रकारा ॥ ३० ॥ सा च एषानुपलब्धिः 626एकादशप्रकारा--एकादश प्रकारा अस्या इत्येकादशप्रकारा । कुतः प्रकारभेदः ? प्रयोगभेदात् । प्रयोगः प्रयुक्तिः शब्दस्याभिधाव्यापार627 प्रकारभेदान् आह-- स्वभावानुपलब्धिर्यथा--नात्र धूम उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति ॥ ३१ ॥
सत्वस्य सद्भावस्य सम्भवात् सम्भाव्यमानत्वात् नित्यं शङ्क्यमानानुपलम्भव्यभि
चारो ह्यभाव इति भावः । अतः प्रत्यक्षस्य तत्राशक्तत्वात् साऽपि कथं व्यवहारयतीत्याह—
दृश्य इति । अतोऽस्मात्कारणात्कृतं प्रत्यक्षेणेति प्रकरणात् । एतदेव व्यतिरेकमुखेण
द्रडयति--न त्विति । यस्मात् प्रत्यक्षव्यापारानुसार्यभावनिश्चय इतिस्तस्मात् । अभाव
124
उच्यते । शब्दो हि साक्षात् क्वचिदर्थान्तराभिधायी628, क्वचित् 629प्रतिषेधान्तराभिधायी ।
सर्वत्रैव तु दृश्यानुपलब्धिरशब्दोपात्तापि गम्यत इति वाचकव्यापारभेदादनुपलम्भप्रकारभेदो न
तु स्वरूपभेदादिति यावत् ॥
निश्चयोऽनुपलम्भात् प्रवृत्तोऽपि दृढीभूतोऽपि प्रत्यक्षेण केवलप्रदेशादिवेदिना सामर्थ्यात् कृत
उत्पादितोऽनुपलम्भेन दृश्यानुपलम्भेन प्रवर्त्तितः साधित उक्त आचार्येणाभावव्यवहारप्रवर्त्तनी
त्यनेन शब्देनेति बुद्धिस्थम् । इतीत्यादिनोपसंहारः । इतिरेवमुक्तेन क्रमेणानुपलब्धिर्दृश्या
नुपलब्धिस्तस्या एव प्रकृतत्वात् ।
कस्मादित्यादि वर्त्तमानाया इत्यन्तं सुगमम् ।
अनागताया अप्यनुपलब्धेरभावनिश्चयः कस्मान्न भवतीत्याह--अनागतेति । हिर्यस्मादर्थे ।
तस्या इति पञ्चम्यन्तमिदम् । अयमेव च सामर्थ्यावसितो मौलोर्थोऽनागता हि इत्यादिना
धर्मोत्तरेण631...काङ्क्षोपशमार्थं पुरस्तादुक्तः ।
स्यादेतत्--प्रतिषेधसिद्धिरित्यादिना निश्चयाभावादित्यन्तेन 50a ग्रन्थेनास्यार्थस्य
गतत्वात्तस्या एवाभावनिश्चयादित्ययमाचार्यीयो ग्रन्थः पुनरुक्त इति । न पुनरुक्तः । यतो
यथाऽतीतेऽपि काले घटादेस्तत्कालवर्त्तिदृश्यानुपलब्धेरतीतायाः स्मृत्यारूढाया स्व632भावनिश्चय
स्तवाऽनागतेऽपि काले घटादेरभावनिश्चयः किं न भवतीति केनापाकृतं येनायं पुनरुक्तः स्यादिति ॥
सम्प्रति अनुपलब्धेः प्रकारस्य स्वरूपस्य भेदं नानात्वं633...प्रकारभेद634... स्वभावेत्यादि । प्रतिषेध्यस्य यः स्वभावस्तस्यानुपलब्धिर्यथेति । अत्रेति धर्मी । न प्रतिषेध्यस्य यत् कार्यं तस्यानुपलब्धिरुदाह्नियते-- कार्यानुपलब्धिर्यथा--नेहाप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्ति, यथेति । इहेति धर्मी । अप्रतिबद्धम् अनुपहतं धूमजननं प्रति सामर्थ्यं येषां तान्य
द्रष्टव्यम् । चो वक्तव्यान्तरसमुच्चये । सेति मूलानुवादः । एषेति तस्य व्याख्यानम् ।
एकादशग्रहणं चाचार्यस्योपलक्षणार्थं यथा प्रमाणवार्त्तिके635...ग्रहणं636...षोडशप्रकारेति
तु द्रष्टव्यम् । एतच्च कारणविरुद्धकार्योपलब्धिव्याख्यानानन्तरं दर्शयिष्यामः । विवक्षिता
न्योपलम्भैकरूपत्वाद् दृश्यानुपलब्धेः, कथमयं भेद उपपद्येतेत्यभिप्रेत्य पृच्छति कुत इति ।
125
धूम इति साध्यम्, उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति हेतुः, अयं च हेतुः पूर्ववद्व्याख्येयः ॥
धूमाभावादिति637 ॥ ३२ ॥
प्रतिबद्धसामर्थ्यानि न सन्तीति साध्यम् । धूमाभावदिति हेतुः ।
प्रयोगभेदादित्याचार्यीयमुत्तरमनूद्य प्रयोगशब्दं व्याचष्टे प्रयोग इति । प्रयुक्त्यर्थमाह--शब्देति ।
शब्दशब्देन प्रकरणाद् वाचकः शब्दो गृह्यते । अभिधा अर्थप्रकाशनम् । तत्र व्यापारो व्यापृतिः
प्रवृत्तिः, यद्वाऽभिधा अर्थप्रकाशनं तल्लक्षणो व्यापारस्तस्य प्रयोगस्य भेदाद् भिद्यमानत्वादिति
तु सुबोधत्वात् धर्मोत्तरेण न व्याख्यातम् ।
ननु शब्दस्यैवानुपलम्भवाचकस्यानुपलम्भ एव वाच्यस्तत्कथं प्रयोगभेदो येनानुपलम्भस्य
प्रकारभेद उच्यत इत्याह--शब्दो हीति । हिर्यस्मात् । साक्षादव्यवधानेन । क्वचिद् विरुद्धोप
लम्भादौ प्रतिषेध्याच्छीतस्पर्शादेरर्थान्तरमग्न्याद्यभिधत्ते । क्वचिद् व्यापकानुपलब्ध्यादौ
विवक्षितात् शिंशपादिप्रतिषेधात्प्रतिषेधान्तरं वृक्षादिप्रतिषेधमभिधत्ते । यद्यर्थान्तरविधिरर्था
न्तरप्रतिषेधश्च क्रियते तर्हि638... ... ...द्यत इत्याह--सर्वत्रेति । तुर्विशेषार्थः ।
अशब्दोपात्ता स्ववाचकपदानुपात्ता । यथा चाशब्दोपात्ताऽपि सा प्रतीयते तथा पुरस्तादभिधास्यते ।
अपिरवधारणे अतिशये वा । इतिस्तस्मादर्थे एवमर्थे639... ... ...अत एवार्थीं
गतिमाश्रित्योक्तं न तु शाब्दीमिति द्रष्टव्यम् ॥
अनुपलम्भस्य प्रकृतत्वात् प्रकारभेदान्--इति मन्तव्यम् । तस्यानुपलब्धिः पूर्वोक्तया
नीत्या तद्विविक्तः प्रदेशस्तज्ज्ञानं चावसेयम् । एवं कार्यानुपलब्ध्यादिषु द्विरूपैवाऽनुप
लब्धि640...ति निदर्शनेन ।
ननु कीदृश्युपलब्धिलक्षणप्राप्तिः ? कथञ्चाविद्यमान641... ... ...अयञ्चेति ।
पूर्वस्मिन्ननुपलब्धिलक्षणाख्यान इव । चो50b यस्मादर्थे, अवधारणार्थे वा पूर्ववदित्यस्यानन्तरं
द्रष्टव्यः । एतच्च स्वभावानुपलम्भस्यार्थकथनं कृतमाचार्येण न प्रयोगो दर्शितः, असाधनाङ्गस्य
प्रतिज्ञाया उपादानात् साधनाङ्गस्य च व्याप्तेरप्रदर्शनात् हेतोश्चानुवाद्यरूपस्य प्रथमान्तस्या
निर्देशात् । एवमितरासु सर्वास्वेवानुपलब्धिषु बोद्धव्यम् ।
प्रयोगः पुनरीदृशः--यद् यत्रोपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तत्सर्वं तत्रासद्व्यवहार
योग्यम्--यथा--तुरङ्गमोत्तमाङ्गे शृङ्गम् । नोपलभ्यते चात्रोपलब्धिलक्षणप्राप्तो धूम इति ।
अनेन सामान्यादिनिराकरणे दृश्यानुपलम्भः प्रयोक्तव्य इति दर्शितमाचार्येण तुल्यन्यायत्वा
दित्य वसेयम् ।
126
कारणानि च नावश्यं कार्यवन्ति भवन्तीति कार्यादर्शनादप्रतिबद्धसामर्थ्यानामेवाभावः
साध्यः,642 न त्वन्येषाम् । अप्रतिबद्धशक्तीनि चान्त्यक्षणभावीन्येव, अन्येषां प्रतिबन्धसम्भवात् ।
कार्यानुपलब्धिश्च यत्र कारणमदृश्यं तत्र प्रयुज्यते । दृश्ये तु कारणे दृश्यानुपलब्धिरेव
गमिका ।
तत्र 643धवलगृहोपरिस्थितो गृहाङ्गणमपश्यन्नपि चर्तुषु पार्श्वेष्वङ्गणभित्तिपर्यन्तं पश्यति ।
भित्तिपर्यन्तसमं 644चालोकसंज्ञकमाकाशदेशं धूमविविक्तं पश्यति । तत्र धूमाभावनिश्चयाद् ।
यद्देशस्थेन वह्निना जन्यमानो धूमस्तद्देशः स्यात् । तस्य च645 वह्नेरप्रतिबद्धसामर्थ्यस्याभावः
प्रतिपत्तव्यः । तद्गृहाङ्गणदेशेन646 च वह्निना जन्यमानो धूमस्तद्देशः स्यात् । तस्मात् तद्देशस्य
648वह्नेरभावः प्रतिपत्तव्यः ।
तद्गृहाङ्गणदेशं भित्तिपरिक्षिप्तं भित्तिपर्यन्तपरिक्षिप्तेन चालोकात्मना धूमविविक्तेना
काशदेशेन सह धर्मिणं करोति ।
इह--अनुपलम्भः केवलप्रदेशादिः, अभावव्यवहारयोग्यता च साध्या, दृश्यानुपलम्भस्य
तादात्म्यलक्षण एव प्रतिबन्धो गम्यगमकभावनिबन्धनम्--इति केषाञ्चिन्मतम् । केचित्तु—
अनुपलम्भाऽभावव्यवहारयोग्यतयोर्गम्यगमकभावे विपर्ययतादात्म्यलक्षणः प्रतिबन्धो निमित्तमिति
प्रतिपेदिरे । अत एवानुपलम्भः कार्यस्वभावाभ्यां भेदेन निर्दिष्टः, स्वसाध्ये प्रतिबन्धा
नपेक्षणाद्, इतरयोश्च तद्वैपरीत्यादिति च । एवं चैतत् समादधतीति । तथा हि--उप
लब्ध्यव्यभिचारात् तादृशी अनुपलब्धेरेव सत्ता । तत उपलब्धिलक्षणप्राप्तसत्त्वे तदुपलम्भयो
स्तादात्म्यादेवानुपलम्भासद्व्यवहारयोर्गम्यगमकभावः । यदि तु तद्विविक्तप्रदेशाद्युपलम्भ
रूपस्यानुपलम्भस्य तदसद्व्यवहारयोग्तायाश्च यत्तादात्म्यं तन्निमित्तमुच्येत, तदा तस्य
भूतलादेरनुपलब्धिलक्षणप्राप्ताऽसद्व्यवहारयोग्यताऽप्यात्मभूतैवेति पिशाचाद्यभावव्यवहारमप्य
नुपलम्भः साधयेत् तत्प्रतिबन्धादिति ॥
ननु कार्याभावात् कारणाभावः साध्यताम् । किमप्रतिबद्धसामर्थ्यस्येति साध्यधर्म
विशेषणेनेत्याह--कारणानीति । चो यस्माद् । इतिस्तस्मात् । साध्यः साधयितुं युज्यत इत्यर्थः ।
एतदेव व्यतिरेकमुखेण द्रढयति न त्विति । तुर्वैधर्म्यार्थ एवकारार्थो वा । नान्येषां
कारणकारणतयोपचरितकुर्वद्रूपाणाम् ।
अथ परिपूर्णया अपि सामग्र्या विधारकसम्भवात् प्रतिबन्धः सम्भाव्यते । तदसम्भवीदं तस्माद् 649दृश्यमानादृश्यमानाकाशदेशावयवः प्रत्यक्षाप्रत्यक्षसमुदायो वह्नयभावप्रतीति न केवलमिहैव दृश्यादृश्यसमुदायो धर्मी, अपि त्वन्यत्रापि । शब्दस्य क्षणिकत्वे
127
सामर्थ्यायातो धर्मी, न दृश्यमान650 एव । इह--इति तु प्रत्यक्षनिर्देशो दृश्यमानभागापेक्षः ।
साध्ये कश्चिदेव शब्दः प्रत्यक्षोऽन्यस्तु परोक्षस्तद्वदिहापि । यथा चात्र धर्मी साध्यप्रतिपत्त्य
धिकरणभूतो दृश्यादृश्यावयवो दर्शितस्तद्वदुत्तरेष्वपि प्रयोगेषु स्वयं प्रतिपत्तव्यः ॥
विशेषणमित्याह--अप्रतिबद्धेति चशब्दस्तुशब्दस्यार्थे हेतौ वा । कुत एतदित्याह—
अन्येषामिति । अन्त्यक्षणप्राप्तानि च कारणानि योगिनाऽपि प्रतिबद्धु651मशक्यानि,
इतरथा ताद्रूप्यमेव हीयेत । अतस्तथाविधानि कारणानि कार्याव्यभिचारीणि कार्येण व्याप्यन्ते ।
ततः कार्यं निवर्तमानं कारणानि तादृशानि निवर्त्तयतीति द्रष्टव्यम् ।
इह यद्यप्यनेनान्त्यक्षणेनेदं कार्यं कृतमिति नावगतं तथापि वस्तुनः काचिदवस्था कार्यं
कुर्वती प्रतीतैव यदनन्तरं कार्यमुपलब्धम् । सैव चावस्थाऽत्रापि निषिध्यते । अत एवायं
क्षणिकाक्षणिकसाधारणावस्थातिशयनिषेधः ।
ननु कार्यस्य ता51a वद् दृश्यस्यात्रानुपलम्भो हेतुरुपादातव्यः । तत्किमस्य
सम्भवोऽस्ति यत्कार्यमेव दृश्यं न तु कारणं येन कार्यानुपलब्धिः प्रयुज्यत इत्याशङ्क्य
विषयमस्या दर्शयितुमाह--कार्येति ।
कोऽसावेवंविधो विषय इत्याह--तत्रेति वाक्योपक्षेपे ।
यदि पुनर्गृहाङ्गणं पश्येत् दृश्यानुपलब्धिरेव प्रयुक्ता स्यादित्यभिप्राथेणाह--गृहाङ्गण
मपश्यन्नपीति । अपिरवधारणे । अङ्गणभित्तेः पर्यन्तमवसानं । भित्तिपर्यन्तेन समं तुल्यम् ।
सौत्रान्तिकानामालोकतमः स्वभाव एवाक श इति । तन्मयत्या652 आलोक
संज्ञाकमित्युक्तम् ।
अत्राकाशे किं प्रत्येतव्यमित्याह--यद्देशेति । यदा यद्देशे चेति पाठस्तदा यो
