४ ॥ अनुपलब्धिरहस्यम् ॥

सिद्धान्ते विप्रकीर्णस्यानुपलम्भस्य यादृशी ।
रूपनिष्ठेह तादृश्याः संग्रहः क्रियते स्फुटः ॥

प्रतिषेधे साध्येऽनुपलब्धिस्तृतीयं लिङ्गम् । तच्च यद्युपलब्धिविरहमात्रं तत् कथं
कस्यचित् प्रतिपत्तिः, प्रतिपत्तिहेतुर्वा ? तस्यापि वा कथं प्रतिपत्तिः ? तस्मादभक्ष्यादि
वत् पर्युदासवृत्त्या अन्योपलब्धिरेवानुपलब्धिः । तत्रापि यद्यन्यमात्रस्य, तदैकस्य
कस्यचिदुपलब्धौ सर्वस्य निषेधप्रसङ्गः । इष्यत एव तादात्म्यनिषेधः सर्वस्येति चेत् ?
तद्देशनिषेधोऽप्यनिवार्यः । तदयं विशेषः,

वेद्ये यत्र हि यन्मतिर्नियमतः 3a स्याद्वा न वा तस्य धी-
रिष्टा नोऽनुपलब्धिरन्यविरहज्ञानस्थितेराश्रयः ॥

यत्र वेद्यमाने यस्य मतिः स्यादिति देशकालस्वभावविप्रकर्षाणां निषेधः । नियमे
नेति, उपलम्भकारकान्तरवैकल्यस्य । एतेन दृश्यविशेषणप्राप्तस्य भावज्ञानस्थितिरिति
दर्शितम् । अतो न सर्वस्य निषेधप्रसङ्गः । यत्र च वेद्यमाने यन्मतिर्नियमेन स्यात्,
तस्यैव धीरिष्टाऽन्यस्य द्वितीयस्याभावनिश्चयप्रबन्धाक्षेपाय क्षमेति । एतेन न विरहमात्रम्,
पर्युदासवृत्त्या त्वन्यविशेषबुद्धिरित्युक्तम्, अत्र च तस्यैवैकाकिन इति सामर्थ्यात्,
अन्यथेतरस्यानिषिद्धोपलब्धेरभावासिद्धेः ।

तद्यथा, नेह घट उपलभ्यस्यानुपलब्धेः । यथा क्वचित् किञ्चिदिति । तत्र
दृश्यस्येति स्वभावविशेष उपलम्भप्रत्ययान्तरसाकल्यं चोक्तं द्रष्टव्यम् । अनुपलब्धेरिति
प्रतियोगिन उपलब्धेरित्यर्थः । तच्च प्रतियोगी हेत्वाधारप्राप्तं भूतलमन्यद् वैकेन्द्रिय
ज्ञानसंसर्गि, तदन्यो वा ? यस्मिन् वेद्यमाने निषेध्य उपलभ्यमेवेति सामान्योक्तेः ।
तत्र यदि भूभाग उपलभ्य एव कुम्भसंभवः साध्यः, तदा स एव प्रतियोगी किमन्या
पेक्षया ? यदा तु नभसि तदापि तदेवालोकसंज्ञितम्, अन्यो वा घटादिरनियतस्थितिः
स्पृश्यनिषेधे त्वयमेव ।

184

एतेनैकज्ञानसंसर्गी प्रतियोगी व्याख्यातः । क्वचित् पुनरन्यथापि, यथा प्रदीपं
कवलयतुर्नेह रसो दृश्यानुपलब्धेरिति स्पशं एव प्रतियोगी । तयोर्हि सतोर्नैकरूपनियता
प्रत्यासत्तिः पानकवत् । दूराद् रूपदर्शनेऽपि तर्हि कथं रसनिषेधो न भवति, देशविप्र
कर्षिण उपलम्भयोग्यताया अभावात्, प्राप्यकारित्वाद् घ्राणरसनस्पर्शनानाम् । उक्तं च,
यस्मिन् वेद्यमाने यदवश्यं वेद्यत एवेति । नापि रसानुभवे रूपनिषेधः, तदापि तल्लक्षणा
योगात् । एवं शब्दोपलब्धावपि न रूपनिषेधः । समन्धकारे हि सतोऽपि रूपस्य
ज्ञानाव्यभिचारिणी न शब्दवित्तिः ।

