चतुर्थः परिच्छेदः

मा भूदन्योऽस्तु साकार एव साध्येतरस्थितिः ।
एकानेकविवेकेन त्वालीक्यं केन वार्यते ॥ १ ॥
एकानेकविवेकोऽस्तु न त्वालीक्यं प्रकाशिनः ।
बाधा हि रूपेऽवसिते नाध्यक्षविषये क्वचित् ॥ २ ॥
रूपमात्रस्य निर्भासो द्विचन्द्रेऽपि न बाध्यते ।
बाधा स्पर्शादिनो रूपस्यापि तत्सहचारिणः ॥ ३ ॥
एवं132b स्वप्नेऽपि पुत्रादिः कल्पितोऽसन्न धीतनुः ।
मन्त्राधिपत्याल्लोष्टादौ पीतभासो न बाधनम् ॥ ४ ॥
रुक्मादि कल्पितं बाध्यं लोष्टादेस्तु न भासनम् ।
न चावसायस्तेनास्य न विधिर्न च बाधनम् ॥ ५ ॥
अन्यथाख्यातिरस्येति दुष्टं तत्ख्यात्यसंभवात् ।
असत्ख्यातिस्तु विख्याता कल्पिता सदपेक्षया ॥ ६ ॥
लोष्टमेवान्यथाख्यातीत्यभिप्रायान्न सापि किम् ।
व्यवहारेण निर्बन्धः तत्त्वतस्तु न तद्द्वयम् ॥ ७ ॥
अन्यथैवावभासन्ते तद्रूपरहिता अपि ।
इत्युक्तेर्भाविकस्त्वत्र बोद्धव्योऽर्थो यथोदितः ॥ ८ ॥
तथैवादर्शनात् तेषामनुपप्लुतचक्षुषा ।
कल्पितत्वमनेनोक्तमाभासे कनकादिनः ॥ ९ ॥
न बाधः कस्यचित् तत्त्वे संवृत्तौ कल्पितस्य तु ।
प्रकाशिनोऽपि बाधश्चेद् बाधेऽप्याश्वासनं कुतः ॥ १० ॥
अनुमाबाधिकाशा च न वस्तुविषयेति चेत् ।
अवश्यमस्ति वस्त्वात्मनिष्ठासौ नान्यथा प्रमा ॥ ११ ॥
559
भातमेव पुरा वस्तुविधावध्यवसीयते ।
निषेधोऽपि स्वभावार्थः पर्यन्ते पर्यवस्यति ॥ १२ ॥

