शेषप्रतिज्ञाधिकरणम्
तथा च प्रथमसूत्रोपात्तप्रतिज्ञापिण्डव्याख्याप्रदेशप्रद509र्शने धर्मप्रमाणस्वरूपविषयलक्षणद्वयार्थं चोदनालक्षणसूत्रेणैकेनैव सूत्रितं वर्णयित्वा कानि अस्य साधनानि—अङ्गानिकानि च साधनाभासानि—अनङ्गानीति फलार्थत्वातदर्थत्वाभ्यां क्व पुरुषः प्रधानं धर्मस्य क्व वा पुरुषो गुणभूत इत्यादि यावत्किंचन मीमांसितव्यं तत्सर्वं शेषलक्षणेनैव व्याख्यातम् । शेषैः समस्तैरेव लक्षणैरित्यर्थः । इह लक्षणानां बहुत्वेऽपि यदेकवचनं कृतं तल्लक्षणत्वसामान्यसंख्यामात्रविवक्षया ।
बहुष्वपि हि लक्षणार्थेषु विवक्षितेषु क्रमवशादेकस्तावदङ्गत्वरूपः शेष एतल्लक्षणगोचरः परार्थत्वहेतुकः प्रतिपाद्यते । समासश्च द्वेधा विगृह्य द्वयोर्वाक्यार्थयोः प्रदर्शनीयः । शेषं च तल्लक्षणं च, शेषस्य वाऽर्थस्य लक्षणमिति । षष्ठीसमासमात्राश्रयणेन वा यथाव्याख्यायमानार्थम् ।
सर्वेषां हि लक्षणान्तरार्थानां प्रयोज्याप्रयोज्यप्रयोजकाप्रयोजकषड्विधक्रमनियमफलवत्कर्मविषयकर्त्रधिकाररूपाणां तावदङ्गात्मकशेषविशेषप्रकारत्वाल्लक्षणान्तरगोचराणामपि शेषलक्षणान्तर्गतत्वावधारणस्थितिः । तथा हि—
एकफलसाधनानामर्थानां ह्येकफलवदुपकारोपनिबद्धानां वैकप्रयोगवचनचोदितानां यौगपद्यानुष्ठानाशक्तेः सामर्थ्येनाङ्गभूतः क्रम आपद्यमानः श्रुत्यर्थपठनस्थानमुख्यप्रावृत्तिकक्रमाख्यप्रमाणषट्कवशेन व्यवस्थाप्यते ।
वक्ष्यति हि ‘पुरु510षश्च कर्मार्थत्वात्’ इति जैमिनिः ।
तत्र तु—
तत्राथशब्द आनन्तर्यपूर्वप्रकृतापेक्षाधिकाराणामेकं सर्वान्वा विवक्षित्वा प्रयुज्यते । प्रागुक्तमेदलक्षणानन्तरोक्तत्वात्पूर्वप्रकृतमपेक्ष्य शेषलक्षणमारभ्यते । कुत इति हेत्वपेक्षायामत इति हेतुव्यपदेशः ।
अर्थद्वारो ह्यध्यायादिसंबन्धो न ग्रन्थस्वरूपाश्रय इति संक्षेपोक्तिपिण्डीकृतवृत्तवर्तिष्यमाणाध्यायार्थप्रदर्शनपूर्वं भाष्यकारेणैव संबन्धः पूर्वाध्याययोरभिहितः । इह तु सूत्रकारेणैवाथातःशब्दाभ्यामुपनिबद्ध इति स एव व्याख्यातः—नानाकर्मलक्षणं वृत्तमिति च ।
प्रथमाध्यायप्रतिपादितो हि प्रमाणविवेकविध्यर्थवादमन्त्रस्मृतिगुणविधिनामधेयवाक्यशेषार्थकृतसंदिग्धविधिनिर्णयप्रविभागः प्रत्येकं भेदादिलक्षणेषु भेदेनोपयोक्ष्यत इति प्रपञ्चेनानुभाषितः । तथा चाभ्यासाधिकरणे513 स्थितवेदप्रमाणलक्षणबलेनोक्तम् ‘अविशेषा514दनर्थकं हि स्यात्’ इति । विधेयान्तररहितश्चानन्यपरो विधिः कर्मस्वरूपमेव विदधत्पूर्वविहितादवश्यमेव कर्मान्तरं करोतीति विधित्वनिर्णयफलोपजीवनम् ।
जामित्वाजामित्वोपक्रमोपसंहारमध्यपातिनो हि ‘विष्णुरुपांशु यष्टव्योऽजामित्वाय’ इत्येवमादयोऽन्तरालसंबन्धविध्येकवाक्यत्वेनार्थवादत्वात्पृथग्विधित्वमलभमाना न देवताविशिष्टकर्मत्रयविधानार्था विज्ञायन्ते ।
यच्छब्दामन्त्रणोत्तमपुरुषाद्युपहतविधिशक्तयो हि मन्त्रा धर्मसाधनत्वेनोच्यमा515ना ‘देवांश्च याभिर्यजते ददाति च’ इत्येवमादिभिराख्यातपदैः पुनः पुनः श्रुतैरपि न कर्मान्तरं कल्पयन्ति ।
तथा च ।
प्रथमाध्यायप्रथमसूत्रे हि धर्मज्ञानेच्छाया वक्ष्यमाणव्याख्येयत्वेनानुपन्यासादन्तरानुष्ठेयत्वमात्रमेवोपदेष्टव्यमित्यधिकारार्थत्वं नोक्तम् । यदपि तदुपसर्जनत्वेन धर्मज्ञानमुपात्तं तदप्यर्थव्याख्यानकरणात्स्वयमेव शिष्याणां भवतीति न सूत्रकारभाष्यकारव्याख्यातृवचनोपात्ताधिकारकर्मत्वेनावधारितम् ।
अतः परं शेषलक्षणमधिकृतं तदादरेण श्रोतव्यम् । यतोऽध्यायान्तरावकाशोऽद्यापि नास्तीति । अतः शेषलक्षणमधिकृतं वेदितव्यमिति शक्यं वक्तुम् ।
सप्तमादिषट्कस्तावदुपदेशपूर्वकातिदेशविषयत्वादुपदेशविचारार्थप्रथमषट्कसमाप्तिं प्रतीक्षते । तथाऽधिकारोऽपि यथोपदिष्टकर्मानुष्ठानसामर्थ्येन कर्तुरवधार्यत इति क्रमनियमपर्यन्तोपदेशज्ञानोत्तरकालमारप्स्यते । तथा हि ।
उच्यते—
तस्माच्छेषलक्षणमेव समस्ततद्गतप्रकारविशिष्टं वक्तुमिदं प्रतिज्ञातम् ‘अथातः शेषलक्षणम्’ इति । तत्र कः शेष इति—स्वरूपाभिधानप्रतिज्ञा । केन हेतुनेति—येनासौ शेष इत्युच्यते । तस्य च कारकहेतोस्तद्धर्मस्यैव लक्षणं वक्ष्यत इति प्रतिज्ञायते । तथा विनियोगप्रकारज्ञानं क्व शेषिणि कः शेषः कतमेन प्रमाणेन कतमत्प्रमाणान्तरं बाधित्वा 653 विना बाधेन वा विनियुज्यते । तथा विनियोजकश्रुत्यादिषट्कस्वरूपज्ञानं तेषां बलाबलज्ञानं च । तत्र प्रथमे पादे तावछ्रुतिविनियोगः किंचिच्च प्रासङ्गिकम् । द्वितीयपादादौ लिङ्गविनियोगः । तृतीयपादादौ तदेव प्रमाणद्वयमुपन्यस्योपक्रमोपसंहारद्वारेणैकवाक्यत्वेन सिद्धान्तस्थापनाद्विनाऽपि वाक्यग्रहणेन ‘प्रा521यदर्शनात्’ इति वाक्यविनियोगमुक्त्वा प्रकरणक्रमसमाख्याभिर्विनियोगः सूत्रोपनिबद्ध एव वक्ष्यते । ततो बलाबलाधिकरणम् । ततः परं च श्रुतिलिङ्गवाक्यानां प्रकरणेन सह विरोधाविरोधचिन्ता तावद्यावत् 522‘तुल्यः सर्वेषां पशुविधिः’ इति । ततश्च523तुर्णां क्रमेण सह पुनः सैव चिन्ता यावत् 524‘शास्त्रफलं प्रयोक्तरि’ इति । तत उपोद्धातपूर्वकं पञ्चभिः सह समाख्याया विरोधाविरोधविषयविचारेणाध्यायपरिसमाप्तिः । एतत्तात्पर्येणान्यदुपोद्घातप्रसक्तानुप्रसक्तेरिति वक्ष्यमाणमनुसंकीर्त्यते । प्रदर्शितमुच्यमानं सुखं ग्राहयिष्यते । सर्वं चैतच्छेषलक्षणप्रतिज्ञयैव पिण्डीकृतं प्रतिज्ञातमिति न भेदेन सूत्रितम् ॥ १ ॥
शेषत्वनिर्वचनाधिकरणम्
किं च ।
शेषशब्दस्यानेकाधिकाद्यर्थवचनत्वादिहाङ्गगुणधर्मादिपर्यायवाचित्वपरिग्रहार्थं हेतुविशेषाभिधानं परार्थत्वादिति ।
द्वावपि चार्थौ श्रुत्यर्थापत्तिभ्यामुपात्ताविति चोदनालक्षणसूत्रवद्वाक्यभेददोषं परिहृत्य व्याख्येयम् । तथाहि ।
इह च ।
तद्भावभावित्वेन तावद्यो येन विना न भवति स तस्य शेषः । तद्यथाऽङ्कुरस्तोयादिभिर्विना न भवति । घटश्च मृत्पिण्डदण्डचक्रादिभिरिति तयोस्तानि शेषत्वेन ज्ञायन्ते । तत्रोच्यते ।
न च स्वामी दासेन रूपस्पर्शादिभिर्वा यथोदाहृतैरन्योन्यं प्रयुज्यते । येनातिप्रसङ्गः स्यात् । न त्वेतदपि शेषत्वलक्षणं घटते । कुतः ।
सर्वत्रैव फलवत्प्रधानविधेरङ्गविधयोऽङ्गानि प्रधानेभ्योऽतिरिच्यन्त इत्येतदेवातिरेकलक्षणं शेषत्वं युक्तमित्युक्तेऽभिधीयते ।
तस्माद्विध्यादिविहितप्रधानकथंभावाकाङ्क्षापूरणसमर्थविध्यन्तविहितत्वलक्षणमेव शेषत्वं सूत्रकाराभिप्रेतमित्युक्तेऽभिधीयते ।
यदि हि नियोगतो वाक्यप्रकरणान्तेष्वेव व्यवस्थिताः शेषविधयः समाम्नायेरंस्तत एतदव्यभिचाराल्लक्षणमाश्रीयेत । न त्वेवमाम्नायन्ते । त्रिष्वप्यादिमध्यावसानेषु समाम्नानात् ।
656 अङ्गविध्युपक्रमेषु तावद्वाक्यप्रकरणेषु तद्गतकिंभावाकाङ्क्षितप्रयोजनकल्पनावेलायां कथंभावाकाङ्क्षायुक्तप्रधानविधिदर्शनात्तदपेक्षितोपकारसिद्ध्यर्थत्वेन तेषामवधार्यमाणानां विध्यादिगतानामपि शेषत्वमस्तीति न विध्यन्तविधानमेवैकं शेषलक्षणत्वेनावकल्पते ।
न ह्यनुपकुर्वात्किंचिदप्यङ्गं कस्यचिद्भवेत् । तस्मादुपपन्नमिदं लक्षणमिति । तथा चोपरिष्टादपि तत्र तत्र प्रदेशे भाष्यकारो वक्ष्यति—‘यो यस्योपकरोति स तस्य शेषः । उपकारलक्षणं हि शेषत्वम्’ इत्येवमादि ।
न त्वेतदपि घटते । कुतः ।
यथैव ह्यङ्गानि प्रधानानामुपकुर्वन्ति तथैवानुष्ठापनेनोपकारप्रतिग्रहणाच्च प्रधानान्यप्यङ्गानामुपकुर्वन्त्येव । कुतः ।
एवमङ्गानामप्यन्योन्यापादानं दर्शयितव्यम् । ततश्चैकप्रधानविकारेष्वेकाङ्गमनेऽपि समस्तसाङ्गप्रधानगमनादनियमः प्राप्नोति ।
657 न हि तदनुग्रहरहितं किंचित्सिध्यति । ततश्चार्थिमात्रविषयकामश्रुतिपरिग्रहात् ‘वसन्ते ब्राह्मणम्’ इत्यादीनां निमित्तार्थत्वाच्छूद्राधिकारादिदोषप्रसङ्गः ।
अनवगतशेषत्वावस्थेषूपकारादर्शनात्तदधीनावधारणं शेषत्वं न स्यात् । कल्पित उपकारे भविष्यतीति चेत् । न । प्रागङ्गत्वादुपकारकल्पनाप्रमाणाभावात् । यो हि यस्य फलस्य फलवतो वा शेषत्वेनावधारितो भवति स कथं तस्योपकरिष्यतीत्यपेक्षिते सति दृष्टमुपकारमपश्यद्भिस्तस्माददृष्टः परिकल्प्यते । यावत्तु शेषत्वमेव नावगम्यते तावत्केन प्रमाणेनादृष्टकल्पना स्यात् । ततश्चेतरेतराश्रयः प्रसज्यते । तथाहि ।
दृष्टार्थानामपि चावहन्त्यादीनां नियमान्न कश्चिदुपकारो दृश्यत इति न नियोगतोऽङ्गत्वं स्यात् । न च प्रासङ्गिकत्वाच्छास्त्रेणोपकारः प्रतिपाद्यत इति । प्रत्यक्षादिभिरेवोपकारं गृहीत्वा शेषत्वं गम्येत । ततश्च श्रुत्यादिप्रमाणकं शेषलक्षणं नैवानेनाऽऽश्रीयेत । तथा प्रासङ्गिकान्यन्यप्रयोजनान्यङ्गान्यन्यार्थान्यप्यन्यस्योपकारीणीति तन्त्रिप्रयोजकवदितरस्यापि शेषत्वं गच्छेयुः । तत्र 527‘प्रासङ्गिकं च नोत्कर्षेत्’ 528‘प्रासङ्गिकेप्रायश्चित्तं न विद्यते’ 529‘न वाऽपात्रत्वादपात्रत्वं त्वेकदेशत्वात्’ 530‘अपि वा शेषभाजां स्यात्’ इत्यादिन्यायविरोधः । एवमेतस्मिन्नपि पक्षे सर्वं तन्त्रं विघटते । तस्मादुच्यते ‘शेषः परार्थत्वात्’ इति ।
आह—किं तादर्थ्योपकारयोर्भेदोऽप्यस्ति । बाढमस्ति । कुतः ।
उद्देशमात्रेण तावत्तादर्थ्यप्रसिद्धिः । सा चोपकारापकारयोस्तुल्या । तद्यथा—मश658 कार्थो धूम इत्यपकारिण्यपि प्रयुज्यते । तथोपकुर्वन्नपि प्रसङ्ग्यप्रयोजकयोंर्न तादर्थ्येन व्यपदिश्यते । न हि कश्चिदपि शालिकुल्यास्थमुदकं पिबन्मदर्थमेताः प्रणीता इत्यध्यवस्यति । तस्मादन्यत्तादर्थ्यमन्यश्चोपकार इति विज्ञायते । नन्वेवं सत्यपकारकोऽपि शेषः प्राप्नोति । लोके तावत्प्राप्नोतु नाम । वेदे पुनरनपेक्षितत्वान्न भविष्यतीति । यो हि तादर्थ्येनावधारितः स किमुपकरिष्यति, अथापकरिष्यतीति संदिग्धे शेषिभिरपकारो नापेक्षित इति तं परित्यज्यापेक्षासामर्थ्यादुपकारः कल्प्यते । ननु चोपकारनिरपेक्षं नैव तादर्थ्यं शक्यं कल्पयितुम् । कुतः ।
न हि प्रयाजादयः सामीप्यमात्रेणैवोपकारनिरपेक्षास्तादर्थ्यं प्रतिपद्यन्ते । तस्मादुपकारपूर्वकमेव तादर्थ्यमिति स एव शेषत्वकारणं प्राप्नोति । नैष दोषः ।