देशोऽस्येति विग्रहः । यदा तु यद्देशस्थेनेति तदा यश्चासौ देशश्च तत्र तिष्ठतीति तद्देशस्थ
इति । स देशोऽस्येति विग्रहः ।
एतावताऽपि न ज्ञायते कस्तेन प्रतिपत्त्रा धर्मी कृत इत्याह--तद्गृहेति । स चासौ
गृहाङ्गणदेशश्चेति समासः । अङ्गणस्य प्रकृतत्वाद् भित्तिः तस्यैव, तया परिक्षिप्तं परिच्छिन्नं
धर्मिणं करोतीति सम्बन्धः । किमेतावदेवेत्याह भित्तीति । भित्तिरङ्गणस्यैव । भित्तेश्च
प्रान्तो वाच्यस्तस्याः पर्यन्तोऽवसानं निष्ठा तेन परिक्षिप्तं परिच्छिन्नं तेन । चस्तुल्यबलत्व
समुच्चयार्थः ।
तस्मादित्यादिनोपसंहारव्याजेन लोकाध्यवसायसिद्धं धर्मिणं दर्शयति । दृश्यादृश्य प्रतिषेध्यस्य व्याप्यस्य यो व्यापको धर्मस्तस्यानुपलब्धिरुदाह्नियते--
समुदायो लोकेनैकत्वेनाकलितः । तावान् देशो दृश्यमानः किमात्मकः ? देशावयवो भागो यस्य
128
स तथा । कथमेवंविधो धर्मीत्याह--वहन्यभावेति । वह्निरिति विशिष्टो धूमजननेऽव्य
वधेयशक्तिः । तस्याप्युपलक्षणत्वादन्यस्य धूमजननेऽप्रतिबद्धस्याभावप्रतीतिर्ग्रहीतव्या ।
अयमर्थः--लोकस्तावत्तथाविधदेशे धूममनुपलभमानस्तावति देशे तथाभूतवह्न्यभावं
प्रत्येति । न चैतदेवंविधं धर्मिणमन्तरेण घटत इति सामर्थ्यमन्यथाऽनुपपत्तिस्तस्माद् आयात
उपस्थितः । अत एवाचार्येणापि
इति ब्रुवतैवं धर्मीष्ट एवेति भावः ।
नन्वप्रत्यक्षस्यापि धर्मित्वे कथमिहेतीदमो हप्रत्ययान्तस्य निर्देश इत्याशङ्क्याह—
इहेति । तुशब्दो यस्मादर्थे । इतिरिहशब्दस्य निर्दिष्टस्याकारं प्रत्यवमृशति । प्रत्यक्ष
वस्तुप्रतिपादको निर्देशस्तथोक्तः ।
ननु यदि दृश्यादृश्यसमुदायो धर्मीं घटते तदा कार्यस्वभावहेत्वोरपि किमयं न सम्भवती
त्याह--न केवलमिति । इहैव कार्यानुपलम्भ एव । अपि तु किन्त्वन्यत्रापि कार्यविशेषे
स्वभावविशेषे च तत्र तत्र कार्यहेतोर्धूम-वाक्यादग्नि-पौरुषेयत्वादिसिद्धौ तथाविधो धर्मी
सुव्यक्त इति न तत्र दर्शितस्तुल्यत्वा653यतया वा द्रष्टव्यः ।
कथं हेतावप्येवंविधस्य धर्मिणः सम्भव इत्थाह--शब्दस्येति । कश्चिदेव श्रूयमाणः
प्रत्यक्षोऽन्यस्त्वश्रूयमाणः परोक्षः । अनेनावश्यं दृश्यादृश्यशब्दसमुदायोऽत्र धर्मीति दर्शितम् ।
दृश्यादृश्यात्मना च शब्देन धर्मिणा भाव्यमिति प्रतिपाद्यजनसंशयारोपाभ्यामायातम् । नहि
प्र51b तिपाद्यः शब्दस्यानित्यत्वे संशयानो विपर्यस्यति, अर्थात् घटशब्द एव, श्रूयमाण एव च
सन्देग्धि, विपर्यस्यति वा । किन्त्विहे654घटपटादिशब्दे श्रूयमाणे श्रुते श्रोष्यमाणे च । ततस्तद
नुरोधात् प्रत्यक्षाप्रत्यक्षशब्दसमुदायोऽनित्यत्वे साध्ये धर्मीं प्रसह्य पतितः । तद्वदिहापि
कार्यानुपलम्भे ।
अमुमेव न्यायमन्यत्राप्यतिदिशन्नाह--यथा चेति । चोऽवधारणे साध्यप्रतिपत्त्यधि
करणभूत इति विशेषणव्याजेन धर्मिणो लक्षणमुक्तम् ।
कार्यानुपलब्धिप्रयोगस्त्वेवं कर्त्तव्यः । यत्र यस्य कार्यमुपलब्धिलक्षणप्राप्तं नोपलभ्यते
तत्तु तज्जननाप्रतिबद्धसामर्थ्यं नास्ति । यथा क्वचिद् दृश्यमानेऽङ्कुरे तथाविधं बीजम् ।
नोपलभ्यते चात्रोपलब्धिलक्षणप्राप्तो धूम इति ।
अनेन च कार्यानुपलम्भप्रदर्शनेन यज्जल्पितं जल्पमहोदधिना निःशब्दे देशे शब्दमात्रा
भावे साध्ये कस्तदेकज्ञानसंसर्गिवस्त्वन्तरोपलम्भो येन शब्दाभावव्यवहारो बौद्धानां भवेद्
इति तत्प्रत्युक्तं द्रष्टव्यम् । तथाहि--नेहाप्रतिबद्धसामर्थ्यानि श्रोत्रज्ञानकारणानि सन्ति ।
श्रोत्रज्ञानाभावादिति कार्यानुपलब्धिः स्फुटैव । श्रोत्रज्ञानानुपलम्भश्च तदन्यज्ञानोपलम्भरूपः
संविदितोऽस्त्येव । एकज्ञानसंसर्गित्वं चान्योन्याव्यभिचरितोपलम्भत्वमित्युक्तं पुरस्तात् ।
प्रयोगस्त्वनन्तरवद्विज्ञातव्य इति ॥
यथेति । अत्रेति657 धर्मी । न शिंशपेति शिंशपाऽभावः साध्यः । वृक्षस्य व्यापकस्या
भावादिति हेतुः ।
इयमप्यनुपलब्धिर्व्याप्यस्य शिंशपात्वस्या658ऽदृश्यस्याभावे659 प्रयुज्यते । उपलब्धिलक्षण
प्राप्ते तु व्याप्ये दृश्यानुपलब्धिर्गमिका । तत्र यदा पूर्वापरावुपश्लिप्टौ समुन्नतौ देशौ भवतः,
तयोरेकस्तरुगहनोपेतो660ऽपरश्चैकशिलाघटितो निर्वृक्षकक्षकः661 । द्रष्टापि तत्स्थान् वृक्षान्
पश्यन्नपि शिंशपादिभेदं662 यो न विवेचयति, तस्य वृक्षत्वं प्रत्यक्षं अप्रत्यक्षं663 तु शिंशपात्वम् । स
हि निर्वृक्ष एकशिलाघटिते वृक्षाभावं दृश्यत्वाद् दृश्यानुपलम्भादवस्यति । शिंशपात्वाभावं तु
व्यापकस्य वृक्षत्वस्याभावादिति । तादृशे664 विषयेऽस्या665 अभावसाधनाय प्रयोगः ॥
स्वभावविरुद्धोपलब्धिर्यथा--नात्र शीतस्पर्शो 666वह्नेरिति ॥ ३४ ॥
प्रतिषेध्यस्य स्वभावेन विरुद्धस्योपलब्धिरुद्राह्रियते 667यथेति । अत्रेति धर्मी । न
शीतस्पर्श 668इति शीतस्पर्शप्रतिषेधः साध्यः । वह्नेरिति हेतुः । इयं चानुपलब्धिस्तत्र
प्रयोक्तव्या यत्र शीतस्पर्शोदृश्ऽयः, दृश्ये669 दृश्यानुपलब्धिप्रयोगात् ।
व्यापकानुपलब्धिं व्याख्यातुमाह--प्रतिषेध्यस्येति । तादात्म्याविशेषेऽपि यथा कश्चिदेव
धर्मो व्याप्य इतरो व्यापकश्च तथा प्रागेव धर्मोत्तरेण निर्णीतम् । धर्म इति च धर्म्यपेक्षया
वृक्षत्वादि । न शिंशपेति न शिंशपात्वमित्यर्थः । वृक्षस्येति च धर्मिणा धर्मस्य वृक्षत्वस्य निर्देशः ।
ननूपलब्धिलक्षणप्राप्तस्य तावद् वृक्षत्वस्यानुपलब्धिः प्रयोक्तव्या । तथा च शिंशपात्व
मपि दृश्यमेव निषेध्यमिति दृश्यानुपलब्धिरेव प्रयोगार्हेत्याह--इयमपीति । न केवलं
पूर्विका विशिष्टे विषये किन्त्वियमपीत्यपिशब्दः । शिंशपात्वस्यादृश्यस्येति--यदि स्याद्
दृश्यमेव स्यादिति सम्भावनामतिवृत्तस्येत्यर्थः । एवमुत्तरत्राप्यदृश्यत्वमीदृशमेव द्रष्टव्यम् ।
तस्याभावे साध्य इत्यध्याहारः ।
130
तस्माद् यत्र वर्णविशेषाद् वह्निर्दृश्यः, शीतस्पर्शो दूरस्थत्वात्670 सन्नप्यदृश्यः, तत्रास्याः
प्रयोगः ॥
विरुद्धकार्योपलब्धिर्यथा--नात्र शीतस्पर्शो धूमादिति ॥ ३५ ॥
प्रतिषेध्येन यद् विरुद्धं तत्कार्यस्योपलब्धिर्गमिका--यथेति । अत्रेति धर्मी । न
शीतस्पर्श इति शीतस्पर्शाभावः साध्यः । धूमादिति हेतुः । यत्र शीतस्पर्शः सन् दृश्यः
कोऽसावेवंविधो विषय इत्याह--तत्रेति वाक्योपन्यासे । उपश्लिष्टौ प्रत्यासन्नौ
समुन्नतावुच्चौ । तरूणां गहनं गह्वरं तेनोपेतो युक्तः । द्वितीय एकया शिलया घटितो निर्मित
एकशिलारूपस्तूप इति यावत् । तत्त्वेनैव च निर्वृक्षकक्षकः । कक्षस्तृणम् । निर्गतौ वृक्षकक्षौ
यत इति विग्रहः । भवत्वेवं तथापि कथमस्याः प्रयोग इत्याह--द्रष्टापीति । अपिरवधारणे—
न विवेचयतीत्यस्यानन्तरं द्रष्टव्यम् 671 । तस्य तादृशस्य द्रष्टुः ।
भवतु द्रष्टुस्तावद् दूरदेशस्थायितया शिंशपाया अविवेकस्तथापि येनैव वृक्षाभावं
प्रतिपद्यते तेनैव शिंशपाऽभावमपि किं न प्रतिपद्यत इत्याह--स हीति । हिर्यस्मात् । कथं
दृश्यानुपलम्भादवस्यतीत्याह--दृश्यत्वाद् वृक्षत्वस्येति प्रकरणात् । कुतस्तर्हि शिंशपा52a
त्वाभावमवैतीत्याह--शिंशपेति । तुशब्दो वैधर्म्ये । इतिस्तस्मादर्थे । अभावशब्देनाभावोऽभाव
व्यवहारश्चोक्तो द्रष्टव्यः । एवमुत्तरत्रापि प्रत्येयम् ।
प्रयोगः पुनरीदृशः कार्यः--यत्र यस्य व्यापकं नास्ति न तत् तत्रास्ति । यथा--असति
प्रमेयत्वे प्रामाण्यम् । नास्ति च वृक्षत्वं शिंशपात्वस्य व्यापकमिति । अनेन व्यापकानुप
लम्भस्य व्याप्याभावे गमकत्वप्रतिपादनेन नित्यानामर्थक्रियाकारित्वाभावः क्रमयौगपद्ययो
व्यपिकयोरभावादित्यादि दर्शितं द्रष्टव्यम् ॥
प्रतिषेध्येत्यादिना स्वभावविरुद्धोपलब्धिं व्याचष्टे--मूले तूदाह्रियत इत्यध्याहार इति
दर्शयन्नाह--उदाह्रियत इति ।
सुखप्रतिपत्त्यर्थं मौल धर्म्यादिप्रविभागं दर्शयन्नाह--अत्रेति ।
एतेनेश्वरेऽप्येकोपादानादिविकल्पे सम्प्रदानादिविकल्पाभावो विरुद्धोपलब्धिप्रसङ्गेन
दर्शितः । विकल्पस्य विकल्पान्तरेण सहास्थितिलक्षणस्य विरोधस्य स्वसन्ताने सिद्धत्वात् । ततश्च
तस्यानिरूप्यकर्त्तृत्वमायातम् । अन्यथा युगपद्दृष्टोत्पादानामनुत्पत्तिः प्रसज्येत । अनिरूप्यकर्त्तृत्वे
चाऽऽधिपत्यमात्रेण कर्त्तृत्वं स्यात् । तथा च कर्मणा सिद्धसाधनत्वमीश्वरसाधनानां कार्यत्वादीना
मित्यादि दर्शितम् ॥
विरुद्धकार्योपलब्धिं व्याचक्षाण आह--प्रतिषेध्येनेति । मूलगमिका विवक्षिताभाव
प्रतिपादकेति विवक्षितमिति दर्शयितुमाह--गमिकेति । पूर्ववद् धर्म्यादिकथनम् ।
131
स्यात् तत्रदृश्यानुपलब्धिर्गमिका । यत्र विरुद्धो वह्निः प्रत्यक्षः, तत्र विरुद्धोपलब्धिर्गमिका672 ।
द्वयोरपि तु परोक्षत्वे 673विरुद्वकार्योपलब्धिः प्रयुज्यते ।
674तत्र समस्तापवरकस्थं शीतं निवर्त्तयितुं समर्थस्याग्नेरनुमापकं यदा विशिष्टं धूमकलापं
निर्यान्तमपवरकात् पश्यति, तदा विशिष्टाद्वह्नेरनुमितात् शीतस्पर्शनिवृत्तिमनुमिमीते675 । इह
दृश्यमानद्वारप्रदेशसहितः 676सर्वोऽपवरकाभ्यन्तरदेशो धर्मी साध्यप्रतिपत्त्यनुसरणात् पूर्ववद्
द्रष्टव्य इति677 ॥
विरुद्धव्याप्तोपलब्धिर्यथा--न ध्रुवभावी भूतस्यापि भावस्य विनाशः,
हेत्वन्तरापेक्षणादिति678 ॥ ३६ ॥
प्रतिषेध्यस्य यद् विरुद्धं तेन व्याप्तस्य धर्मान्तरस्य उपलब्धिरुदाहर्त्तव्या । यथेति ।
ध्रुवम् अवश्यं भवतीति679 ध्रुवभावी नेति ध्रुवभावित्वनिषेधः680 साध्यः । विनाशो धर्मी ।
कस्मिन्नियं प्रयोक्तव्येत्याह--यत्रेति । द्वयोर्विरुद्धशीतस्पर्शयोः । अपिरवधारणे ।
तुः पूर्वस्माद् वैधर्म्ये ।
कः पुनरीदृशो विषय इत्याह--तत्रेति ।
ननु च प्रदीपशिखाप्रभावे681 धूमेऽपि न शीतस्पर्शाभावः, तत्कथमियं गमिकेत्याह—
समस्तेति । 682अपवरकग्रहणं शीतस्थानोपलक्षणार्थम् । अपवरकात् निर्यान्तं निर्गच्छन्तम् ।
अन्यत्र च गम्यमानो धूमः कथमन्यत्र शीताभावं साधयतीत्याह--इहेति । इह विरुद्धकार्यो
पलब्धौ । दृश्यमानश्चासौ द्वारदेशश्च तेन सहितः ।
उपपत्तिमाह--साध्येति । साध्यस्य शीतस्पर्शाभावस्य प्रतिपत्तिरवबोधस्तस्य प्रतिपत्ते