अन्तरश्लोकौ ॥

परेण विषयाभावज्ञापनं सपदीष्यते ।
स्वार्थे प्रवृत्तिमज्ज्ञानमभावं गमयेत् कथम् ॥ १३ ॥
स्वगोचरोपस्थानेन विषयान्तरबाधने ।
स्वगोचरस्य तेनापि स्थानात् किं नास्य बाधनम् ॥ १४ ॥
तदर्थकर्महानेश्चेद् भिन्ना सार्थक्रिया यदि ।
अन्यहानेऽन्यहानिः किमभेदे तु स्फुरत्यसौ ॥ १५ ॥
रूपं समीक्ष्य दाहादिहानेः स्पर्शस्य बाधनम् ।
न च स्पर्शः स्फुरत्यत्र बाधा सैवास्य किं परैः ॥ १६ ॥
विषयीकृतमन्यद्वा बाध्येत प्रथमं यदि ।
स्फुरदेव कथं बाध्यमस्फूर्तौ बाधकेन किम् ॥ १७ ॥
न बाधा भिन्नकालत्वे स्वस्वकाले स्फरत्तया ।
तथैव कालाभेदेऽपि नीलपीतसितादिवत् ॥ १८ ॥
तस्मादारोपवद् बाधः प्रतीत्योत्पादभेदतः ।
कल्पितो न तु तत्त्वेन स्वविन्मात्रे तु का कथा ॥ १९ ॥
यावन्न सिद्धिः स्वविदो बाधकं तावदस्तु चेत् ।
निरूप्य स्वविदोऽसिद्धिं बाधस्तर्हि प्रवर्तताम् ॥ २० ॥
पूर्वं प्रवर्तनारम्भे प्रतिज्ञाबाधमक्षतः ।
यदि ब्रूयात् परज्ञाननिषेधे स्वविदागता ॥ २१ ॥
यथायथार्थाश्चिन्त्यन्ते विविच्यन्ते तथा तथा ।
स्वयं तु वित्तिश्छायेव धावतोऽप्यनतिक्रमा ॥ २२ ॥
अतएव निषेधस्य प्रक्रमेऽपि जगौ गुरुः ।
यदीदं स्वयमर्थानां रोचते तत्र के वयम् ॥ २३ ॥
560
न बाधा चेत् परेणास्ति सिद्धिरप्यस्तु नान्यतः ।
स्ववित्सिद्धिरपीदानीं साधनान्तरतः कथम् ॥ २४ ॥
कुतश्चित् कस्यचित् सिद्धिर्न तत्त्वे किं तु संवृतौ ।
यथा धूमादितोऽग्न्यादेर्मता सिद्धिरियं तथा ॥ २५ ॥
स्ववित्सिद्धिरतत्त्वे चेत् यावत् साध्याङ्गसंस्थितिः ।
तावत् तदेव तत्त्वं यत् सिद्धं साधनशक्तितः ॥ २६ ॥
यत्साधनबलात् सिद्धे स्वविन्मात्रे पुनः परम् ।
सिद्धिबाधनयोरस्ति नावकाशः कुतश्चन ॥ २७ ॥
न बोधयन् किञ्चिदन्यत्2623 प्रस्तुतत्यजनक्षमः ।
प्रस्तुतं वा त्यजन् नान्यस्यान्यतो ग्रहणक्षमः ॥ २८ ॥
अतएव परज्ञानं गृह्यमाणं स्वबाधनम् ।
स्ववित्तिहेतुत्रैरूप्यज्ञानस्याप्यवकाशतः ॥ २९ ॥
133a त्यक्तं तु तेषां रूपाणामबोधेऽपि न बाधकम् ।
साध्यसिद्धेः प्रकाशो हि विद्यते परतो न तु ॥ ३० ॥
स्वतोऽपि मा भूदिति चेत् यदि भासो न सर्वथा ।
युक्तमेतत् प्रकाशस्तु सन्नास्त्यस्मान्न किं स्वतः ॥ ३१ ॥
प्रकाशोऽस्ति न तु स्वस्मादतोऽन्यस्मात् कथं न चेत् ।
अन्यथा बाधकं यद्वत् तद्वन्नास्ति स्वतो मतौ ॥ ३२ ॥
स्वात्मन्यथ क्रियारोधो धारयोः स्वच्छिदा न हि ।
धारापि तीक्ष्णा स्वयमित्युच्यते किं न सूरिणा ॥ ३३ ॥
स्वहेतोरेव तीक्ष्णा सा जायते नान्यतो यदि ।
प्रकाशरूपज्ञानं च स्वहेतोरेव जायते ॥ ३४ ॥
उपकार्योपकारित्वकृतं मा भूत् प्रकाशनम् ।
तद्रूपजन्म रूपं तु स्वयंशब्देन शब्दितम् ॥ ३५ ॥
561
यथा प्रदीपपटयोरुपकारात् प्रकाशनम् ।
दृष्टं तथा प्रदीपस्य स्वयं किं न समीक्षितम् ॥ ३६ ॥
अक्षापेक्षापि दीपे चेत् सा कुम्भे किं न विद्यते ।
तत्सत्त्वेऽपि घटो दीपं दीपो नान्यमपेक्षते ॥ ३७ ॥
यत्नादौ सत्यपि यथा परप्रेरणवारणात् ।
स्वयंगमोक्तिस्तज्जातिवारणैव स्वभासने ॥ ३८ ॥
आगमेऽपि स्वयंवित्तेर्बाधे च प्रतिभाति या ।
ग्राह्यग्राहकभावस्य सूक्ष्मस्य तदपोहनम् ॥ ३९ ॥
एकत्र फलहेतुत्वं यथाशङ्क्य निवारितम् ।
ग्राह्यग्राहकतैकत्र तथाशङ्क्य निवारिता ॥ ४० ॥
न कर्मकर्तृभावेन स्वप्रकाशमतो मतम् ।
परानपेक्ष्य भासन्तु स्वहेतोरुदितं मनः ॥ ४१ ॥
सन्धिनिर्मोचने व्यक्तं तदर्थप्रतिपादनात् ।
अर्थाभासप्रवृत्त्यादिवचनैरपि सूचनात् ॥ ४२ ॥
तस्मान्न युक्त्यागमयोः प्रतिबोधि स्ववेदनम् ।
दोषः स एवान्यविदं बाधतेऽग्निरिव द्रुमम् ॥ ४३ ॥
न च स्ववित्तिव्यापारं परवित्तिग्रहोऽर्थितः ।
यतोऽस्य गुणदोषाभ्यां स्ववित्तेरवलेपनम् ॥ ४४ ॥
दोषो न सत्तामात्रेण व्यापारेण तु स स्मृतः ।
अकार्यकृतिकालस्था निग्राह्या क्ष्मादयो न हि ॥ ४५ ॥
न स्ववित्तेरतो दोषः परवित्तेस्तु विस्तरात् ।
तदन्यवित्तिव्यावृत्तः प्रकाशो नियतः स्वयम् ॥ ४६ ॥
न स्वतो नापि परतो भासश्चेद् भास एव न ।
नालोष्टादिसमानस्य वक्तुमेतच्च साम्प्रतम् ॥ ४७ ॥
562
स्वतोऽन्यतश्च व्यावृत्तावपि भासो यदीष्यते ।
एकानेकवियोगोऽपि वस्तुनः सत्त्वमस्तु वः ॥ ४८ ॥
एकानेकवियोगेऽपि यदि वस्तु सदिष्यते ।
स्वतोऽन्यतश्चाभावेऽपि भावो भासस्य किं न वः ॥ ४९ ॥
भासमानास्तथाप्येते न भावाः शक्यनिह्नवाः ।
असाधारणभासत्त्वात् ज्ञानत्वं च भविष्यति ॥ ५० ॥
रूपनिर्भासतोऽध्यक्षरूपताप्यस्ति वास्तवी ।
न च स्ववित्तौ दोषश्चेत्यतः किञ्चिन्न दुष्यति ॥ ५१ ॥
ननु स्ववित्तिर्नीलस्येत्येतदेव कुतो भवेत् ।
न हीदमेकमात्मानं वेत्ति येन स्ववेदनम् ॥ ५२ ॥
अन्तः शातादिरूपस्य बहिः शीतशितादिनः ।
भासनात् कस्य केनास्तु कथं वित्तिर्न चैकता ॥ ५३ ॥
भासनं तावदस्त्येषां तन्निषेद्धुं न शक्यते ।
न भेदे तच्च युक्तं चेदभेदोऽस्तु धियस्तदा ॥ ५४ ॥
भिन्नाकृतीनामेतेषामभेदोऽपि कथं भवेत् ।
तत्133b किमिष्टो द्वयाभावो भाव एव द्वयस्य वा ॥ ५५ ॥