‘दशा531पवित्रेण ग्रहं संमार्ष्टि’ ‘व्रीहीन्प्रोक्षति’ इत्यादिषु तावच्छ्रुत्यैव तादर्थ्येऽभिहितेऽङ्गत्वमवधार्योपकारः कल्प्यते । यत्रापि तु प्रयाजादौ तादर्थ्याभिधानाभावादुपकारपूर्वकत्वं लक्ष्यते तत्राप्यपेक्षामात्रमेव तस्य, प्रथमं न निष्पत्तिः । न ह्यनवगताङ्गत्वेषु प्रयाजादिषूपकारदर्शनं कल्पनं चास्तीत्युक्तम् । अतो दर्शपूर्णमासयोरुपकारमपेक्षमाणयोः प्रयाजादिषु चोपकार्यमपेक्षमाणेष्वनिष्पन्नावस्थ एवोपकारे प्रकरणात्तादर्थ्यं तावत्प्रतीयते । तदन्यथानुपपत्तिमात्रेणोपकारकल्पना । तेनोपकारापेक्षामात्रमिह तादर्थ्यप्रमाणानुमाने व्याप्रियते । नोपकारादेव शेषत्वं तादर्थ्यं वेत्यनवद्यम् । एवं च सति श्रुत्यादीन्येव तादर्थ्यप्रतिपादनरूपेण शेषस्य विनियोजकानीति तद्विवेकार्थं लक्षणमारब्धव्यम् । सत्यपि चाङ्गप्रधानादीनामुपकारसंकरेऽतादर्थ्यादसंकरस्थितिसिद्धिः । तस्मात्परार्थत्वलक्षणमेव शेषत्वं निर्दोषम् । यः परस्योपकारे वर्तत इति—पारार्थ्यमेवोपकारेण फलेनाभिधीयत इत्यवगन्तव्यं न त्वत्रैव लक्षणोक्तिभ्रान्तिः कर्तव्या । तथा च स्फुटी करोति ये परार्थास्ते वक्तारो भवन्तीति । परः पुनरुपकारलक्षण659 भ्रान्त्या वदति—यथोपाध्यायः शिष्याणामिति । सत्यं वर्तत इति—तादर्थ्योपकार532व्यतिकरदर्शनादिहालक्षितं शेषत्वमित्युपेक्ष्यैतदुदाहरणमैकान्तिकपारार्थ्ययुक्तमुदाहरतितद्यथा गर्भदास इति । स ह्युत्पत्त्यैव स्वाम्यर्थेन प्रसिद्धः । अनङ्वांश्च वहनार्थतया । न तु स्वामी तादर्थ्येनावगम्यत इति विवेकः । परस्तु तत्राप्युपकारकत्वादस्त्येव कश्चित्तादर्थ्यलेश इति प्रत्यवतिष्ठते—ननु गर्भदासस्यापीति । सिद्धान्तवादी त्वाहआत्मन एवासौ संविदधान इति । उ533द्देशेन हि तादर्थ्यं विविच्यते । न च स्वामिनो गर्भदासाद्युद्देशेन तदुपकाराय प्रवृत्तिः । किं तर्हि, स्वार्थसिद्धिप्रयुक्ता, नान्तरीयकतत्संविधानादशेषत्वम् । यैस्तु द्रव्यं चिकीर्ष्यत इति—पुनरुक्तशङ्कयोपन्यासः । ननु च तदध्यायोक्तेनैव लक्षणेन गतार्थत्वान्नात्र वक्तव्यमत आह—तत्रापूर्वार्थता व्यावर्तितेति । तत्र केचिदेवं व्याचक्षते । तत्र दृष्टार्थानामवहन्त्यादीनां शेषत्वमुक्तम् । इह तु सर्वेषामेव दृष्टार्थानामदृष्टार्थानां च द्रव्यविषयाणां कर्मविषयाणां च शेषाणां लक्षणमुच्यत इति । एवं तु सति एतस्यापुनरुक्तता स्यात् । तत्पुनरेतेन गतार्थमित्यपहृतमेव । तस्मादेवं वर्णयितव्यम्—अथ तत्र किं वृत्तं यैस्तु द्रव्यं चिकीर्ष्यत इति । तदभिधीयते ।
सर्वविषयव्यापि शेषत्वमिह534 लभ्यमेव तत्र नीतमपूर्वभेदनिराकरणार्थम् । अथवा पूर्वोक्तं गुणप्रधानभावलक्षणमनमेक्ष्यापूर्ववत्संप्रति कारणान्तरनिरासेन परार्थत्वलक्षणे शेषत्वेऽभिहिते ‘यैस्तु द्रव्यं चिकिर्ष्यते’ इत्यनेनोपकारलक्षणाभ्युपगमाद्विरोधमाशङ्क्य परिहरति । तत्रापूर्वभेदकल्पनानिवृत्त्यर्थमुपकारदर्शनमुक्तं न शेषलक्षणत्वेन । अत्र पुनः सर्वशेषाणां पारमार्थिकं लक्षणमेवोच्यत इति भिन्नविषयत्वादविरोध इति ॥ २ ॥
शेषत्वस्य लक्ष्यनिर्देशाधिकरणम्
इदानीं शेषत्वस्य विष535यं कथयति । तत्र बादरिमतेन तावत्त्रय एव शेषाः । द्रव्यं हि 536‘द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसंबन्धः’ इति स्वभावत एव शेषभूतं नियमान्निष्प्रयोजनत्वेन केवलं व्यावर्त्यते । गुणोऽप्यरुणादिः क्रियायाः स्वसाधनभूतद्रव्यपरिच्छेदसामर्थ्यादुत्पत्त्यैव शेषः । तथा संस्कारोऽप्यवहन्त्यादिर्यागसाधनपुरोडाशादिनिर्वृत्तये चोदितानां व्रीह्यादीनां स्वरूपेणायोग्यत्वादवहतानां योग्यत्वादवहतानां योग्यत्वमापादन्नुत्पत्त्यैवाङ्गं भवतीति । न तु यागादावौत्प537त्तिकं शेषत्वं दृश्यते । न च शब्देन चोद्यते । यागस्तावत्सर्वकारकैरनुष्ठीयते । न चान्यत्र व्याप्रियमाणो दृश्यते । फल इति चेत् । 661 न । चिरनिर्वृत्ते यागे फलोत्पत्तिप्रतीतेः । ननु च भावार्थाधिकरणे करणत्वं यागस्योक्तम् । सत्यमुक्तं न तु साधितम् । स्वर्गका538माधिकरणाधीनसिद्धिना तेन539 नामपदकरणत्वमात्रनिराकरणात् । अत इदानीमसिद्धावस्थेनैव करणत्वेन व्यवहरति । फलमपि यागं प्रति साध्यमानत्वात्प्रधानं, पुरुषं प्रति त्वस्य शेषभावो नैवोपात्तः । काम्यमानत्वेन सुतरां प्रधानत्वात् । पुरुष एव तु कामं द्रव्यत्वाद्यागे गुणत्वेन स्यात् । तस्माद्द्रव्यगुणसंस्कारेष्वेव शेषभाव इति ॥ ३ ॥
गतार्थमेतत् ॥ ४ ॥
662 कामपदोपादानादेव फलस्य पुरुषार्थत्वं गम्यते । न हि कश्चिद्बुद्धिपूर्वकार्येवं कामयते स्वर्ग आत्मानं लभतामिति । किं तर्हि, ममोपभोग्यः स्यादिति । पुनश्चाऽऽत्मनेपदनिर्देशात्कर्तुरेवोपभोग्यो नान्यस्येति गम्यते । तेनोपभोक्तारं प्रति फलमपि शेषभूतम् ॥ ५ ॥
पुरुषोऽपि यजेतेत्याख्यातेन गुणभूत आक्षिप्तः । औदुम्बरीसंमानादौ विहित इति शेषः । एवं चतुःसूत्रेणाधिकरणेन समस्तः शेषत्वविषयः प्रतिपादितः । अत्र चोद्यते । यत्तावद् ‘द्रव्यगुणसंस्कारेषु’ इत्यत्र न तु यागफलपुरुषेषु शेषत्वमित्यभिधा540यान्ते541 पुरु षस्य शेषित्वनिराकरणं तदसंबद्धम् । यत्तु ‘प्रत्यक्षश्चास्य द्रव्यत्वात्कर्म प्रति गुणभावः, इति । तदपि व्याहतं पुनरुक्तं च । पूर्वमेवाभिहितत्वात् । न च यागफलाभ्यां शेषत्वनिराकरणवद्भ्यां सहास्या542तुल्यप्रवृत्तित्वादुच्चारणं युक्तम् । तस्मादसदेतत् । यदप्य धिकरणसमाप्तावुक्तम्—अथेदानीमत्र भगवान्वृत्तिकारः परिनिश्चिकायेति । तदपि प्रथममेव द्रव्यगुणसंस्काराणां निरपेक्षशेषत्वाभिधानात्कर्मफलपुरुषाणां च द्रव्यादीनि प्रति प्राधान्येऽवस्थिते सूत्रैरेव परस्परापेक्षशेषत्वप्रतिपादनादुक्तार्थमिति मन्दफलं दृश्यते । तेनैवं परिहर्तव्यम् । अस्याधिकरणस्य व्याख्यानद्वयं कृतम् । तत्र प्रथमं तावत्स्वमतेन ‘शेषः परार्थत्वात्’ इत्यभिहिते बादरिमतमुपकारलक्षणशेषत्वाभिप्रायेण द्रव्यगुणसंस्कारेष्वेव शेषत्वमित्येवं पूर्वपक्षीकृत्य जैमिनिमतमेव सिद्धान्तत्वेन वर्णितम् । तथा च पूर्वत्र दृष्टोपकारानुक्रमणमेव भाष्ये दृश्यते । तत्र च पुरुषस्य द्रव्य663 त्वात्प्रत्यक्षमेव क्रियानिर्वृत्तिहेतुत्वादिष्टमेव शेषत्वम् । यागफलयोस्तु न किंचित्प्रति प्रत्यक्षं साधनत्वमुपलभ्यत इत्यशेषत्वम् । यत्तु न यागफलपुरुषेष्विति त्रयाणामपि भाष्ये संकीर्तनं न तत्प्रकृतशेषपदानुषङ्गादेवं कल्पयितव्यं तेषां शेषत्वमिति । किं तर्हि, यत्सिद्धान्तवादिसंमतं तन्न भवतीत्येवं संबन्धः । सर्वत्र हि पूर्वपक्षवादिना सिद्धान्तवादिमतं प्रतिषेद्धव्यं न यत्किंचित् । शेषत्वमेव हि असौ तदभिप्रेतमेवेति प्रतिषेधति न स्वरूपमात्रेण । सिद्धान्तवादिनश्चैतन्मतं यदुत यागफलपुरुषाणां द्व्याकारत्वं किंचिदपेक्ष्य शेषत्वं किंचिदपेक्ष्य शेषित्वमिति तद्बादरिमतानुसारी भाष्यकारः प्रतिषेधति । न तु543 यागफलपुरुषेषु सिद्धान्तवादिसंमतं द्व्याकारत्वम् । यागफलयोरेकान्तेनैव शेषित्वात्पुरुषस्य चात्यन्तशेषत्वात् । सर्वथा य एवैक आकारः प्रतिषिद्धस्तेनेवै तद्व्याकारत्वनिराकरणं शक्यमिति त्रयाणामप्येतावता तुल्यधर्मत्वात्सह निर्देशः । ‘कर्माण्यपि जैमिनिः, इत्यादिभिरन्तर्णीतद्व्याकारमेव शेषत्वं प्रतिपादितम् । पारार्थ्यलक्षणशेषत्वाङ्गीकरणात् । नन्वेवं सति पुरुषस्य द्रव्यत्वात्पूर्वपक्षवादिनैवाभ्युपगम्य शेषत्वं, शेषित्वे निराकृते सिद्धान्तवादिना तदेव प्रतिपादनीयमिति न वक्तव्यं ‘पुरुषश्च कर्मार्थत्वात्’ इति । नैष दोषः । तेन हि यागफलयोरशेषत्वात्तस्य शेषित्वं निराकृतम् । ततश्च यावदेव सूत्र544द्वयेन यागफलयो शेषत्वं प्रतिपादितं तावदेव यागोप545सर्जनं फलं प्रति प्रधानत्वादुमौ प्रति केवलं शेषित्वमेव प्रसक्तमिति प्रलीने द्व्याकारेत्व पुनः शेषत्वप्रतिप्रसवार्थमुच्यते ‘पुरुषश्च कर्मार्थत्वात्’ इति । अथवा परेणोपकारद्वारेण शेषत्वमभ्युपगतं तदयुक्तं मन्यमानः फलयागयोरिवास्यापि पारार्थ्यकृतमेवेति प्रतिपादयिष्यन्नाह—‘पुरुषश्च कर्मार्थत्वात्’ न तदुपकरित्वादिति । वृत्तिकारमतेन सूत्रचतुष्टयमन्यथा व्याख्यास्यन्नाह—‘अथात्र भगवान्’ इति । नैवेदानीं बादरिमतं पूर्वपक्षः । किं तर्हि, ‘शेषः परार्थत्वात्’ इति सामान्येन लक्षणमुक्त्वा तस्यैव विषयप्रदर्शनद्वारेणोत्तरः प्रपञ्चः क्रियते । तत्र पूर्वव्याख्यायां द्रव्यगुणसंस्कारष्वेव शेषत्वाभित्येवमवधारणं पूर्वपक्षे कृतम् । इदानीं तु सिद्धान्तरूपेणैव बादरिमतमप्रतिषेधेनानुमतं कृत्वा लक्षणप्रपञ्चाभ्यां शेषत्वं वर्णयिष्यते । द्रव्यगुणसंस्कारेषु शेषत्वमेवेत्यवधारयति । अतश्च द्रव्यगुणसंस्काराः शेषत्वेन नियताः शेषित्वं न प्रतिपद्यन्ते शेषत्वं पुनरनियतत्वाद्यागफलपुरुषेष्वप्यस्त्वेवेति तत्प्रतिपादनार्थान्युत्तरसूत्राण्यवक664 ल्पन्ते । तस्मादापेक्षिकशेषशेषित्वमात्रमेवैभिः सूत्रैः प्रतिपाद्यते । तथा च भाष्ये दर्शितम् । ततश्च द्विप्रकार एष शेषविषयो नैयमिक आपेक्षिकश्चेत्युक्तं भवति । ननु च द्रव्यगुणसंस्काराणामपि स्वाङ्गानि प्रति प्रधानत्वाद्यागं च प्रति गुणभावादापेक्षिकमेव शेषशेषित्वम् । तथा हि ।
व्रीह्यादयो ह्यवघातादीन्प्रति प्रधानभूताः पुरोडाशनिर्वृत्तिं प्रति गुणभूताः । तथा गुणः संख्यादिः संख्येयं प्रति परिच्छेदाच्छेषः । येषां तु गुणानां निष्पाद्या स तान्प्रति शेषिणी । तथा संस्कारः संमार्गावघातादिरग्निव्रीह्यादेः शेषः स्वसाधनानामिध्मसंनहनोलूखलमुसलादीनां शेषी । तस्मान्नावधारणं सिध्यतीति । तदुच्यते—
द्रव्यगुणसंस्कारा हि फलवन्तं यागं प्रति नियोगतः शेषभूताः । सत्यपि स्वाङ्गानि प्रति शेषित्वे तं प्रति नास्तीत्यभिधीयते । अत एव भाष्यकारोऽपि ‘नियोगतो यजिं प्रति शेषभावः’ इत्याह । न ब्र546वीति नियतः शेषभाव इति । ‘आपेक्षिक इतरेषाम्’ इत्यत्रापि यजिं प्रतीत्यनुवर्तते । तथा ह्येकैकस्य द्वौ द्वौ प्रति गुणत्वं प्राधान्यं च दृश्यते । यागस्य तावद्द्रव्यात्मकं निर्वर्तकं पुरुषं प्रति प्राधान्यं फलं प्रति गुणता । यश्च फलं प्रति गुणः स शक्यते फलस्य स्वामिनं पुरुषमपि प्रति सुतरां गुण इति वक्तुम् । तथा यस्य पुरुषं प्रति प्राधान्यं तस्य तदुपसर्जनं फलं प्रति सुतरां तदित्यपि शक्यनिरूपणम् । एवं फलस्य यागं प्रति प्राधान्यात्तत्साधनं पुरुषमपि प्रति प्राधान्यं, पुरुषं प्रति गुणत्वात्तदनुष्ठेये यागेऽपि गुणत्वम् । तथा पुरुषस्य फलं प्रति प्राधान्यात्तत्साधनं यागमपि प्रति प्रधानत्वम् । यागं च प्रति गुणभावात्तत्साध्ये फलेऽपि गुणत्वम् । नत्वेवं द्रव्यगुणसंस्कारेष्विति विशेषः । यत्त्विदं पारम्पर्येणापि शेषत्वं प्राधान्यं चोक्तम्, इदमर्थलक्षणं वस्तुमात्ररूपेणेत्यवगन्तव्यम् । न व्यवहारार्थम् । मा भूदङ्गत्वांशेन विकृतौ फलपुरुषयोरपि अतिदेशात्सिद्धान्तविरोधः । तस्मादेतावत्प्रकार एव वक्ष्यमाणप्रपञ्चशेषत्वविषयसंक्षेप इति सिद्धम् ॥ ६ ॥
तेषामर्थाधिकरणम्
665 उक्तः सहेतुः सविषयश्च शेषः । इदानीं ‘कथं च विनियुज्यन्ते’ इत्ययमंशो विचार्यते । तत्र त्रिष्वधिकरणेषु क्रमेण संस्कारद्रव्यगुणानां विनियोगः कथ्यते । तत्रापि किल प्रथमे लिङ्गेन द्वितीये वाक्येन तृतीये श्रुत्या विनियोग इति केचित् । तत्त्वाचार्या नेच्छन्ति । यद्यप्यत्र विचित्रप्रमाणव्यापारपरामर्शस्तथाऽपि श्रुतिविनियोग एवात्र पादे, लिङ्गादिविनियोगस्तु द्वितीयपादात्प्रभृति भविष्यतीत्युक्तम् । औषध धर्मा इत्याद्यप्येतदधिकरणसाध्यमपि सिद्धान्ताभिप्रायेणोक्तम् । ननु संयुक्ता एवैत इति सिद्धान्तवादी श्रुतिबलेन संशयमाक्षिपति । परः पुनः पदान्तरसंबन्धकृतं व्रीह्यादिसंबन्धं शुद्धावघातविधिना बाध्यमानं मन्यमान आह—अवघातादयस्तु पदार्था विधीयन्ते श्रुत्येति । तच्चैतदयुक्तमिव । कुतः ।
न हि व्रीह्यादिभिः संबध्यमाना अवघातादयो नावघातादयो भवन्ति । यदि ह्येवं भवेयुस्ततः श्रुतिविरुद्धत्वाद्वाक्यं बाध्येत । अत्र पुनः केवलानामेवावघातादीनामनुष्ठातुमशक्यत्वादवश्यमेव संब548न्ध्यन्तरे कार्याः । न हि भवत्पक्षेऽपि अवघातादयः केवलाः क्रियन्ते । तत्र प्रकरणलभ्यद्रव्यमात्रसंबन्धः क्लेशान्तरेण कल्प्येत । अथापि किंचिदध्याहृत्य संबन्धः क्रियते तथाऽपि क्लेशः । अथाऽऽरादुपकारकत्वेन प्रधानसंबन्ध इष्यते तत्रापि विप्रकर्षः । अथ तु नैव केनचित्संबध्यते । ततो विध्यानर्थक्यप्रसङ्गः । तस्मादसदेतत् । तेनैवं व्याख्येयम् ।