रनुसरणं निरूपणं तस्मात् । पूर्ववदिति यथापूर्वं कार्यानुपलम्भे वह्न्याद्यभावप्रतीतिसामर्थ्या
यातस्तादृशो धर्मी तद्वत् ।
अयमस्य भावः--शीतस्पर्शाभावप्रतीतिरेवेयं विमृश्यमाणाऽवश्यमेवंविधधर्मिणमाकर्षतीति ।
प्रयोगः पुनरस्या एवं कर्त्तव्यः--यत्र धूमविशेषस्तत्र शीतस्पर्शाभावः । यथा महानसादौ । भूतस्यीपि भावस्येति धर्मिविशेषणम् । भूतस्य जातस्यापि विनश्वरः स्वभावो नावश्यम्भावी, इह ध्रुवभावित्वं नित्यत्वम्, अध्रुवभावित्वं 689चानित्यत्वम् । नित्यत्वानित्यत्वयोश्च
तथाविधश्चात्र धूम इति । एतच्चात्यन्ताभ्यासाज्झटिति धूमदर्शनाच्छीतस्पर्शा
भावप्रतीत्युदये विरुद्धकार्योपलम्भजमेकमनुमानमाचार्येणोक्तमिति द्रष्टव्यम् । अनभ्यासदशया
132
किमुताजातस्येति अपिशब्दार्थः । 683जनकाद्धेतोरन्यो हेतुः हेत्वन्तरं मुद्गरादि684 । तदपेक्षते
विनश्वरः685 । तस्यापेक्षुणादिति हेतुः । हेत्वन्तरापेक्षणं 686नामाध्रुवभावित्वेन व्याप्तं यथा
वाससि रागस्य 687रञ्जमादिहेत्वन्तरापेक्षणमध्रुवभावित्वेन व्याप्तम्688 । ध्रुवभावित्वविरुद्धं
चाध्रुवभावित्वम् । विनाशश्च विनश्वरस्वभावात्मा हेत्वन्तरापेक्ष इष्टः । ततो विरुद्ध
व्याप्तहेत्वन्तरापेक्षणदर्शनाद् ध्रुवभावित्वनिषेधः ।
परस्परपरिहारेणावस्थानादेकत्र विरोधः । तथा690 च सति परस्परपरिहारवतोर्द्वयोर्यदैकं
दृश्यते तत्र द्वितीयस्य तादात्म्यनिषेधः कार्यः । तादात्म्यनिषेधश्च 691दृश्यतयाऽभ्युपगतस्य
सम्भवति । 692यत एवं तादात्म्यनिषेधः क्रियते--यद्ययं दृश्यमानो नित्यो भवेन्नित्यरूपो दृश्येत ।
न च नित्यरूपो दृश्यते । तस्मान्न नित्यः । एवं च प्रतिषेध्यस्य नित्यत्वस्य दृश्यमाना693
त्मकत्वमभ्युपगम्य प्रतिषेधःकृतो भवति । 694वस्तुनोऽप्यदृश्यस्य पिशाचादेर्यदि696दृश्यघटात्मक697-
पुनरज्ञातेऽनुमाने कार्यलिङ्गजविरुद्धोपलम्भजे भवतः । तथाहि--यत्र धूमस्तत्र सर्वत्र वह्निर्यथाऽ
यस्कारकुट्याम्, धूमश्चात्रेति कार्यलिङ्गजमेकमत्र नियतप्राग्भावि, तदनु यत्र वह्निर्न तत्र
शीतस्पर्शो यथा रसवतीप्रदेशे, वह्निश्चात्रेति विरुद्धोपलम्भजं द्वितीयमिति ॥
प्रतिषेध्यस्येत्यादिना विरुद्धव्याप्तोपलब्धिं52b व्याचष्टे । पूर्ववत्साध्यादिप्रदर्शनम् ।
किमुतेति निपातसमुदायः किम्पुनरित्यस्यार्थे वर्त्तते ।
ननु किमजातस्यापि वस्तुनो नाशमवश्यं भाविनं केचिदिच्छन्ति येनापिशब्दः समुच्चये त्वनिषेधः क्रियते दृश्यात्मक698 त्वमभ्युपगम्य कर्त्तव्यः । 699यद्ययं घटो दृश्यमानः पिशाचात्मा
व्याख्यायत इति ? नैष दोषः । अजातस्य तावदनिष्टत्वादेव नावश्यम्भावी विनाशः,
जातस्यापि नावश्यम्भावीतीत्थं मूलेऽपिशब्दः । केवलं किमुताजातस्येति व्याचक्षाणेन धर्मोत्तरेणाय
मर्थो न व्यक्तीकृतः । तत्रापि किम्पुनरजातस्य यस्य विनाश एव नेष्ट इत्यभिप्रायेण
133
भवेत् पिशाचो दृष्टो भवेत् । न च दृष्टः । तस्मात् न पिशाच इति । दृश्यात्मत्वाभ्युपगम
पूर्वको दृश्यमाने घटादौ700 वस्तुनि वस्तुनोऽवस्तुनो वा दृश्यस्यादृश्यस्य च तादात्म्य701प्रतिषेधः ।
तथा च सति यथा घटस्य दृश्यत्वमभ्युपगम्य 702प्रतिषेधो दृश्यानुपलम्भादेव तद्वत् सर्वस्य
परस्परपरिहारवतोऽन्यत्र दृश्यमाने निषेधो दृश्यानुपलम्भादेव । तथा 703चास्यैवंजातीयकस्य
प्रयोगस्य स्वभावानुपलब्धावन्तर्भावः ॥
योजनीयः । यद्वा प्रागभावस्यानादेरजातस्यापि नाशमवश्यम्भाविनं केचिदिच्छन्तीति तदपेक्षया
अपिशब्दः समुच्चये । तन्मुद्गराद्यपेक्षते विनश्वरो विनंष्टुमिति शेषः । तस्य हेत्वन्तरस्य ।
प्रयोगः पुनरीदृशः कर्त्तव्यः--यद्यदवस्थाप्राप्तौ हेत्वन्तरमपेक्षते न तदवश्यं तद्रूपं भवति ।
यथा वस्त्रं रक्तरूपतापत्तौ रागद्रव्यसंयोगापेक्षं नावश्यं रक्तं भवति । अपेक्षते च भावो
विनंष्टुं हेत्वन्तरमिति विरुद्धव्याप्तोपलब्धिप्रसङ्ग एषः । अत एव मूलेऽपिशब्दः प्रसङ्गसाधनत्व
प्रसङ्गार्थो लक्ष्यते । स्वतन्त्रसाधनं तु विरुद्धव्याप्तोपलम्भाख्यमेवं द्रष्टव्यम्--यो
विरुद्धधर्मसंसर्गवान्नासावेको यथा द्रवकठिने । विरुद्धधर्मसंसर्गवांश्च सामान्यादिरिति ।
ननु च कोऽर्थयोर्विरोधः, किञ्चास्य विरोधस्य साधकं प्रमाणमित्याशङ्कामपाकर्त्तु
माह--इहेति । नित्यत्वशब्देनावश्यम्भावित्वम्, अनित्यत्वशब्देनाऽनवश्यभ्भावित्वमुक्तं द्रष्टव्यम् ।
अन्यथा केन नित्यो विनाशोऽभ्युपेतो येनास्याऽनित्यताऽपो704द्येत । यच्च पूर्वं ध्रुवभावित्व
शब्दं विवृण्वताऽनेन ध्रुवमवश्यं भवतीति विवृतं तच्च व्याहन्येत ।
सम्प्रति विरोधमुपपादयति--नित्यानित्ययोरिति । चो हेतौ ।
इदानीं परस्परपरिहारस्थितलक्षणविरोधव्यवस्थापकं दृश्यानुपलम्भं दर्शयितुमाह—
तथा चेति । कथं दृश्यतयाऽभ्युपगतस्य निषेध इत्याह--यत इति । एवं वक्ष्यमाणेन
प्रकारेण । तमेवाह--यद्ययमिति । न च नैवं नित्यरूपोऽवश्यम्भाविस्वरूपो दृश्यते प्रतीयते ।
यद्यप्येवं तथापि दृश्यात्मकाभ्युपगम इत्याह--एवमिति चो यस्मात् । एवमनन्तरोक्तेन
क्रमेण दृश्यमानस्यादृश्येनावस्तुनाऽन्योन्यपरिहारस्थितलक्षणविरोधव्यवस्थायां तावदेवं दृश्यानु
पलम्भ उपायः । वस्तुनाऽप्यदृश्येन तथात्वव्यवस्थायामयमेवोपाय इति दर्शयितुं वस्तुनोऽपीत्या
दिनोपक्रमते । न केवलं कल्पितस्यावस्तुन इत्यपिशब्दः । इतिर्हेतावेवमर्थे वा । दृश्यस्येति
वस्त्वपेक्षया ।
134
कार्यविरुद्धोपलब्धिर्यथा--नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सन्ति,
705वह्नेरिति ॥ ३७ ॥
प्रतिषेध्यस्य यत् कार्यं तस्य यद्विरुद्धं तस्योपलब्धेरुदाहरणम्--यथेति । इहेति धर्मी ।
अप्रतिबद्धं सामर्थ्य येषां शीतकारणानां शीतजननं प्रति706, तानि न सन्ति इति साध्यम् ।
वह्नेरिति हेतुः ।
यत्र शीतकारणानि अदृश्यानि, शीतस्पर्शोऽप्यदृश्यः, तत्रायं हेतुः प्रयोक्तव्यः । दृश्यत्वे
तु शीतस्पर्शस्य तत्कारणानां वा कार्यानुपलब्धिर्दृश्यानुपलब्धिर्वा गमिका । तस्मादेषाप्य
भावसाधनी । ततो यस्मिन् 707उद्देशे सदपि शीतकारणमदृश्यं शीतस्पर्शश्च708 दूरस्थत्वात्
प्रतिपत्तुर्वह्निर्भास्वरवर्णत्वाद् दूरादपि दृश्यस्तत्रायं प्रयोग इति709 ॥
वाशब्दार्थश्चकार इति केचित् ।
अन्ये तु अवस्तुनोऽदृश्यत्वस्य सिद्धत्वात् किं तदनुवादेन कार्यम् ? ततो द्वयमप्येतद्
वस्त्वपेक्षया योज्यम् । वस्तुनो दृश्यस्य घटादेः, अदृश्यस्य पिशाचादेः । अन्यथा पिशाचादिवस्तुन
स्तथात्वं नोक्तं स्यात् । प्रकृतं च तदेव इति प्रतिपन्नाः ।
भवत्वेवं ततः किं सिद्धमित्याह--तथा च सतीति । तद्वद् घटवत् । अन्य53a त्र
अन्यस्मिन् दृश्यमाने वस्तुनि ।
ननु भवतु दृश्यानुपलम्भाद् दृश्यमानेङ्गुल्यादौ सर्वस्य सुमेर्वादेस्तादात्म्यनिषेधस्तथाप्यु
क्तास्वनुपलब्धिषु कुत्रायमन्तर्थवतीत्याशङ्कामपाकर्त्तुमुपसंहारव्याजेनातिदेशमप्याह--एवमिति ।
एवंजातीयकस्यैवम्प्रकारवतः । एवम्प्रकारस्येत्युक्ते वचनभं 710 स्यात् । तत्रान्तर्भावो
दर्शित एवेति भावः ।
अथ यदि दृश्यानुपलम्भादन्यत्रान्यस्य दृश्यस्यादृस्यश्य वा तादात्म्यनिषेधः कथं विरुद्धे711
व्याप्तोपलब्धेरवतार इति चेत् । न दोषः । विरोधप्रतिपत्तिकाले दृश्यानुपलम्भस्य व्यापारात् ।
तदवगतविरोधेन तु व्याप्तं यत्र दृश्यते विरुद्धव्याप्तोपलम्भादेव विवक्षिताभावप्रतीतिरिति
किमवद्यम् ॥
प्रतिषेध्यस्येत्यादिना कार्यविरुद्धोपलब्धिं विवृणोति । पूर्ववद् धर्म्यादिप्रदर्शनम् ।
वह्नेरिति शीतनिवर्त्तनक्षमाद् विशिष्टादिति द्रष्टव्यम् । अन्यथा प्रति712पाद्यात्मनः शीतऽ
निवर्त्तकत्वेनानैकान्तिकतापत्तेः ।
135
व्यापकविरुद्धोपलब्धिर्यथा--नात्र तुषारस्पर्शो 713वह्नेरिति ॥ ३८ ॥
प्रतिषेध्यस्य यद् व्यापकं तेन यद् विरुद्धं तस्योपलब्धिरुदाहर्त्तव्या यथेति । अत्रेति
धर्मी । तुषारस्पर्शो नेति साध्यम् । 714वह्नेरिति हेतुः ।
यत्र 715व्याप्यस्तुषारस्पर्शो व्यापकश्च716 शीतस्पर्शो न दृश्यस्तत्रायं हेतुः । तयोर्दृश्यत्वे717
स्वभावस्य व्यापकस्य चानुपलब्धिर्यतः प्रयोक्तव्या718 । तथा च719 सत्यभावसाधनीयम् ।
दूरवर्त्तिनश्च प्रतिपत्तुस्तुषारस्पर्शः शीतस्पर्शविशेषः, शीतमात्रं 720च परोक्षम् । वह्निस्तु
रूपविशेषाद् दूरस्थोऽपि प्रत्यक्षः । ततो वह्नेः शीतमात्राभावः । ततः शीतविशेषेतुषारस्पर्शा
भावनिश्चयः । शीतविशेषस्य शीतसामान्येन व्याप्तत्वादिति 721विशिष्टविषयेऽस्याः प्रयोगः ॥
कारणानुपलब्धिर्यथा--नात्र धूमो 722वहायभावादिति ॥ ३९ ॥
प्रतिषेध्यस्य यत् कारणं तस्यानुपलब्धेरुदाहरणं यथेति । अत्रेति धर्मी । न धूम
कीदृशि विषयेऽस्याः प्रयोग इत्याह--यत्रेति । न केवलं पूर्व इत्यपिशब्दः । अभावो
ऽभावव्यवहारश्चाभावशब्देनोक्तः ।
स्यान्मतम् । कथं पुनः शीतस्पर्शशीतकारणेऽदृश्ये वह्निस्तु दृश्यः सम्भवति येनास्याः
प्रयोगो घटत इत्याह--यस्मिन्निति । उद्देशे प्रदेशे प्रतिपत्तुर्दूरस्थत्वादिति शीतस्पर्शशीतकारणयो
रदृश्यत्वे कारणम् । भास्वरवर्णत्वादिति वह्नेर्दृश्यत्वे निबन्धनम् । भास्वरो भासनशीलो
वर्णो यस्य तद्भावस्तस्मात् । न केवलं निकट इत्यपिशब्दः । तत्र तस्मिन् देशे ।
प्रयोगः पुनरेवं कार्यः--यत्र विशिष्टो वह्निर्न तत्र शीतोपजननाप्रतिबद्धशक्तीनि
शीतकारणानि । यथा क्वचिदनुभूते प्रदेशे । तथाभूतश्चात्र वह्निरिति ।
एतच्चाभ्यासाज्झटिति वह्निदर्शनेन तथाभूतशीतकारणाभावप्रतीतिजन्मन्येकं कार्य
विरुद्धोपलम्भजमनुमानमुक्तमाचार्येणेति द्रष्टव्यम् । अन्यथा तु विरुद्धोपलम्भकार्यानुपलम्भजे
द्वे एते अनुमाने । तथा हि यत्र वह्निर्न तत्र शीतस्पर्श इति स्वभावविरुद्धोपलम्भजमेक
मनुमानम् । यत्र च यत्कार्यं नास्ति, न तत्र तत्कारणं तज्जननाप्रतिबद्धसामर्थ्यमस्तीति
कार्यानुपलम्भजं द्वितीयमिति ॥
136
इति साध्यम् । वह्न्यभावादिति हेतुः । यत्र कार्यं सदपि 723अदृश्यं भवति तत्रायं प्रयोगः ।
दृश्ये तु कार्ये दृश्यानुपलब्धिर्गमिका । ततोऽयमप्यभावसाधनः724 । निष्कम्पायतसलिलपूरिते