आलोके तु न तावद् दृश्यमानस्यैव निषेधः । अदृष्टस्य तु योग्यस्य निषेधेऽपि न
दोषः, तल्लक्षणात्यागात् । एतेन देवकुलादौ परिदृश्यमाने तद्देशभेर्यादेरेवाभावसिद्धिर्ना
वश्यं शब्दान्तरप्रतीतिसापेक्षेति दर्शितम् । न तयोः सहप्रतीतिनियम इति चेति ।
भूभागकुम्भयोरपि नैवम्, उभयोस्तु सतोरेकरूपप्रतीतिनियमविरहः प्रत्यक्षस्य तत्रापि
समानः । एकज्ञानमन्यग्रहाविनाभूतं वान्यग्राहिज्ञानान्तराविनाभूतं वेति न विशेषः ।
एवमेकेन्द्रियजमन्यद् वा ? सन्तमसेऽववरकेऽपि दीपाभावस्तदाकारविरहिणो
ज्ञानान्तरादन्ततो विकल्पादपि यदि परमस्तु समानम् । वस्तुतस्तु वस्तुसन्नेवान्धकार
एकज्ञानसंसर्गी प्रदीपस्य संभवतीति किमन्येन ?

ननु स्वभावविशेषेऽपि प्रत्ययान्तरसन्निधिरुपलब्धियोग्यता । स च भिन्नेन्द्रिय
ज्ञाननिमित्तं भवन्नपि भिन्नेन्द्रियज्ञानप्रत्ययनिश्चयेऽनुपयुक्तः । ततश्चान्यस्य प्रत्ययान्तर
सन्निधिसंशये निषेधः क्रियमाणोऽन्ततो विकल्पादपि नियताकारात् कथं दृश्यस्य...?
न हि भवति2428 प्रत्ययान्तरसन्निधिसिद्धिनिबन्धनं समानेन्द्रियज्ञानमेव, किं तु 3b
पञ्चस्कन्धलक्षणस्यात्मभावस्यावस्थाविशेषसंवेदनमपि । यदा नेन्द्रियस्वभावविशेषा
भ्यामपरः प्रकाशकोऽपेक्ष्यते, यथा शब्दप्रदीपादौ, तत्र हि किञ्चित् श्रुतदृष्टपूर्विणः
तदवस्थेन्द्रियप्रणिधी विदुषो यतः कुतश्चित् तु तदाकारविरहिणो ज्ञानात् तदभावसिद्धिः
केन वार्यते ?

कस्तर्हि ज्ञानान्तरपरिग्रहस्योपयोगः, तद्दशासंविदो ज्ञानानुत्पादादेव तदभाव
सिद्धेः ? कथं वा भिन्नविषयेन्द्रियज्ञानादन्यनिषेध इति ? उक्तमत्र नाभावस्य क्वचित्
सामर्थ्यमित्यादि । ततो न ज्ञानान्तरमिन्द्रियसाद्गुण्यनिश्चयाय समाश्रीयते, किंतु
185
प्रतियोगिविरहविकल्पजननाय । तत्र यथा समानेन्द्रियसंसर्गिज्ञानमन्याभावनिश्चय
समर्थम्, तथान्यदपि सति सत्त्वेऽव्यभिचरितव्योऽर्थान्तरज्ञानाकारविरहीति न कश्चिद्
विशेषः ।

कथमिति चेत् ? नात्रेच्छानिच्छयोः सामर्थ्यम् । यस्य तु यदन्वयव्यतिरेकानु
कारस्तयोर्हेतुफलभावाद्युपगमः । यथा भूतलैकाकारनियमात् तु ज्ञानमन्यनिषेध
विकल्पेनानुकृतान्वयव्यतिरेकं, तथा प्रदीपमानने क्षिपतः स्पर्शाकारमात्रनियमाद्
रसाभावज्ञानेन तज्ज्ञानम् । न ह्यनयोरुत्पत्तौ व्यवधानाव्यवधानविभागः ।
तथानुपाधिके पयसि प्रणिहितघ्राणस्यास्पर्शनदर्शनस्यापि विकल्प एव गन्धान्तरम्
अननुभवतोऽपि गन्धाकारज्ञानेन तदाकारशून्यः ।

