अर्थवादाधिकरणम्

105
सिद्धप्रमाणभावस्य धर्मे वेदस्य सर्वशः ।
विध्यर्थवादमन्त्राणामुपयोगोऽधुनोच्यते ॥

सामान्यतः प्रामाण्ये सिद्धेऽधुना विभज्य विनियोगः प्रतिपाद्यते । अवधृतप्रामाण्यस्य वा वेदस्येदानीं समस्तस्य विध्यर्थवादमन्त्रनामधेयात्मकस्य यथाविभागं धर्मं प्रत्युपयोगः प्रतिपाद्यते । तत्र पूर्वपक्षवाद्यभिप्रायः । चोदनालक्षणोऽर्थो धर्म इत्युपक्रमात्तस्य ज्ञानमुपदेश इति परामर्शातद्भूतानां क्रियार्थेन समाम्नाय इत्युपसंहाराद्विधिप्रतिषेधयोरेव प्रामाण्यं प्रतिपादितं, न च तद्वयतिरिक्तशब्दगम्यत्वं धर्माधर्मयोः, नाप्यनधिगतार्थबोधनं मुक्त्वाऽन्यः शब्दस्य व्यापारोऽस्तीत्युक्तमेव । अतश्च यावन्त्येव साध्यसाधनेतिकर्तव्यतावाचित्वेन विधिप्रतिषेधान्तर्गतानि तेषां भवतु प्रामाण्यं यानि त्वतिरिक्तर्थान्यर्थवादमन्त्रनामधेयानुपातीनि सोऽरोदीदिषे त्वोर्जे त्वोद्भिदेत्येवमादीनि तानि सत्यप्यपौरुषेयत्वेऽर्थाभिधानसामर्थ्ये च धर्माधर्मयोरप्रमाणमतदर्थत्वात् । यथाश्रुतगृहीतानां तावत्प्रतीत्यनुंपलब्धेः प्रसिद्धमेवातदर्थत्वम् । अथ कयाचिच्छब्दवृत्त्या तादर्थ्यं कल्प्येत, एवमपि व्यवस्थाहेत्वभावान्न धर्माधर्मयोरवधारणं स्यात् । यदेव हि वाक्यं गृहीतं तदेवाध्याहारविपरिणामादिभिर्यथेष्टं कल्पयितुं शक्यते । तद्यथा सोऽरोदीदित्येवमेव तावद्वाक्यं विशिष्टपुरुषाचरितोपन्यासद्वारा रोदनकर्तव्यतापरम् । अथ वा महता106 मप्येवंविधाः प्रमादाः संभवन्ति, तस्मात्प्रयत्नेन वर्जयितव्यमिति । अतो विधिप्रतिषेधयोरस्फुटत्वाद्धर्माधर्मत्वेन निर्णये शक्त्यभावः । शास्त्रदृष्टविरोधादयश्च स्थिता एव । यत्तु भूतान्वाख्यानमात्रं यथावस्थितैः प्रतिपाद्यते तत्र यद्यपि सत्यत्वमस्त्येव तथाऽपि न तेन प्रयोजनमित्यानर्थक्यम् । अपि च । धूम एवाग्नेर्दिवेत्यादीनां स्वार्थेऽप्यप्रामाण्यं वक्ष्यते । विध्येकवाक्यत्ववशेनैव तेषां रूपभङ्गः क्रियते । न च तस्यापि किंचित्प्रमाणमस्ति । भिन्नैरपि हि तैः किंचित्प्रतिपादयितुं शक्यमेव । न च तत्प्रतिपादयतां निष्प्रयोजनतेत्यविज्ञायमानप्रयोजनवदर्थान्तरकल्पना शक्या । न हि लोष्टं पश्यतस्तद्दर्शनं निष्प्रयोजनमिति सुवर्णदर्शनता कल्प्यते । सर्वाण्येव च प्रमाणान्युपयुज्यमानमनुपयुज्यमानं वाऽर्थमात्मगोचरतापन्नं गमयन्ति । तेनैव चैषां हानोपादानोपेक्षाबुद्धयः फलत्वेन वर्ण्यन्ते । अन्यथा ह्युपादानमेवैकं फलं स्यात् । अपि च प्रमाणोत्पत्त्युत्तरकालं प्रयोजनवत्त्वमप्रयोजनवत्त्वं वा विज्ञायते न तु तद्वशेन प्रमाणोद्भूतिः । तस्माद्यो यद्रूपोऽर्थः प्रतीयते स तथैव प्रयोजनवत्त्वमप्रयोजनवत्त्वं वा प्रतिपद्यते । न हि प्रयोजनवदेव प्रमातव्यमिति कश्चिन्नियमहेतुरस्ति । यत्रापि तावत्स्वाधीनः प्रमाणविनियोगस्तत्राप्येतद्दुर्लभं किमुताबुद्धिपूर्वनित्यावस्थितवेदोत्थापितज्ञानग्राह्ये । न च वेदस्य प्रयोजनवदर्थाभिधानशक्तिः प्रथममवधृता । अयमेव हि परीक्षाकालो वर्तते कीदृशं पुनर्ब्रवीतीति । तच्च विदित्वा यथानुरूपमनुष्ठातुं क्षमा वयं न तु वेदं पर्यनुयोक्तुं किमयं निष्प्रयोजनमभिदधाति तद्वाऽभिदधत्किमर्थं प्रयत्नेन धार्यत इति । सर्वपुरुषाणां केवलं प्रतिपत्तृत्वेन पारतन्व्याद्वेदग्रहणोत्तरकालं च परीक्षावसरात् । न ह्यनधीतवेद एवाऽऽदौ परीक्षितुं क्षमः । पश्चात्परीक्षमाणस्य तु नाबुद्धिपूर्वनिर्वृत्तमध्ययनं प्रकरणगतन्यायेन निश्चयहेतुर्भवति । तस्माद्यथैवाग्निहोत्रादिवाक्यानां गम्यमानप्रयोजनवत्त्वादानर्थक्यं निष्प्रमाणकमिति नाऽऽश्रीयते तथैवैषां प्रयोजनवत्त्वं नाऽऽश्रयितव्यम् । न हि यथावगताम्युपगमादन्यत्किचि107 त्साधीयः परीक्षकाणाम् । योऽपि च क्लेशेन स्तुतिनिन्दात्मकोऽर्थः कल्प्येत स भावनयांऽशत्रयानन्तःपातित्वान्न गृह्यते । तया चागृहीतं न विधिप्रतिषेधावाश्रयतः । तदनाश्रितं च दूरे पुरुषार्थाद्भवतीति । अपि चैवंविधेषु स्तुतिनिन्दाकल्पनायामितरेतराश्रयप्रसङ्गः । स्तुतिनिन्दात्मकत्वेनैव ह्येकवाक्यता तया चानुन्मीलितस्तुतिनिन्दोत्प्रेक्षाश्रयणम् । न चान्यतरमूलप्रसिद्धिरस्तिं यतो व्यवतिष्ठेत । तस्मात्पृथगवस्थितानां दृष्टत्वादानर्थक्यमेवोपपन्नतरमिति । स एष वाक्यैकदेशस्येति । विध्युद्देशातिरिक्तस्य सिद्धान्ताभिप्रायेणैकदेशत्वं न तु पूर्वपक्षे, भिन्नवाक्यत्वाभ्युपगमात् । अथ वा वाक्यानां मध्य एकदेशाक्षेपः कतिपयानामित्यर्थः । तत्र यानि तावत्केवलविधियुक्तानि तेषु नैवाऽऽशङ्का । यान्यपि लिङादिमन्ति प्रागर्थवादेभ्यो विधिसमर्थानि तैः संयुज्यार्थान्तरे स्तुतिस्तुत्यसंबन्धे वर्तन्ते तेषामर्थवादाभावे तन्मात्रमेव हीयते न तु विधित्वेन पुरुषार्थताऽपि । यानि तु वर्तमानापदेशयुक्तानि स्तुतिनिरपेक्षविध्यसमर्थानि यथा “यस्य खादिरः स्रुवो भवति स च्छन्दसामेव रसेनावद्यति” इत्येवमादीनि तान्येकदेशद्वारेण समस्तान्याक्षिप्यन्ते ॥ १ ॥