ह्रदे हेमन्तोचितबाष्पयोद्गमे विरले सन्ध्यातमसि सति सन्नपि तत्र धूमो न दृश्यत725 इति
कारणानुपलब्ध्या 726प्रतिषेध्यते । वह्निस्तु यदि तस्याम्भस उपरि प्लवमानो भवेत्727 प्रज्वलितो,
रूपविशेषादेवोपलब्धो भवेत् । अज्वलितस्तु 728इन्धनमध्यनिविष्टो भवेत् । तत्रापि दहनाधि
करणमिन्धनं प्रत्यक्षमिति स्वरूपेण, आधाररूपेण वा दृश्य729 एव वह्निरिति तत्रास्य730 प्रयोग
731इति ॥
व्यापकविरुद्धोपलब्धिं व्याख्यातुमाह--प्रतिषेध्येत्यादि । पूर्ववद् धर्म्यादिप्रदर्शनम् ।
अत्रापि विशिष्टाद् वह्नेरिति द्रष्टव्यम् ।
अस्यापि प्रयोगविषयमाह--यत्रेति । कथं तयोरदृश्यत्वम्, वह्नेश्च दृश्यत्वम्, कथं
च न शीतस्पर्श एव तुषारस्पर्श इत्याशङ्कात्रितयमपाकुर्वन्नाह--दूरेति । चो हेतौ नियमे वा ।
तयोर्भेदमुपपादयति तुषारेति । शीतमात्रमशीतव्यावृत्तिमात्रम् । ततः शीतमात्राऽभावात् ।
शीतविशेषश्चासौ तुषारस्पर्शश्चेति विग्रहः ।
कथं तदभावनिश्चय इत्याह--शीतविशेषस्येति । एष च वास्तवो निवृत्तिक्रमः
परामर्शदशायां दर्शितो न तु तत्प्रयोग53b कालिकः । तथात्वे हि नैकमनुमानमिदं स्यात् ।
इतीत्यादिनोपसंहरति । इतिरेवमर्थे । तस्मादर्थे वा । एतेन यद् यत्र नियतसहोपलम्भं
तत्ततो न भिद्यते । यथैकस्माच्चन्द्रमसो द्वितीयश्चन्द्रमा । नियतसहोपलम्भस्तु नीलादिर्ज्ञानेने
त्यादि दर्शितं द्रष्टव्यम् ॥
कारणानुपलब्धिं विवरिषुराह--प्रतिषेध्येति ।
ननु द्वयोरपि तुल्यस्वज्ञानजननयोग्यतारूपत्वात् तुल्यदृश्यत्वमिति कथमस्याः प्रयोग
इत्याशङ्क्य विषयमस्या दर्शयितुं यत्रेत्यादिनोपक्रमते ।
ननु मनोमोदकोपयोगमात्रमेतत् न पुनरीदृशो विषयोऽस्ति यत्राग्निरेव दृश्यो न धूम
इति कथं पूर्वोक्तातिक्रम इत्याह--निष्कम्पेति । ह्रदो जलाधारविशेषः । निर्गतः कम्पश्चलनं
यस्मात्स तथा स चासावायतो महानिति तथा । स चासौ सलिलपूरितश्चेत्येवं विग्रहः कार्यः ।
आयतग्रहणेन ह्रदस्य महत्त्वाद् बाष्पे भूयस्त्वमत एव धूमस्य ततो भेदेनानुपलक्षणमिति दर्शयति ।
पुनः किं विशिष्टे ? हेमन्ते हेमन्तसंज्ञके काले । उचितोऽधिकृतश्चासौ बाष्पश्चेति कारणविरुद्धोपलधिर्यथा--नास्य रोमहर्षादिविशेषाः, प्रतिषेध्यस्य यत् कारणं तस्य यद्विरुद्धं तस्योपलब्धेरुदाहरणं यथेति । अस्येति
137
सन्निहितदहनविशेषत्वादिति ॥ ४० ॥
धर्मी । रोम्णां हर्ष उद्भेदः । स आदिर्येषां दन्तवीणादीनां शीतकृतानाम्, ते विशि 732ष्यन्ते
तदन्येभ्यो भयश्रद्धादिकृतेभ्य इति रोमहर्षादिविशेषाः । ते न सन्तीति साध्यम् । दहन एव
विशिष्यते733 तदन्यस्माद्दहनाच्छीतनिवर्त्तनसामर्थ्येनेति दहनविशेषः । कश्चिद् दहनः सन्नपि
न शीतनिवर्त्तनक्षमो यथा प्रदीपः । तादृशनिवृत्तये विशेषग्रहणम् । सन्निहितो दहनविशेषो
यस्य स तथोक्तः । तस्य भावस्तस्मादिति हेतुः । यत्र शीतस्पर्शः सन्नप्यदृश्यो रोमहर्षादि
विशेषाश्चादृश्याः, तत्रायं प्रयोगः । रोमहर्षादिविशेषस्य दृश्यत्वे दृश्यानुपलब्धिः प्रयोक्तव्या ।
शीतस्पर्शस्य दृश्यत्वे कारणानुपलब्धिः । तस्मादभावसाधनोऽयम् । रूपविशेषाद्धि दूराद्
तथा तस्योद्गम ऊर्ध्वं गमनं यस्मिन् यस्माद् वा स तथा । कालविशेषेऽप्यस्याः प्रयोग इति
दर्शयति विरले । सन्ध्याकालोचितं तमः सन्ध्यातमः तस्मिन् विरले मन्दप्रचारे । कुत्र ? ह्रदे
तथाविधे च तमसि सति । इतिस्तस्माद् । वह्नेरपि तत्रेयं गतिर्भविष्यतीत्याह—
वह्निस्त्विति । तुः पूर्ववत् । अम्भस इति षष्ठी पुनः षष्ठ्यतसर्थे पाणिनि २. ३. ३०
त्यादिना उपरिशब्दस्यातसर्थप्रत्ययान्तत्वात् । तथाहि ऊर्ध्वंर्ध्वशब्दाद् उपर्युपरिष्टाद्
पाणिनि ५. ३. ३१इतिरित्प्रत्ययो निपातितः । तेनैव सूत्रेणोर्ध्वशब्दस्योपादेशोऽपि ।
प्लवमानोऽवतिष्ठमानः । अनेकार्थत्वाद् धातोर्गच्छन्निति वा । स्वरूपेण ज्वाला
रूपेणाधाररूपेणेन्धननिविष्टेन । इतिर्हेतौ । तत्र तस्मिन् स्थानविशेषे । अस्य कारणानुपलम्भस्य ।
तमिस्रायामेव तु रात्रौ निराधारके प्रदेशे कारणानुपलब्धेः प्रयोगः सुकरः, तत्र वह्नेर्दृश्य
त्वाद् धूमस्य सतोऽप्यदृश्यत्वात् । अनेन पुनरेवंविधं विषयं परित्यज्यान्यं विषयमुपपादयता
किमित्यात्माऽऽयासित इति न प्रतीमः ।
एवं तु प्रयोगः कार्यः--यत्र यस्य कारणं नास्ति न तत्तत्रास्ति । यथा बीजाभावेऽ
ङ्कुरः । नास्ति चात्र धूमस्य कारणं वह्निरिति ।
एतेन यत्र यत्र विज्ञानस्य कारणं विज्ञानं नास्ति न तत्र विज्ञानमुपपद्यते । यथोपलशकले ।
नास्ति च प्राग्भवीयं विज्ञानं कललावस्थायामिति कारणानुपलब्धिप्रसङ्गः सूचितस्तुल्यन्यायार्थः ॥
कारणविरुद्धोपलब्धिं व्याख्यातुमाह प्रतिषेध्यस्येति । पूर्ववद् धर्म्यादिप्रदर्शनम् । उद्भेदः
पुलक इत्यर्थः । दन्तवीणाऽधरोपरिस्थितदन्तपङ्क्तिभ्यां सत्वरमभिहन्यमानाभ्यां... ... ...
कटकटकरणम् । आदिशब्देन शरीरकम्पस्य ग्रहणम् । 734सुखादित्यादिग्रहेण हर्षवीररसयोर्ग्रहणम् ।
138
व्धनं पश्यति । शीतस्पर्शस्त्वदृश्यो रोमहर्षादिविशेषाश्च । तेषां कारणविरुद्धोपलब्ध्याऽभावं735
प्रतिपद्यत इति तत्रास्य प्रयोग736 इति ॥
कारणविरुद्धकार्योपलब्धिर्यथा--न रोमहर्षादिविशेषयुक्तपुरुषवानयं
प्रदेशः, धूमादिति ॥ ४१ ॥
प्रतिषेध्यस्य यत् कारणं तस्य यद् विरुद्धं तस्य यत् कार्यं तस्योपलब्धिरुदाहर्त्तव्या—
यथेति अयं737 प्रदेश इति धर्मी । योगो युक्तम् । रोमहर्षादिविशेषैर्युवतं 738रोमहर्षादि
विशेषयुक्तम् । तस्य सम्बन्धी 739पुरुषो 740रोमहर्षादिविशेषयुक्तपुरुषः । तद्वान् न भवतीति
साध्यम् । धूमादिति हेतुः ।
किं 54a शीतनिवर्त्तनाऽक्षमोऽप्यस्ति दहनो येन ततो विशिष्यत इत्याह--कश्चिदिति ।
सन्निहितो दहनविशेषो यस्येति विगृह्णन् सन्निहितश्चासौ दहनविशेषश्चेति यदन्येन व्याख्य तं
तदपहस्तयति । तदा हि व्यधिकरणासिद्धो हेतुः स्यादिति ।
क्व पुनरस्याः प्रयोग इत्याह--यत्रेति ।
ननु शीतस्पर्शरोमहर्षविशेषाणामदृश्यत्वे कथं वह्नेर्दृश्यत्वमित्याह--रूपेति । हिर्यस्मात् ।
इतिरेवमनन्तरोक्तेन न्यायेन । तत्र विशेषेऽस्य कारणविरुद्धोपलम्भस्य । एष तु प्रयोगोऽभिधानीयः
यत्र यत्कारणविरुद्धमस्ति न तत्तत्रास्ति । यथा श्लेष्मविरुद्धे पित्ते न श्लैष्मिको व्याधिः ।
अस्ति च रोमहर्षादिकारणविरुद्धो वह्निरत्रेति ।
एतदप्यत्यन्ताभ्यासाज्झटिति सन्निहितदहनविशेषत्वावगममात्रे रोमहर्षादिविशेषाभाव
प्रतीत्युदये सत्येकमाचार्येणोक्तम् । धर्मोत्तरेणापि तथा व्याख्यायत इति द्रष्टव्यम् । अन्यथा
तु विरुद्धोपलम्भकारणानुपलम्भसम्भवे द्वे इमे अनुमाने । तथा हि--यत्र वह्निर्न तत्र शीतस्पर्श
इति विरुद्धोपलम्भजमेकमनुमानम् । यत्र शीतस्पर्शाभावो न तत्र तत्कार्यरोमहर्षादीति
कारणानुपलम्भजं द्वितीयमिति ॥
प्रतिषेध्यस्येत्यादिना कारणविरुद्धकार्योपलब्धिं व्याचष्टे । पूर्ववद् धर्म्यादिप्रदर्शनम् ।
रोमहर्षादिविशेषैर्युक्तश्चासौ पुरुषश्चेति कर्मधारयं कृत्वा स विद्यते यत्र स तद्वानिति 741रोमहर्षादिविशेषस्य प्रत्यक्षत्वे दृश्यानुपलब्धिः । कारणस्य शीतस्पर्शस्य प्रत्यक्षत्वे
शान्तभद्रेण व्याख्यातम् । तच्चावद्यम् । यतः कर्मधारयमत्त्वर्थीयाद् बहुव्रीहिरेव लाघवेन
इति वचनाद् रोमहर्षादिविशेषयुक्तः पुरुषो यत्रेत्येवं विशिष्टे प्रदेशेऽवगते किं मत्वर्थीयेनेति
मन्यमानो महावैयाकरणोऽयं धर्मोत्तरः प्राहः--योगो युक्तमिति भावे निष्ठा । यद्येवं कृष्णः सर्पो
139
कारणानुपलब्धिः । वह्नेस्तु742 प्रत्यक्षत्वे कारणविरुद्धोपलब्धिः प्रयोक्तव्या । त्रयाणामप्यदृश्यत्वेऽयं
प्रयोगः । तस्मादभावसाधनोऽयम् । 743तत्र दूरस्थस्य प्रतिपत्तुर्दहनशीतस्पर्शरोमहर्षादिविशेषा
अप्रत्यक्षाः सन्तोऽपि, धूमस्तु प्रत्यक्षो यत्र, तत्रैतत् प्रमाणम् । धूमस्तु 744यादृशस्तद्देशे स्थितं
शीतं निवर्त्तयितुं समर्थस्य वह्नेरनुमापकः स इह ग्राह्यः । धूममात्रेण 745तु वह्निमात्रेऽनुमितेऽपि
न शीतस्पर्शनिवृत्तिः, नापि 746रोमहर्षादिविशेषनिवृत्तिरवसातुं 747शक्येति न धूममात्रं हेतुरिति
द्रष्टव्यमिति ॥
यस्मिन् वल्मीके, लोहितः शालिर्यस्मिन् ग्रामे, गौरः खरो यस्मिन्नरण्य इति बहुव्रीहिणा भवितव्यम् ।
ततश्च कृष्णमर्पवान् वल्मीको, लोहितशालिमान् ग्रामः, गौरखरवदरण्यमिति न स्यात् ।
साधवश्चामी प्रयोगास्तत्कथमनेनैवं व्याख्यातमिति चेत् । नैष दोषः । यस्मात् कर्मधारयमत्वर्थीयाद्
बहुव्रीहिर्लाघवेन इतीदं वचनं संज्ञाशब्दं वर्जयित्वा वेदितव्यम् । संज्ञाशब्दाश्चैते कृष्णसर्प
लोहितशालिगौरखरशब्दा इति साधूक्तं योगो युक्तमिति । रोमहर्षादिविशेषयुक्तमिति रोम
हर्षादिविशेषयोग इत्यर्थः । तस्य तद्युक्तस्य तद्योगस्य सम्बन्धी । सम्बन्धीत्यनेन सम्बन्ध
षष्ठीयं समस्यत इति दर्शयति । यतोऽयं रोमहर्षादिविशेषयोगः स्वात्मना पुरुषं व्यवच्छिनत्ति ।
ततो व्यवच्छेदकः सन्पुरुषं स्वसम्बन्धिनमुपपादयति ।
कदाऽयं प्रयोगो द्रष्टव्य इत्याह--त्रयाणामिति वह्निशीतस्पर्शरोमहर्षादिविशेषाणाम् ।
अपिरवधारणे । कस्मादेवमित्याह--रोमहर्षादिविशेषस्येत्यादि । हिशब्दार्थश्चात्रार्थाद् द्रष्टव्यः ।
यत एवं तस्मात् । 54b अयमित्ययमपीति द्रष्टव्यम् ।
क्व पुनस्त्रयाणामप्रत्यक्षत्वं धूमस्य तु प्रत्यक्षत्वमित्याह--तत्रेति वाक्योपक्षेपे । विद्यमाना
अप्यप्रत्यक्षा यद्यभविष्यन्, नियतमुपालप्स्यन्तेति सम्भावनामतिवृत्ताः । दूरस्थस्येति हेतुभावेन
विशेषणम् । ततोऽयमर्थः--दूरस्थत्वात् प्रतिपत्तुस्ते सन्तोऽप्यप्रत्यक्षा इति ।
तत्र स्थाने । एतत् कारणविरुद्धकार्यरूपं साधनं प्रमाणमित्यनुमानाख्यप्रमाण
जनकवात् । अदूरस्थत्वे तु प्रतिपत्तुः प्राकारादिव्यवहितोद्देशेऽयं प्रयोगो द्रष्टव्यः । धूमशब्देन
विशिष्टो धूमो विवक्षित इति दर्शयति--धूमस्त्विति । तुशब्दो विशेषार्थः ।
एतदेव व्यतिरेकमुखेण द्रढयन्नाह--धूममात्रेणेति । तुः पूर्वस्माद् वैधर्म्यमाह । इति