लैङ्गिकं तदिति चेत्—न, व्यवधानाभावादभ्यासदशावतः । यत्प्रतिपत्तावेव हि
यन्निश्चयो न स लैङ्गिकः प्रत्यक्षसिद्धो वा, यथा नीलं न पीतमिति । अस्ति च सन्नि
हिते पयसि घ्राणप्रणिधानमात्राकारविकल्पवतो नास्ति गन्ध इति निश्चयः । तत्र
गन्धज्ञानाभावमात्रस्यासाधनत्वे यदि नियताकारविकल्पानुभवो न हेतुः, पीताभाव
ज्ञानस्यापि मा भून्नीलानुभवः । अत्र वा प्रत्यक्षपौरुषमामनतो दुष्परिहरं परत्रापि ।
तदेव च प्रत्यक्षमेकस्य निषेध्यापेक्षयानुपलब्धिरुच्यते यथा तथोक्तम् । तच्च मूढं
प्रतिपत्तारमधिकृत्य पूर्वसमयानुसारेण धर्मिविशेषेऽभावं निश्चाययल्लिङ्गम् । अमूढस्य
पुनरभाववतोऽनन्तरसंशयविनाकृतः स्थिर एवासौ निश्चय इति प्रत्यक्षप्रवर्त्तित
उच्यते ।

ननु न प्रत्यक्षकृतः कश्चिदभावव्यवहारः, नापि प्रत्यक्षमर्थाभावनिश्चयेन
फलवदुक्तम्, किं तु ज्ञानाभावनिश्चयेनैव । तद्द्वारेणैव त्वर्थाभावनिश्चयमन्तर्भावयति इति
प्रत्यक्षकृतः स उच्यते । स च तत्सामर्थ्यजन्माप्यनन्तरं संशयेन भवता परिभूयमानो मूढं
प्रति लैङ्गिकः । न हि ज्ञानस्येव प्रकाशरूपनियमोऽर्थस्येत्यदृष्टस्यापि स्थितेरविरोधात्
दृश्यानुपलब्धिः शरणम् । अमूढस्य तु व्यापकानुपलब्धिः दृश्यसत्तायां दर्शनविषयत्वेन
व्याप्तेः । एतद्विवेचनासामर्थ्यात् तु प्राच्यो मूढ इत्येके ।

तदयुक्तम् । यथा हि ज्ञानमप्रकाशमनवस्थायि, तथा दृश्यं बहिरपीति तद्वदेव
4a प्रत्यक्षेणानिवार्यविरहव्यवहारम्, केवलं जात्यैव ज्ञानं दृश्यम् । बहिस्तु किञ्चित्
कथञ्चित् कदाचित् । तत्राभ्यासविशेषवतः प्रतिपत्तुर्ज्ञानान्तरसामान्य इव बाह्य
विशेषेऽपि प्रत्यक्षमात्रादेव झगिति निषेधसिद्धिरसकृदनुभूयमाना कथमपह्नोतुं शक्या ?

186

तत्त्वतोऽनुमानसंभवादिति चेत् ? अभिमतयोग्यतानिश्चयोऽपि प्रत्यक्षकृतः
स्यादिति यत्किञ्चिदेतत् । न च यथोक्तः संशयो बहिरधिकारेणैव तदयमसंसृष्ट
विकल्पो वा दर्शनात्मा दृश्यात्मनो वा विकल्पस्य दर्शनेऽदृष्टिर्विकल्पकल्पनामिन्द्रियज्ञाने
प्रतिहन्तीत्यादेरवाच्यताप्रसङ्गात् । तस्मात् ज्ञानेऽपि कदाचिदन्यज्ञानस्य विमर्शः,
अर्थेऽप्यनुल्लिखितान्तरासंशयो निश्चय इति दशाविभागेन प्रत्यक्षस्येतरस्य वा सामर्थ्य
स्थितिर्न तु जातिविभागेन ।

ननु

एकोपलम्भानुभवादित्यादिना
प्र. वा. ४. २७०

ज्ञानान्तरनिषेध एव सामर्थ्यमुक्तमनुभवश्चैवमेवेति चेत्—न, यथा हीदं नोपलभ इति
प्रत्यक्षादनुभूयते, तथेदं नास्तीत्यपि झगित्येवाभ्यासवतः । अनभ्यासवतस्तु ज्ञानाभाव
एव निश्चयः । तद्द्वारेण त्वर्थाभाव इति तदपेक्षया शास्त्रे तथाभिधानम् । एवमेकज्ञान
संसर्गियत्नादयोऽपि वाच्याः । अतएव,
व्यवस्यन्तीक्षणादेव सर्वाकारान्महाधियः ।
प्र. वा. २. १०७