वाङ्मनसयोर्विद्यमानमविद्यमानं वा स्तेयानृतवदनमुच्यमानं धर्मे स्वार्थेऽपि वा न प्रामाण्यं प्रतिपद्यते । अथ त्वध्याहारादिभिरेवं कल्प्येत वाङ्मनसयोः सर्वशरीरेषु चेष्टाः प्रति प्राधान्यादितरभूतेन्द्रियैरपि तच्चरितमनुवर्तितव्यमिति । ततः शास्त्रविरोधः । तत्रैतत्स्यात् । विहितप्रतिषिद्धत्वात्षोडश्यादिवद्विकल्प इति । इतरस्तु कल्पनीयकॢप्तत्वेन वैषम्यमाह । ननु चात्यन्तदुर्बलोऽपि विधिस्तदधीनात्मलाभेन प्रतिषेधेन तुल्यबलो भवतीति “प्रतिषेधः प्रदेशेऽनारभ्य विधाने च1” इत्यत्र वक्ष्यते । सत्यम् । यस्य शास्त्रमन्तरेणाप्राप्तिरस्ति तत्रैतदेवम् । यत्पुनरर्थप्राप्तं निषिध्यते तत्र विध्यनभ्यनुज्ञयैव लब्धात्मानः प्रतिषेधा बलीयांसो भवन्तीति तत्रैव वक्ष्यतेऽर्थप्राप्तवदिति चेदिति । स्तेयानृतवादयोश्च विनैव शास्त्रेण प्रवृत्तयोर्विधिनिरपेक्षोऽवस्थितः प्रतिषेध इति कल्प्यं विधिं बाधते । 108 तस्मादानर्थक्यम् । अतः परं स्वार्थे नैवाऽऽनर्थक्यं प्रतिपादयति । रात्रिंदिवं धूमार्चिषोरपि दर्शनात् “धूम एवार्चिरेवेति” चैतदद्वयमपि प्रत्यक्षविरोधादवधारणं न संभवति । अथ वा यदनेन प्रतिपाद्यते दिवाऽग्निरादित्यमनुप्रविशति रात्रावादित्यमिति तदवधारणं नोपपद्यते । पूर्वोक्तस्य हेतोरसिद्धत्वात् । ततश्चाग्निसूर्ययोर्नक्तंदिवं व्यवस्थितज्योतिष्टवप्रतिपादनाय स्तुतिरप्यसत्यत्वान्नावकल्पत इत्येषा वाऽनवधारणा । अथ वा सूर्यो ज्योतिरिति प्रातरयं मन्त्रोऽग्निर्ज्योतिरित्येष सायमित्येषा मन्त्रयोरवधारणा न सिध्यति । अथ वा समस्तो वेदः प्रमाणमित्येषाऽवधारणा न सिध्यतीत्यभिप्रायः । शास्त्रविरोधो दृष्टविरोधद्वयं पुनः शास्त्रदृष्टविरोध इति यत्, सदृशन्यायानि सन्ति क्रमभेदेन चोद्यते तत्परिहारसूत्रक्रमभेदानुरोधेन । न चैतद्विद्म इत्यार्षेयवरणशेषोऽभिमतः । स चायं क्रियातत्संबन्ध्यनभिधानात्तद्विषयत्वेनाप्रमाणम् । न हि ब्राह्मणत्वाज्ञानसंदेहविपर्ययाः केनचिदंशेन कर्मण्युपयुज्यन्ते । न च प्रत्यक्षविरुद्धा स्तुतिः संभवति । न च स्वतन्त्रब्राह्मणत्वाज्ञानप्रतिपादनेन प्रामाण्यम् । कथं पुनरयं दृष्टविरोधो यदा समानाकारेषु पिण्डेषु ब्राह्मणत्वादिविभागः शास्त्रेणैव निश्चीयते । नायं शास्त्रविषयो लोकप्रसिद्धत्वादवृक्षत्वादिवत् । कथं पुनरिदं लोकस्य प्रसिद्धम् । प्रत्यक्षेणेति ब्रूमः । कस्मात्पुनर्मातापितृसंबन्धानभिज्ञाश्चक्षुःसंनिकृष्टेषु मनुष्येष्वनाख्यातं न प्रतिपद्यन्ते । शक्त्यभावात् । यथा वृक्षत्वं प्रागभिधानव्युत्पत्तेः । नैतत्तुल्यं वृक्षत्वं प्रागभिधायकव्यापाराज्जात्यन्तरव्यवच्छिन्नं स्वव्यक्तिष्वनुगतं शाखादिमद्रूपेण दृश्यते । न तु ब्राह्मणत्वम् । अपि च व्युत्पन्नशब्दोऽपि निमित्तान्तरादृते नैव प्रतिपद्यते । न चोपवीताध्ययनादि निमित्तम् । वर्णत्रयसाधारणत्वात् । अध्यापनाद्यपि भिन्नाचारक्षत्रियवैश्यप्रतियोगित्वात्संदिग्धम् । सर्वं च दुष्टशूद्रेषु सभाव्यमान109 त्वादनिश्चितम् । यस्त्वविचारितसिद्धमेव प्रतिपद्येत स शुक्तिकामपि रजतं मन्यमानः क्रीणीयात् । नैष दोषः । क्वचिद्धि काचिज्जातिग्रहण इतिकर्तव्यता भवतीति वर्णितमेतत् । तेन यथैवाऽऽलोकेन्द्रियानेकपिण्डानुस्यूतिशब्दस्मरणव्यक्तिमहत्त्वसंनिकर्षाकारविशेषादयोऽन्यजातिग्रहणे कारणं तथैवात्रोत्पादकजातिस्मरणम् । अयं चोत्पाद्योत्पादकसंबन्धो मातुरेव प्रत्यक्षोऽन्येषां त्वनुमानाप्तोपदेशाद्यवगतः कारणं भवति । न चावश्यं प्रत्यक्षावगतमेव प्रत्यक्षनिमित्तं भवति चक्षुरादरेनवगतस्यापि निमित्तत्वदर्शनात् । आन्तरालिकस्मृतिव्यवहितमपि चेन्द्रियसंबन्धानुसारि प्रत्यक्षमित्येतत्साधितम् । न च यत्सहसा सर्वस्य प्रत्यक्षं न भवति तन्निपुणतोऽपि पश्यतां न प्रत्यक्षमित्येतदप्युक्तमेव । स्त्र्यपराधात्तु दुर्ज्ञानोऽयं संबन्ध इति स्वयमेव वक्ष्यति । न च तावन्मात्रेण प्रत्यक्षता हीयते । न हि यद्गिरिशृङ्गमारुह्य गृह्यते तदप्रत्यक्षम् । न च स्त्रीणां क्वचिद्वयभिचारदर्शनात्सर्वत्रैव कल्पना युक्ता । लोकविरुद्धानुमानासंभवात् । विशिष्टेन हि प्रयत्नेन महाकुलीनाः परिरक्षन्त्यात्मानमनेनैव हेतुना राजभिर्ब्राह्मणैश्च स्वपितृपितामहादिपारम्पर्याविस्मरणार्थं समूहलेख्यानि प्रवर्तितानि । तथा च प्रतिकुलं गुणदोषस्मरणात्तदनुरूपाः प्रवृत्तिनिवृत्तयो दृश्यन्ते । न च भर्तृव्यतिरेककृतेन वर्णसंकरोऽपराधेन जायते । दृश्यते ह्यपराधिनीमामपि स्वभर्तृनिमित्तः प्रसवः । तदपराधनिमित्तस्तु तासामशुभफलोपभोगो भवेन्नत्वपत्यानां वर्णसंकरः । न च नियोगतो वर्णान्तरैरेव सह प्रमादः । सवर्णेन चोत्पादितस्य नैव वर्णान्तरत्वापत्तिः । संकरजातानामपि च पुनरुत्कर्षापकर्षाभ्यां सप्तमे पञ्चमे वाऽन्यतरवर्णापत्तिः स्मर्यते । तत्र त्वेतावन्मात्रमागमिकं प्रत्येतव्यम् । न ह्ययं पुरुषेयत्तानियमो लौकिकप्रमाणगम्यः । तस्मात्सत्यपि सारूप्ये यथा केनचिन्निमित्तेन स्त्रीपुंस्कोकिलादिविभागज्ञानं तथैव दर्शनस्मरणपारम्पर्यानुगृहीतप्रत्यक्षगम्यानि ब्राह्मणत्वादीनीति भवत्यज्ञानवचनस्य प्रत्यक्षविरोधः । येषामप्याचारनिमित्ता ब्राह्मणत्वादयस्तेषामपि दृष्टविरोधस्तावदस्त्येव न त्वाचारनिमित्तवर्णविभागे प्रमाणं किंचित् । सिद्धानां हि ब्राह्मणादीनामाचारा विधीयन्ते, तत्रेतरेतराश्रयता भवेत् । ब्राह्मणादीनामाचारस्तद्वशेन ब्राह्मणादय इति । स एव शुभाचारकाले ब्राह्मणः पुनरशुभाचारकाले शूद्र इत्यनवस्थितत्वम् । तथैकेनैव प्रयत्नेन परपीडानुग्रहादि कुर्वतां युगपद्ब्राह्मणत्वाब्राह्मणत्वविरोधः । एताभिरुपपत्तिभिस्त्वयं प्रतिपाद्यते । न तपआदीनां 110 समुदायो ब्राह्मण्यम् । न तज्जनितः संस्कारः । न तदभिवयङ्ग्या जातिः । किं तर्हि मातापितृजातिज्ञानामिव्यङ्ग्या प्रत्यक्षसमधिगम्या । तस्मात्पूर्वेणैव न्यायेन वर्णविभागे व्यवस्थिते मासेन शूद्रीभवतीत्येवमादीनि कर्मनिन्दावचनान्यथ वा वर्णत्रयकर्महानिप्रतिपादनार्थानीति वक्तव्यम् । पूर्ववच्चात्रापि कॢप्तत्वात्प्रत्यक्षस्य कल्प्येनाज्ञानविधिना सह विकल्पो न संभवति । अपि च तत्रानुष्ठानात्मकत्वाद्भवेदपि न त्वत्र वस्तुरूपाणामैकात्म्येनाविकल्प्यत्वात् । को हि तद्वेदेति पूर्ववदेवाज्ञानसंशयविपर्ययाणामनौपयिकत्वादानर्थक्यम् । निश्चितवेदप्रामाण्यैश्च त्रैविद्यवृद्धैर्विज्ञायमानत्वात्स्वार्थेऽप्यानर्थक्यम् । विकल्पाभावश्चानन्तरोक्तवत् ॥ २ ॥

यदि तावद्गर्गत्रिरात्रब्राह्मणवेदानुमन्त्रणज्ञानकाले विद्यमानयोरेव मुखशोभावाजिजन्मनोः संकीर्तनं न धर्मं प्रति प्रमाणम् । अथ त्वविद्यमानयोस्ततः स्वार्थेऽपि । वर्तमानापदेशाच्च प्रत्यक्षानुपलब्धिविरोधः, कर्मानुष्ठानयोग्यपुरुषकरणाद्विद्यासंस्कारस्य दीक्षिततीर्थस्नानादिवन्निराकाङ्क्षत्वात्फलविधित्वं निराकरिष्यते । पौनरुक्त्यात्तर्ह्यत्र न विचारयितव्यमत आह तेन फलविधित्वान्निराकृतस्येहाऽऽनर्थक्यार्थवादत्वविचार इति । स्तुत्यर्थताऽपि चासत्यस्य नास्तीति व्यवस्थितमेव ॥ ३ ॥

अनन्तरेणैव पूर्णाहुत्यादिफलवचनानि व्याख्यातानि विधित्वाभ्युपेत्यवादेन तु दोषा111 न्तरमभिधीयते । पूर्णाहुतेरग्निसंस्कारत्वात्पशुबन्धस्य च ज्योतिष्टोमोपकारकत्वादश्वमेधज्ञानस्य च संस्कारत्वान्न तावत्फलविधित्वावसरः । यदि पुनरिष्यते ततोऽन्यानर्थक्यम् । समानफलान्यपि कर्माणि यानि परस्परानपेक्षाणि क्रियन्ते तेषां यथारुच्यनुष्ठानान्नान्यानर्थक्यकरत्वम् । पूर्णाहुतिपशुबन्धयोस्त्वकृतयोरितरकर्मानधिकारात् । प्रथमं वा नियम्येतेत्यनेन न्यायेनावाप्तं फले नोत्तरकर्मानुष्ठानप्रयोजनमस्तीति तद्विध्यानर्थक्यम् । तथा च दृष्टान्तोऽपि तेनैव पथा मध्वर्थिन इति यत्रान्यः पन्थाः पर्वतस्य तत्र गच्छेयुरपि न तु तेनैव गच्छन्ति । तस्माद्भूयसां कॢप्तानां विधीनामनुग्रहाय वरं कल्प्यानामेवानर्थकत्वम् । न च फलविशेषार्थिनः पराणि कर्माण्यविशेषश्रवणात् । न हि समानायां श्रुतावप्रत्यक्षः सन् फलविशेषः कर्मविशेषेभ्यः शक्यः कल्पयितुम् । न च स्तुति रसत्यत्वादिति स्थितमेव ॥ ४ ॥

त्रीण्यपि पृथिव्यादिवचनान्यप्रतिषेधभागिनमर्थं प्रतिषेधन्ति । अन्तरिक्षे दिवि च तावदप्राप्तत्वात्प्रतिषेधविषयत्वम् । अतश्च पर्युदसितव्याभावान्न पर्युदासः । अनन्तरिक्षे ह्यदिवि च पृथिव्यां नित्यं चयनं प्राप्तमिति तद्विधिरनर्थकः । अथापि नित्यानुवादस्तथाऽप्याक्रियार्थत्वमेव । पृथिवीचयनप्रतिषेधपर्युदासौ तु चयनविध्यबाधेनाशक्यौ । बाधे च विध्यानर्थक्यम् । विकल्पेऽपि पक्षे बाधः । कामसंयोगाच्चाग्नेरस्त्येव पाक्षिकत्वम् । दुर्बलश्च प्रतिषेधः । पृथिवीपरत्वे सति चयने कल्प्यत्वात् । एतदेवास्य स्वयमाकुलत्वम् । विध्य112 नन्तरमेव हिरण्यं निधाय चेतव्यामिष्टकाभिरग्निं चिनुत एतच्चाऽऽकुलयेत् । प्ररोचनाबुद्विस्तु नैवोत्पद्यते ॥ ५ ॥