र्हेतौ । द्वितीय इतिरेवमर्थः ।
140
यद्येकः प्रतिषेधहेतुरुक्तः कथमेकादशाऽभावहेतव इत्याह--
इसे सर्वे कार्यानुपलध्यादयो दशानुपलब्धिप्रयोगाः स्वभावानुपलब्धौ
सङ्ग्रहमुपयान्ति ॥ ४२ ॥
748इमे सर्वे इत्यादि । इमेऽनुपलब्धिप्रयोगाः । इदमानन्तरप्रक्रान्ता749 निर्दिष्टाः ।
तत्र कियतामपि ग्रहणे प्रसक्त आह--कार्यानुपलब्ध्यादय इति । कार्यानुपलब्ध्यादीनामपि
त्रयाणां चतुर्णां वा ग्रहणे प्रसक्त750 आह--दशेति । 751तत्र दशानामप्युदाहृतमात्राणां ग्रहण
प्रसङ्गे 752सत्याह--सर्व इति ।
एतदुक्तं भवति--अप्रयुक्ता753 अपि प्रयुक्तोदाहरणसदृशाश्च सर्व एवेति । दशग्रहण
मन्तरेण सर्वग्रहणे क्रियमाणे प्रयुक्तोदाहरणकार्त्स्न्यं 754गम्येत । दशग्रहणात्755 756तूदाहरण
कार्त्स्न्येऽवगते सर्वग्रहणमतिरिच्यमानमुदाहृतसदृशकार्त्स्न्यावगतये757 758जायते ।
प्रयोगः पुनरीदृशो वाच्यः--यत्र यत्कारणविरुद्धकार्यमस्ति तत्र तन्नास्ति । यथा
रुदितविशेषे सति न स्मितविशेषः । रोमहर्षादिविशेषयुक्तपुरुषवत्त्वकारणशीतस्पर्शविरुद्ध
वह्निकार्यञ्चात्र धूम इति ।
एतदप्यत्यन्ताभ्यासाज्झटिति धूमदर्शनेन रोमहर्षादियुक्तपुरुषवत्त्वाभावप्रतीत्युदये सति
कारणविरुद्वकार्योपलब्धिजमेकमनुमानमुक्तमाचार्येणेति द्रष्टव्यम् । अन्यथा कार्यहेतुविरुद्धो
पलम्भकारणानुपलम्भसम्भवानि त्रीण्यमून्यनुमानानि । तथा हि--तदेयं परिपाटिः--यत्र
धूमस्तत्राग्निरिति कार्यहेतुजमेकमनुमानम् । यत्र वह्निर्न तत्र शीतस्पर्श इति विरुद्धोपलम्भजं
द्वितीयम् । यत्र शीतस्पर्शाभावो न तत्र तत्कार्यरोमहर्षादिविशेषयुक्तपुरुषभाव इति कारणानु
पलम्भजं तृतीयमिति ।
एते च प्रकारा अनुपलब्धेरुपलक्षणं वेदितव्याः । अन्यासामपि विधानसम्भवात् ।
तथाहि व्यापकविरुद्धकार्योपलब्धिरप्यस्ति--यथा ात्र तुषारस्पर्शो धूमादिति । कार्यविरुद्ध
कार्योपलब्धिरप्यस्ति । यथा--नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सन्ति धूमादिति ।
व्यापकविरुद्धव्याप्तोपलब्धिरप्यस्ति--यथा नायं नित्यः कदाचित्कार्यकारित्वादिति । प्रतिषेध्यस्य
नित्यत्वस्य व्यापकं निरतिशयत्वम् । तस्य विरुद्धं सातिशयत्वम् । तेन व्याप्तं कदाचित्कार्य
कारित्वमिति । आसाञ्च यथास्वं यथायोगं प्रयोगाः स्वयमूह्याः ।
141
ते स्वभावानुपलब्धौ सङ्ग्रहं 759तादात्म्येन गच्छन्ति । स्वभावानुपलब्धिस्वभावा760
इत्यर्थः ॥
ननु च स्वभावानुपलब्धिप्रयोगाद् भिद्यन्ते कार्यानुपलब्ध्यादयः । तत् 761कथमन्त
र्भवन्ति ? इत्याह--
पारम्पर्येणार्थान्तरविधिप्रतिपेधाभ्यां प्रयोगभेदेऽपि ॥ ४३ ॥
प्रयोगभेदेऽपि--प्रयोगस्य शब्दव्यापारस्य भेदेऽपि अन्तर्भवन्ति । कथं प्रयोगभेद
इत्याह--अर्थान्तरविधीति762 । 763प्रतिषेध्यादर्थादर्थान्तरस्य विधिरुपलब्धिः स्वभावविरुद्धाद्यु
पलब्धिप्रयोगेषु । प्रतिषेधः कार्यानुपलब्ध्यादिषु प्रयोगेषु । अर्थान्तरविधिना, अर्थान्तर-
केचित्तु नेहाप्रतिबद्धसामर्थ्यानि वह्निकारणानि सन्ति, तुषारस्पर्शादिति कार्यविरुद्ध
व्याप्तोपलब्धिमिच्छन्ति । नात्र धूमस्तुषारस्पर्शादिति कारणविरुद्धव्याप्तोपलब्धिमपीति ॥
सा च प्रयोगभेदादेकादश प्रकारेति यदुक्तं तदसहमानश्चोदयति यदीति । 764अत्र द्वौ
वस्तुसाधनावेकः प्रतिषेधहेतुरित्यनेनैकः प्रतिषेधहेतुरुक्त इति चोदयितुराशयः । कार्येत्यादिना
दशग्रहणस्य तात्पर्यार्थं व्याचष्टे । अपिशब्दः शङ्कायाम् । सर्वग्रहणस्यापि तात्पर्यार्थमाह—
तत्रेति वाक्योपन्यासे । अपिः पूर्ववत् । उदाहृत एवोदाहृतमात्राणि तेषाम् । अनेन
द्रव्यकार्त्स्न्यवृत्तः सर्वशब्दो गृहीत इति दर्शितम् ।
तर्हि 55a सर्वग्रहणमेवास्तु किं दशग्रहणेनेत्याह--दशेति । प्रयुक्तोदाहरणकार्त्स्न्यं
गम्येतेति लोके सर्वे पदातु765योऽत्र योद्धारः इत्यादौ सर्वशब्दस्योपदर्शितकार्त्स्न्यवृत्तस्य
दर्शनादुक्तम् । यद्येवं दशग्रहणेऽप्येवं किं न स्यादित्याह--दशग्रहणादिति । तुर्दशग्रहणरहित
पक्षाद् वैधर्म्यमाह । अतिरिच्यमानमधिकीभवद् गतार्थं सदिति यावत् उपदर्शिततुल्यावबोधाय
सम्पद्यते ।
स्यादेतत्--इमे सर्वे दशानुपलब्धिप्रयोगा इत्येतावतैव कियतां ग्रहणप्रसङ्गो निराकृत प्रतिषेधेन च प्रयोगा भिद्यन्ते । यदि प्रयोगान्तरेष्वर्थान्तरविधिप्रतिषेधौ कथं 766तर्हि एतदुक्तं भवति--न साक्षादेते प्रयोगा दृश्यानुपलब्धिमभिदधति, दृश्यानुपलब्ध्य यदि प्रयोगभेदादेष767 भेदः; परार्थानुमाने वक्तव्य एषः । शब्दभेदो हि प्रयोगभेदः । प्रयोगदर्शनाभ्यासात् स्वयमप्येवं व्यवच्छेदप्रतीतिर्भवतीति769 स्वार्थेऽप्यनुमाने प्रयोगदर्शनेत्यादि । प्रयोगाणां 770शास्त्रपरिपठितानां दर्शनमुपलम्भः । तस्याभ्यासः
एवेति कथं कार्यानुपलब्ध्यादिग्रहणमाचार्यस्य नातिरिच्यते, कथं च धर्मोत्तरस्यैषा तात्पर्यार्थ
व्याख्या--तत्कियतामपि प्रसक्त आहेत्यपर्यालोचितव्याख्यानं न भवतीति चेत् । नैष
दोषः । तथाहि--प्राक्तनैकादशग्रहणस्योपलक्षणार्थत्वेनान्येषामपि व्यापकविरुद्धव्याप्तोप
लब्ध्यादिप्रयोगाणामभिमतत्वादाद्यान् कार्याऽनुपलब्ध्यादिप्रयोगान्विहाय दशसंख्यापूरणं कृतं
भवत्येवेति तदाशङ्कानिवृत्त्यर्थं कार्यानुपलब्ध्यादिग्रहणं कृतमाचार्येण । धर्मोत्तरेणाऽपि तथा
व्याख्यातमिति । न तर्हि दशग्रहणं कर्त्तव्यमिति चेत् । न । अस्योपलक्षणार्थत्वाददोष एषः ।
142
अन्तर्भवन्ति ? इत्याह--पारम्पर्येणेति प्रणालिकयेत्यर्थः ।
व्यभिचारिणं त्वर्थान्तरस्य विधिं निषेधं वाऽभिदधति । ततः प्रणालिकयामीषां स्वभावानुपलब्धौ
सङ्ग्रहो न साक्षादिति ॥
शब्दश्च768 परार्थानुमानमित्याशङ्क्याह--
ऽस्याः प्रयोगनिर्देशः ॥ ४४ ॥
पुनः पुनरावर्त्तनम् । तस्मान्निमित्तात् । स्वयमपीति प्रतिपत्तुरात्मनोऽपि । एवम् इत्य
नन्तरोक्तेन 771क्रमेण । व्यवच्छेदस्य प्रतिषेधस्य प्रतीतिर्भवतीति772 इतिशब्दस्तस्मादर्थे ।
कथं सङ्ग्रहमन्तर्भावं गच्छन्तीत्याह--तादात्म्येनेति । तस्याः स्वभावानुपलब्धेरात्मा
तदात्मा तस्य भावस्तेन स्वभावानुपलब्धित्वेन । अनुपलब्धिस्वभावा इत्यर्थः--इतीदं स्पष्टी
करणमपि स्वभावानुपलब्धिस्मारकत्वेन तत्स्वभावा इति द्रष्टव्यम् ॥
773...रेव किं न शब्दाख्या यत इति चेत् न--पारम्पर्यग्रहणव्याघातप्रसङ्गात्, न साक्षादेत
इत्यादिवक्ष्यमाणधर्मोत्तरीयव्याख्यानव्याघातप्रसङ्गाच्चेति । शब्दस्य व्यापारोऽभिधालक्षणः
तस्य भेदे भिद्यमानत्वेऽपि । स्वभावविरुद्धादीत्यादिग्रहणेन कारणविरुद्धादीनां ग्रहणम् ।
कार्यानुपलब्ध्यादीत्यादिग्रहणेन व्यापकानुपलब्ध्यादीनां ग्रहणम् । अर्थान्तरविधिप्रतिषेधाभ्या
मिति मूले करणतृतीयाद्विवचनान्तमेतदिति दर्शयन्नाह--अर्थान्तरेति । चस्तुल्यबलत्वं
समुच्चिनोति । भिद्यन्ते नानारूपा भवन्ति । प्रयोगान्तरेष्वित्यन्तरशब्दोऽन्यवचनः
स्वभावानुपलब्ध्यपेक्षया । परम्परा परिपाटिः । सैव पारम्पर्यमिति स्वार्थिकः प्रत्ययः ।
एतदेव स्पष्टयति--प्रणालिकयेति ।
ननु यद्यमीषां दृश्यानुपलब्धावन्तर्भावस्तदा साक्षात्तदभिधानं तथात्वे च कथं पारम्पर्येणे तदयमर्थः--यस्मात् स्वयमप्येवमनेनोपायेन774 प्रतिपद्यते प्रयोगाभ्यासात्, तस्मात्
त्याशङ्क्याह--एतदुक्तं भवति । यदि नाभिदधति तदा--न साक्षादिति न कर्त्तव्यम् ।
143
स्वप्रतिपत्तावप्युपयुज्यमानस्यास्य प्रयोगभेदस्य स्वार्थानुमाने निर्देशः । 775यत् पुनः परप्रति
पत्तावेवोपयुज्यते तत् परार्थानुमान एव वक्तव्यमिति ॥
सङ्ग्रहश्च कथमित्याह--दृश्येति । तुर्विशेषार्थे यस्मादर्थे वा । विधिमग्न्यादेः । निषेधं व्यापकादेः ।
चकारो वाशब्दार्थे । ततस्तदव्यभिचारिविधिनिषेधाभिधानात् । न साक्षात्
नाव्यवधानेन । अर्थान्तरविधिप्रतिषेधयोश्च दृश्यानुपलम्भाव्यभिचारित्वं कार्यकारणभावादि
ग्रहणकालप्रवृत्तदृश्यानुपलम्भस्मारकादि द्रष्टव्यम् ।
एष भे55b द इति स्वभावानुपलब्ध्यादिरूपः । कस्मात्तत्र वाच्य इत्याह शब्देति ।
हिर्यस्मात् । शब्दभेदस्त्रिरूपलिङ्गवाक्यनानात्वम् । यद्यप्येवं तथापि कथं तत्र वक्तव्य
इत्याह--शब्दश्चेति । चो हेतौ ।
शास्त्रपरिपठितानामिति शास्त्रपरिपठितद्वारेण परिज्ञातानां स्वभावाद्यनुपलब्ध्यादि
वाचकानां वाक्यानामिति द्रष्टव्यम् । उपलम्भो द्विविधो वाच्यरूपो वाचकरूपश्च । अत
एवावर्त्तनमपि द्वेधा शब्दरूपावर्त्तनम्, अर्थावर्त्तनं च । तत्रार्थावर्त्तनं पुनः पुनश्चेतसि निवेशनम् ।
शब्दावर्त्तनं पुनः पुनरुच्चारणम् ।
मूले स्वयंशब्द आत्मन इति षष्ठ्यर्थे वर्त्तमानो गृहीत इत्याशयेनाह--प्रतिपत्तुरात्मन
इति । स्वार्थानुमानप्रस्तावात्प्रतिपत्तृशब्देन यस्त्रिरूपेण लिङ्गेन परोक्षमर्थं प्रतिपद्यते स गृह्यते ।
अपिशब्दात्परोऽपि तस्मात्प्रतिपद्यत इति सम्बन्धनीयम् । मूले तु न केवलं परस्येति
योजनीयम् । अनन्तरोक्तेन परिपठितस्वभावानुपलब्ध्यादिसूचितेन स्वभावानुपलब्ध्यादिप्रयोग
क्रमेण ।
यत इतिशब्दस्तस्मादर्थे तत्तस्माद् अयं वक्ष्यमाणोऽर्थः । तस्माच्छब्देन यस्मा
च्छब्दस्यान्वयाद् यस्मादित्युक्तम् । अनेन स्वभावानुपलब्ध्यादिप्रयोगलक्षणेनोपायेन प्रतिपद्यत
इत्याशङ्क्य पूर्वमेव स्मरयति प्रयोगाऽभ्यासादिति ।
स्यान्मतम्--न स्वयमुच्चरितः शब्दस्तत्प्रतिपत्तेर्निमित्तम् । प्रतिपन्ने शब्दप्रयोगात् ॥
अन्यथा प्रतिनियतप्रयोगायोगात् । तत्कथं पिष्टपेषणकारी शब्द उपायत्वेनोच्यत इति
नैतदस्ति । यतो लिङ्गदर्शनेनान्यतो वा निमित्तात्प्रबुद्धवासनो मन्दप्रचारार्थस्मरणोऽत्यन्ताभ्यस्त
प्रयोगस्तथाविधप्रयोगमुच्चार्यैवं तत्त्वमवगाहमानस्तदर्थं प्रतिपद्यते--यथा कश्चिदभ्यासात्सति
धर्मिणि धर्माणां लोके चिन्ता प्रवर्त्तत इत्युच्चार्यैवास्यार्थं प्रतिपद्यते, तद्वत् त्रिरूपाख्यानं वाक्य
मुच्चार्यैव कश्चिदभ्यस्तप्रयोगः परोक्षमर्थं प्रतिपद्यते । ततोऽयमुपायो भवत्येव ।
ततो परस्यापि प्रतीत्युदयात् परार्थानुमानमपि स्यादिति चेत् । भवतु । का क्षतिः ?