इत्युक्तम् । मृदुप्रज्ञाधिकारेण च स्थानस्थानेषु यत्नः । तस्मात् पटुधियः प्रत्यक्षादेव
मणिरूप्यादिविवेकवत् तन्निषेधव्यवहारोऽपि दुर्निवारः । न चाभावो नाम विग्रहवान्
येनान्यव्यतिरेकिणा रूपेण साक्षात्कर्तव्यः, किं तु व्यवहर्तव्यः । स चैकाकारनियमात्
पटुना व्यवहर्तुमध्यक्षेण शक्य एव । यः पुनरपटुरापाततः प्रवृत्तेऽप्यभावनिश्चये संशेते,
सादृश्यमस्यानुपलम्भमात्रमनुसृत्य तद्व्यवहारं प्रवर्तयति, यस्तु ततोऽप्यपटुः स
दृश्यानुपलम्भेऽपि सन्दिहानो व्यापकानुपलम्भेन प्रवर्तते । न पुनरव्यामूढस्यानेन
प्रवृत्तिः । प्रत्यक्षापाटव एव ह्यनुमानं प्रार्थ्यते । तत्पाटवं च विकल्पजननेनावस्थाप्यते,
पटुतरत्वं च तत्र विमर्शाभावात् ।

चार्वाकेण तु पृथगभावमनुमन्यमानेन प्रति ? प्रत्यक्षनिषेधेऽव्यापारो दर्शितः,
अर्थसामर्थ्यापेक्षाद्युक्तेः । न चानुमानस्येव प्रत्यक्षस्यापि निश्चयवशाद् ग्रहणव्यवस्था,
किं तु प्रतिभासवशात् । नियताकारतैव च तस्य तदन्याभावभासनम् । तस्माद्
187
दुष्परिहरः प्रत्यक्षस्याभावव्यवहारशक्तिसंभवः, प्रतिषेधस्तु सर्वत्रानुपलम्भादिति तु न
प्रत्यक्षप्रतिक्षेपः, किं तु लिङ्गान्तरस्य, द्वावेव विधिसाधनाविति यथा । तदयमम्भसि
गन्धनिषेधः प्रत्यक्षकृत एवाव्यवधैर्न लैङ्गिकः । किं चात्र लिङ्गं गन्धाभावाव्यभिचारि ?
ज्ञानकार्यानुपलब्धिरिति चेत् ? यदा स्वग्राहिज्ञानं कार्यहेतुस्तदेदं युक्तमपि, यदा तु
प्रत्यक्षमेव तत्, तदा प्रत्यक्षयोग्यस्य तन्निवृत्तिर्यदि न दृश्यानुपलब्धिर्धटस्यापि मा भूत् ।

तदिदं प्रतियोगिज्ञानरूपतालोचनवञ्चनाफलमेव । 4b अयं च वादी
यदीन्द्रियसाद्गुण्यमनिश्चिन्वन्नेतदाह, तदा सन्नपि गन्धादिर्नोपलभ्यत इत्यायातम् ।
अथ निश्चिन्वन्नलं कार्यानुपलब्ध्येति द्रष्टव्यम् । परोक्षसंभाविते च कारणादौ कार्याद्य
नुपलब्धिं यत्नेन योजयति, संप्रति च दोषलेशभयात् प्रत्यक्षसंभावितेऽपि संशेत
इतीत्यसंबद्धम् । तस्मात् स्थितमेतत्, यस्मिन् वेद्यमाने यदवश्यं वेद्यत एव तस्याभिन्ने
न्द्रियग्राह्यस्यान्यस्य वानिन्द्रियग्राह्यस्य वा बुद्धिरनुपलब्धिः । सा च व्यवहारमेव साध
यति, अन्यथा प्रत्यक्षसिद्धेः । तदर्थं च विरहज्ञानस्य स्थितेः स्थैर्यस्याश्रय इत्युक्तम् । न
तु विरहनिश्चयस्येति । यथा च नियतसहोपलम्भयोरेकज्ञानमन्यनिषेधाय, तथा
नियतासहोपलम्भयोरित्याह न वेति । वेद्ये यत्र हि यन्मतिर्नियमतो न स्यादित्यर्थः ।
यथा नीलमिदमनीलं न भवतीति । अत्रापि व्यवहार एव साध्यः । एतेन परस्पर
परिहारस्थितिलक्षणा विरोधो व्याख्यातः ।