सर्वोपाख्यानेष्वन्यपरत्वासंभवात्स्वरूपप्रतिपादनादनित्यसंयोगः । स च समस्तवेदप्रामाण्ये सति कथंचिदन्यथा नीयेत । यदा तु यथैव प्रमाणानां मध्ये शब्दस्तन्नापि च वेदः प्रमाणं तथैव वेदेऽपि विधिमात्रं युक्त्या कल्प्यते तदेतरैकदेशवदनित्यार्थैकदेशाप्रामाण्यं यथाश्रुतार्थग्रहणादापन्नं किं निवार्यते । तस्मादेवमादीनामनपेक्ष्यार्थमध्ययनमात्रादेव फलं कल्प्यम् । अथ वा यथैतान्युपेक्षाफलानि तथा तद्विषयं प्रत्यक्षमपि प्रतिपत्तव्यम् । अथ कस्मान्मन्त्रवद्यथाप्रकरणं प्रयोगकाले न प्रयुज्यते । प्रयोगरूपसामर्थ्याभावात् । न हि मन्त्राणां पाठमात्रेण विनयोगः किं तर्हि तत्सामर्थ्यात् । न चात्र तदस्ति । अथ वा यथा तेषां पूर्वपक्षे कार्यान्तरामावाद्रूपमात्रं ग्रहीष्यते तथाऽत्राप्यस्तु । यत्तु सूत्रकारेणानित्यत्वमुक्तं तत्प्रामाण्यापेक्षया नाप्रयोज्यतया ॥ ६ ॥