नैवात्रायं पूर्वपक्षहेतुरवघातादयः पदार्थाः स्वतन्त्राः श्रुत्या विधीयन्ते, वाक्येन व्रीह्यादिभिः संबध्यन्ते । तच्च श्रुत्या बाध्यते । तस्मात्केवलविधानात्किं सर्वार्थाः किं वा दृष्टोपकारसामर्थ्येन यथासंयोगमेव मवन्तीति । किं तर्हि—
यदि ह्येषां यथाश्रुतव्रीह्याद्यर्थत्वमध्यवसीयते । ततः संयुक्तात्वात्सर्वे सर्वत्र न प्राप्नुयुः । एते पुनर्नव549माद्याधिकरणन्यायेन श्रौतं व्रीहित्वमुल्लङ्घ्यापूर्वसाधनत्वेन संबध्यन्ते । तच्च प्रकरणापेक्षापूर्वसाधनांशलक्षणागम्यत्वाद्वाक्यगम्यमिति मन्यमान आह— वाक्येनैषां व्रीह्यादिसंबन्धो न श्रुत्या । यच्च तदपूर्वसाधनांशलक्षणात्मकं वाक्यं तत्प्रकरणाविशेषाद्यथौषधे तथाऽऽज्यसांनाय्ययोरप्यविशिष्टम् । एवमुत्पवनविलापनशाखाहरणादीनां लक्षणयैवाश्रुतहविरन्तरसंबन्धो दर्शयितव्यः । तत्र किमेकं दर्शपूर्णमासापूर्वं धर्माणां प्रयोजकमुतानेकम् । यदाऽप्यनेकं तदाऽपि किमपूर्वमात्रमुत किंचिदेवेति । यद्येकमपूर्वं सर्वाणि वा सर्वेषां प्रयोजकानि ततः संकरो धर्माणाम् । अथ त्वनेकमपूर्वं किंचिदेव प्रयोजकं ततः प्रत्येकं व्यवस्थेति । तत्र सिद्धान्तेनैव तावदुपक्रमते ‘तेषामर्थेन संबन्धः’ । यद्यपि तावत्के550वलपदवाच्याः श्रूयेरंस्तथाऽपि क्व क्रियेरन्नित्यपेक्षिते यत्र क्रियमाणाः प्रयोजनवन्तो भवन्ति तत्र कर्तव्याः । न चैते संकीर्यमाणाः सर्वत्र प्रयोजनवन्तो दृश्यन्ते । सत्यपि चापूर्वप्रयुक्तत्वे दृष्टप्रयोजनद्वार एव संबन्धोऽवकल्पते । अथवा शास्त्रेणैव यत्र क्रियमाणाः प्रयोजनवन्तो विज्ञायन्ते यद551पूर्वसाधनं व्रीह्यादि667 शब्दैः स्वाभिधेयजात्येकार्थसमवायि लक्षितं तदर्थत्वेनावघातादयो विज्ञायमानाः संबन्धाभावादपूर्वान्तरसाधनेऽलक्षिते न भविष्यन्ति । ननु श्रूयन्ते सर्वे सर्वत्रेति— अपूर्वैकत्वाद्भेदे चासति लक्षणानियमापरिज्ञानात्प्रयोजनस्य च विध्युत्तरकाललभ्यत्वान्न तद्दर्शनद्वारेण व्यवस्थेति मत्वा परिचोदना । एतदेव न जानीम इति । नावश्यमेकमेवापूर्वं प्रयोजकमपूर्वमात्रं वेत्यभिप्रायः । सत्यपि ह्यविशेषश्रवणे ‘अर्थाद्वा552 कल्पनैकदेशत्वात्’ इत्यविरुद्धैव व्यवस्था । अथवैकापूर्वापूर्वमात्रप्रयुक्तत्वपक्षयोः संकरो नानपूर्वप्रयुक्तव्रीह्यादिजातिलक्षितसाधनसंबन्धे तु व्यवस्था । न चैतयोरन्यतरस्यावधारणम् । अतो न जानीमः सर्वे सर्वत्र श्रूयन्ते नेति ॥ ७ ॥
परः स्वाभिप्रायं विवृणोति । फलस्य हि सूक्ष्मसामर्थ्यरूपावस्थाऽङ्कुरस्थानीया पूर्वानुत्पन्नोत्पेतरपूर्वमित्युक्तं प्राक्553 । तच्च फलैकत्वादेकमेवाध्यवसीयते । तत्साधनत्वं चाऽऽज्यौषधसांनाय्यानां सर्वेषामविशिष्टम् । अतस्तदुद्देशेन विहितानां सर्वधर्मत्वं विज्ञायते । यद्यपि चाऽऽग्नेयादीनामवान्तरापूर्वाणि प्रात्यात्मिकानि भवेयुः । तथाऽपि तेषां निष्फलत्वाद्यागादिस्वरूपवदेव प्रयोजकशक्तिर्नास्तीति परमापूर्वमेव प्रयोजकमव धार्यते । भिन्नापूर्वप्रयुक्तत्वेऽपि प्रकरणगतापूर्वसाधनमात्रोद्देशेन विधीयमानानां शेषाणां विशेषेणानुपादानादुपादाने च वाक्यभेदप्रसङ्गात्सार्वत्रिकविधानमस्तीति सर्वधर्मत्वे हेतुः । तत्सिद्ध्यर्थं च ‘संयोगतोऽविशेषात्प्रकरणाविशेषाच्च’ इत्युक्तम् । यदेकस्यापूर्वसाधनत्वं धर्मसंबन्धकारणं तदितरत्राप्यविशिष्टम् । यत्तु विशिष्टं व्रीहित्वादि तल्लक्षणा668 मात्रौपयिकत्वादनियामकम् । यदपि कारकत्वं लक्ष्यते तदपि सर्वेषां प्रदेयत्वाद विशिष्टम् । तस्मादपूर्वासंबद्धमप्रदेयमप्रकृतापूर्वसाधनं च वर्जयित्वा सर्वे सर्वत्र कर्तव्याः । यो ह्यर्थात्प्राप्नोतीति—अचोदितः सन्सामर्थ्येन लौकिप्रयोजनेन वा यः प्राप्नोति स तद्वशेन व्यवतिष्ठते । अथवा यत्र पूर्वतरप्राप्तप्रयोजनद्वारेण धर्माः प्राप्नुवन्ति न च धर्मेभ्य एव प्रयोजनकल्पना यथा विकृतिषु, तत्र यावदर्थत्वं भवेत् । अत्र पुनः प्रकृतावुपदेशेन, प्राक्प्रयोजनेभ्यः स्वरूपमात्रेण कल्पयिष्यमाणप्रयोजनाः सन्तो विधीयन्ते । तेन नैषा वचनव्यक्तिः, यत्र प्रयोजनं तत्रैते । किं तर्हि । यत्रैते तत्र दृष्टमदृष्टं वा प्रयोजनमिति । तस्मात्सर्वधर्माः ॥ ८ ॥
दृष्टार्थलोपाच्छास्त्रगम्यार्थलोपाद्वेति निगदव्याख्यातं भाष्यम् ॥ ९ ॥
यदुक्तमदृष्टकल्पनान्नैवेतरत्राप्यर्थलोप इति । तत्राभिधीयते ।
आम्नानान्यथानुपपत्त्या ह्यदृष्टं कल्प्यते । तच्चाऽऽम्नानमन्यथैव दृष्टार्थतयोपपन्नमित्यर्थापत्तेरसंभवः । तद्दर्शयति । अवघातादीनामनुष्ठा554नसहितं फलं व्रीहिषु दृश्यते । अन्यत्र तु चेष्टामात्रम् । न च सफलचेष्टानुष्ठानसंभवे विफलानुष्ठाने विधिः पुरुषं नि669 योक्तुं शक्नोति । न च तेनानियुज्यमानः फलकल्पनानिमित्तं लभते । तदितरेतराश्रयं भवति ॥ फलाद्विधिर्विधेश्च फलमित्यभ्युपगमात् ।
तथोत्पवनादीनामाज्यसांनाय्ययोरिति योजनीयम् । तथा हि ।
अवघातादिनिर्वर्त्यो हि तुषकणविप्रमोचनादिरर्थः पुरोडाशसिद्धिं प्रति षड्भिरपि व्रीहिपुरोडाशक्रत्वपूर्वाध्वर्युयजमानैरपेक्षितः । न हि तस्मादृते व्रीहिभिर्यष्टुं पुरोडाशो वा निर्वर्तयितुं शक्येतेति । तद्दर्शयति—प्रयोजनं च तेनेति ।
ततश्चावघात आज्यसांनाय्ययोरपि स्यात् । सति तु दृष्टे काल्पनिकांसभवाद्यथार्थमेव व्यवस्थासिद्धिः । तथा हि ।
अथवा तत एते सर्वत्र विहिता भवेयुः, यदि परमापूर्वप्रयुक्ताः सर्वापूर्वप्रयुक्ता वा स्युः । तदा चैवं ते भवेयुः । यदि भिन्नानि व्रीह्यादिकर्मापू555र्वाणि न स्युः । यदि चैषां556 प्रयोजकशक्तिर्न स्यात् । तानि तु प्रयोजकशक्तिमन्ति प्रतिकर्म भिन्नानि विद्यन्ते । तत्र भेदस्तावदपू557र्वाधिकरणे साधितः । यद्यपि चैषां साक्षादफलत्वं तथाऽपि स्वरूपसिद्ध्यन्थथानुपपत्त्यैव प्रयोजकत्वं भविष्यति । न च निष्फलानि । तन्नाम निष्फलत्वादप्रयोजकं भवति यदत्यन्तनिष्फलम् । तन्निरपेक्ष वा द्रव्ययागादि स्वरूपवल्लब्धात्मकम् । आग्नेयाद्यवान्तरापूर्वाणि तु परमापूर्वसिद्ध्यङ्गत्वात्पारम्पर्येण फलवन्ति । न 670 च धर्मेभ्यः प्राक् सिद्धानि निर्ज्ञातो558पायपरिमाणानि वा । तस्मादात्मलाभार्थमेव प्रयुज्येन्ते यच्च येषु धर्मेषु विधीयमानेष्वपूर्वमुपतिष्ठते तत्तेषां प्रयोजकं भवति न यावत्किंचित् । व्रीह्यादिशद्बैश्च स्वकर्मसाध्यमेव केवलमपूर्वमुपस्थाप्यते नान्यत् । असंबन्धात् । ततश्चावघातादयस्तदेवैकमपूर्वं प्राप्यार्थवन्तो जाता न परमापूर्वं कर्मान्तरापूर्वं वाऽपेक्षन्ते । तद्दर्शयति । यस्मादवहननादि चेष्टया सह श्रुतेषु व्रीह्यादिष्वेव स्वापूर्वसाधनद्वारेण विधेः फलं दृश्यते तस्मान्नान्यत्र संक्रान्तिः । यदि तु तत्रापूर्वं न स्यात्ततोऽर्थाददृष्टं कल्प्येत । व्रीह्यादिशद्बैरनुपस्थापितोऽप्युपकारः प्रयोजकः कल्प्येत । अस्ति तु तत् । सूत्रमप्येवम् । विप्रयोगे—तण्डुलादिनिष्पाद्यस्यापूर्वस्य । प्रयोजनाभावात्सांनाय्यादिसंबन्धोऽपि व्यवहितपरमापूर्वद्वारेण कर्मान्तरापूर्वद्वारेण वा शब्दार्थः स्यात् । प्रत्यासन्नापूर्वसद्भावे तु न शब्दस्तावन्तं खेदं सहते । तस्मादप्रमाणकः सांनाय्यादिसंबन्धः । एवं तर्ह्याग्नेयाद्यपूर्वसंबन्धाविशेषात्स्रुगादीनामवघातादयः प्राप्नुवन्ति । नैष दोषः । कारकान्तरत्वेन तेषामलक्षितत्वात् । यथैव हि प्रदेयत्वाविशेषेऽपि सांनाय्यादेरपूर्वान्तरसाधनत्वादप्रतीतिरेवमेकापूर्वसंबन्धेऽपि व्रीहित्वैकार्थसमवेतप्रदेयरूपकारकत्वाभावात्स्रुगादीनामग्रहणम् । यत्तु तस्मिन्नेवापूर्वे समानकारकत्वेनोपकरिष्यति तस्य भविष्यन्त्येव धर्माः । यथा य559वानाम् । सर्वं चैतन्नवमे विस्तरेण वक्ष्यामः ॥ १० ॥
द्रव्यविषय उद्देश्यतावच्छेदकनिरूपणाधिकरणम्
671 अवघातादिवदेव द्रव्याणामपि यथासंयोगं विनियोगे सिद्धे किमर्थः पुनरारम्भः । उच्यते । एवं तावत्तत्र दृष्टप्रयोजनवशेन यथासंयोगं विनियोगं पूर्वपक्षवादी मन्यते । स चात्रापि विना दृष्टेन प्रयोजनेन नैवाऽऽश्रयितव्यः । सति हि दृष्टार्थत्वेनान्यत्राप्रसङ्गे न कश्चिदपि यथासंयोगं व्यवस्थाहेतुरस्ति । यथा च तस्य व्रीह्यादिसंबन्धाद्भि560न्नापूर्वप्रयुक्तत्वं नैवं वेद्युद्धननादिष्वेकं किंचिदपूर्वं प्रयोजकम् । एक एव च तत्र संयोगः561 । इह तु द्वौ संयोगौ ‘एतानि वै दश यज्ञायुधानि’ इत्येकः ‘स्फ्येनोद्धन्ति’ इत्येवमादिरपरः । तयोश्चैको विधिरपरोऽनुवादः । तद्यदि पूर्वो विधिस्ततः साक्षाद्यागसंबन्धे च562तुर्थाधिकरणेन व्यावर्तिते सप्तदशारत्नित्ववदानर्थक्यात्तदङ्गेष्वेवावतरन्त्यङ्गत्वाविशेषाद्यथासामर्थ्यं सर्वार्थानीति विज्ञायन्ते । ततश्चोद्धननादिसंयोगानामवयुत्यानुवादत्वम् । अथ पुनरुद्धननादिसंयुक्ता एव विधय इतरोऽनुवादस्ततः पूर्वाधिकरणन्यायेनैव यथासंयोगं व्यवस्थेति । किं प्राप्तम् । अपूर्वभेदसंबन्धाभावाद्दृष्टार्थत्वाविशेषाच्च यथासामर्थ्यं विनियोगः । एवं यज्ञायुधसंयुक्ता विधयो भूत्वाऽर्थवन्तो भविष्यन्ति । ब563हुवचनं च विधेया564र्थशब्दबहुत्वाभिप्रायम् । इतरथा त्वेकवाक्यत्वादेक एव विधिः । तस्माद्यथासामर्थ्यं विनियोग इति प्राप्तेऽभिधीयते ।
स्फ्यादेरुत्पत्तिसंबन्धः कार्यैरुद्धननादिभिः ।
672 तत्र यज्ञायुधानीति प्राप्तमेवानुकीर्त्यते ॥
‘एतानि वै दश यज्ञायुधानि’ इति वैशब्दसंयोगादस्यानुवादसारूप्यम् । न चात्र भावनावचनो विधायकोऽस्ति यो विनियुञ्जीत विदध्याद्वेति । बहुतराणि च वाक्यानि त्वत्पक्षेऽनर्थकानि भवेयुः । न ह्येषामनुवादत्वे किंचित्प्रयोजनमस्ति । साक्षाच्चैतानि स्वाभिधानैरुद्धननादिष्वेव विनियुज्यन्ते । परोक्षवृत्त्या यज्ञायुधवाक्ये । यज्ञशब्दस्याङ्गलक्षणार्थत्वादायुधशब्दस्य च युद्धसाधनवचनस्य क्रियान्तरसाधनेष्वौपचारिकत्वात् । न चात्र सप्तदशारत्निन्यायोऽवकल्पते । न ह्यत्र वाजपेयस्येतिवत्संबन्धमात्राभिधायिनी यज्ञशब्दात्परा षष्ठी दृश्यते । सत्यपि चाऽऽनर्थक्यात्तदङ्गावतरणे सामान्यशास्त्राणि विशेषशास्त्रैरुद्धननादिसंयुक्तैरुपसंह्रियमाणानि न कर्मान्तरैः संबध्येरन् । तस्मादुद्धननादिवाक्यप्रापितानां सतां यादृशं वयं यज्ञायुधत्वं पश्यामस्तादृशम् ‘एतानि वै दश’ इत्यनेनानूद्यते । यत्त्वपूर्वभेदः प्रयोजको नास्तीति । तत्र ब्रूमः । कपालादीनां तावदस्त्येव पुरोडाशाद्यपूर्वभेदः । इतरेषामप्युद्धननादिद्वारत्वादन्यत्र तत्कृतोपकाराभावादसंकरः । तद्यथाऽवघातादयः समानापूर्वनिबन्धनेष्वपि स्रुगादिषु कारकान्तरत्वान्न क्रियन्ते । तस्मादेतेषामपि यथासंयोगमेव विनियोग इति सिद्धम् ॥ ११ ॥
अरुणाधिकरणम्
673 अरुणाशब्दो गुणवचनः, पिङ्गाक्ष्येकहायनीशब्दौ द्वावपि सामानाधिकरण्यादेकद्रव्यवचनौ । तत्र गुणे संदेहः । किमेकवाक्यगतेनैव द्रव्येण सह संबध्यत उत प्रकृतेन द्रव्यमात्रेणेति । ननु च पिङ्गाक्ष्येकहायनीशब्दयोरपि गुणवचनत्वान्नैवात्र वाक्ये द्रव्यमस्ति । कथं गुणवचनत्वमिति चेत् । उच्यते ।