भेदोऽभेदो द्विधाऽद्वेधा धीरूपेऽस्तु यथा तथा ।
नालीकत्वं प्रकाशस्य बाधगन्धविरोधिनः ॥ ५६ ॥
न हि स्वानुभवस्यास्ति बाधः क्वाप्युपपत्तिभिः ।
स एव तासां प्रभवो निष्ठा तत्रैव वा यतः ॥ ५७ ॥
भेदादिरेव चिन्त्योऽस्तु न प्रकाशस्य वारणम् ।
यत्र प्रकाशविश्रामः स्वः परो वा स एव सन् ॥ ५८ ॥
सत्त्वे च स्वविदः सिद्धे किमेकानेकचिन्तया ।
तदभावादभावेन तस्याः किल फलस्थितिः ॥ ५९ ॥
563
प्रकाशमात्रे सिद्धेऽपि स्ववित्तिः कथमुच्यते ।
तावता चार्थसंसिद्धौ किं स्ववित्तिगिरापि नः ॥ ६० ॥
प्रत्यक्षबाधा हि परप्रतिज्ञा या विवक्षिता ।
स्वरूपस्य परेणापि प्रकाशे सा च सिध्यति ॥ ६१ ॥
स्वरूपसाक्षात्करणादध्यक्षत्वं न चापरम् ।
परेणापि प्रकाशस्य रूपं तावद् विभाति तत् ॥ ६२ ॥
तथापि स्वविदस्त्येव किं तु स्वस्येति न स्वयम् ।
बाधासिद्धौ तथान्येन वित्तिवादेऽपि न क्षतिः ॥ ६३ ॥
न सिद्धापरवित्तिश्च स्ववित्तिश्च न सिध्यति ।
ततः प्रत्यक्षता नाम कीदृशी बाधनं यया ॥ ६४ ॥
साक्षात्कारस्वरूपस्य प्रत्यक्षत्वमुदीरितम् ।
विशेषलक्षणस्यापि नैव क्षतिरनिश्चये ॥ ६५ ॥
सामान्येन विशेषाणां यथा व्याप्तिस्तथास्य तैः ।
सिद्धे विशेषं सामान्यं सामान्येऽन्यतरः स च ॥ ६६ ॥
मनुष्यनिश्चये भाव्यं शूरिणा वाऽपरेण वा ।
न च तद्द्वयसन्देहे मनुष्यस्य पराभवः ॥ ६७ ॥
निश्चिते तद्द्वयाभावे भवेन्मानुष्यकक्षतिः ।
किं तु मानुष्यकेऽसिद्धे सिद्धे वा न द्वयक्षतिः ॥ ६८ ॥
परोक्षे वस्तुनि ततो द्विधाभासक्षतिस्थितौ ।
भासभ्रंशोऽस्तु निश्चेयो भासे त्वेका स्थितिर्द्वयोः ॥ ६९ ॥
न प्रकाशेऽस्ति सन्देहः सन्देहस्तु भिदाभिदोः2624
भिदाभिदोरन्यतरा प्रकाशेऽवश्यमन्विता ॥ ७० ॥
भेदाभेदस्थितिर्यद्वदुपपत्तिमपेक्षते ।
नैवं प्रकाशोऽपेक्षायां प्रकाशः कथमुच्यते ॥ ७१ ॥
564
द्वाभ्यां व्याप्तिः प्रकाशस्य स्याच्चेदेकस्थितिर्द्वयोः ।
व्याप्तिश्च न क्वचित् सिद्धा तथाप्यक्षतिरीरिता ॥ ७२ ॥
नाभिन्नेन न भिन्नेन वेदनेन विदित्यतः ।
कथं प्रत्यक्षबाधेति व्याप्तावेवेदमप्यलम् ॥ ७३ ॥
उपपाद्यं समक्षत्वमथ चेद् बाध्यवादिना ।
अभ्युपेतप्रमाणस्य प्रत्यक्षं कीदृशं परम् ॥ ७४ ॥
व्यापकानुपलम्भेऽपि रूपत्रयनिरूपणे ।
पारम्पर्येण साक्षाद् वापेक्षावश्यं समक्षधीः ॥ ७५ ॥
तत्र कीदृक् समक्षं ते यद्यस्माकं न विद्यते ।
तत् सांवृतं चेद् बाधापि सांवृतादस्तु सिद्धिवत् ॥ ७६ ॥
रूपाप्तौ सांवृतं शक्तं न बाध इति कः क्रमः ।
यज्जातिकं च तत्सिद्धौ तज्जात्येवास्तु बाधकम् ॥ ७७ ॥
सांवृतत्वं च मानस्य मेयस्य यदि संवृतेः ।
अद्यापि चिन्त्यते सैव न सिद्धा साधनं कथम् ॥ ७८ ॥
अन्यस्यासंविदोऽन्येन यदि व्याप्तिग्रहो हतिः ।
विप्लुतोऽन्यग्रहश्चास्तु स्ववित्तेः कियती क्षतिः ॥ ७९ ॥
अनुपेतप्रमाणस्य ज्यायसी मूकतैव यत् ।
ब्रुवता नियतं किञ्चिद् बाध्यं वा साध्यमेव वा ॥ ८० ॥
संवृतो मानमिष्टं चेद् विचारोऽप्येष संवृतिः ।
संवृतावपि नेष्टं चेद् ब्रुवन् जेता यथा134a तथा ॥ ८१ ॥
न च हेतौ प्रकाशादावप्येवं बाधसंभवः ।
असाधारणनिर्भासव्यत्ययस्याप्रसाधनात् ॥ ८२ ॥
अमुनापि समक्षेण विषयीकृतिमात्रकम् ।
न सत्तासिद्धिरस्येति बाधकावसरो न किम् ॥ ८३ ॥
565
विधिसाधनमानेन विषयीकरणात्परम्2625
न सत्तासाधनं क्वापि शक्तिः सत्ता तु लौकिकी ॥ ८४ ॥
सर्वत्र मानविहिते सत्ताभेदस्य साधनम् ।
युक्तं नाशादिवत् सत्ताबाधकं तु विरुध्यते ॥ ८५ ॥
तस्मात् स्वं वा परं वा स्यात् प्रत्यक्षं विषयस्य तु ।
यस्य स्वरूपनिर्भासः स एवाध्यक्षगोचरः ॥ ८६ ॥
तदतद्रूपविमतावपि बोध्यवपुः स्थिरम् ।
ज्ञानज्ञेयोपनयनादेव साधकबाधकम् ॥ ८७ ॥
न स्वरूपेण रूपं तु गवेष्यं भ्रान्तिशान्तये ।
प्रतिभासिनि रूपे च न भ्रान्तेरस्ति संभवः ॥ ८८ ॥
कल्पनापोढमेवास्तु किमभ्रान्तपदं तदा ।
भ्रान्तिद्वैविध्यनिर्वाहनिर्बन्धोऽपि मुधेति चेत् ॥ ८९ ॥
2626सत्यमाचार्यदिग्नागपादेन कृतमेव तत् ।
वार्तिके तु कृतं लोकस्याकारे बाह्यरोपणात् ॥ ९० ॥
आकारमाकारतया शुक्तिं शुक्तितया तथा ।
यदि विद्याज्जनः क्वापि कथं स्यात् कस्यचित् भ्रमः ॥ ९१ ॥
अतदात्मनि तादात्म्यव्यवसायस्तदा द्वयोः ।
विकल्पवर्जनेनैव निवर्त्य इति युज्यते ॥ ९२ ॥
यदा त्वर्थग्रहो ज्ञानस्याकारे सर्वदेहिनाम् ।
दृष्टोऽतिस्पष्टविच्छिन्नप्रतिभासे विशेषतः ॥ ९३ ॥
तदा मृषार्थग्रहणं तदध्यक्षमकल्पनात् ।
प्राप्तं गृहीतग्रहवत् तद्द्वितीयं विशेषणम् ॥ ९४ ॥
लोकबुद्धिमपेक्ष्यैव सतैमिरमितीरितम् ।
स्पष्टाभस्यास्य कल्पत्वमोहापोहाय चापरम् ॥ ९५ ॥
566
तत् तत्त्वचिन्तावसरे कल्पितापेक्षयैव सा ।
भ्रमव्यवस्था स्पष्टाभे न स्वाकारव्यपेक्षया ॥ ९६ ॥
भ्रमत्वमविकल्पेऽपि विकल्पान्न ततः परम् ।
अतो विकल्पे विश्रान्तमविकल्पेऽपि कथ्यते ॥ ९७ ॥
विकल्पकस्य भ्रान्तत्वे भ्रमोऽन्यः स्यान्न वा भवेत् ।
विकल्पकस्याभ्रान्तत्वे भ्रम एव न विद्यते ॥ ९८ ॥

