21a तदुभयासिद्धेरसाधनत्वमभिधेयम्, सपक्षे सतोऽस्य
विपक्षराशेराकाशदेरत्यन्तं व्यावृत्तेः ।

त्रयो हि भावराशयः । बुद्धिमत्कर्तृकाश्च घटादयः, अकर्तृकाश्चाकाशादयः,
सन्दिग्धकर्तृकाश्च भूधरादयः । तत्र घटादिषु सपक्षेषु विद्यमानम्, अविद्यमानमम्बरादिषु
विपक्षेषु इत्यन्वयव्यतिरेकि कार्यत्वं शेषेषु वर्तमानमवश्यं साध्यमुपस्थापयति । यद्यपि
च दिगम्बरादयोऽसन्तस्तन्मते परमाणवस्तु कार्यमेव, तथाप्यसतोऽपि व्यावृत्तिः
स्वीकृतैव । तथा च,

निवृत्तियंदि तस्मिन्न हेतोर्वृत्तिः किमिष्यते ।
प्र. वा. ४. २२४

इति हि शास्त्रम् । न च विपक्षताक्षतिः, साध्यानधिकरणलक्षणत्वाद् विपक्षस्येति
किमेषां सत्तासाधनप्रयासेन ? तस्मान्नान्वयव्यतिरेकारेकः कर्तरि यथोके कार्यत्वस्य ।
एवमुत्पत्तिमत्त्वाचेतनोपादानत्वस्थित्या प्रवृत्त्यादिषु योज्यम् ॥