स्वप्रतिपत्तिप्रयोजनं सत्स्वार्थानुमानं तदैव च तेनान्यः प्रतिपद्यत इति परप्रतिपत्तिप्रयोजनं सत्
परार्थानुमानम् । अत एवमशब्दोऽपि कश्चिन्नियतोऽस्तीत्यवाचामेति ।
144
ननु च कार्यानुपलब्ध्यादिषु कारणादीनामदृश्यानामेव 776निषेधः, दृश्यनिषेधे स्वभावा
777नुपलब्धिप्रयोगप्रसङ्गात् । तथा च सति778 न तेषां779 दृश्यानुपलब्धेर्निषेधः । तत् कथ
मेषां प्रयोगाणां दृश्यानुपलब्धावन्तर्भाव इत्याह--
सर्वत्र 780चास्यामभावव्यवहारसाधन्यामनुपलब्धौ येषां स्वभावविरुद्धादीनामुप
लब्ध्या781 कारणादीनामनुपलब्ध्या च प्रतिषेध उक्तस्तेषामुपलधिलक्षणप्राप्ताना
मेवोपलब्धिरनुपलब्धिश्च वेदितव्या ॥ ४५ ॥
782सर्वत्र चेत्यादि । अभावश्च 783तद्व्यवहारश्च अभावव्यवहारौ । रवभावानुप
लब्धावभावव्यवहारः साध्य । शिष्टेष्वभावः । तयोः साधन्यामनुपलब्धौ । सर्वत्र चेति
चशब्दो हिशब्दस्यार्थे । यस्मात् सर्वत्रानुपलब्धौ784 येषां प्रतिषेध उक्तस्तेषामुपलब्धिलक्षण
प्राप्तानां 785दृश्यानामेवं 786प्रतिषेधस्तस्माद् दृश्यानुपलब्धावन्तर्भावः ।
कुत एतद् दृश्यानामेवेत्याह--स्वभावेत्यादि । अत्रापि चकारो हेत्वर्थः । यस्मात्
स्वभावविरुद्ध आदिर्येषां तेषामुपलब्ध्या, कारणमादिर्येषां तेषामनुपलब्ध्या प्रतिषेध उक्तस्तस्माद्
दृश्यानामेव प्रतिषेध इत्यर्थः ।
यदि नाम स्वभावविरुद्धाद्युपलब्ध्या कारणाद्यनुपलब्ध्या787 च प्रतिषेध उक्तस्तथापि
कथं दृश्यानामेव प्रतिषेध इत्याह--उपलब्धिरित्यादि । अत्रापि चकारो हेत्वर्थः । यस्माद्
ये विरोधिनः, व्याप्यव्यापकभूताः, कार्यकारणभूताश्च ज्ञातास्तेषामवश्यमेवोपलब्धिः, उपलब्धि
पूर्वा चानुपलब्धिर्वेदितव्या 788ज्ञातव्या । उपलब्ध्यनुपलब्धी च द्वे येषां स्तस्ते दृश्या एव ।
तस्मात् स्वभावविरुद्धाद्युपलब्ध्या कारणाद्यनुपलब्ध्या चोपलब्ध्यनुपलब्धिमतां विरुद्धादीनां
प्रतिषेधः क्रियमाणो दृश्यानामेव कृतो द्रष्टव्यः ।
केचित्पुनरेवं व्याचक्षते--स्वयमित्यादिना ग्रन्थेन वार्त्तिककृतेदमुक्तम्--स्वभावादीनामनुप
लब्ध्या विरुद्धादीनाञ्चोपलब्ध्या यथायोगमभावं तद्व्यवहारं च प्रयोगनिरपेक्ष एव प्रतिपत्ता
प्रत्येति । न केवलं प्रयोगाभ्यासात् प्रतिपत्तिसमय एव प्रयोगमुच्चारयति । न तु ततो
ऽपूर्वमवगच्छतीतरथा प्रतिनियतशब्दोच्चारणं न भवेदिति । अनेनोपायेनेति चोपाय इहोपाय
स्तथाशब्दोच्चारणक्रमस्तेनेति वर्णयन्ति । एतेन चानुपलब्धिप्रयोगसमर्थनन्यायेन ।
145
बहुषु चोद्येषु प्रक्रान्तेषु परिहारसमुच्चयार्थश्चकारो हेत्वर्थो भवति । यस्मादिदं चेदं
च समाधानमस्ति तस्मात् तत्तच्चोद्यमयुक्तमिति चकारार्थः ॥
कस्मात् पुनः प्रतिषेध्यानां विरुद्धादीनामुपलब्ध्यनुपलब्धी वेदितव्ये इत्याह--
अन्येषां विरोधकार्यकारणभावाभावासिद्धेः789 ॥ ४६ ॥
अन्येषामिति । उपलब्ध्यनुपलब्धिमद्भ्योऽन्येऽनुपलब्धा एव ये तेषां विरोधश्च
कार्यकारणभावश्च केनचित्सहाभावश्च व्याप्यस्य790 व्यापकस्याभावे791 न सिध्यति यस्मात् ततो
विरोध792 कार्यकारणभावाभावासिद्धेः कारणाद् उपलब्ध्यनुपलब्धिमन्त एवं विरुद्धादयो
निषेध्याः । उभयवन्तश्च दृश्या एव । तस्माद् दृश्यानामेव प्रतिषेधः ।
तदयमर्थः । विरोधश्च793 कार्यकारणभावश्च व्यापकाभावे व्याप्याभावश्च दृश्यानु
पलब्धेरेवेति । 794एकसंनिधावपराभावप्रतीतौ ज्ञातो विरोधः । कारणाभिमताभावे च
कार्याभिमताभावप्रत्ययेऽवसितः795 कार्यकारणभावः । व्यापकाभिमताभावे च 796व्याप्याभि-
अन्ये पुनरन्यथा व्यवस्थिताः--स्वयमपीत्यादिकं नाविर्भूतप्रयोगमधिकृत्योक्तम्, किन्त्वन्त
र्जल्पाकारप्रवृत्तं स्वप्रतिपत्तिकालभा56a विनमिति ।
अत्र च साध्वसाधु वा व्याख्यानं साधुभिरेव ज्ञातव्यमिति ।
स्यादेतत्--यथा प्रयोगभेदः स्वार्थानुमाने कथ्यते तथा च न किञ्चिद् वाच्यं परार्थानु
माने स्यादित्याशङ्क्याह--यत्पुनरिति । परप्रतिपत्तावेव, न तु स्वप्रतिपत्तावपीत्यवधारणार्थः ॥
सम्प्रति दृश्यानुपलब्धावन्तर्भावं सर्वानुपलब्धीनामसहमान आह--ननु चेति । तथा
च सति कारणादीनामदृश्यानां निषेधप्रकारे सति ।
शिष्टेषु परिशिष्टेषु अभाव इत्यभावोपीति द्रष्टव्यम् । न त्वभाव एव व्यवहारस्यापि
साधनात् ।
कारणाद्यनुपलब्ध्या च करणभूतया । कार्यकारणभावादिग्रहणकाले योपलब्धिरनु
पलब्धिश्च पूर्वमासीत् तद्वतां प्रतिषेधः क्रियमाणो दृश्यानामेव कृतो द्रष्टव्यो ज्ञातव्यः । यथा
अर्थविरोधादिग्रहणकालेऽवश्यंभाविनी दृश्यानुपलब्धिस्तथाऽनन्तरमेव धर्मोत्तरेण प्रसाधयिष्यते ।
ननु च कारणादीनां चेत्यनेन प्र797कारेणावश्यं समुच्चयार्थेन भाव्यम्, तत्कथं हेत्वर्थे
व्याख्यायत इत्याशङ्क्य पूर्वं बुद्धिस्थं स्पष्टयन्नाह--बहुष्विति ।
एवम्मन्यते--समुच्चयार्थे वर्त्तमान एवायं हेत्वर्थे वर्त्तते । न त्वेवं समुच्चयार्थो
निराक्रियते, हेतूनां परस्परसमुच्चयस्य प्रतीयमानत्वात् । तथा स न हेत्वर्थो भवति । इतिरेवं
चकारस्यार्थः प्रयोजनम् ॥
146
मताभावे निश्चिते निश्चितो व्याप्यव्यापकभावः । तत्र798 व्याप्यव्यापकभावप्रतीतेर्निमित्तमभावः
प्रतिपत्तव्यः । इह गृहीते वृक्षाभावे हि शिंशपात्वाभावप्रतीतौ 799प्रतीतो व्याप्यव्यापकभावः ।
अभावप्रतिपत्तिश्च सर्वत्र दृश्यानुपलब्धेरेव । तस्माद्विरोधम् कार्यकारणभावम्, व्याप्यव्यापक
भावं च स्मरता विरोध-कार्यकारणभाव-व्याप्यव्यापकभाविविषयाभावप्रतिपत्ति800 निबन्धनं
दृश्यानुपलब्धिः स्मर्तव्या । दृश्यानुपलब्ध्यस्मरणे विरोधादीनामस्मरणम् । तथा च सति
न विरुद्धादिविधिप्रतिषेधाभ्यामितराभावप्रतीतिः स्यात् । विरोधादिग्रहणकालभाविन्यां च
दृश्यानुपलब्धाववश्यस्मर्तव्यायां तत एवाभावप्रतीतिः ।
तत्र यद्यपि संप्रतितनी 801नास्ति दृश्यानुपलब्धिर्विरोधादिग्रहणकाले त्वासीत् । या
दृश्यानुपलब्धिः संप्रति स्मर्यमाणा सैवाभावप्रतिपत्तिनिबन्धनम् । ततः संप्रति नास्ति 802दृश्यानु
पलब्धिरित्यभावसाधनत्वेन दृश्यानुपलब्धिप्रयोगाद् भिद्यन्ते कार्यानुपलब्ध्यादिप्रयोगाः ।
विरुद्धशब्देन प्रतिषेध्यस्य विरुद्धं ग्राह्यम् । आदिशब्देन विरुद्धकार्यादीनां ग्रहणम् ।
येषामेकदोपलब्धिस्तेभ्योऽन्येऽनुपलब्धा एव । कदाचित्क्वचिदज्ञाता एव । व्यापकस्याभावेऽ
भावश्च व्याप्यस्य न सिद्ध्यिति यस्मात् ।
अयमाशयः--यदि पूर्वं व्यापकाभिमतस्याभावे व्याप्याभिमताभावो निश्चितो भवेत् तदा
व्याप्यव्यापकभावः सिद्ध्येत्, तदा च व्यापकानुपलब्धिर्गमिका स्यात्, नान्यदेति ।
अयमत्र प्रकरणार्थः--प्रबन्धेन भवतो यद्भावे यस्याभावस्तस्य विरोधगतिर्यत्स्व
भावश्च येनोपलभ्यते तेन सह कार्यकारणभावोऽपि पञ्चप्रत्यक्षानुपलम्भसमधिगम्यः, व्याप्य
व्यापकभावोऽपि प्रत्यक्षानुपलम्भावसेय इति कथमदृश्यस्य सिद्ध्यन्तीति ।
ननु भवन्तु तेऽन्यत्र दृश्याः, तत्र तावददृश्या एव वक्तव्याः । दृश्यत्वे दृश्यानुपलम्भ
प्रयोगात् । तत्कथं दृश्यानुपलब्धावितरासामनुपलब्धीनामन्तर्भाव इत्याशङ्क्य तथा तत्रान्तर्भा
वस्तथा दर्शयितुमाह--तदिति । यस्मादन्यत्र दृश्यत्वेऽपि विरुद्धादीनां दृश्यानुपलम्भेऽन्तर्भावो
न घटते, स चाचार्येणोक्तस्तत्तस्मादयमर्थः--सर्वत्र चेत्यादेर्वाक्यस्य तात्पर्यार्थः । कथं
दृश्यानुपलब्धेरित्यमुमर्थं तावत्प्रसाधयति--एकेति ।
कार्यकारणभावे का वार्तेत्याह--कारणेति ।
यद्येवं व्याप्यव्यापकभावस्य का गतिरित्याह--व्यापकेति ।
ननु च व्याप्यव्यापकभावनिश्चये तयोरेकत्वात् किमभावनिश्चयेनेत्याह--तत्र व्याप्य
व्यापकभावनिश्चये कर्त्त56b व्ये । कथमभावप्रतीतिर्व्याप्यव्यापकभावप्रतीतेर्निमित्त
मित्याह--इहेति ।
147
विरुद्धविधिना, कारणादिनिषेधेन च यतो दृश्यानुपलब्धिराक्षिप्ता ततो दृश्यानुप
लब्धेरेव803 कालान्तरवृत्तायाः स्मृतिविषयभूताया अभावप्रतिपत्तिः । अमीषां च प्रयोगाणां
दृश्यानुपलब्धावन्तर्भावः । तदनेन सर्वेण दृश्यानुपलब्धावन्तर्भावो दशानामनुपलब्धिप्रयोगाणां
पारम्पर्येण दर्शित इति वेदितव्यम् ॥
आस्तां सर्वत्र विरोधादावभावप्रतीतिः, दृश्यानुपलब्धिस्तु क्वोपयुज्यत इत्याह—
अभावेति । चो हेतौ ।
ननु यदि नाम विरोधादिग्रहणकाले दृश्यानुपलब्धिरासीत्, तथापि न सा विरुद्धोप
लब्धि-व्यापकानुपलब्ध्यादिप्रयोगविषये सम्प्रत्यनुवर्त्तते । तत्कथं विरुद्धोपलब्ध्यादीनां तत्रान्तर्भाव
इत्याह--तस्मादिति । यतोऽभावप्रतीतिमन्तरेण न विरोधादिसिद्धिः, अभावसिद्धिश्च दृश्यानु
पलब्धेस्तस्माद् हेतोर्विरोधादिकं स्मरतेति विरुद्धोपलम्भव्यापकानुपलम्भादिप्रयोगकाल इति
द्रष्टव्यम् । तदस्मरणे हि यतो विरुद्धादिरिहास्ति, यतोऽयं व्यापकादिर्नास्ति, तस्मात्तत्तन्ना
स्तीत्यस्याः प्रतीतेरयोगात्--इत्यपि द्रष्टव्यम् । स्मरतेति च तदानीं विरोधादेर्ग्रहणाद् गृहीतस्यैव
विकल्पनादुक्तम् । कुतः पुनरवश्यस्मर्त्तव्या सेत्याह--दृश्येति ।