पूर्वपक्षोदाहृतेष्वेव वाक्येषु सिद्धान्तेऽभिधातव्ये किमर्थं वायव्यवाक्यमुपन्यस्यते । केचिदाहुः । समानन्यायत्वादिदमपि तत्र तान्यपि चेहोदाहृतानि द्रष्टव्यानीति । यद्यप्येवं तथाऽप्यपूर्वोदाहरणमभिप्रायान्तरमाकाङ्क्षति । तदभिधीयते । पूर्वोदाहृतेषु सर्वत्र स्वार्थासत्यत्वमप्याशङ्क्यते । तत्र कः प्रथममेव तत्प्रतिपादनक्लेशमङ्गीकुर्यादिति प्रासिद्धस्वार्थसत्यत्वानां स्तुतिद्वारैकवाक्यभावेन धर्मप्रमाणशेषत्वमात्रप्रतिपत्तिसौकर्यार्थं वायव्यवाक्योपन्यासः । तत्र भाष्यकाराः प्रसिद्धेनैवैकवाक्यत्वेन स्तुत्यर्थोपयोगं वदन्ति । एतावत्त्वत्र प्रथमं वक्तव्यम् । किमर्थं रूपभङ्गेन बलादेकवाक्यता पुरुषार्थत्वं वा वेदस्योच्यत इति । लौकिकवाक्ये तु दृष्टत्वादिति यद्युच्येत तत्राभिधीयते । युक्तं लोके वाक्यार्थस्य प्रमाणान्तरगम्यत्वादन्यथाऽपि कल्पनम् । इह त्वत्यन्तातीन्द्रियत्वाद्यथाश्रुतादीषदप्यन्यथात्वे पौरुषेयत्वमापद्येत । लोकेऽपि च यानि प्रमाणान्तरानवगतार्थानि 113 आप्तप्रत्ययमात्रेण श्रोतॄणां प्रमाणानि भवन्ति तेषां नैवान्यथात्वकल्पनं लभ्यते । तत्र केचिद्वदन्ति । “तुल्यं च सांप्रदायिकम्” इति यद्वक्ष्याति तेन समस्तो वेदः पुरुषार्थ इति साध्यते । न ह्यात्मानुपकारिणं सन्तमेनं बुद्धिपूर्वकारिणः पुरुषाः प्रयत्नेन धारयेयुः । यद्यपि च केषांचिदज्ञानं भवेत्तथाऽप्यस्मत्पूर्वातिक्रान्ताऽनेकपरीक्षकप्रमादकल्पना निष्प्रमाणिका । तस्माद्यथा यथा पुरुषार्थता भवति तथा तथा भङ्क्त्वाऽपि रूपं व्याख्यायत इति । न त्वेतद्युक्तमिव । कुतः, पुरुषधीनप्रामाण्यप्रसङ्गात् । यदि ह्यक्षरानुपात्तोऽप्यर्थोऽस्मदादिभिरेवं कल्प्यते । यस्माद्वयं प्रयत्नेन धारयामस्तस्मादस्य पुरुषर्थतेति । तथा सत्यात्मचेष्टितवशेन प्रामाण्यमभ्युपगतं स्यात् । अथ पुरुषान्तरधारणमुच्येत । एवमपि तद्वशेन तैरप्येवमन्यवशेनेत्यनादित्वेऽपि सत्यन्धपरम्परान्यायेन सर्वेषां परप्रत्ययान्न क्वचित्प्रामाण्यावस्थानम् । सर्वत्र ह्येवमयं पुरुषो वेदेति प्रत्ययो नैवमयमर्थ इति । तेन यद्यपि तेषु तेष्वध्येतृषु नूनं पुरुषार्थं वेदं मन्यन्त इत्यभिप्रायोऽनुमीयते । तथाऽपि निर्मूलत्वात्तन्मात्रेणासिद्धिः । अतो यावद्वेद एव पुरुषार्थतया सकलमात्मानं न प्रतिपादयति तावदप्रमाणम् । तदुच्यते । सकलस्य तावद्वेदस्य स्वाध्यायोऽध्येतव्य इत्यध्ययनभावनाविधीयते । तत्र किं भावयेदित्यपेक्षायामध्ययनमित्यागतमपि पुरुषप्रवर्तनाशक्तियुक्तेन विधायकेनापुरुषार्थसाध्यायां भावनायां प्रवर्तनाशक्तिप्रसक्तेस्तदंशान्निराक्रियते । ततश्चाध्ययनेनेत्यविरोधात्संनिधेश्च करणांशे निविशते । तेन किमित्यपेक्षिते यच्छक्यत इत्युपबन्धादक्षरग्रहणमित्यापतति । तस्याप्यपुरुषार्थत्वात्तेन किमिति पदावधारणमित्युपतिष्ठते तेनापि पदार्थज्ञानं तेन वाक्यार्थज्ञानं तेन चानुष्ठानमनुष्ठानेन स्वर्गादिफलप्राप्तिरित्येतावति प्राप्ते निराकाङ्क्षी भवति । एवं सर्वविधीनां प्राक् पुरुषार्थलाभादपर्यवसानम् । न च सहसैव विधिदर्शनात्स्वर्गाद्येव फलं कल्प्यते । योग्यतया हि यस्य यत्रानन्तरभाविनि व्यापारो लक्ष्यते तदेव तस्य कार्यमित्यवधार्यते । तत्र यदि तावत्तदनुसारेणैव कियत्यप्यध्वनि फलमासाद्यते ततो नान्तरा कल्पनमर्हति । पारम्पर्यप्रयोजनेनापि श्रुतविध्युपपत्त्याऽन्यथानुपपत्तिलक्षणार्थापत्त्यनुत्पादात् । यत्र त्वनन्तरं दृष्टं कार्यं न स्वयं पुरुषार्थो नापि पारम्पर्येण तमाप्नोति यथा होमस्याऽऽहवनीयप्राप्तिर्भस्मसाद्भावो वा तत्र तदतिक्रमेण साक्षात्कर्मण एवादृष्टकल्पना । सर्वत्र चैतल्लक्षयितव्यम् । यत्र तु विहिते फलाकाङ्क्षिणि तदनात्मककार्यपरम्परायां सत्यामान्तरालिकं किंचित्क्रतवे पुरुषार्थाय वा चोद्यते तत्र तदेव तत्साधनं पूर्वस्य तु विधेस्तदुपकारार्थतया पर्यवसानम् । यानि तत्तरविधेः कार्याणि प्राक्तानि साध्यसाधनभावेनाचोदितत्वान्नान्तरीयकत्वेन काष्ठादीनामिव ज्वलनादीनि पूर्वविहितकर्मस्वव्यापारमात्रतया मन्यव्यानि । यत्र तु पारम्पर्यजन्यं न किंचिदन्तरा विधीयते तत्र सर्वाणि स्वव्यापारीकृत्य विधेयस्यैव स्वयं फल114 साधनता । तत्र यानि तावत्कॢप्तकल्पयिष्यमाणपुरुषार्थसाधनविधिवाक्यानि तानि तत्प्रतिपादंन यावत्स्वाध्यायाध्ययनविधिना नीयन्ते परतस्तु फलवत्त्वं ज्ञातमेवेति न तद्यावत्प्राप्यन्ते । यानि तु तत्प्रकरणे पठ्यन्ते तान्यपि तथैवाक्षरग्रहणादिक्रमेण स्वार्थावबोधनं यावद्गतानि न साक्षात्क्रत्वङ्गं भवन्ति । कुतः । कथमित्यदृष्टोपायापेक्षेण क्रतुना दृष्टार्थत्वादक्षरादिष्वनवसजता तद्विहितं कर्ममात्रमेव हि प्रयोजनद्वारेणोपादीयते नान्यत् । अतः प्रधानवाक्यतुल्यान्यङ्गानि भवन्ति । तद्वाक्यानि तु बाह्यतराण्यध्ययनादिवत् । एवं प्रोक्षणादिवाक्यानां व्रीह्यादिसंस्कारमात्रफलावसितानां तण्डुलपिष्टपुरोडाशद्वयवदानादिभिर्व्यवहिततरः प्रधानसंबन्धः । एवमेवानारभ्याधीतारादुपकारकसामवायिकाङ्गवाक्यानि योजयितव्यानि । तत्र त्वेतावान्विशेषः । यदप्रकरणस्थत्वादक्षराण्यस्पृशत्प्रधानमर्थैरेव संबध्यते यानि त्वाधानादिवाक्यानि तान्यपि फलवत्क्रत्वङ्गाहवनीयादिसंस्कारप्रतिपादनावसायीनि दूरस्थेनैव फलेन निराकाङ्क्षी क्रियन्ते । एतेन क्रत्वर्थकर्तृप्रतिपादनद्वारेणोपनिषदां नैराकाङ्क्ष्यं व्याख्यातम् । मन्त्रनामधेययोस्तु स्वाधिकारे योजना वक्ष्यते । तेन सर्वेषां भावनान्तर्गतिरुपपन्ना । यत्त्वर्थवादानां भावनांशत्रयानन्तःपातित्वादग्रहणमिति । तत्राभिधीयते । सत्यमतिरिक्तं न गृह्यते । अस्ति त्वन्तर्गतिः । कथम् । इह हि लिङादियुक्तेषु वाक्येषु द्वे भावने गम्येते । शब्दात्मिका चार्थात्मिका च । तत्रार्थात्मिकयाऽर्थवादा नापेक्ष्यन्ते शब्दात्मिकया तु ग्रहीष्यन्ते । सा ह्येवं प्रवर्तते । स्वाध्यायाध्ययनविधिनेतरे सर्वे विधायकाः स्वाध्यायपदोपात्तश्चाऽऽत्मा नियुज्यते भावयेदिति । तत्र लिङादीनां प्रयोजककर्तृत्वं पुरुषः प्रयोज्यस्तेन किमित्यपेक्षायां पुरुषप्रवर्तनमिति संबध्यते । अथ तु योग्यतयैव लिङादिविषया क्रियोच्यते प्रवर्तयेदिति ततः किमित्यपेक्षिते पुरुषमित्येव संबध्यते । यद्यपि चाचेतनत्वाल्लिङादिष्वेवंविधं प्रयोजकत्वं न संभवति तताऽपि पुरुषस्य प्रयोज्यस्य प्रयोजकत्वानुपपत्तेस्तद्गतचैतन्यद्वारेण विधायकानां प्रयोजकता । यदि चैवं न कल्प्येत नैवैषां विधायकत्वव्यपदेशो भवेत् । अथ केनेत्यपेक्षिते पूर्वसंबन्धानुभवापेक्षेण विधिविज्ञानेनेति संबध्यते । कथमिति प्राशस्त्यज्ञानानुगृहीतेनेति । कुत एतत् । बुद्धिपूर्वकारिणो हि षुरुषा यावत्प्रशस्तोऽयमिति नावबुध्यन्ते तावन्न प्रवर्तन्ते । तत्र विधिविभक्तिरवसीदति तां प्राशस्त्यज्ञानमुत्तभ्नाति । तच्च पुरुषार्थात्मके फलांशे सर्वस्य स्वयमेवानुष्ठानं भवतीति प्रसिद्धत्वान्न वेदादुत्पद्यमानमपेक्ष्यते । साधनेतिकर्तव्यतयोस्त्वप्रवृत्तपुरुषनियोगाच्छास्त्रमेव प्राशस्त्यप्रतिपादनायाऽऽकाङ्क्ष्यते । तत्पुनः केन क्रियेतेति साधनापेक्षायां यदि वि फलपदेन निवर्त्येत प्रशस्तोऽयं भूतिफलत्वात् । अथ वा विधिनैव सर्वदोषाशङ्काविनिर्मुक्तवेदविहितत्वादिति । अथ वा विशिष्टद्रव्यदेवतेतिकर्तव्यतायुक्तत्वादिति । तत्र फलपदादीनामर्थान्तरोपयोगात्पुनरन्यत्राप्युपयोगो न युज्यते । 115 विध्युत्तरकाला चेयमाकाङ्क्षा पूर्वं च फलपदादिनिवेशः । तस्मादपि न तैर्निवर्त्यते । लक्षणा चैतेभ्यः कल्प्यते । न च श्रौतार्थसंभवे सा युक्ता । युगपच्चोभयवृत्तिविरोधात्प्राशस्त्यपरत्वे फलादीनि न स्युः । न ह्यन्यशास्त्रे सत्युपायमात्रत्वेनोपात्तानामेकान्तेन पारमार्थिकत्वमिति वक्ष्यते । अत एव चार्थाद्गम्यमानमन्यपरत्वाच्छब्दानां न प्राशस्त्यं प्रयोजनं भवति । न हि यद्यत्प्रतीयते तत्तच्छास्त्रफलमवसीयते । यथा पूर्वो धावतीत्युक्ते यद्यप्यपरो गम्यते तथाऽपि न कार्येण युज्यते तद्वत्प्ररोचना गम्यमानाऽपि न कार्यान्तरोपयुक्तशास्त्रार्थत्वेनावतिष्ठते । अन्यथानुपपत्त्या चेयं तेभ्यः कल्प्येत । सर्वप्रमाणप्रत्यस्तमये चान्यथानुपपत्तिर्भवति । प्रमाणाभावश्च यःसर्वप्रकारं प्रयतमानस्य स प्रमाणम् । तद्यदि केनचिदुपदेशेन वाऽतिदेशेन वा न लप्स्यामहे ततो दर्विहोमन्यायेन विध्युद्देशस्यैव द्वे शक्ती कल्पयिष्यामः । अथ तु केनचिद्दूरस्थेनापि सेत्स्यति ततस्तदनुसारस्तावत्कर्तव्य इत्येवं साकाङ्क्षो विधिरास्ते । तथा वायुर्वै क्षेपिष्ठा देवतेत्येवमाद्यपि स्वाध्यायाध्ययनविधिना पुरुषार्थतयोपनीतं यच्छक्यते तत्कुर्यादित्युपबन्धाच्च सहसैव तेनासंबध्यमानमपुरुषार्थत्वेन च पूर्ववदक्षरादिष्वपर्यवस्यद्भूतान्वाख्यानवाक्यार्थं यावद्भूतम् । तत्रापि तु साकाङ्क्षमेवेति यस्तेन लक्ष्यमाणः साधनानुरूपसाध्योत्पत्तिद्वारेण क्षिप्रदेवतासाध्यं कर्म क्षिप्रमेव फलं दास्यतीति प्राशस्त्यरूपोऽर्थः सोऽनन्तरप्रवृत्तविध्युद्देशाकाङ्क्षितत्वात्पुरुषार्थे द्वारतां शक्नोति प्रतिपत्तुमिति परिगृह्यते । सोऽयं नष्टाश्वदग्धरथवत्संप्रयोगः । एवं च न प्ररोचनाऽन्यकृता कर्माङ्गम् । न चार्थवादपदैः प्रयोजनान्तरं साधनीयमित्याम्नानसामर्थ्यादुभयोर्नियमः । एतेन प्रतिषेधापेक्षितद्वेषसिद्धयंर्थ निन्दापदसंगतिर्व्याख्याता । तत्रापि हि न द्वेषादृते विद्वान्निवर्त्तते । द्वेषश्चाप्रशस्तप्रत्ययाधीनोत्पत्तिः । न चाप्रशस्तज्ञानं नाकारादिभिः पदैः प्रशस्ताप्रशस्तानभिधानेन निषेधतत्फलेतिकर्तव्यतामात्रपर्यवसितैः शक्यमवलम्बितुमित्यनन्यप्रयोजननिन्दावाक्यगम्यमेव भवति । अतश्चैकवाक्यत्वसिद्धिः । नित्यं च विधिप्रतिषेधयोः क्रमेण वाक्यशेषाः स्तुतिनिन्दानिर्णयहेतवो भवन्ति । न हि स्तुतिनिन्दे नाम व्यवस्थिते निन्दारूपासु स्तुतिषु स्तुतिरूपास्वपि च निन्दासु विपर्ययदर्शनात् । यथा वक्ष्यति नहि निन्दा निन्द्यं निन्दितुं प्रवर्तते अपि तु विधेयं स्तोतुमिति । तथा त्रैयम्बकवाक्येषु “यदभिघारयेत्तद्रुद्रायाऽऽस्ये पशून्निदध्यात्” इति स्तुतमप्यभिधारणं नाऽऽश्रयिष्यते निन्दितमपि चान्ते विधिदर्शनादभिघारणमेव प्रशस्तं भविष्यति । संदिग्धस्तुतिनिन्दानामपि च प्रक्रमादेव निर्णयो यथा वक्ष्यति न वयं निन्दिताननिन्दितान्वाऽसुरान्विद्मः । कदाचिद्धि यस्मादसुरानप्येषा वशीकृत्याऽऽनयति क्रिया तस्मान्नूनं प्रशस्तेति स्तुतिः स्यात् । अथ वा विध्वंसकासुरागमननिमित्तत्वादशोभनेति निन्दा । तत्रान्ते सामविधानात्तत्प्रशंसार्थमृचां निन्देति गम्यते । सर्वत्र 116 च किंचित्पदं स्तौति निन्दति चेतराणि त्वेकवाक्यतया तादर्थ्यं प्रतिपद्यन्ते । यत्रापि तादृशं पदं न स्यात्तत्रापि लक्षणा लक्षितलक्षणा वाऽन्यथानुपपत्तेराश्रयणीया । विधिप्रतिषेधयोश्च स्तुतिनिन्दाभ्यामविनाभावादन्यतरदर्शनेनेतरदनुमाय वाक्यं पूरयितव्यम् । एवं भारतादिवाक्यानि व्याख्येयानि । तेषामपि हि श्रावयेच्चतुरो वर्णानित्येवमादिविध्यनुसारेण पुरुषार्थत्वान्वेषणादक्षरादि व्यतिक्रम्य धर्मार्थकाममोक्षाधर्मानर्थदुःखसंसारसाध्यसाधनप्रतिपत्तिरुपादानपरित्यागाङ्गभूता फलम्2 । तत्रापि तु दानराजमोक्षधर्मादिषु केचित्साक्षाद्विधयः केचित्पुनः परकृतिपुराकल्परूपेणार्थवादाः । सर्वोपाख्यानेषु च तात्पर्ये सति श्रावयेदिति विधेरानर्थक्यात्कथंचिद्गम्यमानस्तुतिनिन्दापरिग्रहः । तत्परत्वाच्च नातीवोपाख्यानेषु तत्त्वाभिनिवेशः कार्यः । वेदप्रस्थानाभ्यासेन हि वाल्मीकिद्वैपायनप्रभृति भिस्तथैव स्ववाक्यानि प्रणीतानि । प्रतिपाद्यानां च विचित्रबुद्धित्वाद्युक्तमेवैतत् । इह केचिद्विधिमात्रेण प्रतिपद्यन्ते । अपरे सार्थवादेनापरेऽल्पेनार्थवादेनापरे महता । सर्वेषां च चित्तं ग्रहीतव्यमित्येवमारम्भः । तत्र तु केचिद्विधिप्रतिषेधाः श्रुतिमूलाः केचिदर्थसुखादिषु लोकमूलास्तथाऽर्थवादाः केचिद्वैदिका एव केचिल्लौकिका एव केचित्तु स्वयमेव काव्यन्यायेन रचिताः । सर्वे च स्तुत्यर्थेन प्रमाणम् । ये तु वाक्यशेषत्वं न प्रतिपद्यन्ते तेऽपि केचित्स्वयमेव श्रूयमाणगन्धमादनादिवर्णकप्रभृतयः प्रीतिं जनयन्ति । ये तु युद्धवर्णकास्ते सर्वेषां शूराणां भीरूणां चोत्साहकराः पार्थिवानामुपयुज्यन्ते । यत्र तु न किंचिद्दृष्टमुपलभ्यते तत्र विशिष्टदेवतादिस्तुतिद्वारमदृष्टं कल्पनीयमित्येषा दिक् । विध्युद्देशेनैकवाक्यत्वादिति । केचिदाहुः । किमर्था स्तुतिरिति चेत्कथं रोचेत नोऽनुष्ठीयेतेत्येवं स्तुतिनिन्दाभ्यां प्रवृत्तिनिवृत्तिप्रतिपादनं लिङादिभिश्चाभिधानमतस्तुल्यार्थत्वम् । न च तुल्यार्थानां समुच्चयः । तत्र ये तावदर्थवादरहिता लिङादयस्तद्रहिताश्चार्थवादास्तेषां यथाविषयं व्यवस्थितं निवर्तकत्वं प्रवर्तकत्वमविरुद्धम् । यत्र तु द्वयसंनिपातस्तत्रान्यतरेण कृतार्थत्वादवश्यावहेयेऽन्यतरस्मिन्भूयसामनुग्रहो युक्तः । त्यजेदेकं कुलस्यार्थ इतिवद्विधिप्रत्ययः परित्यज्यते । केवलप्रकृतिप्रयोगाभावात्तदनुग्रहार्थप्ररोचनालब्धविधित्वानुवादेन प्रवर्तते । यथा सत्रादुदवसाय पृष्ठशमनीयेन यजेरन्निति क्त्वाप्रत्ययसिद्धप्रवृत्त्यनुवादकत्वं वक्ष्यते । तस्माद्वायव्यश्वेतालम्भ इत्येतावन्मात्रं विव117 क्षितम् । स एव च विध्युद्देशः फलादिसंबन्धोत्तरकालं स्तूयत इत्येतद्भूतिकाम इत्येवमन्तो विध्युद्देश इत्यनेन कथ्यते । अन्यथा पुनरुद्देशग्रहणमनर्थकमेव स्यात् । सूत्रोक्तेन तु विधिनैकवाक्यत्वं न संभवतीत्यतिक्रम्य तद्विषयः परिगृह्यते । तथा चाऽऽह—नायमभिसंबन्ध इति । विधिविधेयसंबन्धनिषेधेन स्तुतिस्तुत्यसंबन्धं विवक्षितं वदति यतस्ततो भूतिरिति । सैव च भूतिनिमित्तस्य योजना । भिन्नाविमाविति पूर्वोक्तौ संबन्धावभिधत्ते । किमर्था स्तुतिरिति चेदिति । प्रत्ययश्चेदुत्खातस्तेनाविधीयमानस्य किं स्तुत्येति । अथ वा यदनया साध्यते तत्प्रत्ययेनैव सेत्स्यतीति मनसि कृत्वा वदति । आचार्यस्तूत्खातेऽपि प्रत्ययेऽर्थवादादेव तदर्थावाप्तिमुभयसंभवे चार्थवादानुग्रहं मत्वाऽऽह—कथं रोचेतेति । इतरः प्रश्नाभिप्रायं विवृणोति । प्रागेव सिद्धेः स्तुतिवचनमनर्थकमिति । नहीति ग्रन्थच्छेदः । सर्वत्रावान्तरवाक्यानि महावाक्येष्वप्रमाणं महासंख्यास्विवावान्तरसंख्या भवन्ति । तान्येव तु यदा केवलानि प्रयुज्यन्ते तदा निरपेक्षत्वाद्भवन्ति प्रमाणम् । यथा पटो भवतीति । न च कदाचिदेतावन्मात्रेण समाप्तेर्नैराकाङ्क्ष्यदर्शनात्सर्वत्र नैराकाङ्क्ष्यम् । योग्यपदान्तरानुच्चारणेन हि सर्ववाक्यानि पर्यवस्यन्ति । इतरथा पुनः श्रुतपदातिरेकेणापि निपुणदृशां भवत्येवापेक्षा । सा चानुपलब्ध्या निवर्तते । तथा च यत्रोपलप्स्यन्ते तत्रैकवाक्यतां गमयिष्यन्ते । अन्यथा ह्यसौ तदुच्चारणेऽपि न स्यात् । तदिह महावाक्येन विनाऽवान्तरवाक्यं प्रमाणं तत्सद्भावे तु नेत्येतदाह—यदा न स्तुतिपदानीति । नन्वेवं सतीति । यत्र महावा118 क्यावान्तरवाक्ययोः फलं भिद्यते यथा पटभवनरागभवने, तत्रेवं युक्तमिह त्वनतिरिक्तार्थस्य सतः किमवान्तरवाक्यनिराकरणमेव महावाक्यस्य युक्तं फलम् । तदेतदाह— यस्मिन् सत्यविधायकमवान्तरवाक्यं भवति मा भूत्तन्महावाक्यमिति । सत्यं विनाऽपि तेनेति । यो नाम वेदस्य कर्ता स्यात्स एवं पर्यनुयुज्येत लघुनोपायेन सिद्धे किं महावाक्यमाश्रयसीति । तदभावान्न पर्यनुयोगः । परिहारपथग्रामगमनवच्च श्रमातिरेकमात्रं स्यान्नार्थानवाप्तिः । दृष्टं चैवंजातीयकेषु गौरवाश्रयणम् । यथा तमेवार्थं खमित्येतावता सिध्यन्तमाकाशप्रभृतिभिरभिपलन्ति न च जाड्यं लभन्ते तथाऽत्र लिङादिभिरपि सिध्यन्तमर्थवादेभ्यो गृह्णत इति । शक्यते चेदमिह वक्तुं यथैवानेकोपायप्रसङ्गे मन्त्रेण स्मृतं क्रियमाणमभ्युदयकारि भवति तथाऽन्येनापि विधिसिद्धावर्थवादप्रतिपादिताविधिविहितमिति । ननु सत्स्वपि स्तुतिपदेष्विति । यत्र लघुमुपायमनुपादाय गुरूपाय आश्रीयते तत्र तथाऽपि भवेदत्र तु पूर्वमेव लघुतर आश्रितः समर्थतरश्च तस्माद्यथैव प्रयुक्ते खशब्दे नाऽऽकाशादयस्तदानीमेव प्रयुज्यन्ते तथाऽत्र विधौ सति स्तुतिर्नाऽऽश्रयितव्येति । तत्रोत्तरसाकाङ्क्षत्वात्स्तुतिपदान्यनर्थकानि स्युरिति । भवन्त्विति चेत् । नोक्तेन न्यायेनार्थवत्त्वादविवक्षितार्थता युक्तेति । द्वयसंभवे हि प्रत्यक्षादेकवाक्यत्वादर्थवादानुग्रहो युक्त इति । ननु सत्स्वपीत्यनेन गतार्थत्वान्ननु निरपेक्षादित्यवक्तव्यम् । तदुच्यते । तत्रार्थवादपरित्यागायोक्तमिदानीं तु भवतु नाभ स्तुतिसंबन्धः समस्तस्य पूर्वस्यापि तु स्वरूपावगतो विधिसंबन्धो न बाधितव्यः । अथास्य क्व चिदपि शक्तिरपह्रियते ततः प्रतिप्रसवहेत्वभावात्सर्वत्राशक्तत्वप्रसङ्ग इति । तदभिधीयते । भवतु पूर्वस्य विधिशक्तिर्न त्वियं क्वचिद्बाधितेत्यन्यत्रापि बाध्यते । कदा119 चिदाविर्भूतेति सर्वत्राऽऽविर्भवति । यत्र त्वर्थान्तरस्तुत्यादि नोपादीयते तत्राऽऽविर्भूता शक्तिः कार्यमारभते । यत्र त्वपवादभूतशक्त्यन्तराभिव्यक्तिस्तत्र वाक्यभेदप्रसङ्गात्पूर्वा तिरोधीयते । प्रश्नोत्तरत्वेनायं पूर्वोक्त एव वाक्यभेदः परामृश्यते । तस्मादैकार्थ्यात्प्ररोचनयैवात्र विधिरिति । प्ररोचयमाना अनुष्ठातॄणामिति । “रुच्यर्थानां प्रीयमाणः” इति संप्रदानत्वं कस्मान्न भवति । प्ररोचयतेः प्रकृत्यन्तरत्वादिति चेन्न । तत्रापि रुचिसंबन्धानपह्रवात् । अथ सामान्यविवक्षया षष्ठ्युच्यते । साऽप्युपात्ते विशेषे दुर्लभा । तस्मादनुष्ठातॄणां क्रियाया इति संबन्धः केभ्यः प्ररोचयमाना इत्यपेक्षितेऽर्थात्तेभ्य एवेति गम्यते । अथ चानुष्ठातॄणामुपकरिष्यन्तीति संबन्धः । क्रियाया इति पञ्चमी क्रियातोऽपि हि त एव प्ररोचका इति । अथ वा क्रियार्थमिति षष्ठ्यर्थः कल्प्यः । कंचिदर्थं स्तुवन्तीति शत्रन्तं कंचिदिति विधेयं तत्संबन्धिनं वा कंचिद्वा विदधति क्रियां तत्संबन्धिनं वा तच्च स्तुतिद्वारेणेत्युपपन्नं प्रत्ययोद्धारेणार्थवादप्रामाण्यम् । इदं तु व्याख्यानं नानुमन्यन्ते । यदि हि प्रत्ययोत्खातिः स्यात्ततः केन स्तुतिराकाङ्क्ष्येत न तावच्छब्दभावनाकथंभावोऽस्ति । याऽपि कस्मादित्यपेक्षा कल्प्येत साऽपि विधीतिकर्तव्यताविषयैव तदनुग्रहार्थत्वात् । शब्दान्तरव्यपदेशमात्रं तु भिद्यते । साऽपि च नियुज्यमानस्यैव पुरुषस्य भवति न क्रियामात्रश्रवणात् । न हि वायव्यश्वेतालम्भ इत्युक्ते कर्तव्यताऽकर्तव्यतोक्तेः प्राक् प्रशस्तोऽप्रशस्त इति वाऽपेक्ष्यते । तदनपेक्षितं च श्रुतिमात्रेणैव वदन्तो नार्थवादाः प्रतिपादयन्ति । न च धात्वर्थेन सह कस्यचित्संबन्धोऽपेक्षा वा विद्यते । सर्वस्य भावनागामित्वात् । भावना तु प्रत्ययोद्धारेणापनीता किमपेक्षेत । तस्मात्तद्गतांशत्रयोच्छेदान्न भूतिः फलं न यागः करणं न वेतिकर्तव्यता काचित्स्यात् । उक्तेऽपि च प्राशस्त्ये कस्मादित्यनपेक्षितत्वात्प्रशस्तोऽयमित्येतावन्मात्रेऽवधृते प्रशस्तत्वादित्यनुच्यमाने कर्तव्यताबुद्धिर्नैव स्यात् । भवन्ती वा तन्निष्ठा भवेत्प्रशस्तोऽयं कर्तव्यः पटो रक्तः कर्तव्य इतिवत् । अकल्पिते विधावानर्थक्यमेव स्यात् । प्रत्यक्षं च विधिमुत्सृज्य पारम्पर्यलक्षणयाऽर्थवादेभ्यः परिगृह्यत इत्यपूर्वा वाचोयुक्तिः । न 120 चैतत्कल्पनावसरोऽस्त्यन्यतः सिद्धत्वात् । अनुक्तो हि सन्नर्थवादादेव विधिः कल्प्येत यद्यन्यथा नोपपद्येत । प्रत्यक्षप्रत्ययोपपन्नत्वान्नान्यथानुपपत्तिस्तथाऽर्थवादोऽपि यद्युपाख्यानादिष्विव प्ररोचनायां निष्प्रयोजनः स्यात्ततो दूरं नीयेत । यथोक्तेन तु न्यायेन प्ररोचनोपयोगान्नान्यत्र गच्छतीत्यवश्यकर्तव्या च प्ररोचना यद्यन्यतः सिध्येत्ततोऽर्थवादान्नापेक्षेत । साऽपि त्वनन्यगतिकत्वात्तमेवाऽऽश्रयति । सर्वत्र च वैदिकेऽर्थेऽर्थापत्त्या शब्दः कल्प्येत ततोऽर्थसिद्धिस्तेन प्ररोचनया विधिशब्दः कल्प्येत नार्थः, तत्कल्पनावेलायां च यथैन्द्रवायवादिवाक्येषु सोमेन यजेतेत्यस्मिन्नुपतिष्ठमाने नान्ययजिकल्पना तथैवाऽऽलभेतेत्यनेनान्यानुमानप्रतिबन्धः । तुल्यार्थयोश्च बाधविकल्पौ भवतः प्रत्ययार्थवादयोः पुनरत्यन्तभिन्नानुग्राह्यानुग्राहकार्थविषयत्वेनार्थभेदात्समुच्चय इत्येकवाक्यता । यदि च प्रत्ययोत्खातिः स्यात्ततः कर्तृसंख्योपग्रहविशेषावगतक्रियाफलस्वार्थपरार्थत्वाद्युच्छेदप्रसङ्गः । स्यादेतत् । विधित्वमात्रमविवक्षयित्वा शेषविवक्षया कर्तृसंख्यादिलाभ इति । एतच्चाशक्यं यतस्तदर्थमप्युपात्तः प्रत्ययः सामर्थ्याद्विधित्वं वदत्येव । प्रतीतस्य च द्वय्येवाविवक्षा विध्यसंस्पर्शो वा ग्रहैकत्ववदनुवादकत्वं वेन्द्रियकामहोमवत् । न तावद्विधेरविधित्वं नाम किंचित् । नाप्यनुवादस्तस्यामवस्थायामप्राप्तेः । न ह्येवं संभवति योऽयं वायव्यश्वेतालम्भः कर्तव्यः स प्रशस्त इति । भवति त्वेवं कर्तव्यः प्रशस्तत्वादिति । यत्तूदवसानीयवदिति तत्रापि क्त्वावशेन विधिप्रतिषेधावनपेक्ष्य क्रियामात्राक्षेपाद् विधित्वमाश्रितमेवेत्यदृष्टान्तता । यदि च विध्यविवक्षा स्यात्ततः प्रत्यासत्तेर्धात्वर्थ एव साध्यांशे निपतेदिति निष्फलत्वं स्यात् । तस्मात्सूत्राविनाशेनैव विधिनैकवाक्यत्वम् । तथा च भाष्यकारः । सविधिकमेव भूतिकाम इत्येवमन्तो विध्युद्देश इत्याह । अन्यथा धात्वर्थ इत्येवावक्ष्यत् । न चास्य क्रियामात्रतया विध्युद्देशत्वं शक्यते वक्तुम् । तस्मात्प्रत्यय एव विध्यभिधायित्वाद्विध्युद्देशः । विध्यर्थेन त्वेकवाक्यत्वासंभवात्सूत्रातिरेकेणोद्देशग्रहणम् । भूतिकाम इत्येवमन्त इति च फलादिसंगत्युत्तरकालं स्तुत्यवसरप्रदर्शनार्थम् । नन्वेवं सति वर्तमानापदेशेष्वनाकाङ्क्षणादर्थवादा न संबध्येरन् । एवमेवैतत् तथाऽपि तु प्रमाणान्तरप्राप्त्यभावात्क्वचित्प्रयोगवचनेन क्वचित्पञ्चमलकारेण । अथवा श्रुतवर्तमानान्यथानुपपत्त्या कल्पिते विधित्वेऽर्थवादसंगतिः । यत्रापि केवलार्थवाददर्शनादेव विधित्वं तत्राप्यन्यथानुपपत्तिमात्रं शरणम् । संभवन्त्यां तु गतौ नातिगौरवं युक्तमिति । यस्त्वस्मिन्पक्षे वाक्यभेदः संबन्धद्वयाश्रयणादिति स आलभेत प्रशस्तत्वादित्येकप्रसरोपपत्तेः परिहृतः । विधीयमानस्यैव हि स्तुत्याकाङ्क्षेत्यवैरूप्यादुपपन्नं तन्त्रत्वम् । यदि चैवंविधैः संबन्धभेदैर्वाक्यं भिद्येत ततः साध्यसाधनेतिकर्तव्यतासंबन्धैरपि भिद्येत । 121 तस्मान्नायमाभिसंबन्धो3 विवक्षित इत्यादिभाष्यमेवं नेतव्यम् । न पूर्वत्रैव साङ्गविधिपर्यवसानं विवक्षितम् । विधित्वादिद्वारप्ररोचनाकल्पनायामतिगौरवनिमित्ताद्वाक्यभेदात् । किमर्था स्तुतिरिति । पूर्वेणैव प्ररोचनाऽपि सिद्धेत्याभिमानात् । कथं रोचेतेति—विध्यनुग्रहकथनम् । ननु प्रागिति—पूर्वाभिप्रायविवरणम् । हीति । स्तुत्यभावे तस्य शक्तिद्वयमगत्याऽऽश्रीयते न संभवन्त्यामपीत्येतन्न तदा भूतिकामस्य विधिः समाप्यत इत्याह—यथा पट इति । गतार्थम् । विधिशब्देन तदा प्ररोचनेति विवृतं कार्यनानात्वं विधिस्तुत्योः । नन्वेवमिति । अस्ति चेत्प्ररोचयितुमपि शक्तिः कस्मादन्यदपेक्ष्यत इति । सत्यमिति । तस्माद्विद्यमाने तस्मिन्नाविद्यमाने योऽर्थः स गम्यते । कश्चासौ । स्तुतिः प्रयोजनं तयोः । न तस्यैव पूर्वस्यापीत्यर्थः । स्तुतिविषयोपकल्पनाच्च विधेरपि स्तुतिप्रयोजनव्यपदेशः । न हि निर्विषया स्तुतिरुपपद्यते । अर्थवादाभावे त्वगत्या केवलोऽपि गौरवमङ्गीकरिष्यति । ननु सत्स्वपीति । पूर्ववदेव व्याख्येयम् । अतोऽस्माद्विधेरिति4 । इदानीं षष्ठी, वाक्यशेषसंबन्धादित एवास्य स्तुतिमवगच्छामो न स्वत इत्यर्थः । ननु निरपेक्षादपीति । यदि क्वचिदनितिकर्तव्यताकस्य विधेः प्रवर्तनशक्तिः कस्मादन्यदपेक्षते तेन सत्स्वप्यनादरः स्यात् । आचार्यस्तु सोपहासमाह यत्रासौ केवलः प्रयुज्यमानो निरपेक्षस्तत्रं भवतु न कश्चिद्विरोधः । इह तु न तत्संभवः साकाङ्क्षैः पदान्तरैराक्षिप्तत्वात् । वाक्यं ह्येकमेकस्यैव संबन्धस्य विधायकं तत्र यदि द्वौ विध्युद्देश एव कुर्यात्तथा सति भिद्येत । विध्युद्देशोत्थापितानामेवैष हि गुणो भवतीति प्ररोचनां दर्शयति । तस्माद्विधिनैकवाक्यत्वात्तदनुग्रहेणार्थवन्तोऽर्थवादा इति ॥ ७ ॥