गोमानित्येवमादिषु हि गोषु प्रातिपदिंकेनामिहितासु तद्वत्यर्थे मतुपाऽभिधातव्येऽवश्यं तावत्संबन्धः पूर्वतरमभिधातव्यः । कुतः ।
विशेषणं तावत्सर्वत्र पूर्वतरमभिधीयत इति स्थि565तम् । इह च संबन्धो विशेषणमिष्यते न गोमात्रम् । असंबद्धेषु प्रत्ययानुत्पादात् । यदि गोमात्रं विशेषणं भवेत्ततस्तासु प्रातिपदिकेनाभिहितासु विशेष्यं प्रत्ययोऽभिदध्यात् । संबन्धे पुनर्विशेषणे नियोग566तः सोऽभिधातव्यः केनचित् । न चास्य प्रातिपदिकमभिधायकम् । आकृतिमात्राभिधायित्वात् । न च प्रातिपदिकार्थो ग567मकः । विनाऽपि संबन्धेनोपपद्यमानत्वात् । केवलगोशब्दोच्चारणेऽपि चाप्रतीतेः । गोमत्पदोच्चारणेऽपि प्रत्ययवेलायामेव संबन्धबुद्धिः । अतश्च ‘तदागमे हि तद्दृश्यते’ इत्यपि प्रत्ययार्थत्वम् । यच्च विशेष्ये वर्तते तेन तत्प्रत्यासन्नं विशेषणमुपादातव्यम् । न च प्रातिपदिकं विशेष्ये वर्तते ततस्तद्विशेषणभूतं संबन्धमुपाददीत । प्रत्ययस्तु तत्र वर्तत इत्युपादत्ते । स चेदुपात्तस्तेनैव संबन्धिप्रत्ययसिद्धेरभिधानशक्तिप्रतिबन्धाद्विशेष्यानभिधानम् । न च विशेष्यप्रत्ययात्संबन्धप्रत्ययो भवति । प्राक्संबन्धाद्विशेष्यत्वाभावात्सिद्धे च विशेष्यत्वेन संबन्धे न पश्चात्किंचित्प्रयोजनमस्तीत्यप्रतीतिरेवास्य प्राप्नोति । तस्मात्प्रथमतरप्रत्याय्यत्वात्प्रत्ययार्थः संबन्धः । इतश्च प्रत्ययार्थः संबन्धः ।
674 यथैव शाबलेयस्य गोत्वं विशेषणं यथा च विशेषणभूता जातिर्भाक्प्रत्ययेन निष्कृष्टाऽभिधीयत इति गोपदस्य सैव वाच्यत्वेनेष्टा । तथा देवदत्तस्य गोमत्त्वमित्युक्ते गवि प्रतिपत्त्यभावात्संबन्धनिष्कर्षप्रतीतेश्च स एव भावप्रत्ययार्थोऽध्यवसीयते । यश्च भावप्रत्ययार्थः स प्रातिपदिकस्य विशेष्ये वर्तमानस्य निमित्तम् । यच्च निमित्तं तद्विशेषणत्वान्मुख्यमभिधेयं, लाक्षणिकं विशेष्यम् । यदि च मतुपा संबन्धोऽभिहितस्ततः प्रकृतिप्रत्ययौ प्रत्ययार्थं सह568 ब्रूत इति गोमत्प्रातिपदिकादुत्पन्नो भावप्रत्ययः संबन्धमभिधातुमर्हति नान्यथा । तस्मादपि संबन्धोऽर्थः । एतेन सर्वे यौगिकाः कृत्तद्धितसमासेषु व्याख्याताः । सर्वत्र हि भावप्रत्ययः संबन्धमभिधत्ते । राजपुरुषत्वमौपगवत्वं पाचकत्वमिति । अत एवैते यौगिकाः, यतस्तेन निमित्तेन वर्तन्ते ।तस्मान्मत्वर्थविषयत्वाद्बहुव्रीहेरेकहायन्यादिशब्दैः संबन्धोऽभिधीयते । किं च ।
एकं हायनमस्या इति षष्ठ्यन्तेनान्यपदार्थः प्रदर्श्यते । षष्ठ्यर्थस्य च प्रत्ययार्थत्वादिह प्राधान्यम् । तद्रूपदर्शना569र्थमेव सर्वनामप्रयोगः । केवलाया विभक्तेरप्रयोगात्सर्वनामार्थप्रतीत्यभावाच्च । षष्ठ्याश्च स्वस्वामिसंबन्धविकारावयवादिसंबन्धो वाच्य इत्येतत्प्रसिद्धम् । अतोऽपि संबन्धाभिधानं बहुव्रीहिणा ।
व्यक्तिधर्मा ह्येते, पिङ्गे अक्षिणी अस्याः, एकं हायनमस्याः, चित्रा गावोऽस्येत्येवमादयः । तासां च व्यक्तीनामनन्तत्वेन संबन्धानुपलब्धेर्व्यभिचाराच्चावाचकः शब्द इत्युक्तम् । न ह्यद्य जातायां पिङ्गाक्ष्यां प्रथमः प्रयोगो भवेत् । अतोऽवश्यं सामान्यं किंचिद्वाच्यमाश्रयितव्यम् । न च तदिह संबन्धादन्यदुपपद्यते । किं च ।
तस्मान्न द्रव्यशब्दः कश्चिदत्र विद्यत इत्यनुदाहरणत्वम् । न चान्यदुदाहरणं संभवति । साक्षाद्द्रव्यवचनशब्दाभावात् । सर्वत्र हि रूढिशब्दानां जातिवचनत्वं यौगिकानां च संबन्धाभिधायित्वम् । यस्त्वेकान्तेन द्वव्यवचनः स्याड्डित्थडवित्थादिशब्दः स नैव 675 वेदे प्र570युज्यते । तस्माज्जातिगुणयोर्गुणयोरेव बा नियमः स्यादिति सिद्धान्तोक्तावपि योजयितव्यम् । अथवाऽधिकरणमेव निर्विषयत्वान्नाऽऽरब्धव्यमिति । उच्यते ।
यद्येकहायन्यादिभिः शब्दैः संबन्धोऽभिधीयेत ततो नोदाहियेरन् । न त्वेतैः संबन्धोऽ भिधीयते । कथम् । अतिगौरवात् । इह हि संबन्धमात्रं वाऽभिधेयं कल्प्येत तद्विशेषो वा । यदि तावत्संबन्धमात्रं ततः सर्वयौगिकानामेकविषयोपनिपातात्पर्यायत्वप्रसङ्गः । अथ संबन्धविशेषस्ततस्तस्य स्व571तो विशेषाभावादवश्यं संबन्धिकृत एव भेदोऽभ्युपगन्तव्यः । संबन्ध्यपि चानभिधीयमानो न शक्नोत्यभिधीयमानं संबन्धं व्यवच्छेत्तुमित्यवश्यं सोऽप्यभिधातव्यः । न चैकस्मिन्संबन्धिनि संबन्धोऽवस्थितः । न च तन्मात्रेणान्यस्माद्व्यवच्छिन्नः प्रतीयत इत्युभावप्यभिधातव्यौ । तत्र गोमानित्येकः संबन्धी गोशब्देनाभिधीयते । द्वितीयस्य न कश्चिदभिधाता दृश्यते । तेन मतुपा विशिष्टं संबन्धमभिदधता तद्वन्तं सन्तं संबन्धिनमेकमनुक्त्वाऽभि572धातुमशक्नुवता नियोगतः सोऽप्यभिधातव्यः । ततश्च तमभिधाय संबन्धाभिधायामतिगौरवं स्यात् । अपि च ।
यदा च पूर्वतराभिहितसंबन्धिप्रतीत्यैव संबन्धोऽप्याक्षिप्तस्तदा नैव प्रत्ययेनापि सोऽभिधीयत इति शक्यं वक्तुम् । तस्मादर्थाक्षिप्तेनैव संबन्धेन भवितव्यम् । यत्त्वप्रतीते संबन्धे विशेष्यं न प्रतीयत इति । तत्र ब्रूमः ।
देवदत्तो हि गोभिरवच्छिन्नो विवक्षितः । ताश्च प्रातिपदिकेनोपात्ताः सन्त्येव । यत्तु नासंबद्धाभिरवच्छिद्यत इति । सत्यं नावच्छिद्यते । तेनै573व ताभिः संब574न्धाक्षेपोऽर्था575676 ल्लभ्यते सर्वथा तावद्गोमच्छब्देन गोविशिष्टोऽयमित्येतदभिहिते कथमनवस्थितास्ता गावस्तं विशिंषन्तीति तासामेवैष व्यापारो न शब्दस्य । तथा हि ।
न हि येन विनाऽर्थात्मलाभो नास्ति तत्तदभिधातव्यम् । किं तर्हि । यावता विना विशिष्टबुद्धिर्नोत्पद्यते—गोभिश्चाप्रतीताभिस्तद्वति बुद्धिर्नोत्पद्यते न संबन्धेनापि । किं च ।
सर्वत्र हि वक्तृक्रमविपर्ययेण श्रोतुः क्रमो भवति । स हि प्रथमं तावत्किंचिद्विशेष्यं विवक्षति ततस्तस्य केनचिद्विशेषणेन विनाऽभिधातुमशक्तेर्विशेषणविवक्षां करोति ततः शब्दोच्चारणम् । श्रोता पुनः प्रथमं तावच्छद्बं शृणोति ततो विशेषणं ततो विशेष्यं ततस्तदुपपत्त्यर्थानि वस्त्वन्तराणि प्रपद्यते । तेन यद्यपि वक्त्रा पूर्वं संबन्ध आलोचितस्तथाऽपि श्रोता पश्चादेवैनं ग्रहीष्यति । न त्वत्र वक्त्राऽप्यसौ पूर्वंतरमवधारिंतः । संबन्धिनोरगृहीतयोर्ग्रहीतुमशक्यत्वादतस्तदीयेनापि क्रमेणोत्तरकालमेव प्रतीयमानः संबन्धो नार्थाक्षिप्तत्वं परित्यजति । वस्तुधर्मश्चैष यदसंबद्धा गावो न विशिंषन्ति स तासां व्यापारो न शब्दस्य । तेन यं यथावस्थितं शक्नुवन्ति विशेष्टुं स तथाऽवस्थास्यते । संबन्ध576श्चासौ विशेष्यत्वं प्रतिपद्यत इत्यर्थात्संबध्यते ।
तस्मादप्यनभिधेयः संबन्धः । किं च ।
षष्ठीसप्तमीभ्यां हि यादृक् संबन्धः स्वप्रधानोऽसत्त्वभूतश्च प्रत्याय्यते न तादृक् मत्वर्थीयेन । न च कृदभिहितो भावो द्रव्यवद्भवतीत्येवमिव रूपान्तरोपादानं केचिदमिदधति । तत्र किमसत्त्वभूतसंबन्धाभिधानमाश्रीयतामुत संबन्ध्येवार्थलभ्यतद्विशिष्टोऽभिधीयतामिति । तदुच्यते ।
677 यत्तु सिद्धे विशेष्ये न पश्चात्संबन्धप्रत्ययेन कार्यमिति । सत्यं नास्ति । विनाऽपि तु तेन नान्तरीयकत्वात्प्रतीयत इति किं क्रियताम् । यच्च भावप्रत्ययेनाभिधानादस्य मत्वर्थत्वमिति । अत्रापि ब्रूमः ।
गोमतो भावो गोमत्त्वमिति हि—
तत्र यास्तावत्प्रातिपदिकार्थे विशेषणं गावस्तासां तद्वतः पुरुषादत्यन्तभेदाद्भावप्रत्ययेनाग्रहणम् । समवेतगुणग्राही हि भावप्रत्ययः । न चाऽन्योऽभिधीयमानस्तत्र गुणः संभवति, यो निमित्तभावाद्भाव इत्युच्येत । न च पुरुष एव तस्य भाव इत्येवं व्यपदेशभेदं लभते । तेन भावप्रत्ययः 577‘आनर्थक्यात्तदङ्गेषु’ इत्यर्थप्राप्तं संबन्धमवलम्बते । निमित्तत्वमपि च तस्य वस्तुलक्षणमस्तीत्यभिधेयनिमित्तासंभवे तदपि तावद्गृह्यतामित्येवमाश्रीयते । तस्मादकारणमेतद्यौगिकानां संबन्धाभिधानशक्तिकल्पनायाम् ।
यदप्येकं हायनमस्य इत्यन्यपदार्थे षष्ठ्यर्थप्राधान्यात्संबन्धे बहुव्रीहिरिति । तत्राभिधीयते ॥
यदि त्वन्यपदार्थः षठ्यन्त एव संबन्धी स्यात्ततो यथैव राज्ञः पुरुष इत्यत्र षष्ठ्यन्तत्वाद्राजा पुरुषविशेषणं भवति, प्रथमान्तत्वाच्च पुरुषः प्रधानरूपेण समासार्थो भवति । एवमेव चित्रग्वादिशब्दैर्देवदत्तादिविशिष्टा गाव एव प्रतीयेरन् । न चित्रगोविशिष्टो देवदत्तादिः । तस्माच्चित्राणां गवामयमितीदृशेऽर्थे बहुव्रीहिर्वर्तते । यद्यप्यन्यथा विग्रहस्तथाऽप्युत्तरकालमीदृगर्थदर्शनादेवमेव विग्रहोऽपि कर्तव्यः । ततश्च संबन्धविशिष्टाभिर्गोभिर्देवदत्तादिर्विशिष्ट इति समासार्थो विज्ञायते । यथैव च राज्ञः पुरुष इत्यत्र पष्ठ्यां 678 प्रयुज्यमानायां संबन्धः प्रधानभूतोऽभिधीयते, कृते च समासे निवृत्तायां विभक्तौ पूर्वोत्तरपदयोः प्रत्येकप्रयोगदृष्टार्थापरित्यागात्संबन्धाधिक्यस्य च सामीप्यावगतविशिष्टार्थप्रत्ययादेव सिद्धेर्न संबन्धपरः समासो भवति, एवमेव षष्ठ्यप्रयोगादेव बहुव्रीहावपि न संबन्धप्राधान्यम् । तच्च578 न पूर्वोत्तरपदार्थयोर्नाप्यन्यतरस्येत्यन्यपदार्थभूतद्रव्यप्राधान्याध्यवसानम् । स चान्यपदार्थः संबन्धी योग्यतावशेन जातिद्रव्यगुणक्रियाणामन्यतमः परिगृह्यते । तद्यथा ।
सर्वत्र च योग्यत्वात्समानाधिकरणपदान्तरोपनीतोऽन्यपदार्थविशेषो गम्यते । तदिहैकं हायनमस्या इति जातेरनादित्वान्न विशेषणं संभवतीति व्यक्तिराश्रीयते । ननु व्यक्तीनामानन्त्यव्यभिचाराभ्यामनभिधानमुक्तम् । नैष दोषः ॥