अथ स्यात्--प्राक्तनी दृश्यानुपलब्धिः सदा स्मर्यताम्, तथापि कथमसौ विवक्षिताभाव
सिद्धावुपयोगं भजते, येनात्मनीतरा अनुपलब्धौ804रन्तर्भावयतीत्याह--विरोधेति । चो
यस्मात्तस्यां नियतस्मरणायां सत्याम् ।
ननु विरुद्धोपलब्धिकारणाद्यनुपलब्धिप्रयोगविषये सा नास्ति तत्कथमविद्यमाना सैवा
भावप्रतीतेर्निबन्धनमित्याह--तत्रेति वाक्योपन्यासे । सम्प्रतीदानीं स्मर्यमाणा सैवाभावप्रती
तेर्निबन्धनं विरुद्धाद्यभावज्ञानस्य करणम् ।
कथं तर्हि दृश्यानुपलब्धेर्विरुद्धोपलब्ध्यादीनां भेद इत्याह--तत इति । ततो विरोधादि
ग्रहणकालप्रवृत्ताया दृश्यानुपलब्धेः स्मर्यमाणत्वात्, सम्प्रति सा नास्ति । इतिस्तस्माद
त्राभावः साध्यते तेनाभावसाधनत्वेन ततो भिद्यन्ते विरुद्धोपलब्ध्यादिप्रयोगाः ।
विरुद्धविधिनेत्यादिनोक्तमर्थमुपसंहरति । विरुद्धविधिनेत्युपलक्षणम । विरुद्धकार्या
दिविधिनाऽपि दृश्यानुपलम्भाक्षेपात् । अन्यथा तासां तत्रान्तर्भावो न स्यात् ।
ननु स्वातन्त्र्येण त्वया तस्या एव प्राक्प्रवृत्ताया अभावनिश्चयो दर्शितस्तत्र चानुपलब्धी
नामन्तर्भावः, न त्वाचार्यस्यायमभिप्रेत इत्याशङ्क्याचार्यस्यैवायमभिप्रेतोऽर्थ इति दर्शयन्नाह—
तदनेनेति । अनेन इमे सर्व २. ४२ इत्यादिना805 व्यापकभावासिद्धेरित्यन्तेन ।
यदि साक्षात्तस्यामन्तर्भावस्तदा दश्यानुपलब्धिः स्यात्, न बिरुद्धोपलब्ध्यादिभेद इत्याह—
पारम्पर्येणेति । विरुद्धादिप्रयोगकाले न साऽस्ति केवलं प्राक्प्रवृत्ता सा स्मर्यत इति ।
अयमत्र प्रकरणार्थः--दृश्यानुपलम्भस्यावक्तव्यत्वेन दशानामप्यनुपलब्धोनां तत्रान्तर्भावः,
विरुद्धाद्यभावप्रतीतावनुपयोगश्चेति ।
148
उक्ता दृश्यानुपलब्धिरभावे, अभावव्यवहारे च साध्ये प्रमाणम् । अदृश्यानुपलब्धिस्तु806
किंस्वभावा, किंव्यापारा807 चेत्याह--
विप्रकृष्टविषया808 पुनरनुपलब्धिः प्रत्यक्षानुमाननिवृत्तिलक्षणा संशयहेतुः ॥ ४७ ॥
विप्रकृष्टेत्यादि । विप्रकृष्टस्त्रिभिर्देशकालस्वभावविप्रकर्षैर्यस्या विषयः सा विप्रकृष्ट
विषयेति संशयहेतुः । किंस्वभावा सेत्याह--प्रत्यक्षानुमाननिवृत्तिर्लक्षणं स्वभावो यस्याः
सा प्रत्यक्षानुमाननिवृत्तिलक्षणा । न ज्ञानज्ञेयस्वभावेति यावत् ॥
केचित्पुनरत्रैवं ब्रुवते--इहैकज्ञानसंसर्गिवस्त्वन्तरोपलम्भोऽनुपलम्भः । न च शीतस्य
निषेधे साध्ये दूरत्वाद् वह्नेर्भास्वररूपोपलब्धिः शीतस्पर्शानुपलब्धिर्युज्यते । येनानुपलब्धिः
सिद्ध्येत्, रूपस्पर्शयोरेकज्ञानसंसर्गित्वाभावात् । 57a न च विरोधग्रहणकालप्रवृत्त
दृश्यानुपलम्भस्मारकत्वेन दृश्यानुपलम्भत्वं वाच्यम्, प्राक्प्रवृत्तप्रत्यक्षस्मारकत्वेनापि प्रत्यक्षत्व
प्रसंङ्गात् । अत एव विरोधादिग्रहणकालप्रवृत्तदृश्यानुपलम्भस्मारकत्वेनानुपलब्धीनां तत्रान्तर्भावो
न युज्यते । नापि स्मृतायास्तस्या एवाभावनिश्चयः, व्याप्तिग्राहकप्रमाणस्मारकत्वेन परार्थानु
मानस्य तत्प्रमाणान्तर्भावप्रसङ्गात्, तत एव स्मर्यमाणात् प्रमाणाद् विवक्षितप्रतीतिप्रसङ्गाच्च ।
तस्मात्सर्वत्रैव सम्प्रतितनो दृश्यानुपलम्भो दर्शनीयस्तद्बलेनैवाभावनिश्चयो वाच्यः, न तु
प्राक्प्रवृत्ताद् दृश्यानुपलम्भात् स्मृत्या विषयीकृतादभावनिश्चयः । नापि तत्स्मारकत्वेनानुप
लब्धीनां तथात्वमिति ।
यद्येवं कथङ्कारं स प्रदर्श्यतामिति चेत् । उच्यते । दूराद् वह्ने रूपविशेषं दृष्ट्वा
यत्रैवंविधरूपविशेषस्तत्र तावद्देशव्यापकस्तुषारस्पर्शविशेषोऽस्ति । यथा महानसादौ तथा
विधमेवरूपमित्यानुमानिकी विशिष्टोष्णस्पर्शप्रतीतिः । सैव च शीतस्पर्शानुपलब्धिरुष्णशीत
स्पर्शयोरेकज्ञानसंसर्गित्वात् । विवक्षितोपलम्भादन्य उपलम्भोऽनुपलम्भः । स क्वचित्प्रत्यक्षात्मा
क्वचिदनुमानात्मेति न शास्त्रविरोधो न युक्तिविरोधः । तत एव तद्दृश्यानुपलम्भाच्छीतस्प
र्शाभावप्रतीतिः ।
आहत्यन्तं 809 दृश्यानुपलब्धेरनुदयाद् दृश्यानुपलब्धेर्भेदेन निर्देशः । अत एव चानु
मिताऽनुमानमेतत् । केवलमत्यन्ताभ्यासाञ्झटिति तथाप्रतीत्युदये सत्येकमनुमानमुक्तम् ।
वस्तुतस्त्वनेकमनुमानमेतत् । एवं व्यापकविरुद्धकार्योपलब्ध्यादावपि सर्वं द्रष्टव्यम् । तथा
च व्यापकविरुद्धोपलब्ध्यादिष्वपरमनुमानमेकं प्लवमानमवसेयम् । ययोश्च परस्परपरिहा
रस्थितलक्षणो विरोधस्तत्र दृश्यानुपलब्धिः स्फुटैव । तेन विरुद्धव्याप्तोपलब्ध्यादिषु सम्प्रत्येव
दृश्यानुपलब्धिरस्ति । भेदस्तु पारम्पर्येण तदुदयात् । एवं व्यापककारणानुपलब्ध्यादिष्व
कारणव्यापकादेर्धर्मस्यैवानुपलम्भादभावे 810 न प्राक्तनस्य स्मृत्यादिविषयीकृतस्य । दृश्यानुप
लम्भस्य च साक्षात्कारणे व्यापारात् पारम्पर्येण च विरुद्धाद्यभावे भावे व्यापारात् दृश्यानुप
लब्धेर्भेदेन कारणानुपलब्ध्यादीनां प्रयोग इति ॥
149
ननु च प्रमाणात् प्रमेयसत्ताव्यवस्था । ततः प्रमाणाभाबात् प्रमेयाभावप्रतित्तिर्यु
क्तेत्याह--
प्रमाणनिवृत्तावप्यर्थाभावासिद्धेरिति ॥ ४८ ॥
॥ 811स्वार्थानुमानपरिच्छेदो द्वितीयः समाप्तः ॥
प्रमाणनिवृत्तावपीत्याह । कारणं व्यापकं च निवर्तमानं कार्यं व्याप्यं च निवर्तयेत् ।
न च प्रमाणं प्रमेयस्य कारणं नापि व्यापकम् । अतः प्रमाणयोर्निवृत्तावपि अर्थस्य प्रमेयस्य
निवृत्तिर्न सिध्यति । ततोऽसिद्धेः संशयहेतुरदृश्यानुपलब्धिः, न निश्चयहेतुः । यत् पुनः
प्रमाणसत्तया प्रमेयसत्ता सिध्यति तद् युक्तम् । प्रमेयकार्य हि प्रमाणम् । न च कारण
मन्तरेण कार्यमस्ति । न 812तु कारणान्यवश्यं कार्यवन्ति भवन्ति । तस्मात् प्रमाणात्
प्रमेयसत्ता व्यवस्थाप्या, न प्रमाणामावात् प्रमेयाभावव्यवस्थेति ॥
॥ 813आचार्यधर्मोत्तरकृतायां न्यायबिन्दुटीकायां स्वार्थानुमानो द्वितीयः परिच्छेदः ।
सम्प्रत्यदृश्यानुपलब्धिमधिकृत्योक्तं व्याचक्षाण आह--उक्तेति ।
ननु यदि प्रत्यक्षाऽनुमाननिवृत्तिमात्ररूपाऽदृश्यानुपलब्धिरभावे साध्ये संशयहेतुरनैकान्तिकी
तर्हि सा ततश्च हेत्वाभासावसर एव वक्तव्या । तत् किमिहोच्चयत इति चेत् । नैतम814स्ति । यतो
न सा वचनव्यक्त्याऽनुपलब्धिक्षणप्राप्तस्यानुपलब्धिरसद्व्यवहारे साध्ये न प्रमाणम्, ऐकान्तिक
सद्व्यवहारनिषेधे तु प्रमाणमिति प्रदर्शनात् ।
न ज्ञानज्ञेयस्वभावेति यावदित्यार्थं न्यायमाश्रित्योक्तं न शाब्दमिति द्रष्टव्यम् ॥
यदि प्रमाणनिवृत्त्या57b प्रमेयानिवृत्तिस्तर्हि तत्सत्तयाऽपि न प्रमेयसत्ता सिद्ध्ये
दित्याशङ्क्य तत्रोपपत्तिं दर्शयन्नाह--यत्पुनरिति । ननु कारणमप्यवश्यं कार्यवद् भवति
ततश्च सति ज्ञेये ज्ञानेनाप्यवश्यभाव्यम् । तच्चेन्नास्ति ज्ञेयमपि नास्त्येव । ततः सिद्ध्यत्येवाऽ
दृश्यस्याप्यभाव इत्याशङ्क्याह--न त्विति । तुना कार्यधर्मात् कारणधर्मस्य वैधर्म्यमाह । एतच्च
कारणमात्राभिप्रायेणोक्तम्, तथा चैत्तथा प्रागेव निर्णीतम् । तस्मादित्यादिनाऽस्यैव प्रकृत
स्योपसंहार इति ॥
॥ पण्डितजितारिशिष्यदुर्वेकमिश्रविरचितधर्मोत्तरनिबन्धस्य द्वितीयः परिच्छेदः ॥
-
व्याख्यातुमाह--A.
↩ - ↩
- ↩
-
तत्र त्रिरू० E.
↩ -
०मेयज्ञानं C.
↩ -
वक्ष्यमाणानि D.
↩ -
अस्पष्टम्--सं०
↩ -
त्रिरूपलिङ्गजं ज्ञानमित्यर्थः । हेतुः कारणम्--टि० ।
↩ - ↩
-
स्वार्थानु० D.
↩ - ↩
- ↩
- ↩
- ↩
-
०रूपमेवावस्था० C.
↩ -
०रूप्यं नीलव्यव० C.
↩ - ↩
-
०प्यं प्रमा० C.
↩ - ↩
-
पुनस्त्रैरूप्यम्--A.
↩ -
परोक्षं ज्ञानस्य--C.
↩ -
पङ्क्तिबाह्यं लिखितं न पठ्यते--सं०
↩ -
ननु च यदा धूमस्वरूपमेव प्रत्यक्षेण ज्ञायते तदा परोक्षस्य निश्चायकं भवति ।
↩
आह ।--टि० -
परोक्षप्रका० C.
↩ -
धूमात्--टि०
↩ -
अग्नेः--टि०
↩ -
०क्षार्थाना० E.
↩ - ↩
- ↩
-
अग्रे कृतेन--टि०
↩ - ↩
-
असर्वज्ञः कश्चित् वक्तृत्वात्--टि०
↩ - त↩
-
अत्र D. प्रतौ पङ्क्तिबाह्यभागे अनित्यः शब्दः प्रमेयत्वात् इति टिप्पणं वर्त्तते ।
↩
तच्च B. प्रतौ मूले निवेशितम् इति प्रतिभाति । H. N. प्रतावपि एवमेव--सं० - ↩
- ↩
-
निश्चयवच० A.
↩ -
पूर्ववदत्रापि D. प्रतौ नित्यः शब्दः कृतकत्वात् खवत् इति पङ्क्तिबाह्यं टिप्पणत्वेन
↩
लिखितः पाठः B. प्रतौ मूलत्वेन संनिविष्ट इति भाति--N. प्रतौ अपि तथैव कृतम् । H. प्रतौ
तु विपक्षैकदेशवृत्तेर्निरासः इत्यनन्तरं मुद्रितः--सं० -
प्रयत्नानन्तरीयकः शब्दः, अनित्यत्वात् घटवत्--टि०
↩ -
नियमतोऽस्य C.
↩ -
असत्त्ववचनात् पूर्व० A. P. H. E. N. ०शब्दात् पूर्व० B. C. D.
↩ - ↩
-
असर्वज्ञः कश्चित् वक्तृत्वात्--टि०
↩ - ↩
- ↩
- ↩
- ↩
- ↩
-
श्यामः त्वत्पुत्र० C.
↩ -
एव कर्त्तव्यो न A.
↩ -
प्रयुज्यमानः इति पाठः मूले नोपलभ्यते । प्रदीपानुरोधात्
↩
तत्र कोष्ठके स्थापितः । -
ज्ञातव्ये पक्षधर्मत्वे पक्षो धर्म्यभिधीयते ।
↩
व्याप्तिकाले भवेद् धर्मः साध्यसिद्धौ पुनर्द्वयम् ॥--टि० -
साध्ये प्रति०--C.
↩ -
सदृशोऽर्थो यः पक्षेण C.
↩ - ↩
-
सशब्द आदेशः E.
↩ - वे↩
- शे↩
-
साम्यम् B.