चशब्दव्याख्यानार्थं परिचोदनोपन्यस्ता । आनर्थक्यमेवास्त्विति तन्नैव । कुतः । पूर्वोक्तेन न्यायेनार्थस्यावगम्यमानत्वात् । अथ वा तन्नेत्यवच्छिद्यैवमर्थावगमादित्युक्त122 प्रकारपरामर्थः । किं च तुल्यं चेति योजना । संप्रदायानुग्रहार्थं धर्मजातम् । तत्संबन्धस्मरणात् । स्वर्गाद्यसंयोगाच्च । न चास्य प्रयोजनवत्संनिहिताध्ययनपरित्यागेनान्यार्थत्वे प्रमाणमस्ति । संप्रदायाङ्गत्वेऽपि चाविघ्नस्याऽऽकाङ्क्षितत्वात् । तादर्थ्यस्मरणाच्चाविघ्नार्थत्वम् । न ह्यन्यत्कल्प्यमानं स्वाध्यायेतिकर्तव्यतानुगुणं भवति । यदि तावत्स्वर्गः कल्प्येत ततः पुरुषार्थत्वमेवाऽऽपद्यते । अथ पुनः क्रतुफलसिद्धिरेवं पठिते वेदे भवतीति । एवमपि दूरस्थोपकारितैव । तस्मात्संप्रदायस्याक्षरग्रहणं साधयतो नियमजातमनुग्राहकम् । न च निष्प्रयोजनस्याविघ्नेन कार्यं वरं तादृशस्य विघ्नमेवोत्पन्नं येन क्लेशोऽपि तावन्न स्यात् । यतस्ते सप्रयोजनैर्विधिवाक्यैस्तुल्यमेवाऽऽद्रियन्ते । तेनावश्यं तद्वदेव प्रयोजनवन्त्यपीति । नियमस्मृतेश्च वेदमूलत्वाद्वेदकृत एवायमादरः । स च प्रयोजनवत्त्वादृते नोपपद्यत इति प्रयोजनवत्त्वमपि सामान्येनानुमायार्थाद्वा कल्पनैकदेशत्वादिति । सामर्थ्यतोऽर्थवादानां स्तुतिर्नाम प्रयोजनविशेषो लभ्यते । स्मरणं च दृढमित्येतदेवाऽऽह । अथ वा यदेवेदं ग्रन्थस्मरणं परिपालनात्मकं तेनाध्येतृपुरुषप्रयोजनवत्त्वाभिप्रायप्रतिपत्तिपूर्वकं प्रयोजनवत्त्वानुमानम् । संभाव्यते च कुतश्चिद्वाक्यादियं प्रतिपत्तिरिति नाप्रमाणम् । अन्यथा हि निष्प्रयोजनान्येतानीति केचित्परित्यज्यार्थवादान्विधिमात्रं प्रतिपद्येरन् । तत्र दृढस्मरणमेतेषु न स्यात् । अस्ति तु तत् । तस्मान्न प्रमादपाठः । ततश्चार्थवन्त इति । तुल्यं च सांप्रदायिकमित्यस्यापरा व्याख्या । संप्रदायः प्रयोजनं यस्य वाक्यस्य येन प्रवर्तितः संप्रदायस्तस्मात्स्वाध्यायोऽध्येतव्य इत्येतत्स्वाध्यायत्वाविशेषाद्विध्यर्थवादयोस्तुल्यमतः प्रागुक्तेन न्यायेन प्राक् पुरुषार्थासिद्धेरवस्थातुं न लभ्यत इति शक्त्यनुसारेण स्थितमर्थवादानां स्तुत्यर्थत्वमिति ॥ ८ ॥