यत्र तावज्जात्यैवान्यपदार्थ उपलक्ष्यते तत्र तयैवैकया सकृद्गृहीतयोपलक्षिता व्यक्तयो देशादिभिन्ना अप्यभिधास्यन्त इति सुज्ञानः संबन्धः । न च तदुपलक्षिताभ्योऽन्यत्र प्रयोग इत्यव्यभिचारः । यत्र तु व्यक्तिभिरेव व्यक्त्यन्तराणि विशेष्यन्ते तत्रापि मूलोपलक्षणं जातिरेवाभ्युपगम्यते । सर्वथा दूरमपि विशेषणमालायामनुवर्तमानायां प्रथमोपलक्षणस्याभेदात्संबन्धदर्शनमुपपत्स्यते । सर्वप्रथमसर्वान्त्ययोश्च शब्दार्थत्वम् । आन्तरालिकानां तु लक्षणासिद्धज्ञानत्वादनभिधेयत्वम् । अतश्च पिङ्गत्वाक्षित्वाभ्यां स्वव्यक्तयो गुणावयवात्मिका लक्ष्यन्ते । ताभिरवयवि द्रव्यमुपलक्ष्यते । तच्च समासार्थो भवति । स पुनः किमभिधेयो लाक्षणिक इति । प्राधान्येन प्रतीतेः सामानाधिकरण्यात् 579‘अनेकमन्यपदार्थ’ इति च स्मरणाद्देवतातद्धितमत्वर्थीयादिभिरिवाभिधीयत इति केचित् । अपरे त्वाहुः । युक्तं देवतातद्धितादावनन्यप्रयोजनत्वाच्छब्दाधिक्याच्चान्यपदार्थाभिधानम् । न च तत्र प्रातिपदिकार्थेन सोऽर्थः शक्यो लक्षयितुम् । व्यभिचारात् । केवलाच्च प्रातिपदिकादप्रतीतेः । बहुव्रीहौ तु पूर्वोत्तरयोः पदयोर्विद्यमानस्वार्थत्वादन्यस्य चाभ्यधिकस्य शब्दावयवस्याभावात्पिङ्गत्वाक्षित्वाभ्यामेव च द्रव्यप्रत्ययसिद्धेर्न शक्यमभिधेयत्वं कल्पयितुमिति । न त्वेतद्व्यापित्वेन शक्यमाश्रयितुम् । कर्मधारये ह्येतद्व्यापित्वेन स्यात्सर्वथा लक्षणानिमित्तोपपत्तेः । इह तु चित्रगुरित्येवमादिषु चित्रगोशब्द679 योरत्यन्तव्यतिरिक्तार्थाभिधायित्वाद्देवदत्तादिशब्दैश्च न श्रुत्या लक्षणया वा सामानाधिकरण्यमवकल्पते । प्रागपि च देवदत्तादिशब्दादन्यपदार्थप्रतीतेर्न वाक्यार्थत्वकल्पना । न च केवलं समासवेलायां यौ पदार्थाववधारितौ तौ देवताद्यर्थसंबन्धिनौ, यतो वाक्यार्थो देवदत्तः स्यात् । तस्मादवश्यं प्रतीतेः स्मरणाच्चान्यपदार्थोऽस्य वाच्य इत्यभ्युपगन्तव्यम् । एवं च प्राधान्यमविरुद्धं भविष्यति । अतश्चैवमादिषु बहुव्रीहेरन्यपदार्थाभिधानशक्तिर्दृष्टेति यत्रापि कथंचिल्लक्षणा संभवति तत्रापि पूर्वकॢप्तशक्त्यनपायादभिधेयत्वमेवाध्यवसीयते । तस्मादुपपन्नं पिङ्गक्ष्यादीनां द्रव्यवचनत्वम् । यत्त्वेकहाथनीति वयोवचन इति । तदनुपपन्नम् । वयसो लक्षणयाऽवगतेः । उक्षादिशब्दानां हि वयोवचनत्वम् । एकहायन्यादिशब्दाः पुनः कालविशेषयुक्तद्रव्यवचनाः सन्तो वयो लक्षयन्तः प्रवर्तन्ते । न ह्येकं हायनमस्या इत्येवं वयो निर्दिश्यते । किं तर्हि । द्रव्यम् । तस्य ह्येकं हायनं जातस्य न वयसः । तस्मादुभाभ्यामप्येताभ्यामात्मैकदेशोपात्तगुणविशिष्टद्रव्यप्रत्यायनादुपपन्नोऽयं संशयः किमरुणिमा कृत्स्नप्रकरणगतक्रयाङ्गद्रव्यशेषत्वेन निविशते । अथवा समानवाक्यस्थाख्यातपदप्रत्यायितक्रय एवैकहायन्यामिति । अत्राप्युद्धननादिवदाक्षेपः । संयुक्तश्रवणादसार्वत्रिकत्वे प्राप्ते तं परिहरति । एष गुणः क्रयेणैकहायन्या वा समानवाक्योपादानात्संबध्येत । तत्र तावत्कारकविभक्तिनिर्देशादनाशङ्कनीयतरे सति द्रव्यसंबन्धे, क्रयसंबन्धः श्रुतिबलीयस्त्वाद्भवेत् । न चासावमूर्तत्वान्निष्क्रियस्य गुणस्योपपद्यते । यदि त्वगत्या पुनर्द्रव्ये संबन्ध आश्रीयते तत्राप्येकहायन्याम् ‘एेकश580ब्द्ये परार्थवत्’ इत्येवं क्रयारुणिमानौ प्रति वैरूप्यं स्यात् । भिन्नविभक्त्यर्थयोगश्चासन्नभ्युपगन्तव्यः । क्रियासंबन्धस्य कारकविभक्तिसाध्यत्वात्, गुणसंबधस्य च षष्ठ्यधीनत्वात् । अतश्च वाक्यगतेन संबन्धिना योग्यत्वाभावादसंबध्यमानः प्रकरणिना गृहीतः सर्वार्थं स्यादित्याशङ्क्यते । तेन तर्ह्ययमेवार्थो निश्चीयत इति क्रयसंबन्धो नाऽऽशङिकतव्यस्तदर्थमाह—न चाशकनीयमर्थं प्रमाणभूतः शब्दोऽभिधास्यतीति । यदेतत्समानवाक्योपादानं करणविभक्तिनिर्देशश्चैतेनापि क्रयैकहायनीविशेषणत्व680 बुद्धिर्दृढा जायते । तेन शब्दप्रामाण्याद्वस्तुविसंवादाच्च किं समञ्जसं किमसमञ्जसमिति जायते संदेहः । तन्न प्राथम्याच्छब्दानुरोधेन तावत्क्रियासंबन्धमुपन्यस्यति । वैदिकशब्दस्यातिमाराभावात् । तत्र विनियोगबलेनास्य वस्तुसामर्थ्यसद्भावान्वेषणे यतिष्यामहे । तद्यदि केनचित्प्रकारेणोपपत्स्यते ततः क्रय एव निवेशमङ्गीकरिष्यामः । अथ तु न कथंचनोपपत्स्यते ततो वाक्यभेदमभ्युपगम्य प्रकरणधर्ममेनमध्यवस्यामः । न चात्र वाक्यभेदः प्रत्ययाद्यन्यतमावृत्तिलक्षणः । कस्तर्हि, विभागरूपः । क्रयवाक्यस्य भेदं विभागलक्षणमभ्युपगम्येत्यर्थः ।
पृथक्भवद्वाक्यं भेदयतीति वाक्यभेदः । तादृशं चाभ्युपगम्य प्रकरणधर्माध्यवसानम् । एतदुक्तं भवति यावच्छ्रुतिवाक्ये व्याप्रियेते तावत्प्रकरणधर्मत्वं नास्ति । यदा तु वस्तुविसंवादाद्विहतशक्तिनी ते निर्व्यापारे भविष्यतस्तदा प्रकरणविनियोग इति । किं तावत्प्राप्तमतआह—
विहितस्तु581 सर्वधर्मः स्यात्संयोगतोऽविशेषात्प्रकरणाविशेषाच्चेति । श्रुतिवाक्योश्च तावदसामर्थ्येनौदासीन्यात् । कथं पुन582र्गुणस्याक्रियात्मकस्य सतः प्रकरणेन ग्रहणम् । उच्यते नैवात्र प्रकरणं ग्राह583कत्वेनेष्टम् । कथं तर्हि । अरुणयेत्यत्र पदे या तृतीया तया करणानि प्रकरणलभ्यज्योतिष्टोमापूर्वसाधनानि सोमप्रभृतीन्यनूद्यारुणप्रातिपदिकार्थो विधीयते ।
तस्मात्सर्वकरणान्यरुणीकर्तव्यानि ।
यदुच्यते गुणवचनत्वादरुणाशब्दः क्रीणातिना न संबध्यत इति तदाक्षिपन्नाह— ननु नैवायं गुणवचन इति । रूपरसादिशब्दाः केवलगुणवचनाः । तथा हि । यदा तेषां द्रव्येषु प्रयोगस्तदा न मत्वर्थीयेन विना प्रवर्तन्ते । ये पुनः शुक्लारुणादिशब्दास्ते कदाचिदेव षष्ठ्यन्तद्रव्यपदसंनिधानाद्भावप्रत्ययरहिता गुणेषु वर्तन्ते । पटस्य शुक्ल इति । नित्यं गुणोपसर्जनद्रव्यवचनाः । तथा चान्तरेणापि मत्वर्थीयं द्रव्यसामानाधिकरण्यं प्रतिपद्यन्ते । यथा शुक्लः पटोऽरुणो घट इति । ननु च मतुब्लो584पाम्नानादेषामेवं वृत्तिर्भविष्यति । नैतदेवम् ।
यथैव क्विबन्ताधुनादिषु प्रकृतिप्रत्यययोः प्रत्येकमुभयार्थाभिधानसामर्थ्यं सदेव लोपद्वारेणान्वाख्यायते तथैवात्र प्रातिपदिकमेव मत्वर्थमप्युपादातुं समर्थमिति मतुब्लोपाम्नानम् । लक्षणयेति चेत् । न । क्विबन्तादिवदेव मुख्यरूपप्रतीतेः । न च लक्षणासु शास्रेणान्वाख्यानं क्रियते । रूपादीनामपि च लक्षणोपपत्तेर्मतुपा विना वृत्तिः स्यात् । चन्दनस्य गन्ध इतिवच्चान्तरेण भावप्रत्ययं गोररुण इत्यपि प्रयोगः स्यात् । यथा च गन्धत्वमित्युक्ते चन्दनादिसंबन्धमपास्य तद्विशेषाणां गन्धत्वसंबन्धो भवति । एवमरुणत्वमित्यपि द्रव्यसंबन्धो न स्यात् । रूपादिशब्दवदेव चारुणादेरपि द्रव्यसामानाधि682 करण्यं न स्यात् । यो हि मन्यते लक्षणयाऽरुणादिषु सामानाधिकरण्यमिति तस्य रूपादिष्वपि तथैव स्यादरुणत्वादिषु वा । न हि ते किंचिदप्यधिकं वदन्ति । एतेनारुणत्वादिभ्यो मतुब्लोपप्रसक्तिर्व्याख्याता । किं च ।
ननु ‘गुणवचनानामाश्रयतो लिङ्गवचनानि भवन्ति’ इत्येवं सेत्स्यति । न । रूपादिशुक्लत्वादिष्वपि प्रसङ्गात् । अपि च । गुणवचन इति न गुणाभिधानमात्रेणोच्यते । किं तर्हि । गुणमुक्त्वा यो द्रव्ये वर्तते । न ह्यन्यथा वचनशब्दः प्रयुज्यते । वच585नमेव स्वरूपं शब्दस्येत्येवं गुणशब्देनैव व्यवहारसिद्धेः । अत एव रूपादींनामग्रहणम् । एतेन मतुब्लोपवाक्यं व्याख्यातम् । तस्माद्द्रव्यवचनोऽरुणाशब्दः, तस्य च कारकत्वाभिधानोपपत्तेरेकवाक्यत्वसिद्धिः । अतो न सर्वधर्मत्वमिति । तदेतदपेशलमिति । आकृ586त्यधिकरणोक्तन्यायविसंवादादशोभनमित्यभिप्रायम् । तथा हि ।
एकान्तद्रव्यसंबन्धिनि तावद्गुणे विशेषणत्वात्पूर्वतरमभिहिते तत्संबन्धादेव प्रतीयमानस्य द्रव्यस्य न शक्यं वाच्यत्वं कल्पयितुमित्युक्तम् ।
ननु गुणान्तरोत्पत्तिकालेऽन्यदेव द्रव्यमिति न व्यभिचरेत् ।
येषां587 तावत्कार्यद्रव्याण्येव घटादीनि पच्यन्ते यथा पैठरा588णां तन्मतेनाभेद एव । 683 पैलू589कानामपि तु परमाणुषु व्यभिचारः । यादृशं त्वस्माभिर्द्रव्यमभिहितं तादृशस्य सर्वत्र गुणमात्रमेव भिद्यते न स्वरूपम् । यानि च घटादीनि द्रव्यान्तरेण गैरिकादिना रक्तानि संयुक्तसमवेतगुणद्वारेणारुणादिशब्दैरभिधीयन्ते, तत्रैकस्यैव द्रव्यस्यानेकनीलपीतादिशब्दविषयत्वापत्तेः स्पष्टं व्यभिचारित्वम् । अतश्चाऽऽकृतिव्यवहाराद्दूरेण स्थूलतरोऽयमित्यपेशलता । मतुब्लोपश्चात्यन्तनिरूढलक्षणावशादन्वाख्यायते । यत्तु मुख्यप्रत्ययान्नैवमिति । तत्रोच्यते ।
अग्निर्माणवक इत्यत्राग्निमाणवकयोरत्यन्तभेदात्सादृश्येन शब्दः प्रवर्तमानः प्रत्ययवैलक्षण्यान्नाभिधातेति सर्वेण ज्ञायते । ये तु जातिगुणवचना भूत्वा द्रव्यं प्रत्याययन्ति तेषामभिधेयलक्ष्यमाणवस्तुनोर्विवेकाभावात्प्रतीतावप्यविवेकः स्थित एव । स कथंचिदन्वयव्यतिरेकाभ्यां निपुणैः परीक्षकैरपनीयत इति । लोकस्य तु मुख्यबुद्धिरेव । न च परीक्षकाणामनभिधेयत्वं वदतां लोकविरोधः । प्रतीतमात्रव्यवहारी हि लोकोऽभिधानलक्षणाविवेकमकुर्वन्नुदासीनावस्थः सामान्यविशेषबाधादिसिद्ध्यर्थं परीक्षकैर्विवेकं क्रियमाणं न नानुमन्यते । तस्मादविरोधः । कथं न रूपादिशब्देष्वपि तल्लक्षणया मतुब्लोपः कथं वा लक्षणावृत्तिः शास्त्रेणान्वाख्यायत इति । अत्राभिधीयते ।
इह केषुचिदर्थेष्वभिधानवदेव लक्षणाशक्तिरप्यनादिकालप्रवृत्तत्वेन निरूढाः, यथा शुक्लादिषु । केषुचित्तु क्रियते यथा रथाङ्गनामा चक्रवाक इति । केषुचित्पुनः कर्तुमपि न शक्यते, यथा शब्दस्पर्शरूपरसगन्धेषु । कथं पुनरिहाविशिष्टे संबन्धे सति न लक्षणेति । तत्रोत्तरमभिधानवदिति । यथा भवतः समाने गुणशब्दत्वे शुक्लादीनां गुणोपसर्जनद्रव्यवचनत्वं न रूपादीनामेवं मम लक्षणेति । तत्रैतत्स्यात् । अभिधानशक्तिः स्वाभाविकी । लक्षणा तु न संबन्धादधिकं निमित्तमपेक्षत इति । उच्यते । यदृच्छाशब्दत्व एतदेवं स्यात् । तव तु शुक्लादीनां समवेतगुणद्वारेण द्रव्ये वृत्तिः । 684 तत्त्वविशिष्टं रूपादिष्वपीति द्रव्ये वृत्तिप्रसङ्ग । तत्रावश्यं गुणगतः कश्चित्सामर्थ्यभेदोऽङ्गीकर्तव्यः । येन ते शब्दाः केचिदेव गुणिपरा भवन्ति, अन्ये गुणप्रधानाः । एवं लक्षणायामपि भविष्यति ॥
सत्यपि च फलानुमेये दृश्यमानार्थप्रत्यायनसामर्थ्ये, सत्यपि चास्माकमप्यदृष्टश590क्तिगौरवतुल्यत्वे, अभिधेयमात्रप्रत्ययेन निवृत्तव्यापारे शब्देऽर्थप्रत्यये चाकृतार्थे सति कल्प्यमानत्वादर्थशक्तिः प्रमाणवती न शब्दशक्तिः । तेनादृष्टकल्पनातुल्यत्वेन पक्षयोस्तुल्यबलत्वम् । अतश्च रूपादीनां लक्षणाशक्त्यभावान्मतुपा विना न द्रव्ये वृत्तिः । तथा च ‘रसा591दिभ्यश्च’ इति प्रत्ययान्तरनिवृत्यर्थं मतुम्नियमपुनः श्रुतिरमुमेवार्थं द्योतयति । न च रूपादिप्रत्ययेन न द्रव्यं प्रत्याय्यते गम्यते हि धूमादिनेवाग्निरविनाभावाद्द्रव्यम् । शब्दस्य त्वतत्परत्वाल्लक्षणानध्यवसानम् । प्रधानत्वाप्रधानत्वप्रतीतिस्तु द्रव्यगुणयोः स्वाभाविकी । नित्यं हि रूपादिषु स्वप्राधान्येनाभिधीयमानेषु द्रव्यं विशेणत्वेनोच्यते शुक्लादिषु विशेष्यत्वेन । अत एव चानादिकालप्रसिद्धार्थत्वादस्या लक्षणाया मतुब्लोपाम्नानेनानुगमः । या त्वादिमती नात्यन्तप्रसिद्धा नांसौ शास्त्रेणानुगम्यते । विनाऽपि चानुगमात्संबन्ध्यन्तरवशेन सा कदाचिदुपलभ्यते । तद्यथा मधुरो रसः स्निग्धः शीतो गुरुरिति स्निग्धशीतत्वादीनां गुणान्तरविशेषत्वान्न रसेन संबन्धोऽस्तीति रसलक्षितेन द्रव्येण संबध्यते । तस्माच्छक्तिपर्यनुयोगाभावान्मतुब्लोपभावा592भावौ । एतेन भावप्रत्ययसदसद्भावसामानाधिकरण्यवैयधिकरण्यव्यवस्था व्याख्याता । शुक्लत्वादिशब्दाश्च भावप्रत्ययनिष्कृष्टविशेष्यभूतगुणवचनत्वाद्गन्धवदेव नित्यं वैयधिकरण्येन संबध्यन्ते ।