अन्तरश्लोकौ ॥

निर्भासिनः समक्षत्वमसत्यत्वमपोहति ।
अतः प्रकाशे मिथ्यात्वमर्थस्यैव न धीतनोः ॥ ९९ ॥
तस्मान्माने भिदाभेदविवादेऽपि प्रकाशिनः ।
प्रत्यक्षगोचरावस्था सिद्धा सत्त्वं तदेव च ॥ १०० ॥
तच्चित्रमेतदद्वैतं ग्राह्यादिविरहान्मतम् ।
सांवृती पुंवदेकाख्यानेकव्यवहृतिर्मुधा ॥ १०१ ॥
यावदेव बहिरध्यवसायस्तावदेव पृथगेतदिदं च ।
तन्मतिस्तु सकलेति स एव ज्ञानपाणिचरणादिरसौ हि ॥ १०२ ॥
नीलादिश्चित्रविज्ञाने ज्ञानोपाधिरनन्यभाक् ।
अशक्यदर्शनस्तं हि पतत्यर्थे विवेचयन् ॥ १०३ ॥
यद् यथा भासते ज्ञानं तत्तथैवानुभूयते ।
इति नामैकभावः स्याच्चित्राकारस्य चेतसः2627 ॥ १०४ ॥

संग्रहश्लोकौ ॥

चित्रविज्ञान इत्याभ्यामेकानेकात्ययः क्रमात् ।
ज्ञानोपाधितया बाध्यं विविच्याशक्यदृक्तया ॥ १०५ ॥
मुधानेकध्वनिस्तं हीत्यादिना शेषसंग्रहः ।
यद् यथेत्यादिना युक्तिरेकसंज्ञा तदेकता ॥ १०६ ॥
567
प्रत्यक्षानुमयोर्नापि विरोधे शक्तिसं134b शयः ।
अक्षापेक्षानुमा नित्यं नानुमापेक्षमक्षजम् ॥ १०७ ॥
परिहृत्य यथाध्यक्षविरोधमनुमोदयः ।
तथानुमाविरोधं न परिहृत्याक्षसंभवः ॥ १०८ ॥
परोक्षे चानुमान्यत्र विरोध इति कः क्रमः ।
अक्षेण बाध्यते कोऽर्थो नेयं तद्गोचरे प्रमा ॥ १०९ ॥
स्वात्मसत्तास्थितावक्षादनुमानाद् गुणान्तरम् ।
प्रत्थक्षेणाव्यवहृतेः परोक्षत्वव्यवस्थितेः ॥ ११० ॥
ततोऽध्यक्षान्तरेणापि नानुमायास्तुला क्वचित् ।
स्वसंवित्त्या तु यत् सिद्धं तत्र चिन्तैव कीदृशी ॥ १११ ॥
स्ववित्तिरेवापरमानयोनिर्न चेत् प्रमाणं किमिह प्रमाणम् ।
अतस्तया साधितबाधितेषु न बाधसिद्ध्योरपरस्य शक्तिः ॥ ११२ ॥

अन्तरश्लोकः ॥

एकानेकात्ययेऽप्यस्मात् स्फुरतः केन वारणम् ।
न च ताभ्यां स्थितिव्याप्तिः प्रत्यक्षेणैव बाधनात् ॥ ११३ ॥
लक्षणस्य क्रियाकाले व्याप्तिविच्च हतामुना ।
बहिरेवैष नियमः सामर्थ्यादवतिष्ठते ॥ ११४ ॥
द्वैतेऽपि न बहिर्धर्मः सर्वः साधारणो धियः ।
स्थैर्यास्थैर्यवदद्वैते स्यान्न यद्येष न क्षतिः ॥ ११५ ॥
पूर्वापरतया व्याप्तं स्थैर्यादि न तदत्यये ।
एकानेकतयाव्याप्तिः स्थितेर्बुद्धौ न संविदः ॥ ११६ ॥
व्याप्तिरेवाथ तदपि सत्त्वादस्त्येकमेनयोः ।
सर्वाकारावसायो हि न प्रत्यक्षेऽपि वस्तुनि ॥ ११७ ॥
भासमाने च नीलादौ भास एव समक्षधीः ।
ततो भेदोऽथ निर्भेदशङ्का पीतादिनः पुनः2628 ॥ ११८ ॥
568
तत्रापि व्यतिनिर्भासादेवाभेदव्यवस्थितिः ।
भेदे हि भेदसन्तानज्ञानवन्न प्रकाशनम् ॥ ११९ ॥
उपादानाभिदोऽन्योन्यं प्रकाश इति चेदसत् ।
उपादानाभिदप्येषां न हि भेदमपोहति ॥ १२० ॥
प्रत्यासत्तिर्यदप्यस्ति ग्रहणार्थस्तु को भवेत् ।
सैव चेत् स्फुरणं साक्षात् न भवेत् सैव हि प्रथा ॥ १२१ ॥
तद्बलाच्च ग्रहे हेतुफलयोः किं न वेदनम् ।
सान्निध्यतारतम्यं तु तत्रैवैतदपेक्षया ॥ १२२ ॥
परस्परग्रहार्थोऽत्र साहित्यस्फुरणं यदि ।
आसन्नदेशस्फुरणमग्रहेऽपि मिथो2629 न किम् ॥ १२३ ॥
तस्मान्न चित्रभासः स्यात् संस्तु न क्षमते भिदाम् ।
अन्योन्यसंविदावेशात् स्वभावाभेदलक्षणात् ॥ १२४ ॥
चित्रादेव सदोत्पत्तावेकोपादानतापि का ।
न सङ्कोचदशायामप्येकान्ताच्चित्रनिश्चयः ॥ १२५ ॥
यावच्च जन्म चित्रस्य चित्रादेवोपलभ्यते ।
भिन्नोपादानता तावत् क्षमते न मिथः प्रथाम् ॥ १२६ ॥
उपादानस्य यदि च चित्रस्याप्येकतास्थितिः ।
उपादेयस्य किं नेति चित्राद्वैतमबाधितम् ॥ १२७ ॥
कथं वा नीलमप्येकमथाणुप्रतिभासनम् ।
ततोऽनेकस्थितिभ्रंशे केन कस्य स्थिरैकता ॥ १२८ ॥
एकानेकत्वविरहोऽप्यत एवेति चेन्मतिः ।
अस्तु सत्त्वस्य बाधा तु न शक्येति निवेदितम् ॥ १२९ ॥
एतत्तु प्रकृतं भेदे युक्तं नान्योन्यभासनम् ।
उपादानाभिदो नाम नोत्तरस्य बलं यतः ॥ १३० ॥
569