उक्तदोषपरिहारोऽतः परम् । शास्त्रदृष्टविरोधिका याऽत्रानुपपत्तिर्विधिकल्पनायामुक्ता123 तामस्मत्पक्षमप्राप्तां मन्यामहे । अथवेदं स्तुतिव्याख्यानं तामनुपपत्तिमप्राप्तमिति व्याख्येयं येषां ह्रस्वः पाठः । प्रयोगे ह्यनुष्ठांने रोदनवपोत्खननदिङ्मोहस्तेयानृतवादादीनां कल्प्यमाने विरोधः स्यात् । अस्माकं तु पुनर्य एषां शब्दानां श्रौतोऽर्थः स नैव विवक्षितः । न चाध्याहारादिभिर्विधिः किं तर्हि स्तुतिमात्रं विवक्षितम् । न च तद्विरुध्यते तस्मादुपपद्येत । अथ वा शब्दार्थस्त्विति विधायकशब्दानुग्रहार्थः सन्नयमर्थवादो न स्वार्थानुष्ठानेन संबध्यते प्रयोगमप्राप्तोऽप्रयोगभूतस्तस्मादुपपद्येत । त्रयोऽत्र पाठाः । अप्राप्तां चानुपपत्तिमित्यत्र मन्यामह इति वाक्यशेषः । अप्राप्तं चानुपपत्तिमित्यपरस्तत्रास्मद्वयाख्यानमित्यध्याहारः । अप्राप्ता चानुपपत्तिरित्यपरस्तत्रास्मत्पक्षे विज्ञेयेति ॥ ९ ॥