लिङ्गसंख्यादिसंबन्धः स्वाश्रयद्वारेण पूर्ववदेवोपपत्स्यते । तथा गुणवचनशब्दश्च द्रव्यप्राधान्ये वर्तते वैयाकरणानां गुणमुक्त्वा गुणिनि वर्तमानत्वात् । न हि वैयाकरणानां वैशेषिकवद्गुणाः परिसंख्यायन्ते । किं तर्हि, अङ्गाङ्गिभावापेक्षया गुणगुणिव्यवहारः । शुक्लादिशब्दाश्चोपसर्जनीभूतमर्थं वदन्ति न रूपादिशब्दा इति लिङ्गसंख्यासंबन्धासंकरः । भाष्यकारेण त्वेतमेव परिहारं मनसि कृत्वोक्तं, भवति हि गुणवचनस्यापि स्त्रीलिङ्गता यथा करूणाबुद्धिशब्दयोः । गन्धादिशब्दतुल्यावपि चैतौ प्रदर्शनमात्रविशेषादुदाहृतौ । एतदुक्तं भवति । येऽपि तावत्स्वप्रधानगुणवचनास्तेऽपि कथंचिल्लिङ्गसंख्याभ्यां युज्यन्ते किं पुनर्येषु द्रव्यप्राधान्यम् । एवमनया युक्त्याऽरुणेति गुणवचनः । गुणवचनश्चेत्क्रीणातिना न संबध्यत इत्युपसंहृते परः पुनराह—अथ यदि क्रीणातिना न संबध्यते तत एकहायन्या संबध्यतामिति । शक्यते हि गुणवचनस्य द्रव्यसंबन्धः कर्तुम् । सिद्धान्तवादी तु श्रुत्या क्रियासंबन्धावगमाद्द्रव्यसंबन्धो वाक्यलक्षणो दुर्बलत्वाद्बाध्यत इत्येतत्प्रतिपादयितुमाह—तन्न । केवलं हि गुणमिति । द्विप्रकारो हि नामशब्दानां संबन्धः सामानाधिकरण्येन वैयधिकरण्येन वा । तत्र यदोभाभ्यामुभयार्थोपादानं तदा सामानाधिकरण्यं भवति । षष्ठ्यन्तद्रव्यपदोच्चारणे तु वैयधिकरण्येन संबन्धः । तदिह केवलगुणगुणिवचनत्वादरुणैकहायानीशब्दयोः श्रुतिसामानाधिकरण्यं तावन्न विद्यते । नापि षष्ठीश्रुतिर593स्ति । तस्मात्तृतीयाश्रुतिबलीयस्त्वान्न द्रव्यगुणयोः संबन्ध इति । बलाबलकृतं संबन्धनिराकरणमवगम्याप्रमाणकृतत्वाभिप्रायेणायं ब्रवीतीति मत्वैकविभक्तियोगादित्याह । तदनुपपन्नमिति-बलाबलप्रदर्शनम् । 686 प्रथमं तावत्स्वसामर्थ्येनारुणप्रातिपदिकस्य गुणवचनत्वं गम्यते । पदान्तरसंनिधानाच्च सामानाधिकरण्यमिति बलाबलम् । तत्राऽऽह ।
इदानीं तृतीयाश्रुतिबलीयस्त्वात्क्रियासंबन्धावबोधाद्द्रव्यसंबन्धबाधं दर्शयति । तत्राप्यगत्यैव प्रत्यवस्थानम् । ननु गुणस्य क्रियासंबन्धाभावादिति । तस्योत्तरं तृतीया687 नर्थक्यप्रसङ्गादिति । न ह्यगत्याऽनभिधेयोऽर्थः शक्यः प्रत्येतुम् । न चात्र लक्षणयाऽपि सक्तुं594द्वितीयावत्तृतीयाऽर्थवती । कारकसामान्यस्याप्यनिष्टत्वात् । परस्त्वाह—लिङ्गसंख्यावदाश्रयद्वारप्राप्तं कारकमनूद्य प्रातिपदिकार्थो विधास्यत इति । अस्ति ह्येतदपि दर्शनं यद्गुणशब्देभ्यो विनाऽपि कारकत्वेन कारकविशेषणत्वाद्द्वितीयादयो भवन्तीति । नैतत्सारमिति । यद्यपि कथंचिदरुणयेत्यस्यैकहायनीसंबन्धयोग्यत्वं तथाऽपि क्रियाक्षिप्तायामेकहायन्याम् ‘ऐक595शब्द्ये परार्थवत्’ इत्येवमुभयसंबन्धाभावे बलीयसा क्रयसंबन्धेन गुणसंबन्धनिराकरणम् । नह्यत्र क्रिया596संबन्धविभक्तिवद्गुणसंबन्धविभक्तिः षष्ठी 688 दृश्यते । नीलोत्पले तु श्रुतिविरोधाभावाद्वाक्यलक्षणोऽपि संबन्धोऽवगम्यत इति वैषम्यम् । ये तु सामानाधिकरण्यविकल्पास्तान् 597‘नियमो वैकार्थ्ये हि’ इत्यत्र षष्ठान्त्याधिकरणसूत्रे सर्वानेव वक्ष्यामः । सर्वथा लाक्षणिकं सामानाधिकरण्यमिति दुर्बलम् । न च कारकविशेषणत्वाद्गुणानां कारकविभक्तिः । किं तर्हि, कारकत्वादेवेति । एतदपि पश्वेकत्वविवक्षाधिकरणे598 वक्ष्यते । आह । सत्यमेवमेतदिति । पुनरपि श्रुतिविरोधपरिहारार्थमेव यतते । कथम् ।
689 सर्वत्र तु बो599धिते पदार्थ इति कोऽयमुपन्यासः । उच्यते ।
अरुणाशब्दस्तावदवश्यमेव केनचिद्गुणिना संबन्धनीयः । एकहायनीशब्दस्यापि क्रियासंबन्धात्स्वातन्त्र्यमपनीतम् । तत्र पदान्तरसंबन्धेऽपि सकृत्प्रवृत्तायाः किमवगुण्ठनेनेतिवत्तस्य तावत्येव श्रुतिपीडेति । अतो गुणपदेनापि संबध्यतामिति । नैतदस्तीति— अभ्युपेत्य द्रव्यगुणसंबन्धम् । या600गगतद्रव्यसंबन्धनिराकरणात्क्रीणा601तेर्विध्यनुवादयौगपद्याश्रयणविरोधः । यत्र तु क्रियाविशेषणानि सर्वाणि भवन्ति तत्र विशिष्टविधानादक्लेशो भवति । यत्र तु क्रिया विधीयते द्रव्यस्य च किंचित्तत्र प्रत्ययावृत्तिलक्षणं वाक्यभेदमभ्युपेत्य नियमाभावो भवतीत्युच्यते । विशेषणं हि प्रसिद्धं भवति । न च विधीयमानावस्थः क्रयः प्रसिद्ध इति प्रकरणगतैकहायनीमात्रसंबन्धप्रसङ्गः । कतमा पुनरन्या690 ज्योतिष्टोमप्रकरण एकहायनी । सर्वथा तावद्वाक्येन तस्यामपि गुणः प्राप्यते । यदि तु सा न विद्यते किं क्रियतां दक्षिणा तु वा काचिद्भविष्यति । अनूबन्ध्यायां वा । अथवेद्दिश्यमानत्वादविवक्षितलिङ्गसंख्यैकहायनमात्रग्रहणात्सवनीयाग्नीषोमीययोरप्येकहायनयोर्ग्रहणादनियमः । सदृशन्यायेषु वोदाहरणान्तरेष्वेव तद्भविष्यति । तद्यथा ‘दशमुष्टीर्मिमीते’ इत्यत्र सोममानादन्येषामप्यङ्गेष्टिनिर्वापमुष्टीनां दशसंख्यत्वप्रसङ्गः । परः पुनरेकहायनीवैरूप्याभ्युपगमवादलब्धप्रसरः शङ्कते—नन्वपूर्वोऽपि विधीयमानो मनसि विपरिवर्तमानः प्रसङ्गादेव विशेष्यत इति । नैतदेवमित्युत्तरम् । यावद्यावद्धि पदार्थो विशेष्यते तावत्तावच्छ्रुतेः स्वरसभङ्गः । तेन सकृत्प्रवृत्तायाः किमवगुण्ठनेनेत्येवमेकेन केनचिद्विशेषितः परेणापि विशेष्यतामित्यभ्युपगन्तव्यम् । न चाऽऽनर्थक्यम् । प्रकरणेऽर्थवत्त्वात् । तत्राप्येवमेव संबन्ध इति चेत् । न । वाक्यान्तरप्राप्तद्रव्यानुवादेन गुणाविधौ वैरूप्यप्रसङ्गाभावात् । भवत्पक्षेऽपि स्वरूपतः सोमं च प्रति क्रये विधीयमाने द्रव्यं च प्रति विशेषणत्वेनानूद्यमाने वैरूप्यं भवति । एवमेकहायन्यपि क्रयं गुणं च प्रति वैरूप्यान्नैव संबध्यते । पूर्वं त्वभ्युपेत्यवादमात्रेणाङ्गीकृतम् । 691 तदिदानीं तत्रैव परस्य दुष्टाशा मा भूदिति निराक्रियते । तेनायमेव परमार्थः । कारकं विभक्त्याऽनूद्य प्रातिपदिकार्थो विधीयत इति । परे त्वविवक्षितकारकं गुणमात्रं प्रकरणयुक्तं प्रयोगवचनेनागृहीतम् 602‘आनर्थक्यात्तदङ्गेषु’ इत्येवं द्रव्येष्ववतीर्णं सर्वार्थं मन्यन्ते । तत्तु प्रक603रणेनानितिकर्तव्यतात्मकगुणग्रहणाभावादानर्थक्यतदङ्गन्यायस्य च क्रयाङ्गैकहायन्यामुपपन्नतरत्वेन पूर्वपक्षमूलाभावप्रसङ्गादुपेक्षणीयम् । तस्मात्पूर्वेणैव न्यायेन कृत्स्ने प्रकरणे निवेश इति । एवं प्राप्तेऽभिधीयते ।
अर्थैकत्वेति—वाक्यविशेषोपलक्षणम् । ऐककर्म्यादिति—पुनस्तदेव हेतुत्वेनोपदिष्टम् । अथवा वाक्यार्थैकत्वे यत्रैकवाक्यता संभवतीत्यर्थः । तत्र सर्वविशेषणविशिष्टैकभावनाविधिः । तादृशीं कृत्वा कृतार्थो भवतीति परिग्रहात्सर्वनियमो भवति । यथा देवदत्तः काष्ठैः स्थाल्यामोदनं पचतीत्युक्ते सर्वेषामेकपाकविषयत्वम् । एवमिहापि केवलयोस्तावद्द्रव्यगुणयोरनुष्ठानमेव नास्तीति न विधीयते । क्रियान्तरसंबन्धमपि क्रीणातेः परः प्रत्ययो न शक्नोति कर्तुम् । द्रव्यसंबन्धे तु सर्वत्र विधीनामेव शक्त्यभावः । सर्वत्र हि भावनातद्विशेषणार्थातिरिक्तेऽर्थे विधिव्यापारो नास्तीत्युत्तराधिकरणे वक्ष्यामः । तृतीयानिर्देशाच्च द्वयोरप्यरुणैकहायन्योः परस्परमनपेक्ष्य स्वसाध्यक्रियामात्रापेक्षिणोर्वाक्येन तद्विशेषक्रयसंबन्धो विज्ञायते । कुतः ।
यथैव द्रव्येण विना क्रियानुपपत्तेरेकहायनीं क्रयो गृह्णाति—
तस्मात्सोऽपि क्रियाङ्गमिति । तथा च ‘द्रव्यगु605णसंस्कारेषु’ इति गुणग्रहणं कृतम् । ननु नान्त606रीयकत्वाद्द्रव्यग्रहणे गुणानुष्ठानात्पृथक्प्रयत्नाभावान्न द्रव्यवद्गुणापेक्षा युक्ता । तथा हि ।
उच्यते ।
यथैव हि त्वयोक्तं द्रव्यग्रहणेनैव गुणोऽपि कश्चिद्गृहीत एवेति न पृथगुपादानं प्रयोजयति तथा क्रियोपादानेऽपि यत्किंचिद्द्रव्यमुपात्तमिति नापेक्षितव्यम् । अथ तु प्रागुपादानाद्द्रव्यविशेषापेक्षा भवति तदितरत्रापि प्राग्द्रव्योपादानाद्भवत्येवापेक्षा किंगुणकं द्रव्यं गृह्णामीति । सर्वथा त्वेतावानत्र विशेषः । प्रज्ञानोत्तरकालमपि क्रियायां द्रव्यं व्यापार्यते । गुणस्तु प्रज्ञानान्न पृथग् द्रव्यव्यतिरेकेण व्याप्रियते । तावतैव चरितार्थत्वात् । न च तथा व्यापृतस्याव्यापृतत्वम् । अनेकप्रकारत्वाद्व्यापाराणाम् । परिच्छेदकाले त्वस्याधिकव्यापारत्वं विविच्यते । तथा हि ।
तेनात्र यदि तावद्वेद एव कंचिद्विशेषं दास्यति ततस्तेनेत्यवधारयिष्यते । यदि तु न दास्यति ततोऽर्थाक्षिप्त एव यः कश्चित्प्रमाणवान्भविष्यतीत्यवगमे सति विधीयमानस्यारुणादेरङ्गत्वं भवति । सर्वत्र च शब्दादचोदितेऽर्थे'अर्थाद्वा607 कल्पनैकदेशत्वात्’ इत्येवमज्ञानसंशयव्युदास इष्टः । तदिहारुणत्वेन क्रियां साधयेदिति विस्पष्टे चोदिते शब्दान्तराणामध्याहारादीनामभावाद्यथा शक्नुयादित्युपबन्धे सति तत्साधनभूतं द्रव्यं परिच्छि न्दतेत्येतावदवधार्यते । कुतः ।
क्रयगतस्तावद्विधिस्तृतीयोपनीतं कथंचिदरुणिमानं न मुञ्चति । स च नान्येन प्रकारेण तदङ्गतां भजते । न चैकस्वरूपैव सर्वेषां साधनता । न च स्वसमवायिन्येव केवला चलनात्मिका वा क्रिया सर्वत्रेष्यते । न च प्रधानाक्रियायाः सर्वाण्येव साक्षात्साधनानि भवन्ति । अवान्तरव्यापाराधीनत्वात्संबन्धस्य । अरुणादीनां च योग्यत्वाद्द्रव्यपरिच्छेद एव स्वव्यापारो विज्ञायते । तत्रैषां कर्तृत्वादितरत्र करणत्वं भविष्यति । तेनारुणपदादेतावदवगतं किंचिद्द्रव्यं परिच्छिन्दताऽरुणगुणेन क्रयः साधयितव्य इति । तथैकहायन्याऽप्यन्यथा साधनत्वासंभवात्केनचिद्गुणेन मे परिच्छेदः कर्तव्य इत्येतावदपेक्ष्यते । तत्र गुणो यत्किंचिद्द्रव्यपरिच्छेद्यमाश्रयत्वेनापेक्षितुमारभते । द्रव्यमपि यं कंचिद्गुणम् । उभयापेक्षालक्षणश्च संबन्धः शीघ्रं निर्वर्त्यते । न च द्रव्यान्तरगुणान्तराणामत्र वाक्ये सापेक्षत्वं प्रतीयते । तेन नष्टाश्वदग्धरथवद्विनाऽपि षष्ठ्याऽनयोरेव संबन्धः । संनिहितातिक्रमकारणाभावादप्येवमेव विज्ञायते । किं च ।
यन्नाम गुणोऽन्यथानुपपत्तेरश्रुतं द्रव्यमानयति तत्क्रयः श्रुतैकहायनीद्रव्यकत्वान्न प्रतीच्छति । तथैकहायनी यं गुणमश्रुतमानयति तमपि क्रय एव श्रुतारुणिमगुणत्वान्नेच्छति । यदि ह्यसावनियतद्रव्यगुणः स्यात्ततो यत्किंचिदप्यानीयमानं सहेत । निरपेक्षद्रव्यगुणविशेषसंबन्धे नैव यथाचोदितः क्रय उभयविशिष्टः क्रियते । 694 अश्रुता च प्रधानस्य सत आवृत्तिरापद्येत । विकल्पे वा पुनर्विशिष्टविधिर्बाध्येत । प्रधानत्वादेव च गुणद्रव्याभ्यां द्रव्यान्तरगुणान्तराक्षेपं क्रयणं निरुणद्धि । कांस्यभोजिन्यायेन वाऽमुख्योऽप्यनियमं वारयेत् । किमुत मुख्य एव सन् । न वाऽश्रुतकल्पनया विनाऽनुपपत्तिः । श्रुतयोरेव परस्परसंबन्धेन परिपूर्णत्वात् । एवं च स्ववाक्यगतमपि सामानाधिकरण्यं समर्थितं भविष्यति । न चात्र श्रुतिविरोधः । यथा वक्ष्यति । ‘न श्रुतिर्ब्रूते वाक्यार्थो न’ इति । तथा हि ।
क्रय एव हि द्रव्यं गृह्णन्नेवमपेक्षते को गुण एतत्परिच्छेत्स्यतीति । गुणमपि गृह्णन्नपेक्षते किं द्रव्यमेतस्याऽऽश्रयो भविष्यतीति । तेनैव तयोः क्रयवशेनान्योन्यानुगुण्यं प्रतिपद्यमानयोरपि न परस्पराङ्गाङ्गित्वं भवति । यस्तु मन्यते परिच्छेदकत्वाद्गुणस्य द्रव्याङ्गत्वं प्रतीयत इति । स वक्तव्यो गुणस्यापि क्रयमन्यथा साधयितुशमक्नुवतो द्रव्यमाश्रयत्वं प्रतिपद्यमानमङ्गमिति । तस्मात्क्रयाङ्गभूतयोरेव नान्तरीयकः परस्परोपकारो भवन्नङ्गत्वमापादयतीति द्रष्टव्यम् । यस्तु प्रकरणे निवेशं मन्यते तस्य केन गुणो विधीयत इति वक्तव्यम् । क्रयविधिना तावत्सह नैव संबन्ध इष्टः । प्रयोगवचनस्त्वक्रियात्मकं दूरादूपेक्षते । न चारुणपदस्यैवं विधिशक्तिरस्ति । यद्यपि कारकत्वेन द्रव्याणि प्रतीयन्ते तथाऽपि तत्पदान्यविधायकान्येव । येऽपि तत्संबन्धिक्रियाविषया विधयस्तेऽपि पर्यवसिताः संप्रति प्रतीयमाना अपि न विधातुं समर्थाः । न चैषां द्रव्यविशेषणेषु व्यापारः । तस्मान्न कथंचित्प्रकरणे निविशते । एकार्थास्तु विकल्पेरन्नित्यविशेषप्रतीतेः । अवान्तरव्यापारानेकार्थत्वमगृहीत्वा वदति—यद्येककार्यता किमिति विकल्पो न भवतीति । सिद्धान्तवादी त्वाह—नैतेनास्मत्प्रतिपक्षः कृत्स्नप्रकरणनिवेशः सिध्यति । क्रयसंबन्धो वा बाध्यते । तस्मात्सिद्धान्तान्तरदूषणत्वान्निग्रहस्था695 नमिति । न च विकल्पः, नानाकार्यत्वादिति—अवान्तरव्यापारभिप्रायेण । परस्तु प्रधानकार्यनानात्वमेवोक्तमिति मत्वाऽऽह—नन्विदानीमेवोक्तमिति । तच्चा609पि विरुद्धं यत्पूर्वमुक्तममूर्तत्वान्निष्क्रियो गुण इति । ननु पूर्वपक्षवादिना तदु610क्तमिदानीं सिद्धान्तवादी न सक्रियत्वं ब्रवीतीति युक्तो विरोधोपन्यासः । उच्यते ।