तस्मात्,

सहोपलम्भनियमादभेदो नीलपीतयोः ।
स्वभावो हि 135a तयोः संविदभिन्नेति भिदा कुतः ॥ १३१ ॥
संवित्तिनियमो नास्ति भिन्नयोर्नीलपीतयोः ।
इत्थमर्थे पतेत् पुंभ्यामेकैकस्यापि दर्शनात् ॥ १३२ ॥

तदाह,

नीलादिश्चित्रविज्ञाने ज्ञानोपाधिरनन्यभाक् ।
अशक्यदर्शनस्तं हि पतत्यर्थे विवेचयन् ॥ १३३ ॥
यद् यथा भासते ज्ञानं तत्तथैवानुभूयते ।
इति नामैकभावः स्याच्चित्राकारेऽपि चेतसि2630 ॥ १३४ ॥
बाह्यवन्न हि बोधेऽपि पुंसोरेकैकदर्शनम् ।
यतोऽन्यथापि ग्रहणान्नियमस्य पराहतिः ॥ १३५ ॥
भासते यद्यदेकं तद् यथा चित्रे सिताकृतिः ।
भासते चाखिलं चित्रं पीतशीतसुखादिकम् ॥ १३६ ॥
एकाभिमतबोद्धारमपेक्ष्येदमुदीरितम् ।
नानैकान्तिकता तस्मात् सन्तानान्तरभासिना ॥ १३७ ॥
दृष्टान्ते साध्यशून्यत्वं न विपर्ययबाधकात् ।
भासः स्थूलतया व्याप्तो न ह्यसावणुशो भिदि ॥ १३८ ॥
एकैकाणुनिमग्नत्वात् संवित्तिर्न परस्परम् ।
न चैकाणुप्रकाशोऽस्ति स्थूलमेव स्फुरत्यतः ॥ १३९ ॥
बाह्याणूनां प्रतीभासो बुद्धिरेका स्थवीयसी ।
ज्ञानाणूनां क एकस्तु प्रतिभासो भविष्यति ॥ १४० ॥
अनेकत्राप्यवयविन्येका चित्राकृतिर्मतिः ।
खण्डशो व्यवहाराय साध्वी बुद्धौ तु का गतिः ॥ १४१ ॥
570
एकत्राप्यंशिनि मितिः साकारैका प्रसाधिता ।
व्यवहारोऽन्यथा नेति स्थौल्यं ज्ञानस्य दुस्त्यजम् ॥ १४२ ॥
तस्मात् स्थूलतया व्याप्तो निर्भासस्तन्निवृत्तितः ।
निवर्तमानोऽनेकस्मादेकत्वे विनयस्य ते ॥ १४३ ॥
यथा सजातीयमताद् भागाद् भेदनिराक्रिया ।
अनाभासप्रसङ्गेन विजातीयमतात्तथा ॥ १४४ ॥
तन्नास्तु साध्यो दृष्टान्तो न चाशङ्काविपर्यये ।
साध्यस्याध्यक्षबाधापि नाध्यक्षस्याप्रतिष्ठितेः ॥ १४५ ॥
न मानमन्यग्रहणं न भेदग्राहिका स्ववित् ।
भिन्नमस्मादिदमिति विकल्पो वासनान्वयः ॥ १४६ ॥
यथा बाह्यं स्वतो भिन्नं स्वतन्त्रः कल्पयत्ययम् ।
बाह्यं बाह्यान्तराद्भिन्नं तथा कल्पयति स्वयम् ॥ १४७ ॥
बाह्ये सत्यपि नान्यस्मादध्यक्षं भेदवेदनम् ।
अन्यस्यापि ग्रहप्राप्तेस्तद्विशिष्टात्मनो ग्रहात् ॥ १४८ ॥
अस्माद्भिन्नमितीदं चेत् स्वरूपं ग्राह्यवस्तुनः ।
सावधेरस्य भासः स्यान्न वा ग्राह्यं तदात्मना ॥ १४९ ॥
विनावधिं प्रतीतो हि भेदोऽभेदः कथं न सः ।
भेदोपचारमात्रं स्यान्न भेदस्तत्त्वतस्ततः ॥ १५० ॥
परासंकीर्णरूपस्य ग्रहणं किल भेदवित् ।
परासंकीर्णमन्यस्माद् भिन्नमेकार्थमीदृशम् ॥ १५१ ॥
न त्वन्यसंकीर्णगतावन्यस्याप्युचितो ग्रहः ।
अन्याग्रहे त्वकीर्णस्य केवलस्याग्रहः कथम् ॥ १५२ ॥
केवलो यत एवायं भाति तेनैव नान्ययुक् ।
अन्यस्यापि प्रकाशे हि गृहीतः केवलः कथम् ॥ १५३ ॥
571
केवलस्य ग्रहो न स्यादन्यस्य स्फुरणे यथा ।
अन्यस्यास्फुरणेऽप्येवं परामिश्रो हि केवलः ॥ १५४ ॥
अमिश्रोऽयं परेणेति विवर्तो मनसो यथा ।
तथैव यद्यनुभवः परधीः केन 135b वार्यते ॥ १५५ ॥
परिहृत्य परं तातो यथा मिश्रग्रहो न सन् ।
परिहृत्य परं तातस्तथा भिन्नग्रहो न सन् ॥ १५६ ॥
वस्तुमात्रग्रहस्तस्मादध्यक्षेणेति युज्यते ।
न भिन्नं नापि चाभिन्नं ग्रहीतुं तेन शक्यते ॥ १५७ ॥
न भेद्यभासादवधेर्ज्ञातं नाभेद्यशङ्करात् ।
नान्यच्च भेदाभेदाभ्यां वस्तु वस्तुग्रहः कथम् ॥ १५८ ॥
सर्वमर्थाव्यतिभिदि ज्ञानादपि भिदा कुतः ।
भेदे चावधिमानेऽपि सर्वः सर्वस्य गोचरः ॥ १५९ ॥
किं तु बाह्यग्रहावेशे चिन्तायां दूषणं समम् ।
यथा भेदग्रहानिष्टौ तथा सत्यवधिग्रहे ॥ १६० ॥
तस्माद् बाह्यग्रहश्चक्षुनिर्मील्यास्तु यथा तथा ।
भेदाग्रहं त्वनुवदन् तत्त्वविद् बाध्यतां कथम् ॥ १६१ ॥
नाध्यक्षं भेदकृत् कल्पं तस्करस्त्विह तत्करः ।
स स्वापराधमध्यक्षे क्षिपतीति भिदः स्थितिः ॥ १६२ ॥
नीलादिव तदेकं च कथमेतत् समेतु चेत् ।
नीलमंशान्तरं चैकमिति किं भाति सङ्गतम् ॥ १६३ ॥
नैकं तदपि चेत् तर्हि क्वाणुतो भिदि भासनम् ।
न परीक्षाक्षमश्चाणुः कुतः कस्य तदा भिदा ॥ १६४ ॥
मा भूदवस्तुतो वा चेत्2631 सोऽप्येकत्वहतौ भवेत् ।
निर्भासादेकतासिद्धौ स्ववित्तेर्वस्तुता स्थिता ॥ १६५ ॥
572
अथ देशवितानाप्तिर्नामान्तरवियोगिनः ।
न देशभानहानौ च भास इत्यपि शक्यते ॥ १६६ ॥
न स्वात्मान्तरमन्यात्मा स बाह्यस्यैव युज्यते ।
बुद्धेः स्ववित्तिनिष्ठाया यः परस्तस्य का गतिः ॥ १६७ ॥
भिन्नोऽपि देशभेदेन बाह्यार्थो गृह्यते धिया ।
धीस्तु देशभिदा भिन्ना केनास्तु व्यवहारभाक् ॥ १६८ ॥
स्थूलदेशापि 2632तेनैक्यान्न बुद्धिर्भेदमर्हति ।
यथा न भेदोऽस्याभेदे भेदकस्तद्वदाकृतेः ॥ १६९ ॥
चित्रं तदेकमिति चेदिदं चित्रतरं ततः2633
ततश्चित्रतमं चेदं यद्भेदे वेदनं मिथः ॥ १७० ॥
चित्रैकबुद्धिनिर्भासे बाह्यः स्याद् वा न वा भवेत् ।
अनाभासप्रसङ्गेऽस्या न बाह्यानि न बुद्धयः ॥ १७१ ॥
अणुत्वे तदभावे वा न धीभासस्य सङ्गतिः ।
तस्मादणुत्वाभावाभ्यां विरुद्धं भासनं धियः ॥ १७२ ॥