यत्र तावद्विधिस्तुत्योरेकविषयता तत्रोपपद्यतां नाम, संबन्धे विषयनानात्वे तु कथमिति । गुणादित्याह । यत्क्रियायाः संबन्धिनि स्तोतव्ये तत्संबन्ध्यन्तरं स्तूयते अथ वा यद्विकारे प्रकृतिसंबन्धिनि विधानार्थं स्तोतव्ये तत्संबन्ध्यन्तरं प्रकृतिः स्तूयते तत्र तद्द्वारेणापि लोके वेदे च स्तुतिसिद्धेः प्रकारान्तरता । तस्माददोषः । एतस्यास्तु स्तुतेरर्थमुपरिष्टाद्वक्ष्यति । शान्ताभिरद्भिः संबद्धो विकारः शान्तिहेतुर्भवन्यजमानस्य कष्टं शमयतीति । गुणवादसूत्रेण शुद्धेनैव तावद्रोदनाद्युदाहरणत्रयपरिहारः । शेषसुत्राण्यप्येतदुक्तोपपादनार्थतया संभन्त्स्यन्ते । तत्रोदाहृतानां गौणतानिमितं किंचिदिहैव वक्ष्यते परं 124 तु तत्सिद्धिसूत्रे । सोऽरोदीदिति साकाङ्क्षत्वेनैकवाक्यता विधिस्तुत्योः प्रत्यवयवं कथ्यते । स इति प्रकृतापेक्षः । कुतः । तत्प्रत्ययात् । तद्धि प्रकृतं प्रतीयते । अथ वा तच्छब्दस्य प्रकृतग्राहित्वं प्रसिद्धम् । स इत्युक्ते तच्छब्दप्रत्ययात्स एवार्थः । एवं तस्य यदश्रु तद्रजतमिति संबन्धः । सर्वा चेयमुपरितनस्य निन्दाग्रन्थस्योपपत्तिरिति तदनन्तरं तदभिधानमुपपद्यते । कोऽसौ ग्रन्थस्तं दर्शयति । यो बर्हिषि रजतं दद्यात्पुराऽस्य संवत्सराद्गृहे रोदनं भवेदिति । केन हेतुना तदेवं भवतीति तदुपपाद्यते कारणानुरूपत्वात्कार्यस्य रोदनप्रभवरजतदानाद्रोदनोत्पत्तिस्तस्मान्न देयमिति सकलमदानस्योपपत्तिरिति । निन्दया तच्छेषत्वमर्थवत् । गुणवादस्तु शब्दालम्बनं रुद्रशब्दोत्थापिताविज्ञानवशेन रोदनसामान्यतोऽदृष्टकल्पना । अश्रुणश्च शौक्ल्याद्यदि नामैतत्कठिनं भवेत्ततो रजतसदृशं भवेदित्युत्प्रेक्ष्य तत्प्रभवनिन्दा । धनत्यागेनात्यन्तोदारस्यापि गृहजनः पीड्यत इति तत्सामान्याद्वा रोदनोपन्यासः । एवं येन केनचिदालम्बनेन निन्दाविज्ञानोत्पत्तिः प्रतिषेधोपकारिणीति मुख्यार्थाभावेऽप्यदोषः । एवं वपोत्खननादिवाक्ययोजना । स्वात्मवपोत्कर्तनेनापि हि विशिष्टप्रयोजनार्थं कर्माणि 125 क्रियन्ते किमुत बाह्यधनत्यागेनेति स्तुतिः । यथा नेत्रमप्युद्धृत्यायं ददातीति लोकेऽपि त्यागिनं स्तुवन्तीति । वृत्तान्तपर्यवसायी च वेदस्तत्र प्रामाण्यमप्रतिपद्यमानः स्तुतौ सत्यत्वान्नान्यत्रान्वेषणमर्हतीति निष्प्रयोजनोपाख्यानसत्यतथा नार्थः । शब्दभावनाङ्गं वाऽर्थवादाः । सा च प्रवृत्तिर्विज्ञानमात्रेणैवोपयुज्यते नार्थेन । अर्थात्मिकार्या तु सर्वत्राविसंवादः सिद्ध एव । अथोच्येत, असदन्वाख्यानेन स्तुतिनिन्दात्वमिति सुतरां तत्र प्रतीयते । कामं परमार्थे वक्तारो भवन्ति काऽत्र स्तुतिर्निन्दा वा सत्यमेवैतदिति । असत्ये तु यस्मादन्यत्र दुष्टमप्यवधृतमिह गुणवन्तमिति ब्रवीत्यतो नूनं मे प्ररोचयति तथा गुणवन्तं सन्तं निन्दति निवर्तयितुमिति । ततश्चैवं विदित्वा यो यस्यानतिक्रमणीयस्तदनुरोधेन स तथा प्रवर्तते । वेदश्च प्रमाणमिति स्थितम् । तेन प्रवृत्तिनिवृत्त्यनुग्रहणीये स्वसंवेद्येऽर्थे पुंसः प्रशस्ताप्रशस्तज्ञाने भवतः । इह ते वेदेनोत्पादिते । तस्मात्तदनुरूपं व्यवहर्तव्यमिति लोकेऽपि यां क्रियां फलान्तरयुक्तां मेधादिहेतुत्वेनाऽऽप्तां मन्यन्ते तस्यां कंचित्प्रवर्तयन्तस्तदभिप्रेतं सौभाग्यादिफलमसत्यमप्युपन्यस्य नियुञ्जते । तत्प्रवृत्तश्चेतरोऽपि क्रियाश्रयं फलं प्राप्नोति । यद्यपि च प्रतिपत्ता जानाति नैतदत्र पारमार्थिकं फलं मदभिप्रायानुसारेणैतै5रुपन्यस्तं सर्वथा त्वपुरुषार्थे मां न प्रवर्तयन्ति तदसत्यं नामैतत्किमप्यन्यदवाप्स्यामीति ज्ञात्वाऽनुतिष्ठति । एवं वेदेऽपि विधिना तावत्फलमवगमितमर्थवादास्त्वसत्येन नाम प्ररोचयन्तु न तद्गते सत्यासत्यत्वे किंचिद्दूषयतः प्रवर्तनमात्रोपकारित्वात् । यत्तु परस्ताद्भविष्यति तद्विधेरुपरिगतमिति निश्चित्य नैव विद्वांसो न प्रवर्तन्ते । तस्मादुपाख्यानासत्यत्वमतन्त्रम् । न हि शुक्तिकादृष्टसत्यरजतो यदि रजतान्तरं तद्देशे लभते ततोऽभिसंधीयते । शुक्तिकावत्तु किंचिदालम्बनं श्रुतिसामान्यमात्रेण सर्वत्र योजनीयम् । यथेह महाभूतानि प्रजाः 126 पान्तीति प्रजापतित्वेनोच्यन्ते । वाय्वादीनां यथासंख्येन मध्यवर्तिनः सारावृष्ट्यादयो वपास्तामग्नाविति तेनैव क्रमेण वैद्युते वृष्टिमार्बीसे शरीरान्तर्वर्तिनि वायुमन्तश्चरत्वसामान्याद्रश्मिं लौकिके तदाप्यायनात्तस्य । ततोऽज इति बीजादीनां सामान्येनानादित्वादजत्वप्रसिद्धेः । तमालभ्य प्राप्य प्रजाः पशूनाप्नोति । सर्वप्रजानां व्रीह्यादिपरिणामप्रभवत्वादित्यालम्बनम् । एतस्मिंस्तु प्रक्रमे सत्यं सालम्बनता किं तु स्तुतित्वमेव हीयते । अतः स्तुतित्वात्यागेनैव स्वार्थसत्यतां वर्णयामः । मन्त्रार्थवादेतिहासप्रामाण्यात्सृष्टिप्रलयाविष्येते तत्र सृष्ट्यादौ प्रजापतिरेव योगी तस्मिन्काले पुण्यकर्मोद्भवाभ्युपगमेन पशूनामभावात्स्वमाहात्म्येनाऽऽत्मन एव पशुरूपमभिनिर्माय वपोत्खननादि कृतवांस्ततोऽसमाप्त एव कर्मणि तूपरः पशुरुत्थित इतीदृशमिदं कर्म प्रत्यासन्नफलम् । एवं च महता यत्नेन प्रजापतिना चरितमिति सर्वं सत्यमेव । प्रतिसृष्टि चर्तुलिङ्गन्यायेन तुल्यनामप्रभावव्यापारवस्तूत्पत्तेर्नानित्यताप्रसङ्ग इति । कर्मसु कौशलेन दीव्यन्तीति देवा ऋत्विजः, ते देवयजनाध्यवसानानन्तरं दर्शपूर्णमासयोरनभ्यस्तं सौमिकं कर्मराशिमालोक्य कथमविदितं करिष्याम इत्याकुलीभावसामान्याद्दिङ्मोहाभिधानम् । तथा च लोके कर्तव्यतासु दिशो मे परिभ्रमन्तीति वक्तारो भवन्ति । तत्र तद्व्युदासेनादितियागः प्रशस्यते कथं तु तद्द्रव्युदसनम् । अवधारणावकाशदानात् । यावद्धि प्रायणीयायां प्राकृतानि समभ्यस्तानि कर्माणि क्रियन्ते तावदितरेषु भविष्यत्सु प्रणिधानं भवति अन्यथा सर्वस्मिन्नप्राकृते निरवकाशत्वादनवधारणं स्यात् । तेनाऽऽदित्येनैवैतज्ज्ञापितमिति मोहापनयेन स्तुतिः ॥ १० ॥

127 इह सर्वं क्रियमाणं मनसा संकल्प्य वाचा चाभिधाय क्रियते तदत्यन्तान्तरङ्गभूतयोरप्यनयोर्दूरेण हिरण्यादूनत्वं स्तेयानृतवादयोगादिति । या निन्दा तन्मात्रपर्यवसायिनी सा निषेधफला भवति । विधिपरा तु स्तुत्यर्था जायते । तदुपपादनस्य दृष्टार्थत्वात् । यथा वक्ष्यति न चेदन्यं प्रकल्पयेत्प्रकॢप्तावर्थवादः6 स्यादिति ॥ ११ ॥

तस्माद्धूम एवेति दिवाऽग्निरादित्यं गच्छतीत्यस्योपपत्तित्वेन । तदिदं किमर्थमुच्यते । मिश्रलिङ्गाग्निहोत्रमन्त्रविधिस्तुत्यर्थम् । कथं पुनरग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेत्यनयोर्मिश्रलिङ्गत्वम् । यदा विविक्तावेवाग्निसूर्यौ देवतात्वेनोपलभ्येते । के चिदाहुः । अग्निर्ज्योतिरित्यत्र ज्योतिःशब्दः सूर्यवाची सूर्यो ज्योतिरिति पुनरग्निवाची तेनोभौ मिश्रलिङ्गाविति । तदयुक्तम् । ज्योतिःश्रुतेस्तेजः सामान्यवाचित्वेनोभयत्र सामानाधिकरण्येनोपपत्तेः । अन्यतरपर्यायश्च सन्नितरत्र न प्रयुज्येत । न हि यो यत्पर्यायः स तेनैव सह प्रयुज्यते । सूर्यवाची सन्प्रातर्मन्त्रे न प्राप्नोति । अग्निवाची सायंमन्त्रे । तस्मादुदाहरणं भ्रान्तिलिखितमितीमावुदाहर्तव्यावग्निर्ज्योतिर्ज्योतिः सूर्यः स्वाहा सूर्यो ज्योतिर्ज्योतिरग्निः स्वाहेति । तद्विधेश्च स्तुतिः प्रथमविहितकेवलदेवत्यमन्त्रपर्युदासेन मिश्रलिङ्गविधानोपपत्तिरियमुच्यते । यदनयोर्मिश्रत्वं दिवाऽग्नेरनुप्रवेशान्नक्तं चाऽऽदित्यस्येति केवलेज्या न युक्तेति । अस्मिन्नपि तु व्याख्याने पर्युदसनीयत्वेनैव पूर्वमन्त्रोदाहरणम् । इतरौतु स्तुतिभागिनौ मिश्रलिङ्गाभिधानादेव ज्ञास्येते इति नोच्चारिताविति भाष्यं नेयम् । अथ वोभयोः केवलमिश्रलिङ्गयोर्मध्ये पठितोऽयमर्थवादः । 128 तत्र उभयदेवत्ययोरन्या प्रशंसा, इतरयोः पुनरियं, यस्माद्दिवाऽग्निरादित्यं गच्छति तस्मात्सूर्य एव तदा ज्योतिः । एवं नक्तमग्निरतस्तौ व्यवस्थितावेव यष्टव्याविति स्तुतिः । कथं तु धूम एवेत्यवधारणा । दूरस्थैर्भूम्ना दिवा धूम एव गृह्यते रात्रावर्चिरिति केनचिदंशेन स्तुत्यालम्बनम् ॥ १२ ॥