↩ -
पक्ष--टि०
↩ - र्मे↩
-
इयं पृष्वी, गन्धवत्त्वात् । यत्तु पृथ्वी न भवति तद् गन्धवदपि न, यथा अबादिः ।
↩
अत्र अबादिर्दृष्टान्तीकृतः साध्यादन्य इति--टि० -
तेन विरु० B.
↩ -
वह्निनिवृत्तौ धूमनिवृत्तेरास्पदं जलाशय इति साध्येन सह विरुद्धः--टि०
↩ -
यथा क्षणिकत्वनिवृत्तौ सत्त्वनिवृत्तेरास्पदं खरविषाणमिति साध्याभावमात्रम्--टि०
↩ - वि↩
- ↩
- ↩
-
उपलब्धिज्ञानम् । तस्य लक्षणं जनिका--A.
↩ -
कारणम्--टि०
↩ -
ह्यनुपल० H.
↩ -
आलम्बनत्वेन--टि०
↩ -
यश्चार्थ--टि०
↩ -
पट-भूतल--टि०
↩ -
गम्यते B.
↩ -
भूतले--टि०
↩ -
घटः--टि०
↩ - ↩
-
घटादिविविक्त० B.
↩ -
वस्तु तज्ज्ञानं चा504
- वा↩
न निश्चितम् न तावद् B. वस्तु तज्ज्ञानं वा न निश्चितम्
न तावद् D.↩ - वा↩
-
०गमकमेव C.
↩ -
०कम् । तादृशघटरहितः । B.
↩ -
यः स्वभावः सत्स्वन्येषूपलम्भप्रत्ययेषु यत्प्रत्यक्ष एव भवति स स्वभावः B. P. H.
↩
सत्स्वन्येषूपलम्भप्रत्ययेषु यः प्रत्यक्ष एव भवति स स्वभावः E. - ↩
-
०हिताय द्रष्टुं A. P. E. ०हिता यः द्रष्टुं H. ०हिता यैः द्रष्टुं N.
↩ -
प्रवृत्ताः B.
↩ - ↩
- ↩
- ↩
- ↩
-
स इति नास्ति A.
↩ -
नान्यः इति नास्ति C.
↩ -
त्वाद् । C.
↩ - ↩
-
शिंशपदेशे--C.
↩ -
यथा B.
↩ -
०मुपदर्श्य B.
↩ - ↩
- ↩
-
०मेवावृक्षत्वम० A.
↩ - ↩
- ↩
-
०पलम्भः निबन्धनं प्र० B.
↩ - ↩
-
स्वरूपात् C.
↩ - ↩
-
हेतवोऽपि भिन्ना B.
↩ -
स्वभावप्रतिबन्धः इति नास्ति C.
↩ -
स्वभावे स्वोत्पत्तौ सत्यां प्रतिबन्धः स्वसत्तायाः प्रतिबन्धः ।--टि०
↩ -
लिङ्गस्य--टि०
↩ -
स्वभावेन अप्रतिबद्धस्य--टि०
↩ - ↩
- ↩
- ↩
-
स्वभावेन प्रति B.
↩ - ↩
- ↩
- श्य↩
- गम्य↩
- ↩
-
लिङ्गम्--टि०
↩ - ↩
- चा↩
-
लिङ्गस्य न वस्तुन इत्याह--B. D. H. लिङ्गस्य साध्येनेत्याह N.
↩ -
वस्तुनः P.
↩ - ↩
- ↩
- ↩
-
तादात्म्यं तत्स्वभावत्वम् तस्मा० B.
↩ - ↩
- ↩
-
विकल्प०--टि०
↩ - ↩
- ↩
- ↩
-
असाध्य561
- ध्येऽ↩
कारणे च--टि०↩ - ध्येऽ↩
-
०ति अप्रति० D.
↩ - ↩
-
संयोगसमवायादेः--टि०
↩ -
निमित्तत्वात् स्व० C.
↩ -
संयोग्यादिः--टि०
↩ - सा↩
-
साध्यस्य--टि०
↩ -
०सिद्धिर्यथोक्ता० E.
↩ -
अदृश्यानुपलब्धेः--टि०
↩ -
तस्यासम्भवात् C.
↩ -
अस्पष्टम्--सं०
↩ -
अस्पष्टम्--सं०
↩ - ↩
-
अदृश्यानुपलब्धेः--टि०
↩ - ↩
- ↩
-
प्राप्तेऽर्थे उच्यते--C.
↩ -
स्वभावविशेषविप्रकृष्टाः A. P. H. E. N. स्वभावविप्रकृष्टा--C.
↩ - ↩
- ↩
- ↩
- ↩
-
यथा च प्रतिपत्तृप्रत्यक्षनिवृत्तिरनुपलब्धिः प्रदेशस्तज्ज्ञानं चोच्यते तथा अविद्यमानो
↩
ऽपीत्यादिना दर्शयति--टि० -
०मानोपि घटा० C.
↩ - ↩
- ↩
-
संसर्गात् B.
↩ - न↩
-
विविक्तप्रदेशज्ञानात्०--टि०
↩ - ↩
-
०देव दृश्या० E.
↩ -
अमुमेवार्थं व्यतिरेकमुखेन भावयति--टि०
↩ - ↩
-
अस्पष्टम्--सं०
↩ -
प्रतिपत्तृप्रत्यक्षस्यैतद् व्याख्याय अतीतस्य वर्त्तमानस्यैतद् विशेषणद्वयं व्याचष्टे--टि०
↩ -
०तीते वर्त्तमाने चामूढस्मृतिसंस्कारे च घट० A. B. C. D. P. H. N.
↩ - ↩
-
अतीतादि--टि०
↩ - ↩
-
तेन घटा० B.
↩ -
अस्पष्टम्--सं०
↩ -
अस्पष्टम्--सं०
↩ -
अस्पष्टम्--सं०
↩ -
पदानां प्रयोजनं प्रतिपाद्येदानीं सम्बन्धमर्थं च दर्शयति--टि०
↩ - ↩
-
अतएव न घटानुपलम्भे नापि घटे मोहः A. C. D. P. H. E. N. अत एव घटा
↩
नुपलम्भे नापि घटे मोहः--B. -
०हणम् व्यभि० C.
↩ -
विज्ञायेत । तदय० B.
↩ - ↩
-
अनुपलभ्यमानत्वात्--A.
↩ -
इति ज्ञातुं शक्यम्--C.
↩ - भावे↩
-
अस्पष्टम्--सं०
↩ -
निःशङ्कगमागमलक्ष० D. B. निःशङ्का गमनागमनयो 616
- ?↩
लक्ष० C.↩ - ?↩
- ↩
-
प्यभावस्य व्यव० C.
↩ - ↩
-
त्येवं प्रत्य० C.
↩ -
शक्नोत्यभावं व्य० C.
↩ -
०लम्भो व्यव० A.
↩ -
करोत्यभाव० C.
↩ -
०हारे प्रवर्त्त्यनुपलब्धिः C. प्रवर्तन्युपल A. प्रवर्तिन्युपल P. H. प्रवर्तिन्यनु० B.
↩ - ↩
- ↩
-
शीतादिविरुद्धवह्न्यभिधायी--टि०
↩ -
वृक्षाप्रद्य 629
- ?↩
भावप्रतिषेधाभिधायी--टि०↩ - ?↩
-
अस्पष्टम्--सं०
↩ - अ↩
-
अस्पष्टम्--सं०
↩ -
अस्पष्टम्--सं०
↩ -
अस्पष्टम्--सं०
↩ -
अस्पष्टम्--सं०
↩ - ↩
-
अस्पष्टम्--सं०
↩ -
अस्पष्टम्--सं०
↩ -
अस्पष्टम्--सं०
↩ -
अस्पष्टम्--सं०
↩ -
साध्यते न त्व० C.
↩ - ↩
-
आलोकतमसी आकाश इति बौद्धमतम्--टि०
↩ - ↩
-
तद्गृहाङ्गणदेशस्थेन वह्निना--C. D. तद्गृहाङ्गणदेशेन भ646
- च↩
A. तद्गृहाङ्गण
स्थेन च वह्निना--B. तद्गृहाङ्गणदेशेन वह्नि P. H. E.↩ - च↩
-
अप्रतिबद्धसामर्थ्यस्येत्यर्थः--टि०
↩ - ↩
-
दृश्यमान इव C.
↩ - न्धु↩
- तन्मत्या↩
- न्या↩
- ह↩
-
नुपलब्धेर्य० C.
↩ -
इति नास्ति E.
↩ - ↩
-
शिंशपात्वदृश्यस्याभाव B. शिंशपात्वस्य दृश्याभावे A. P. H. E. N. शिंशपात्वस्य
↩
दृश्यस्याभावे--C. D. -
साध्ये टि० ।
↩ -
०पेताऽपर C.
↩ - ↩
- ↩
- ↩
-
तादृशविष० A.
↩ -
स्याः प्रयोगोऽभावसाधनाय C.
↩ - ↩
- ↩
-
इति नास्ति A.
↩ - ↩
- ↩
- व्यः↩
- ↩
-
विरोधका० A.
↩ -
यत्र A.
↩ - ↩
- ↩
- ↩
-
इति नास्ति E.
↩ - ↩
-
०त्वप्रतिषेधः--C.
↩ - भवे↩
-
प्रतौ सर्वत्र अववरकेत्यादि दृश्यते टीकायां तु अपवरकेति ।
↩ - ↩
-
मुद्गरादिः C.
↩ -
विनश्वरस्यापेक्ष० A.
↩ -
पेक्षणं नाध्रुव० B.
↩ - ↩
-
व्याप्तं तद्वद् । ध्रुव० C.
↩ - ↩
-
स्वभावानुपलब्धिरूपता स्यात् । स्वभावानुपलब्धिरूपा चाभ्युपेता पूर्वाचार्यै
↩
रित्याह--टि० -
धश्च तयाभ्यु० A.
↩ -
य एवं--A.
↩ - ↩
-
अथ न वस्त्वेकत्वविरोधोऽनयोः परं यो निषेधो ध्रुवभावित्वस्य विधीयते स ।
यद्यया 694- ?↩
दृश्यत्वे सति पूर्वानुपलब्धिष्विव भवेत् तदा नास्यानुपलब्धेः । अथ भवतु
नित्यत्वस्यावस्तुन एवं निषेधः, पिशाचादीनां तु सतां कथं निषेध इत्याह--टि०↩ - ?↩
-
यदैव B.
↩ - ↩
- ↩
- ↩
-
०माने वस्तुनि घटादौ C.
↩ - ↩
-
निपेधः B.
↩ -
तादात्म्यनिषेधसंसूचकस्य व्यापकानुपलब्धिप्रयोगस्य । स च एवं--नित्यस्य
↩
सत्ता स्थिरोपलम्भत्वेन व्याप्ता । तस्य स्थिरोपलम्भविषयत्वस्य तत्र घटादौ अनुपलब्ध्या
नित्यसत्ताया व्याप्तायाःनिषेधः--टि० - ऽऽपा↩
- ↩
- ↩
- ↩
-
अदृश्यः--टि०
↩ - ↩
- वचनलभ्यं ?↩
- द्ध↩
- दी↩
- ↩
- ↩
-
यत्र प्रतिषेध्यतुषार० C.
↩ -
व्यापकं च शी० D.
↩ -
यथासंख्यम्--टि०
↩ -
प्रयोगश्चैवम्--नात्र तुषारस्पर्शः, उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः । नात्र तुषार
↩
स्पर्शः, शीतस्पर्शाभावात् । - ↩
-
च नास्ति B.
↩ -
विशिष्टे विष० B.
↩ - ↩
- ↩
-
०साधकः C.
↩ - ↩
-
प्रतिषिध्यते B.
↩ - ↩
-
तु वनमध्य० B.
↩ -
दृश्यमानरूप एव C.
↩ - ↩
- ↩
-
विशेष्यन्ते B.
↩ - ↩
-
टीकायां नास्ति सुखादीति पाठः--सं०
↩ - ↩
- ↩
- ↩
- ↩
-
पुरुषो नास्ति--C.
↩ -
विशेषगुणयुक्तः B.
↩ - ↩
- ↩
-
यत्र A.
↩ - ↩
-
तु नास्ति--A.
↩ - ↩
- ↩
- ↩
- ↩
- ↩
- ↩
-
ङ्गे आह--B.
↩ -
भवति । प्रयुक्ता C.
↩ - ↩
-
दशग्रहणोदाहरण० B.
↩ -
०दाहृतका० C.
↩ -
०याधिगतये C.
↩ -
जातम् E.
↩ -
तत्स्वाभाव्येन--टि०
↩ -
स्वभावा आत्मोत्पादकाः । भावध्वनिरुत्पादकपर्यायः--टि०
↩ -
०मन्तर्भाव इत्याह--C.
↩ - ↩
-
प्रतिषेध्यादर्थान्तरस्य B.
↩ -
न्यायबिन्दुः २. १७.
↩ - त↩
-
कथमन्तर्भ० C.
↩ - ↩
- ↩
-
प्रतीतिरिति स्वार्थानुमानेऽप्यस्याः प्रभेदनिर्देशः--C.
↩ -
शास्त्रघटितानाम् A. P. H. E. N. शास्त्रपरिघटितानाम् B. शास्त्रगदितानां—
↩
पाठान्तरम्--टि० -
प्रयोगदर्शनाभ्यासक्रमेण--टि०
↩ - ↩
-
अस्पष्टम्--सं०
↩ -
मनेन मेयेन--पाठः--टि०
↩ -
यत् पुनस्त्रिरूपं लिङ्गाख्यानम्--टि०
↩ - ↩
- ↩
-
अदृश्यानां निषेधे सति--टि०
↩ -
कारणादीनाम्--टि०
↩ -
चास्यामभावाभावव्यव E.
↩ -
विरुद्धानामुप० C.
↩ - ↩
- ↩
- ↩
-
दृश्यमानानामेव B.
↩ - ↩
-
कारणानुपलब्ध्या--C.
↩ - ↩
- ↩
-
व्याप्यस्येति व्याप्यरूपाणामिति व्याख्येयम् । बहुस्थानेषु पाठोऽपि न--टि०
↩ -
व्यापकाभावे C.
↩ - ↩
- ↩
-
०संनिधाने परा० C.
↩ - ↩
- ↩
- च↩
-
तत्--C.
↩ -
०भावप्रतीतौ व्या० B.
↩ -
देशकालस्वभावविप्रकृष्टाः पिशाचादययस्तेषां पिशाचादीनां विरोधश्च केनचिदग्निना
↩
सह न सिध्यतीति सम्बन्धः । तथा कार्यकारणभावश्च पिशाचादीनां केनचिद्धूमेन सार्धं
न सिध्यति । टि० । - ↩
- ↩
-
०लब्धिरेव C.
↩ - ब्धी↩
-
अत्र मूले प्रदीपानुसारी पाठो नोपलभ्यते । तत्र तु विरोध
↩
कार्यकारणभावाभावासिद्धेः २. ४६ इति लभ्यते । - ↩
- ↩
- ↩
- आहत्य↩
- सिद्धे तत एव सामर्थ्यात्कार्यादेरभावावसाय इतीदा
नीन्तनस्यैव दृश्यानुपलम्भस्योपयोगो↩ -
॥ द्वितीयपरिच्छेदः ॥--D. B. ॥ न्यायबिन्दुप्रकरणे द्वितीयः परिच्छेदः समाप्तः ॥--E.
↩ - ↩
-
॥ न्यायबिन्दुटीकायां द्वितीयः परिच्छेदः समाप्तः ॥ A. B. P. H. E. ॥ न्याय
↩
बिन्दुटीकायां द्वितीयः परिच्छेदः ॥ D. - द↩