तदाह,

नीलादिश्चित्रविज्ञाने ज्ञानोपाधिरनन्यभाक् ।
अशक्यदर्शनस्तं हि पतत्यर्थे विवेचयन् ॥ १७३ ॥
यद् यथा भासते ज्ञानं तत्तथैवानुगम्यते ।
इति नामैकभावः स्याच्चित्राकारस्य चेतसः2634 ॥ १७४ ॥
ज्ञानत्वेन विशिष्टोऽयं नीलादिश्चित्रवेदने ।
मिथः स्वरूपानापन्नोऽस्थूलो द्रष्टुं न शक्यते ॥ १७५ ॥
भेदस्य प्रत्थणु प्राप्तेर्नीलादि चय एव वा ।
अशक्यो द्रष्टुमुदित एकैकस्य ग्रहाद् धिया ॥ १७६ ॥
573
अनेकाकार एकोऽत एष्टव्योऽनुभवो यतः ।
अस्मादिदं भिन्नमिति प्रकल्पयति पृष्टजम् ॥ १७७ ॥
अत एव च नीलादि भिन्दन्नर्थ विवेचयेत् ।
न बुद्धिरूपं तद्भेदे न ज्ञानं न च गोचरः ॥ १७८ ॥
तस्माद् येन प्रकारेण करणेन चकास्ति धीः ।
स्थूलैकत्वेन तेनैव विशिष्टा सोपगम्यते ॥ १७९ ॥
विरुद्धधर्माध्यासश्च तत्र भेदाय कल्पते ।
136a यत्राध्यक्षकृतो भेदो व्यवहारप्रसाधनात् ॥ १८० ॥
स्वयं वेदनमेवात्र प्रत्यक्षं न च तद्भिदे ।
नीलादित्वे विकल्पोऽनुवर्तकस्तस्य नो भिदि ॥ १८१ ॥
निर्भासभेदाद् भेदश्चेत् स एवाकार उच्यते ।
बहिर्मेये प्रमाणं स तत्र मेये स्ववित् प्रमा ॥ १८२ ॥
स्वविदेकीकृतस्यास्य भेदाद् भिन्नं कथं बहिः ।
यथा धियोऽक्षाद् ग्रहणं स्वविदा भेदनं तथा ॥ १८३ ॥
स्फुरणं प्रतिभासश्चेत् सा स्वविन्न च विद्यते ।
मेयभूताकृतो भेदावसायो हन्यते विदा ॥ १८४ ॥
अध्यक्षमेव हि भिनत्ति शितेः सितं चेत्
तद्भिद्यमानमथवाभिदमेव भिन्द्यात् ।
भेदेऽन्यलेशमपि नेति कुतो भिनत्तु
भिन्द्यादभेदि मन इत्यपि कस्य शक्यम् ॥ १८५ ॥
बाह्यं न नश्यति भिदाणुतयाप्यभेदे
त्वर्थक्रियाविरहसंकरतोऽशुमात्रम् ।
बुद्धिस्तु नश्यति भिदैव विदैव सत्ता
च्चित्राप्यतो न भिदमेति किमत्र कुर्मः2635 ॥ १८६ ॥
574
भेदस्तथाप्यबुध बुद्ध्यनुरोधतश्चेद्
एतावतापि तव हेतुरसिद्ध एव ।
एकत्वहानिरथ बुद्ध्यनुरोधबाधो
बाधस्तु नस्तदपि नेति परोक्तमेतत् ॥ १८७ ॥

