163
येन यत्नेन मन्वाद्यैरात्मवाक्यं प्रपाठितम् ।
कस्मात्तेनैव तन्मूलं न समर्पिता ॥

यदि हि तैरप्यर्थमात्रमेवान्येभ्योऽधिगतं न वेदो दृष्ट इति ततस्तत्पूर्वकेष्वप्ययमेव पर्यनुयोग इति निर्मूलसंप्रदायत्वप्रसङ्गान्निर्मूलत्वान्न मुच्यसे । यदि तु प्रलीनशाखामूलता कल्प्येत ततः सर्वासां बुद्धादिस्सृतीनामपि तद्द्वारं प्रामाण्यं प्रसज्यते । यस्यैव च यदभिप्रेतं स एव तत्प्रलीनशाखामस्तके निक्षिप्य प्रमाणीकुर्यात् । अथ विद्यमानशारवागता एवैतेऽर्थास्तथाऽपि मन्वादय इति सर्वे पुरुषास्तत एवोपलप्स्यन्ते । युक्ततरा च स्वाध्यायाध्ययनविधेः साक्षाद्वेदादेव प्रतीतिरिति स्मृतिप्रणयनवैयर्थ्यं स्यात् । न च तद्विज्ञायते । कीदृशाद्वाक्यादिदं मन्वादिभिः प्रतिपन्नं किं विधिपरादुतार्थवादरूपादिति । पश्य—

महताऽपि प्रयत्नेन तमिस्रायां परामृशन् ।
कृष्णशुक्लविवेकं हि न कश्चिदधिगच्छति ॥

न च मन्वादिवचनाद्वेदमूलत्वं निश्चिनुमः । ते हि निर्मूलमपि विप्रलम्भादिहेतोरुक्त्या लोकं वञ्चयितुमेवं वदेयुः । तस्मादप्रमाणम् ॥ १ ॥

सर्वथा तावन्मन्वादिप्रणीताः सन्निबन्धनाः स्मृतयः शेषाणि च विद्यास्थानानि स्वार्थं प्रतिपादयन्त्युपलभ्यन्ते । मन्वादीनां चाप्रत्यक्षत्वात्तद्विज्ञानमूलमदृष्टं किं चिदवश्यं कल्पनीयम् । तत्र च—

भ्रान्तेरनुभवाद्वाऽपि पुंवाक्याद्विप्रलम्भनात् ।
दृष्टानुगुण्यसाध्यत्वाच्चोदनैव लघीयसी ॥

सर्वत्रैव चादृष्टकल्पनायां तादृशं कल्पयितव्यं यद्दृष्टं न विरुणाद्वि न वाऽदृष्टान्तरमासञ्जयति । तत्र भ्रान्तौ तावत्सम्यङ्निबद्धशास्त्रदर्शनविरोधापत्तिः सर्वलोकाभ्युपगतदृढप्रामाण्यबाधश्च । इदानींतनैश्च पुरुषैरपि भ्रान्तिर्मन्वादीनामनुवर्तिता । तत्परिहारोपन्यासश्च मन्वादीनामित्यनेकादृष्टकल्पना । अनुभवेऽपि स एव तावदनुभवः कल्पयितव्यः । पुनश्चेदानींतनसर्वपुरुषजातिविपरीतसामर्थ्यकल्पना, मन्वादेस्तच्चैतंत्सर्वज्ञवादे निराकृतम् । पुरुषवाक्यपराऽप्यन्धपरम्परया निराकृता । न हि निष्प्रतिष्ठप्रमाणात्मलाभो दृश्यते । तथा विप्रलम्भेऽपि तत्कल्पना । विप्रलिप्सा प्रयोजनं लोकस्य च तत्र भ्रान्तिस्तस्याश्चेयन्तं कालमनुवृत्तिरित्याद्याश्रयणीयम् । उत्पन्नस्य च दृढस्य प्रत्ययस्यप्रामाण्य