अथवा पूर्वपक्षवादिना तद्धेतु612त्वेनोक्तम् । हेतुश्चोभयसिद्धो भवति । यदि चायमसिद्धो भवेत्ततस्तदानीमेवोद्भाव्येत, यतस्तु नोद्भावितस्ततोऽभ्युपगतः । तथा सति चेदानीं सिद्धवदर्थैकत्वाभिधानात्सक्रियत्वमभिदधतो विप्रतिषिद्धमापद्यते । नैतद्विरुद्धम् । न च विकल्प इति । शक्तिभेदनिमित्तावान्तरव्यापारान्यत्वात् । तद्दर्शयति—द्रव्यं साक्षात्साधनं, गुणस्त613त्परिच्छेदार्थ इति । परस्त्वेतावतैव तदेतरत्तदर्थमितिवद्रुणस्य द्रव्यार्थत्वं मन्यमान आह—यद्येवं न तर्हि गुणः क्रियामभिनिर्वर्तयतीति । नैतदेवमिति—द्वारमात्रत्वं तावद्द्रव्यस्य दर्शयति । परिहृते दोषद्वये वस्तुकृतमेकहा696 यनीद्वारत्वमपश्यन्वाक्येनैव द्वारद्वारिसंबन्धकरणाद्वैरूप्यापत्तिं चोदयति—एवं तर्हीति । न ब्रूमोऽरुणाशब्द इति—सामर्थ्यकारितमेकहायनीसंबन्धं दर्शयति । नन्वेवमपि वाक्यं भिद्येतेति—नियमनिराकरणार्थमाह । सत्यपि क्रयसंबन्धे प्रतिकारकं क्रियान्यत्वादर्थभेदनिमित्तो वाक्यभेदोऽस्त्येवेति । तथा च लोकवेदयोर्दृष्टमित्युदाहरणद्वयम् । प्रत्येकं देवदत्तादिषु भोजनं, पितुः पितामहस्य वाऽसोमपत्वं व्रात्यपशोर्निमित्तत्वेनोच्यमानं साहित्याविवक्षया सिद्धम् । तत्र न पिबेदिति संबन्धः पशुयागसबन्धश्चोभयमप्युदाहरणम् । नैतदस्मत्पक्षस्य बाधकमिति—विकल्पपक्षवदेवासंबन्धोपन्यासः । परः पुनराह—सत्यमेष न दोष इति । क्रियाप्राधान्ये तु तद्वशीकृतविशेषणसमु697 दाये वाक्यपरिसमाप्तिः । गर्गशतदण्डनहोमाभिषवभक्षवदिति परिहारः । ननु दण्डस्य दण्ड्यसंस्कारत्वाद्भोजनादिवत्प्रतिगर्गमावृत्तिः प्राप्नोति । नैष दोषः ।
यथैवाध्वर्य्वादीनां दक्षिणा परिक्रयार्था कर्मसंयोगात् । एवं राज्ञामप्यर्थदण्डो नैमित्तिकी परिपालनवृत्तिः । तां तां च प्रति तत्र तत्रापराधे निमित्ते शतादीन्युपादीयमानत्वाद्विवक्षितैकसंख्यानि भवन्ति । यश्चासावपराधो गर्गकृतः स एककर्तृकोऽनेककर्तृको वा राज्ञः शतादाननिमित्तं भवति । तत्काले चापराधिनामपादानत्वेनावस्थानात्समस्तगर्गापादानकं राज्ञा शतं ग्रहीतव्यमित्यगवते सति प्रत्येकं ग्रहणे सत्येकेन शतेनापराधनिष्क्रिये कृते शेषमश्रुतं ब्रह्मस्वहरणं स्यात्संख्यान्तरं च वृ614द्धावापद्येत । 698 तस्मात्समुदाये वाक्यपरिसमाप्तिः । परः पुनरभिहितेऽपि हेतुविर्शेषे दृष्टान्तद्वयात्संदेहमुपन्यस्यति । क्रयस्य यागसाधनसोमप्राप्त्यर्थत्वेन भूतभव्यसमुच्चारणन्यायेन विधायकलाघवेन च प्राधान्याद् द्रव्यगुणयोश्च पूर्वहेतुविपर्ययेण विपरीतत्वादितर एकवाक्यत्वप्रतियोरपि नियमः सिध्यतीति नार्थ एकवाक्यत्वेनेति । सिद्धान्तवादी वदति । वाक्यभेदे सति उभयविशेषणविशिष्टक्रयप्रतीत्यभावाद्यथाश्रुतप्रत्येकसंबद्धक्रयानुष्ठाने सति गुणेनापि यत्किंचिद्द्रव्यं गृह्येत द्रव्येणापि यः कश्चिद्गुणः । न हि तदा615नीमन्योन्यासंनिधेरर्थाक्षेपप्रतिबन्धशक्तिरस्ति । न चैका क्रिया गुणद्रव्यवशीकारसमर्था स्यात् । अरुणगुणक्रयो ह्यनियतद्रव्यकत्वात्किमिति गुणोपस्थापितं यत्किंचिद्द्रव्यं न गृह्णीयात् । एकहायनीक्रयो वा यं कंचिद्गुणम् । अथापि वाक्यान्तरशिष्टानि क्रयद्रव्याण्येव गुण आस्कन्दति तथाऽपि तेषु वासःप्रभृतिषु दशस्वपि प्राप्नोति । तस्माद्विशिष्टैकक्रयसिद्ध्यर्थं वक्तव्यमेकवाक्यत्वम् । अतश्च नियम इति सिद्धम् ॥ १२ ॥
ग्रहैकत्वाधिकरणम्
699 एवं यथासंयोगं शेषविनियोगः स्थितः । इदानीं तद्विशेषचिन्ता । किमेकस्य ग्रहस्य संमार्ग उत प्राकरणिकग्रहमात्रस्येति । यथा चैकत्वयुक्तं तथा द्वित्वबहुत्वयुक्तमप्युदाहर्तव्यम् । ‘यस्य पुरोडाशौ क्षायतः’ ‘यस्य सर्वाणि हवींषि नश्येयुर्दुष्येयुः’ ‘प्रयाजशेषेण हवींष्यभिधारयति’ इत्यादि । सर्वत्र च किंचिदुद्दिश्य क्रिया विधीयते । तत्रोद्दिश्यमानस्य किं संख्या विवक्ष्यत उत नेति संशयः । ननु च वेदवाक्येष्वयुक्तोऽयं विचारः । कुतः ।
यानि पुरुषप्रणीतानि तानि पुरुषविवक्षाधीनवचनत्वात्संभ616वत्प्रमादाभिप्रायान्तरप्रमाणान्तरगम्यार्थानि भवन्ति । तत्र प्रतीतोऽप्यर्थो वक्तुरनभिप्रेतत्वादविवक्षां लभेत । सा च द्वेधा विज्ञायते । यद्वा वक्तैव कथयत्यन्यपरं ममेदमभिप्रेतं प्रमादेन वा । तस्मादेतावन्मात्रमिह न ग्रहीतव्यमिति । यद्वा प्रमाणान्तरवशेनान्यथार्थेऽवधारिते वक्त्रनपेक्षाः श्रोतार एवाभिप्रायान्तरं प्रमादं वाऽध्यवस्यन्ति । न तु वेदवाक्येष्वभिप्रायान्तरं प्रमादो वा कस्यचिदस्ति । न च वक्ता, योऽन्यथात्वं कथयेत्सर्वपुरुषाणाम् । ‘उक्तं तु 617शब्दपूर्वत्वम्’ इति केवलश्रोतृत्वाश्रयणात् । न च प्रमाणान्तरगम्योऽर्थः । यतस्तद्वशेन स्वयमेव श्रोतारोऽन्यथात्वं प्रतिपद्येरन् । विवक्षाविवक्षे च वक्तॄणां प्रत्ययविशेषाविच्छानिच्छाविशेषौ वा । तेन विवक्षितमविवक्षितमिति द्वयमप्येतद्वक्त्रभावादनुपपन्नम् । अतः श्रुताश्रुतयोरेव केवलयोरत्र ग्रहणाग्रहणे । नातः परं किंचित्कारणमस्ति ।
700 उच्यते ।
एकत्वं तावदत्रासंशयमुक्तम् । तच्च ग्रहसंबन्धीत्येतदप्यसंदिग्धम् । इह तु सर्वार्थानाम्—
प्रकृतिप्रत्ययश्रुत्योः स्वस्वार्थाभिधातृत्वम् । पदस्य कारकविभक्तीनां च विनियोजकत्वम् । लिङ्लोट्तव्यपञ्चमलकाराणां तु विधिसामर्थ्यम् । तत्रानुष्ठानकाले विधिश्रुत्यधीनः पुरुषः । स हि यत्र तया प्रवर्त्यते तत्राभिहितेऽनभिहिते वा विनियुक्तेऽविनियुक्ते वा तुल्यवत्प्रवर्तते । यत्र तु विधिना न नियुज्यते तत्राभिहिते विनियुक्तेऽपि न प्रवर्तते । न ह्यसावनुष्ठानं प्रति 618तयोरेकयाऽपि प्रेर्यते । इदमिहास्ति, अस्येदमिति चैतन्मात्रपरि619च्छेदाद्विषयकर्तव्यताबुद्ध्यनुत्पत्तेः । तेनाभिहितविनियुक्तस्यापि विधिमनुष्ठानं च प्र620तीत्य विवक्षाविवक्षे विधित्सिताविधित्सितचिकीर्षिताचिकीर्षितात्मिके भवतः ।
नन्विदमपीच्छया विना नैवोपपद्यते । उच्यते । नैवात्र पारमार्थिकीमिच्छां वदामः । किं तर्हि ।
यथैव कूलं पिपतिषतीत्येवमादौ पातकालप्रत्यासत्तेरिच्छामुपचर्यैवं व्यपदेशो भवति तथा पौरुषेयेषु वाक्येषु परिग्रहापरिग्रहौ विवक्षाविवक्षयोः फलत्वेन प्रज्ञाताविति तावभिप्रेत्यायं विवक्षाविवक्षोपन्यासः । कथं श्रुतस्यापरिग्रहः स्यादिति चेत् । नैष दोषः । विध्यधीनः परिग्रह इति प्रागेवोक्तत्वात् ।
पुरुषस्थानीयो हि वेदे विधायकः । पुरुषेच्छास्थानीयं 621विधित्वम् । अतो यद्विधि701 त्वेन संस्पृष्टं तत्कर्तव्यं नेतरदित्यवधारणाद्विधिव्यापारसंस्पर्शपरिमाणमन्वेष्टव्यम् । कथं पुनस्तुल्यायां समानवाक्यगतोक्तिप्रतीतौ किंचिद्विधिः संस्पृशति किंचिन्नेति । तदुच्यते ।
यद्यस्मदभिप्रायानुरोधेनाभिधानविनियोगश्रुतिवशेन वा लिङादयो विदध्युस्ततः सर्वं विधीयेत । ते तु स्वशक्तिमनुरुध्यमा622नाः किंचिदेव विदधति न सर्वम् । तथा हि ।
श्रु624त्या तावत्प्रयोजनभावना विधीयते । तदन्यथानुपपत्तेस्त्व625र्थात्का626न्तराणि । यस्तु श्रुतोऽप्यर्थो भावनाकारकतदाश्रयत्वेन नावधार्यते तत्रैकमपि विधित्वं नास्तीत्यनुष्ठानं प्रत्यनङ्गत्वम् । तेन संमार्गाद्यनुष्ठाने किं ग्रहैकत्वाद्यपि कर्तव्यमुत नेति जायते संदेहः । तत्र यद्येकत्वादि कारकत्वेन भावनाविशेषणं ततो विधिसंस्पर्शाद्विवक्षितं भविष्यति । अथ द्रव्यविशेषणं ततो न विवक्षितमिति । तदेतदप्रसिद्धालौकिकवेदवाक्यार्थव्याख्यानप्रकारकरणाशक्तेः पौरुषेयवाक्यव्याख्यासादृश्यापादनार्थमन्तर्णीतोपमानगौणवृत्त्याश्रयणेन फलसामान्यदर्शनाद्विधिशक्त्यशक्त्यधीनपरिग्रहापरिग्रहयोरेव विवक्षिताविवक्षितवाचोयुक्त्युच्चारणं मन्दबुद्धिशिष्यप्रतिपादनार्थं ग्रन्थकाराणां व्याख्यातॄणां चान्यत्रापि वेदविषयमेवमेव गमयितव्यम् । अथवा ।
तस्माद्व्याख्यातृगतमेव विवक्षिताविवक्षितत्वमुपन्यस्य विचारकरणाद्वेदेऽप्यविरोधः ।
तथा च नक्षत्रेष्टिवाक्यशेषेऽभिहितं ‘ये हि जनाः पुण्यकृतः स्वर्गं लोकं यन्ति तेषामेतानि ज्योतींषि यन्नक्षत्राणि’ । तथा च मनुनाऽपि स्वर्गं लोकं गच्छन्नभिहितः, तेजोमू628र्तिः पथ629र्जुनेति ।
किं तावत्प्राप्तम्—
सर्वत्र विधिप्रतिषेधात्मकत्वाद्वेदस्य यावत्किंचिच्छ्रूयते तत्सर्वं तत्संबन्धित्वेन गम्यते । तत्र येन प्रकारेण विधिप्रतिषेधविषयं भवति तथा सर्वात्मना योजनीयम् । तत्रैकस्तावत्पक्षः । सत्यपि द्रव्यविशेषणत्वे यथैव द्रव्यादिविशिष्टभावनाविधावर्थाद्विशेषणेषु विधिर्भवति । न त्वन्यथा विशिष्टा विहिता स्यादित्येवमेकत्वविशिष्टग्रहविशिष्टसंमार्गविध्यन्यथानुपपत्तेरर्थापत्त्यन्तरेणैकत्वविधानम् । एवं विशेषणमालायामपि सत्यां संयुक्तसंयोगपारम्पर्येण सर्वविधिप्रत्ययः । परस्परसंबन्धिषु गुणेष्वेकस्मिन्विहितेऽन्यो विधीयत इत्युक्तम् । अथवा यदि नाम द्रव्यविशेषणं यावद्विधिप्रत्ययो न गच्छेत्तत एकयैवार्थापत्त्या सर्वं विधातुमिष्यते । ततो यथा दशापवित्रतदेकत्वग्रहसं 704 मार्गाणां भावनाविशेषणत्वम्, एवं ग्रहैकत्वस्यापि प्रतिपादनीयम् । ननु चैकपदलक्षणया श्रुत्यैकत्वं ग्रहविशेषणं गम्यमानं न युक्तं वाक्येन भावनाविशेषणमापादयितुम् । नैष दोषः । विरोधाभावात् । ग्रहसंबन्धाविच्छेदेनैव हि भावनासंबन्धोऽवकल्पिष्यते । भिन्नविषयत्वाद्वा विरोधाभावः । यदि ह्युभयत्रापि तादर्थ्यलक्षण एवाऽऽश्रयाश्रयिविशेषणविशेष्यरूपो वा संबन्धः स्यात्ततः समानविषयत्वं प्रतीयेत । न त्वेवमप्यस्ति । ग्रहैकत्वयोराश्रयाश्रयिरूपेण विशेषणविशेष्यभावाद्भावनया च सह शेषशेषित्वाभ्युपगमात् । तेन ग्रहाश्रितेनैकत्वेन संमार्गभावनां कुर्यादित्येवमवगमयिष्यामः । तादर्थ्यसंबन्धे च भावनां प्रति निर्वृत्तेऽरुणैकहायनीन्यायेन पश्चात्तनो विशेषणविशेष्यभावः । सोऽयं पदेन प्रत्याय्यते । अथवा यदैकत्वं स्वार्थत्वेन ग्रहो नोपजीवितुं समर्थ इत्यवधारितं भवति तदाऽसौ तद्भावनां वाक्येनापि गच्छन्न निवारयति । यद्वा सुतरां प्रेरयति । भावनार्थं हि सदेतद्विधिना गृह्यमाणं पश्चादपि तावन्नियम्यमानं मां परिच्छेत्स्यति । अन्यथा तु मयाऽगृहीतं विधिनोपेक्षितं तावद्भावनाया न मम स्यात् । अथवा ग्रहार्थमेवैतदस्तु । तच्च ग्रहार्थत्वं येन प्रकारेणोपपद्यते स दर्शयितव्यः । तत्र यदि ग्रहः स्वरूपमात्रेण भावनायामनुप्रविशेत्तत एकत्वं पश्चाद्भविष्यदगृहीतं भावनया भावनागतं न स्यात् । ग्रहस्वरूपस्यैव स्यात् । अतोऽसावेकत्वपुरःसरमेव तत्समानदेशं वा पृथक्पदोपात्तारुणादिवदेवाऽऽत्मानं प्रतिपद्यते । कुतः ।