ननु यस्मिन्नवेद्यमाने यन्मतिर्नियमेन भवितुं संभाव्यत इत्यनेनैव गतमेतत् ।
अदृश्योऽपि हि तादात्म्येन निषेध्यमानो दृश्यतया संभावित एव निषिध्यते । अन्यथा
दृश्यादृश्यतया स्वयमेव भेदाभ्युपगमादिति किमनेन पृथग्वचनेनेति चेत् ? एवं तर्हि
न वा स्यादित्ययमभावः प्रध्वंसलक्षणो व्याख्यायते । प्रवृत्तापि यन्मतिर्यत्र वेद्ये सति
नियमेन निवर्तत इत्यर्थः । नियमश्च सत्ताबाधनेऽभाव एव युक्तः । यथा नेह
शीतमग्नेरिति । एतेन सहानवस्थानलक्षणो विरोधो व्याख्यातः ।

नन्वन्धकारे नियमेनानुपलम्भ इति नावश्यं विरुद्धपरिग्रह इति चेत् ?
नैकप्रतिपत्त्रपेक्षं लक्षणमेतत्, किं तु सामान्येन । अस्ति च निरालोकस्यापि रूपस्य
दर्शनं कैश्चित्, तेनापि वा संभाव्यमञ्जनविशेषादिनेति । सत्तोच्छेदे तु नियम
एवेत्यदोषः । नन्वत्रापि शीतं यदि स्यात्, नाग्नेरेकरूपनियता प्रतिपत्तिरिति कथं
पूर्वतो विशेषः ? नैवं स्पर्शनागम्ये निषेधस्याभिमतत्वात् । तर्हि प्रवृत्तावपि शीतस्य
बुद्धिरग्नौ वेद्ये सति नियमान्निवृतेति प्रत्येतुमशक्यं न विरुद्धम्, अन्यदैतत्प्रतीतेः
188
विवक्षितत्वात् । तर्हि प्राग्गृहीतविरोधस्मरणव्यवहितव्यापारत्वान्न प्रत्यक्षस्य प्रवृत्ति
तोऽभावनिश्चयः स्यात् । मा भूत्, केवलं व्यवधानेऽपि तथा विरुद्धबुद्धिरेवाभाव
निश्चयाङ्गं नान्यमात्रस्येत्यनुपलब्धिव्यवस्थानिबन्धनस्य न क्षतिः ।

न च व्यबहारमात्रसाधनमत्रापि संमतमित्याह, सापेक्षा तु परा स्मृतौ
अत इहाभावोऽपि साध्यः । तत्सिद्धौ च तन्निश्चयस्थितिलक्षणो व्यवहारोऽपि न
पुनस्तन्मात्रमित्यर्थः । तथा हेतुव्यापकनिह्नवे, अभावोऽपि साध्य इति वर्तते । यथा
नेह धूमोऽग्नेरभावात्, नेह शिंशपा वृक्षाभावात् । न ह्यत्राग्निवृक्षयोः प्रतियोगिप्रत्यक्ष
मात्रं पूर्वप्रवृत्ततादात्म्यतदुत्पत्तिसम्बन्धबोधस्मरणनिरपेक्षं धूमशिंशपयोरभावनिश्चयं
प्रसवति । तत्राप्यभावसाधनव्यवहारसिद्धिः ।

5a त एतर्हि निषेधहेतवः, स्वभावानुपलब्धिः, कारणानुपलब्धिः, व्यापकानु
पलब्धिश्चेति । तथा विधिसाधनौ द्वाविति पञ्चहेतवः प्रसक्ताः । न, अनुपलब्धि
सामान्याश्रयादेकत्वात् । अपि च अनुपलब्धिः स्वस्यापरस्यापरा, कारणव्यापकयोः
स्वभावानुपलब्धिरेव । अपरस्य कार्यस्य व्याप्यस्य वापरा कारणानुपलब्धिर्व्यापका
नुपलब्धिश्चोच्यते । यथा ह्यन्यप्रत्यक्षमेबान्यस्यानुपलब्धिः, तथा कस्यचित् स्वभावानु
पलब्धिरेव कार्यव्याप्यापेक्षया कारणव्यापकानुपलब्धिरुच्यत इति न व्यपदेशभेदात्
वस्तुभेदः । तस्मात् स्वभावानुपलब्धेरेव निषेधः सर्वस्येति त्रयमेव लिङ्गम् ।