अन्तरश्लोकाः ॥

एकानेकतया वस्तुव्याप्तिः सिद्धा यदि क्वचित् ।
सर्वशून्यत्वसमये हेतुरिष्टविघातकृत् ॥ १८८ ॥
अथ लोकप्रसिद्धौ च न सर्वं लोककल्पितम् ।
तत्त्वव्यवस्था शरणं किं तु मानेन सङ्गतम् ॥ १८९ ॥
न चाध्यक्षानुमानाभ्यामनंशं क्वचिदीक्षितम् ।
यस्य राशिरनेकं स्यान्नापि वस्तु च किञ्चन ॥ १९० ॥
स्थूलमेकैकमध्यक्षं नैकानेकं व्यवस्यति ।
वस्तुतस्तु किमेकं तत् नाना वा कोऽत्र निश्चयः ॥ १९१ ॥
न चान्योपगमः साधुः स्वतन्त्रे साधने सताम् ।
न प्रसङ्गे च मुख्यार्थः तथात्वे च मतक्षतिः ॥ १९२ ॥
यस्य चैकतरत्वाभ्यां सत्त्वव्याप्तिः स हन्यताम् ।
अभ्रान्तवित्तिमात्रेण सत्तावादी तु जित्वरः ॥ १९३ ॥
सर्वत्र हेतौ व्याप्तिस्तु प्रमासिद्धिमपेक्षते ।
व्यापकानुपलम्भादौ सा च ज्ञेया विपर्यये ॥ १९४ ॥
मानसिद्धं न च व्याप्तिव्याप्यं नोपगतं स्वयम् ।
परवित् परवित्त्यैव बाध्यते त्विति कीर्तितम् ॥ १९५ ॥
न च स्वभावस्वीकारोऽवश्यमेकादिकर्षकः ।
व्याप्तेरसिद्धेरद्यापि प्रमाणव्याहतं च तत् ॥ १९६ ॥
प्रमाणव्यस्तरूपेण व्याप्तिमादाय तद्धतेः ।
यदि भावास्वभावत्वं खरशृङ्गात्ययान्न किम् ॥ १९७ ॥
575
एकानेकात्ययात् तर्हि बाह्यस्यापि कथं क्षतिः ।
तत्त्वतोऽनुपलम्भेन ग्राह्यलक्षणहानितः ॥ १९८ ॥
न चानशैकता किं तु विविच्याशब्ददर्शनम् ।
तच्च नास्ति बहिस्तस्याभावतस्तत्समुच्चयः ॥ १९९ ॥
विविच्याशक्यदर्शित्वमेवैकत्वमणावपि ।
चित्रज्ञाने तदक्षीणमरुचिः क्वोपयोगिनी ॥ २०० ॥
बुद्धौ तु चित्ररूपायामशक्यैकविवेकदृक् ।
परचित्तविवेकेन तदेकानेकलक्षणम् ॥ २०१ ॥
तदाह नीलादीत्यादि स्फुटातोऽन्यधियोऽन्यता ।
सा कुतोऽनुमितेः सा चेत् संवृत्त्यास्तु यथा तथा ॥ २०२ ॥
तथापि कल्पितं नित्यमपेक्ष्य क्षणिता यथा ।
दृढप्रकल्पान्यमनोऽपेक्ष्यमेकं तथा धियः ॥ २०३ ॥
तर्ह्यशक्यविवेकैकाभावेऽप्यन्यतया ततः ।
शक्यभेद136b मनेकं स्याद् बाह्येऽप्येकचयेन किम् ॥ २०४ ॥
नैवं यथांशिनि हते त्वणुरेकोऽवतिष्ठते ।
ततस्तत्प्रचयोऽनेकस्तद्दोषादेव दूषितः ॥ २०५ ॥
तथा तत्प्रतिरूपेऽस्मिन्नेकानेकात्यये कृते ।
एकसंहतिरेवायमनेको वादिसंमतः ॥ २०६ ॥
शक्यमेवमपि ख्यातुमिति बाह्याधिकारतः ।
अवयव्यणुचिन्ताद्यकृतिनोऽभूत्पराशयात् ॥ २०७ ॥
यदा च चित्रबुद्ध्यैव बाधकान्तरहानितः ।
एकानेकत्वयोर्बाधः सिद्धिः किं न तया तयोः ॥ २०८ ॥
एकत्वे चित्रताभावो नानात्वे सुतरां यथा ।
चित्रत्वान्नैकता यद्वदेकानेकस्थितिस्तथा ॥ २०९ ॥
576
विना विरुद्धोपनयान्न बाधा प्रतियोगिनः ।
तथानेकहतावेकस्वविदन्तर्गमाद् वद ॥ २१० ॥
तथा च व्यापकाभावविप्लवः स्यान्मतस्थितेः ।
अस्माकं तु न दोषोऽयं द्वयोश्चेन्मानसिद्धता ॥ २११ ॥
सर्वावकारहानेन किमेकं न समं क्वचित् ।
एकतानेकताभ्यां तत् स्फुरत्ताभ्यां तदन्वितम् ॥ २१२ ॥
स्यान्नाम तत एकत्वं भेदाभेदात्मचित्रके ।
अथैकस्यान्यबाधाय साधनं स्थितये न तु ॥ २१३ ॥
तस्यापि बाधनात् पश्चात् प्रत्याशा महतीदृशी ।
प्रमाणादेकसिद्धिश्चेत् पश्चाद् बाधः कथं भवेत् ॥ २१४ ॥
प्रमाणान्नैकसिद्धिश्चेदन्यबाधः कथं भवेत् ।
एकात्ययो नान्यविधिः स्याद्विरोधः स्वयं यदि ॥ २१५ ॥
विधिश्च चित्रधीर्हन्याद्विरुद्धोपनयात् परम् ।
उदीर्यमाणः शक्तश्चेदहो प्रामाणिकस्थितिः ॥ २१६ ॥