प्रवरे प्रव्रियमाणे यजमानो वदेद्देवाः पितर इत्यादि । तत्प्रशंसार्थमुक्तमब्राह्मणोऽपि बाह्मणो भवति प्रवरानुमन्त्रणेनेति । तत्र प्रसिद्धब्राह्मणत्वानामेव ब्राह्मण्यलाभो निष्प्रयोजन इति तदुपपत्त्यर्थमुक्तं न चैताद्विद्म इति । ज्ञायमाने त्वज्ञानवचनं दुर्ज्ञानत्वात् । यत्सुस्वेनाज्ञानं तदज्ञानमेव । तच्च स्त्र्यपराधनिमित्तम् । सत्यपि च स्त्र्यपराधे यदि मातुरेव क्षेत्रिणो वा पुत्रः स्यात्ततस्तयोः प्रसिद्धजातित्वान्नैव दुर्ज्ञानता भवेत् । तयोरप्येवमेवं तत्पूर्वजयोरित्यनादिन्यायेन जातिरधार्येतैव । यतस्तु माता भस्त्रा पितुः पुत्र इति स्मर्तॄणां दर्शनं जनयितुश्च नानाजातित्वोपपत्तिस्तेन वर्णसंकरः । वेदेऽपि चाप्रमत्ता रक्षत तन्तुमेनमिति जातिविच्छेददर्शनं स्त्र्यपराधे कर्तृपुत्रनिमित्तमेवोपपद्यते । अन्यथा ह्यपरिरक्ष्यमाणेऽपि नैव स्वजातितन्तुविच्छेदो भवेत् । तेनास्ति प्रशंसावकाश इति । निरूढब्राह्मण्यप्रवरसंकीर्तनात्तत्प्रभवोऽयमिति ज्ञानाद्ब्राह्मणः कृतो भवतीति स्तुतिः ॥ १३ ॥

यत्तदानीमेवोत्पद्यते तदाकालिकम् । तच्च सर्वलोकस्याभिमतं न यच्चिरभावि । तस्मात्प्रवर्ग्यकाले दिक्ष्वतीकाशकरणं प्राग्वंशस्य प्रशस्यते । तद्धि सद्यःफलं धूमक्लेशाननुभवात् । इतरत्तु कर्मजन्यं सत्कदाचिद्भविष्यति । कस्तद्वेद शास्त्रमात्रगम्यं हि 129 तत्, इदं तु सर्वप्रत्यक्षम् । तदपेक्षया च ज्ञायमानेऽप्यज्ञायमानवचनमितरप्रशंसार्थम्- । पाठान्तरमाकालिकडाद्यन्तवचन इति । अकालिकमिति वा पाठः । काल इति लोके विप्रकर्ष उच्यते । तत्र भवं कालाठ्ठञिति ठञि कालिकं न कालिकमकालिकम् ॥ १४ ॥

अध्ययनविधिशेषत्वादफलविधिः सन्यथाविज्ञातमुखशोभावाजिमत्त्वानुवादो विज्ञायते । न चैक एव प्रकारो मुखशोभायाः संस्थानं रमणीयता लावण्यं चेति । स्त्रीविषयं ह्येतत् । विदुषां पुनः पदवाक्यन्यायोद्गारि मुखं शोभते तेनाऽऽत्मना मुख्ययैव वृत्त्या शोभते । पुत्रश्च वाजवान्व्रह्मवर्चसद्वारेण । अथापि गौणता तथाऽपि स्तुतिपरत्वाददोषः ॥ १५ ॥

संस्कारकर्मत्वान्न फलविधिः । स्तुतेस्त्वालम्बनं निमित्ते नैमित्तिकवदुपचारात् । सर्वकामनिमित्तानां कर्मणां सामान्यसाधनभूतानग्नीनवाप्नोतीत्यर्थः । सूत्रं चैवं योज्यते । सर्वकामनिमित्तैः कर्मभिराहिताग्नित्वादिदानीमधिकृत इति वक्तव्ये सत्याधिकारिकं सर्वत्वं स्तोतुमवाप्तावुपचरितम् । ननु चाऽऽकाशगमनसुरकन्यालाभादयोऽत्यन्तासन्तः सर्वशब्देन वैदिकेषु कर्मसु निमित्तद्वारेणापि न शक्यन्तेऽनुवदितुमतः पुनः सूत्रमुच्यते । यथैवौदनादिषु सर्वशब्दोऽधिकृतापेक्षत्वान्न त्रैलोक्यं गृह्णाति तथाऽत्राग्निकर्माधिकृतफलग्राही भविष्यतीत्यदोषः ॥ १६ ॥

130 तच्चैतत्समानस्वर्गादिफलेष्वग्निहोत्रादिषूपयोक्ष्यत इत्युपन्यस्तं साधनानुरूपत्वात्साध्यानाम् । सर्वे हि कामाः पूर्णाहुत्याऽवाप्यमानाः स्तोकस्तोकाः प्राप्यन्ते । तत्र फलभूमार्थिनः कर्मान्तरविधिरर्थवान्भविष्यतीति स्थिते चोद्यते । युक्तं लोके कृष्यादिफलानां प्रत्यक्षावगतत्वात्साधनानुरूपं जन्म । पूर्णाहुत्यादिषु त्वत्यन्तशास्त्राधीनत्वादविशेषश्रुते फले किंमूला विशेषकल्पना । न ह्यग्निहोत्रज्योतिष्टोमस्वर्गयोः कश्चिद्विशेषः श्रूयते । न चानुमानमीदृशे विषये समर्थम् । तदभिधीयते । विधिसामर्थ्यादेवेदं सिद्धम् । कथम् । यदि ह्यल्पान्महतश्च कर्मणः समं फलं जायेत ततोऽर्के चेन्मधु विन्देतेत्यनेनैव न्यायेनाल्पेन सिद्धे महति न कश्चित्प्रवर्तेत । तत्र विधिशक्तिबाधः स्यात् । अविहतशक्तिस्तु सन् अर्थाद्वा कल्पनैकदेशत्वादिति7 विधिरेव फलाधिक्यमङ्गीकरोति । अतो यथा विश्वजिदादौ फलसद्भावः प्रमाणवानेवमिह तद्विशेष इति । किं च

कर्मणामल्पमहतां फलानां च स्वगोचरः ।
विभागः स्थानसामान्यादविशेषेऽपि चोदिते ॥

यथैव क्रमाम्नातानामङ्गाङ्गिनां प्रथमस्य प्रथमं द्वितीयस्य द्वितीयमिति विनियोगव्यवस्था तथैव कर्मगोचरेऽल्पस्य कर्मणः परिमाणसामान्येन फलगोचरेऽल्पमेवोपतिष्ठते । मध्यमस्य मध्यमं महतो महदिति स्थानमेव विनियोजकम् । स्मरणमप्येवमेव । चातुर्मास्यसोमेषु च फलार्थवादो यदाऽग्निहोत्रं जुहोत्यथ दश गृहमेधिन आप्नोत्येकया रात्रियेत्यारभ्य न्यूनाग्निहोत्रदशसंवत्सरप्रयोगादिभिरेकदर्शपूर्णमासादिप्रयोगावाप्तिवचनं कर्माल्पत्वमहत्त्वकृतं फलभेदं दर्शयति ॥ १७ ॥

यथैव वाङ्मनसयोर्निन्दा हिरण्यस्तुत्यर्था तथा शुद्धपृथिवीनिषेधः प्रकॢप्तावर्थवादः स्यादित्येवं हिरण्यनिधानस्तुत्यर्थो न प्रतिषेधमात्रफलः । नान्तरिक्षे न दिवीत्यौचित्येन शुद्धपृथिवीनिषेधसमर्थनायैव यथाऽन्तरिक्षे दिवि वा चयनं न प्रसिद्धं तथा हिरण्यरहितायां पृथिव्यामिति स्तवनम् । अनित्यसंयोगो गतार्थः परं तु श्रुतिसामान्य131 मिति । प्रयोजनं रात्रिसत्रे पूर्वपक्षे स्वर्गः फलं स्यादिति सिद्धान्ते त्वर्थवादस्थमेव फलम् ॥ १८ ॥

इत्यर्थवादाधिकरणम् ।
  1. ( अ॰ १॰ पा॰ ८ अं॰ १ )
  2. धर्मादीनां साध्यानां साधनप्रतिपत्तिरिति विग्रहः । धर्मादिचतुष्टयसाधनप्रतिपत्तिरुपादानाङ्गभूता । अधर्मादिचतुष्टयसाधनप्रतिपत्तिः परित्यागाङ्गभूतेत्यर्थः ।

  3. नायमभिसंबन्धो विवक्षित इत्यादि, भिद्येतेत्यन्तभाष्यस्यायमर्थः—भूतिकाम आलंभेत कस्माद्यतो वायुः क्षेपिष्ठेत्यनेन यः सार्थवादकस्य विध्युद्देशस्य विधिस्तुतिसंबन्धरूपो विशिष्टोऽर्थो दर्शितः, नायं विध्युद्देशमात्रेण विवक्षितः किं तु सार्थवादकेनेति । तर्हीत्ययं भिद्येतेत्यनेनान्वेति । आलभेतेति मध्यप्रतीकेन विध्युदेशोपलक्षणम् । यतस्ततो भूतिरित्यर्थवादस्योपलक्षणम् । तथाच विशेष्यविशेषणरूपभिन्नाविभावर्थौ विध्युद्देशार्थवादाभ्यां प्रतिपाद्यमानौ यद्येकेन विध्युद्देशेन प्रतिपिपादयिषितौ तर्हि गौरवलक्षणो वाक्यभेद इति ।

  4. यतो वाक्यशेषोऽतो विधेः—विधिसंबन्धिनोऽस्माद्वाक्यशेषाद्विधेयस्य स्तुतिमवगच्छाम इत्यर्थः । नत्वनेन भाष्येण विधिरेव स्तुतिप्रतिपादक इत्युपसंह्रियते । पूर्वग्रन्थविरोधापत्तेरिति ।

  5. णैवैतैरिति ‘ग.’ पुस्तके ।

  6. जै. (१० । ८ । ४)
  7. जै॰ (१ । ४ । २०)