एतेन कार्यस्य स्वभावानुपलब्धिरेव समर्थकारणस्य कार्यानुपलब्धिरुपलक्षिता
द्रष्टव्या, हेतुशब्दस्य च लिङ्गार्थस्य व्याख्यानात् । यथा नेहाप्रतिबद्धसामर्थ्यानि धूम
कारणानि सन्ति धूमाभावादिति । कथं तर्हि नात्र तुषारस्पर्शोऽग्नेरिति व्यापकविरुद्धोप
लब्धिसंग्रहः ? अत्रापि व्यापकस्य हि शीतस्य विरुद्धदहनोपलब्धिरूपा या स्वभावानुप
लब्धिः सा व्याप्यस्य तुषारस्पर्शस्य व्यापकविरुद्धोपलब्धिरुच्यत इति न दोषः । यद्यपि
च व्यापकानुलब्धिरपि सा वक्तुं शक्या, तथापि विरुद्धप्रतियोगिप्रतीतिरूपताप्रति
पादनार्थं तथा व्यपदेशः । एवं कारणविरुद्धोपलब्ध्यादयो व्याख्येयाः । सर्वत्राभाव एव
साध्योऽध्यक्षेणासिद्धेः । तद्द्वारकस्तु व्यवहार इति ।

ननु विरुद्धोपलब्ध्यादौ कथमनुपलब्धिव्यवहारः । उक्तमत्र प्रतियोग्युप
लब्धिरेवान्यानुपलब्धिः । प्रतियोगी च द्विविध एव । तत्र यदा विरुद्धः प्रतियोगी,
तदा विरुद्धशब्दप्रयोग उपलब्धिशब्दमेव प्रयोज्यमुपपादयति । शेषे तु प्रतियोगिनि
189
गम्यमाने स्वभावशब्दो दृश्यशब्दो वा प्रयुज्यमानः प्रतिषेध्यापेक्षया अनुपलब्धिशब्देन
व्यपदेशयति । तदेकत्रोपलब्धित्वं गम्यमन्यत्रानुपलब्धित्वम् । तत्त्वं त्वेकमेवेति न
दोषः ।

यदा च विरुद्धः प्रतियोगी द्वितीयस्य च परोक्षस्यैव निषेधः, तदा तस्यापि
नावश्यं प्रत्यक्षमेवानुपलब्धिः । किं त्वनुमानमपि । विरुद्धो हि स्वसत्तया परसत्ताम्
अपनयन् प्रतियोगी मतः । न च परोक्षोऽपि तथा भवन् केन वार्यते ? नियतसहोपलम्भे
तु प्रतियोगिनि प्रत्यक्षयोग्यस्यैव निषेध इति तस्यावश्यं प्रत्यक्षापेक्षा । न ह्यनुमीयमाने
प्रदेशे घटो यदि भवेदुपलभ्येतैवेति सामर्थ्यं प्रत्यक्षायोगादनुमानस्य चारम्भनियमा
भावादिति कथं निषेधः ?

यद्येवं विकल्पमात्रादप्रतिषेध इति चेत्—न, तत्रापि विकल्पाकारे वेद्यमाने
बहिरप्यभिमतदेशमिन्द्रियसामर्थ्यानपायेऽनुभूयेतेत्युच्यते । न तु विकल्पनीये बाह्ये
विकल्प्यमाने द्वितीयमपि वेद्येतेति शक्यम् । विकल्पनीयेऽपि बाह्ये विकल्प्यमाने
तद्देशमपरमुपलभ्येतैवेति किं न स्यात् ? न हि प्रतियोगिज्ञानमन्यस्य 5b दृश्यता
रोपनिबन्धनम्, अपित्वभावनिश्चयोत्पादनिमित्तं सत्त्ववस्तुत्वात् । तच्च विकल्पस्यापीति
को विशेषः ?