कदापि नोभयभ्रंशस्तथाप्येकैकसंस्थितिः ।
कदाप्येकतयानेकतया भाति कदापि तत् ॥ २१७ ॥
तथापि भाव एकस्यामसिद्धिर्व्यापकच्युतेः ॥ २१८ ॥
अर्थशक्त्यादिरूपं च यदि सत्त्वं निषिध्यते ।
का क्षतिर्भासरूपं तु ब्रह्मणापि न बाध्यते ॥ २१९ ॥
बाधने धर्मिणस्तस्य बाधा स्यादपि न स्वयम् ।
यथा नीलमिदं तद्वद्भाति सत्यं न वा भवेत् ॥ २२० ॥
सन्देहे धर्मिणो धर्मसन्देह इति चेत् कुतः ।
तादात्म्यात् तत्त्वत इति तुल्यं नाशिकतादिभिः ॥ २२१ ॥
अथैकनिश्चयोऽन्यत्र प्रवृत्तमपि संशयः ।
हन्ति व्यावृत्तिभेदेन तदपि प्रस्तुते समम् ॥ २२२ ॥
577
प्रतीतिरेव सत्तास्तु यदा बाह्येऽपि तत्त्वतः ।
भासिनो धर्मिणस्तर्हि क्व बाधा क्व च संशयः ॥ २२३ ॥
कदाचित् केनचिद् दृष्टस्यानुमानत्वमन्यदा ।
अपात्रं सर्वथा दृष्टेः पात्रं किं सदिति स्थितेः ॥ २२४ ॥
विकल्प एवानुमितेरभावेऽपि प्रकाशनम् ।
तादृशां यादृशी सत्ता प्रतीतिरपि तादृशी ॥ २२५ ॥
प्रतीतिमेव सत्तां च स्फुटयन् वार्तिके कृती ।
अप्रतीत्यैव बाह्यस्य विन्मात्रं प्रत्यपीपदत् ॥ २२६ ॥
तद्भासमात्ररूपेण भातद्रव्यादिता मुधा ।
चित्रे भासैकभावः स्यान्न प्रपञ्चो गुणादिभिः ॥ २२७ ॥
स्थितिर्हिविज्ञाननये तात्त्विकी च फलाङ्गता ।
अहो नैर्लज्यमथवा सर्व हि महतां महत् ॥ २२८ ॥
पूर्वापरपरिज्ञाने परज्ञाने च तद्ग्रहः ।
कुतः स्ववित्तिनिष्ठायामुभयस्याप्यसंभवात् ॥ २२९ ॥
अभासे पूर्वपरताज्ञानं न 137a ज्ञानहानितः ।
न भासे पूर्वपरताज्ञानमद्वैतसंगतेः ॥ २३० ॥
स्वैकरूपे द्वयाभावात् स्वान्ययोः परयोर्न वा ।
फलाङ्गभावः परवित् परिहारात्तु न द्विधा ॥ २३१ ॥
तस्माद् यथा परज्ञानं तथा हेतुफलस्थितिः ।
यथा स्ववित्तिविश्रामस्तथा संवृतिसत्यसौ ॥ २३२ ॥
चित्तमात्रव्यवस्थानमनुत्पादं वदन्त्यतः ।
प्रतीत्योत्पन्नताप्यस्मादसिद्धेरप्यसाधनम् ॥ २३३ ॥
न च प्रतीत्योत्पन्नत्वमेव वाच्या च शून्यता ।
अधरस्थितियुग्माच्च नैवं भेदो वृथा श्रमः ॥ २३४ ॥
578
अनुत्पन्नत्वमेवास्तु हेतुर्न प्राच्यदूषणात् ।
हानेऽपि हेतुफलयोः स्फुरद्रूपं क्व गच्छतु ॥ २३५ ॥
तस्माद्धर्मः कल्पितैरेव रूपैः
शून्यः सर्वो भासभाग्नैव कश्चित् ।
चित्राद्वैतं चित्रचक्रं तदेतद्
भाव्यं भाव्यैरप्रपञ्चं शिवाय ॥ २३६ ॥
साक्षात्कारो न कामं भवति भवभृतां यावदस्या दशाया
हेयोपादेयसाध्यप्रभवपरिचयस्तावदस्त्यप्रकम्पः ।
तस्मात् संभारयुग्माभ्यसनपरिणतौ मूर्तिचेतोगुणाभ्यां
योगी योगीश्वरोऽसौ निरुपमनिलये लब्धबोधिः प्रसिद्धः ॥ २३७ ॥
यथा सुवर्ण गुणरूपसंपदः
प्रकर्षपर्यन्तमुपेतमक्षयम् ।
विमुक्तमालीक्यकलङ्कशङ्कया
तथैव बौद्धं वपुरस्तु देहिनाम् ॥ २३८ ॥
॥ इति चित्राद्वैतनिर्णयश्चतुर्थः परिच्छेदः ॥
  1. न बोधन् किञ्चिदन्यस्मादिति मातृकायाम् ।

  2. भेदाभेदोरिति मातृकायाम् ।

  3. करणाप० इति मातृकायाम्

  4. ०दिङ्गाङ्गपादेन इति मातृकायाम् ।

  5. प्र. वा. २. २२०-१

  6. ततो भेदिनी भेदशङ्केति मातृकायाम् ।

  7. मथो इति मातृकायाम् ।

  8. प्र. वा. २. २२०-१

  9. वाच्चेदिति मातृकायाम् ।

  10. तेनयेन्नेति मातृकायाम् ।

  11. प्र. वा. २. २००

  12. तत्रैव २.
    २००-१; प्रकाशत इति चेतसीति च तत्र पाठः ।

  13. तुल० रत्न० निब० पृः १३६