अथ प्रतिपत्त्रनुरोधः, एकज्ञानसंसर्गिणोऽप्यनुरोधः साधुरिति—नैवम्, जले
गन्धस्यानले रसस्यापि वायौ रूपस्यापि शेषमात्रोपलब्धौ वा अभावव्यवहारमात्र
दर्शनात् । तत्र वा ज्ञानकार्यानुपलम्भवदन्यत्रापि स एवेति किमेकज्ञानसंसर्गिणा ?
कार्यानुपलब्ध्या समर्थस्यैव निषेध इति चेत् ? गन्धादिस्तर्हि सन्नपि नीरादाविन्द्रिय
वैगुण्यान्नोपलभ्य इति महदेव शास्त्रपरिश्रमफलम् । स हि वैगुण्यस्य कारणानुपलम्भेऽपि
योग्यादिभिरभिभवं संभावयन् संशेते, भूतले तु तत्कृताभूतदर्शनमिन्द्रियपाटवेऽपि
संभावयन् किं न संशेते । तस्मादभ्यासदशायां तादवस्थ्यस्थित्यैव व्यवहारः ।

न्यायनाथस्य तु न व्यवहारमनुवृत्त्य पर्यनुयोगो विसर्गो वा, किंत्वेतावत्यामपि
गतौ नास्मल्लक्षणक्षतिरिति दर्शयितुं प्रौढिवशात् । यथा सर्वचिता सर्वबोधनिश्चये
स एव सर्वज्ञ इति । व्यवहारे च यथैकज्ञानसंसर्गिणं पश्यतस्तथान्यमपि प्रतियोगिनम्
अभावनिश्चयो दृष्टः साधारणोऽविसंवादि चेति नैकज्ञानसंसर्गिग्रहः, विकल्प
शरणावस्थायां च तदाकारसंवेदनमेवान्यनिषेधसाधनं युक्तम्, तथैवाभ्यासेन
190
प्रत्यक्षसामर्थ्यदर्शनात् तदेवं विरुद्धस्य परोक्षस्याप्युपलब्धिरनुमानात्मिकाभावमितरस्य
साधयति । यथा नेह शीतं धूमादित्येवं व्यापकविरुद्धकार्योपलब्धिर्द्रष्टव्या । यथा
नेह तुषारं धूमात् । एतच्च संकलय्य प्रयोगकाले व्याख्यानम् ।

वस्तुतस्तु न शीतमग्नेरित्येकः प्रयोगः, यथा न तुषारमग्नेः । व्यापकस्य हि
विरुद्धो विरुद्ध एव । अग्निश्च धूमादिति । शेषमप्येवमूह्यम् ।

यदि कारणादेः स्वभावानुपलब्धिरन्यस्य कारणाद्यनुपलब्धिः पर्युदासरूपा,
कथं तर्हि निरुपाख्येषु, तथा न वक्ता बन्ध्यासुतश्चैतन्याभावादिति ? तत्रापि बुद्धि
प्रतिभासस्यैव चैतन्यवियुक्तत्वेन संवेदनं व्यापकानुपलब्धिपर्युदासः । वक्तृत्व
व्यवच्छेदेन च संवेदनम्, व्याप्याभावः । स्वभावहेतुपर्यवसिताश्च सर्वानुपलब्धयो
निषेधसाधनाध्यवसायाच्च भेदेन निर्देश इति न दोषः । तथाप्युक्तेन क्रमेण साक्षादेब
स्वभावानुपलब्धेर्निषेध इति कथमाचार्यपादैः परम्परयाभिधानादौपचारिकः कृत इति
चेत् ? निषेध्यस्यैव यदि दृश्यानुपलब्धिर्निषेद्ध्रा विवक्षिता तदौपचारिकः । यदि तु
परस्यापि तदा मुख्य इति को विरोध इति केवलमौपचारिककथने किं प्रयोजनमिति
स्यात् । तत्रापि दृश्यस्यैव निषेधो यथा शक्यः स्यात्, नान्यस्य सर्वज्ञवीतरागादेः
प्रधानपुरुषार्थस्येति कार्यतस्तत्रान्तर्भावः । तत्त्वतस्तु तस्य 6a तदन्यस्य वा
यथोक्तस्यानुपलब्धिः साधिकेति ॥

॥ अनुपलब्धिरहस्यं समाप्तम् ॥
  1. अत्र पाठो लुप्तः ।