एवं च सति भावनाप्रविष्टं तद्विधिनाऽपि संस्पृश्यमानं द्रव्यगुणयोर्नियमे सति ग्रहस्य जातं भवति । अथ श्रुतिबलीयस्त्वादस्य द्रव्यसंबन्ध उच्यते । तदेवात्यन्तविपरीतम् । प्रातिपदिकोपात्तं हि द्रव्यं समानपदोपात्तत्वेन प्रत्यासन्नं स्यात् । इह तु समानविभक्त्युपादानादेकत्वं कारकविशेषणं शीघ्रतरं गम्यते । कारकं च विभक्तिप्रतिपादितमाविर्भूतपूर्वापरीभूतभावनैकदेश इत्युक्तम् । प्रत्ययार्थत्वादेतदेव प्रधानम् । सर्वं च संभवत्प्रधानगामि भवति । तेन ग्रहश्चैकत्वं चोभयमपि कारकीभूतं विभक्तिश्रुत्यैव भावनायां प्रक्षिप्यत इति विधीयते । तत्तु विशिष्टविधानात् । वक्ष्यति हि ‘शब्द630वत्तूपलभ्यते तदागमे हि तद्दृश्यते तस्य ज्ञानं यथाऽन्येषाम्’ इति । यथैव दशापवि705 त्रेण श्रुतो नान्येन क्रियते, संमार्गश्च श्रुतो नावघातः क्रियते, ग्रहस्य श्रुतो नाग्रहस्य क्रियते, तथैकस्य श्रुतो नानेकस्य कर्तव्यः । सर्वेषां चैतेषां पूर्वाधिकरणन्यायेन परस्परनियमः । तस्मादुपादीयमानपश्वादिवदेवोद्दिश्यमानस्यापि संख्या विवक्षिता । पुंपशुश्चेति प्रसङ्गादुदाहृतम् । न त्वत्र लिङ्गमपि तुल्यन्यायत्वात्संख्याविचारेण विचारितप्रायमेवेत्युदाहियते, मा भूत् ‘लिङ्ग631विशेषनिर्देशात्पुंयुक्तमैतिशायनः’ इत्यस्य पुनरुक्तता ॥ १३ ॥
इह तावत् ‘तुल्य632श्रुतित्वाद्वेतरैः स धर्मः स्यात्’ इत्येवं द्वितीयानिर्देशात्प्रयोजनवत्त्वाच्च ग्रहप्राधान्यं संमार्गस्य च गुणभावो विज्ञायते । तत्रापि ग्रहत्वस्य संमार्गानर्हत्वाद्व्यक्तयः संस्कार्यत्वेनावतिष्ठन्ते । तासां सा633क्षात्प्रत्यायनाभावाद्ग्रहत्वं लक्षणत्वेनाऽऽश्रितम् । एष चोदनार्थोऽवगम्यते । यद्ग्रहकार्यं तत्संमार्गेण सगुणं भवति । तत्र य एव न संमृज्येत तस्यैव कार्यं विगुणं भवेत् । अतः सर्वे संमार्जनीयाः । यदि तु संमार्गगुणत्वेन यागाङ्गपशुवद् ग्रहश्चोद्येत तत एकेनैव सिद्धे कार्ये नापरो गृह्येत । न हि तदानीं ग्रहान्तरेष्वगृह्यमाणेषु कस्यचिद्वैगुण्यं दृश्यते । शास्त्रार्थस्य निर्वृत्तत्वात् । प्राधान्यपक्षे तु प्रतिप्रधानं शास्त्रभेदादेकस्मिन्नप्यसंस्क्रियमाणे तद्गतशास्त्रबाधप्रसङ्गः ।
तस्माद्ग्रहत्वापूर्वसंयोगाविशेषात्प्रकरणाविशेषाच्च सर्वप्रत्ययः । ननु चैकवचनं श्रूयत इति—अविवक्षाकारणमपश्यन्नाह । तत्रोत्तरम् ।
त634देकस्मिन्वाक्ये प्रकृतिप्रत्ययपदश्रुतिप्रतिपादितानां बहूनामर्थानां को विधिविनियोगाभ्यां परिगृहीतः को वा त्यक्त इति चिन्तायाम् ।
तथा ।
तत्र द्रव्यविशेषणं तावन्निराक्रियते । तद्धि स्वरूपप्रक्षेपेण वा भवेदनेकत्वनिराकरणेन वा । तत्र स्वरूपप्रक्षेपविशेषणफलं तावत्सर्वेष्वपि संमृज्यमानेषु संभवत्येव । कथम् । यो हि बहून् ग्रहान्संमार्ष्टि संमार्ष्ट्यसावेकम् । अतश्च ग्रहत्वसंबन्धेन प्राप्त एकवचनेन चाप्रतिषिद्धः किमिव द्वितीयादेः संमार्गो न क्रियेत । तत्रैतत्स्यात् । प्रातिपदिकादेवैकस्मिन्ननेकस्मिंश्च ग्रहे संमार्जनीये प्राप्ते पुनरेकवचनश्रुतिर्गुणार्थवादत्वेनासंभवन्ती परिसंख्यार्था भविष्यतीति । नैतदेवम् । कुतः ।
तच्च नानावाक्यत्वे सत्येव भवति । इह त्वेकेनैव वाक्येन प्राप्तिः परिसंख्या च क्रियत इत्युक्तम् । तच्चात्यन्तमेवानुपपन्नम् ।
710 प्रातिपदिकेन हि सर्वग्रहसंबन्धः प्राप्यते । प्रत्ययैकवचनेन तत्रैव पदे निवर्त्यते । न चैतदुत्प्रेक्षितुमपि शक्यते ।
किं च ।
समानवाक्यपदपूर्वभागावस्थितप्रातिपदिकप्रापितसर्वग्रहसंमार्गज्ञानप्रत्याख्यानेन तदधीनात्मलामप्रत्ययप्रतिपाद्यायाः परिसंख्यायास्त्रिदोषत्वमपरिहार्यम् । यत्तु भाष्यकारेण निर्दोषपरिसंख्याविषयं प्रदर्शयतेष्टानिष्टवचनव्यक्तिद्वयं प्रदर्शितम्—इत्यश्चाभिधानीमिति । नेत्यादत्त इति । मन्त्रस्य रूपादेवाऽऽदाने प्राप्तत्वादिति च कारणमुक्तम् । तदयुक्तम् । कुतः ।
न चैकत्वसंबन्धमात्रविधिः शक्यः । संमार्गग्रहसंबन्धमात्रविधानोपक्षीणशक्तित्वाद्विधायकस्य । यथौदनोपघातनिवारणविधिपरे वाक्ये श्रुतानामपि श्वमार्जारादीनामविधीयमानत्वादविशेषणत्वम् । कुतः ।
तथा चाऽऽह ।
न त्विदमत्रोदाहरणं घटते । कुतः ।
स्थितसिद्धान्तोदाहरणमपि पशुप्रकरणे श्रूयते ‘यद्यपि चतुरवत्ती यजमानः पञ्चावत्तैव वपा कार्या’ इति । यदवत्तं तत्पञ्चसंख्यं कार्यमित्येतद्विधिपरे वाक्ये वपाग्रहणमविवक्षितं वाक्यभेदप्रसङ्गादिति दशमे वक्ष्य641ति ।
तत्र श्वमार्जारादिसंबन्धाविवक्षोदाहरणं घटते । इह तु ।
बहुत्वस्याविवक्षितत्वात् । ननु संमार्ष्टीति—अयमेव ग्रहैकत्वसंबन्धमपि विधास्यति । न । श्रुतिविप्रतिषेधात् । न ह्येको विधायकः शक्नोति संमार्गभावनां च विधातुं ग्रहैकत्वसंबन्धं च । तत्र विरोधे सति संनिकर्षबलीयस्त्वात्संमार्गभावनाविधान आश्रीयमाणे विध्यन्तरानुपपत्तेरग्रहणमेकत्वस्य । यत्तूक्तं विशेषणविशेषणमपि विधीयत इति । तदनुपपन्नम् ।
यदा ह्येकत्वविशिष्टमात्मानं ग्रहो भावनायां प्रक्षिपति तदाऽवश्यं विशेषणं पूर्वतरं प्रक्षेप्तव्यम् । न ह्यन्यथा विशिष्टेन विशेषिता स्यादित्येवं भावनाऽप्येकात्वविशिष्टं ग्रहं गृह्णती नैकत्वमगृहीत्वा तद्विशिष्टं ग्रहं शक्नोति ग्रहीतुम् । तद्यथा शब्दो जात्यादिविशिष्टं द्रव्यमभिदधन्न विशेषणमनभिधाय विशिष्टे वर्तते । तेनावश्यं भावनाविशेषणं तावदेकत्वमित्याश्रयणीयम् । तच्चोपरिष्टान्निराकरिष्यामः । शुद्धद्रव्यविशेषणत्वे तु भावनाऽपि ग्रहमात्रेण संबद्धा । न संख्यया । संख्याऽपि ग्रहमात्रेण संबद्धा न भावनया । तत्र विशिष्टविधिना भावनाविशेषणमात्राक्षेपपर्यवसायिना नार्थान्तराक्षेपः शक्यः कर्तुम् । न हि भावनां विशिंषतस्तस्य तदेकत्वं विशेषणम् ।
नापि भा643वनाविशिष्टस्य मा भूत्पुनरपि भावनाविशेषणत्वमेव । न हि भावनाऽवि715 शि644ष्टं ग्रहं विशेष्टुं शक्नोति । तस्मान्मौलिकेन विधिनाऽनाकाङ्क्षितत्वान्न द्रव्यविशेषणाक्षेपः संभवति । तथा645 सत्यपि चेद्विधिरभ्युपगम्येत तत्प्रत्ययावृत्तिमन्तरेण तदनुपपत्तेर्वाक्यभेदः स्यात् । अभ्युपेत्यापि तु, संमार्गवेलायां नैकत्वमादर्तव्यम् । स्वतन्त्रस्य ग्रहस्यैवैकत्वसंबन्धविधानात् । न हि विधीयमानावस्थः क्रयो गुणेन संबध्यमानं द्रव्यं विशिनष्टीत्युक्तमरुणाधिकर646णे । तस्मात्तावन्न द्रव्यविशेषणभूतस्य ग्रहणम् । अथैतदेकत्वं संमार्गभावनायाश्चोद्यते तथाऽपि न गुणत्वेन नापि प्रधानत्वेन संभवति । तत्र प्राधान्यं तावदनुपपन्नम् । अमूर्तस्य संस्कर्तुमशक्यत्वात् । न च द्रव्यसंस्कारेण तत्संस्कारः । अन्यत्वा647त् । ग्रहस्य वाऽयमेकत्वद्वारेण विधीयते । तस्य च स्वयमेव विहितत्वात्पुनर्विधानानर्थक्यम् । अनुष्ठानकालेऽपि च ग्रहस्याऽऽत्मीय एव संमार्गः प्रत्यभिज्ञायत इति नैकत्वनिमित्तबुद्धिः स्यात् । एवं गुणभावोऽपि निराकर्तव्यः । कथमरुणत्वस्य गुणत्वमिति चेदत आह ।
अनङ्गमाश्रितो हि गुणोऽप्यनङ्गमेव स्यात् । ननु प्रधानभूतमपीति । यद्द्रव्यस्याऽऽदौ निर्वर्तकत्वं प्रासङ्गिकं तद्द्वारेमैकत्वं संमार्गस्योपकरिष्यति । प्रधानभूतोऽपि च ग्रहो गुणभूतद्रव्यधर्मं क्रियाङ्गगुणपरिच्छेद्यत्वं प्रतिपत्स्यते । न हि शेषमाश्रितः शेषः । किं तर्हि । उपकारिणमाश्रित उपकारोतीति सर्वत्र स्थापयिष्यामः । शेषत्वं तु श्रुत्यादिप्रमाणकमेव भविष्यतीति । सिद्धान्तवादी तु वस्तुन्युपपद्यमानेऽप्यनेकार्थत्वे विधिशब्दस्यासामर्थ्याद्व्यवहितो वा गुणो वा हातव्यो भवतीत्येवमेकत्वपरित्यागं 717 वदति । न649 त्वेतदेवमविवक्षितं भवितुमर्हति । कथम् ।
यत्तावदुक्तममूर्तत्वात्संस्कर्तुं न शक्यत इति । तत्प्रातिपदिकार्थेऽपि ग्रहत्वे तुल्यम् । जातेरमूर्तत्वात् । अथापि व्यक्तिद्वारेणास्याः संस्कारः स संख्यायामपि तुल्यः । अथ व्यक्तौ कृतो जातेः कृतो भवतीति तथैकत्वस्यापि । तथा यदि जातिर्द्रव्यलक्षणार्था तथैकत्वमपि । अथ जातेर्मूर्तत्वं द्रव्याव्यतिरेकं चाऽऽश्रित्य साक्षादेव संस्कार इत्युच्यते । तदप्येकत्वस्याविशिष्टम् । यदप्युक्तं न च द्रव्ये क्रियमाणः संख्यायाः कृतो भवतीति । तदपि त्वत्पक्षे जातेरविशिष्टम् । अथ ग्रहशब्दस्य व्यक्तिवाचित्वात्परिहार उच्यते । तत आकृत्यधिकरणन्यायो बाध्येत । न ह्यनेकदेशकालवर्तिज्योतिष्टोमप्रयोगस्थग्रहव्यक्तिसंबन्धानुभवोऽस्ति । अद्य दृष्टेषु ग्रहेषु प्रथमः शब्दप्रयोगो न स्यात् । अतोऽवश्यं सामान्यं किंचिदुपलक्षणमाश्रयितव्यम् । न च तद्ग्रहत्वादन्यत्संभवतीति तदेव विशेषणत्वात्पूर्वमभिधेयमापद्यते । न चाऽऽकारवचनत्वं ग्रहशब्दस्य । प्रतिग्रहमवयवसंनिवेशस्य किंचिन्न्यूनातिरिक्तावयवत्वेन भिन्नत्वात् । न च तत्सामान्यं द्रव्यान्तरेभ्यो निवृत्तं तेषु तेषु चानुवृत्तं ग्रहत्वादन्यदस्ति । तस्मात्तदेव वाच्यम् । यत्तु ग्रहस्य क्रियमाणः संमार्गस्तदीयत्वावधारणेनैकत्वविषयो विज्ञायत इति मन्दफला च पुनः श्रुतिरिति । तत्राभिधीयते ।
अयमेवैकत्वसंबन्धाद्विशेषो यदेकस्मिन्क्रियते । अन्यथा हि ग्रहमात्रसंस्कारः स्यात् । तस्माद्द्रव्यगुणयोर्नियमसिद्धेरस्त्यरुणाशब्दस्येवैकत्वसंबन्धस्य पृथक्प्रयोजनमिति संस्कार्यत्वोपपत्तिः । गुणत्वप्रतिज्ञानं तु प्रणीताधर्मवद्भाष्यकारेणैव प्रतिपादितम् । मन्दयुक्तिक एवायमभ्युपगमो यद्गुणमेवाऽऽश्रितेन गुणेनोपकर्तव्यमिति । कुतः ।
असंबद्धेषु क्रियमाणा गुणाः क्रियां न परिच्छिन्द्युरिति क्रियासंबन्धिनमाश्रयन्ति । 718 न तु तद्गतगुणप्रधानत्वयोः कश्चिद्विशेष इति तयोरुपेक्षा । यथा च क्रियासाधनं किसंख्यमेतद्भविष्यतीत्येवमपेक्ष्यते । तथैव प्रधानमपि किंसंख्यं यस्य मयोपकर्तव्यमिति । एतावच्च संबन्धे कारणम् । अपि च ।
क्रियया हि प्रधानस्योपकर्तव्यं गुणेनापि । न च साधनगतोऽसौ तथागतां याति । यथा प्रधानगतः को नु खलु मम प्रधानस्योपकुर्वन्त्याः किंचिदनुग्रहं कुर्यादिति । महांश्चायमनुग्रहो यत्प्रधानेयत्तावधारणं नाम । यजमानसंस्काराणां च यागगुणभूतकर्त्रंशातिरेकेण फलप्रतिग्रहणयोग्यपुरुषकरणाद्भोक्तृत्वांशपातिनामपि यागाङ्गत्वं वक्ष्य650ते । स एवात्र न्याय इत्यविरुद्धं प्रधानाश्रयिणां गुणत्वम् । एवं स्थितेषु तु यद्विधेरसामर्थ्यमित्युक्तं तदुपादीयमानेष्वपि पश्चादिष्वविशिष्टम् । तत्रापि हि द्रव्यदेवतायागविशिष्टभावनाविधिपरे वाक्ये यदि लिङ्गसंख्यासंबन्धोऽपरः । क्रियायां द्रव्ये वा विधीयते ततो वाक्यं भिद्येतेति शक्यं वदितुम् । अथ तु विशिष्टविधानादवाक्यभेदः । स संमार्गेऽप्यप्राप्तत्वादविशिष्टः । तदिहैतावानेव विशेषोऽवशिष्यते यदग्रह उद्दिश्यमानः पशुरुपादीयमानः । न चैतावता किंचित्सिध्यति । अन्यथा पशुग्रहसंबन्धमात्रभेदेनापि विवक्षिताविवक्षितत्वसिद्धिः स्यात् । अपि चास्मिन्नेव वाक्ये ग्रहमुद्दिश्य संमार्गे विधीयमानेऽपि दशापवित्रतदेकत्वादीनां विवक्षाऽभ्युपगम्यते । न च वाक्यभेदः । तथा ग्रहैकत्वेऽपि भविष्यति । यस्तु पदान्तरोपादानाद्विशेषं ब्रूयात्त651स्य सर्वत्र यः कश्चिद्विशेषोऽस्तीति न क्वचिद्दृष्टान्तो नोपमा । तुल्यन्यायानां विषयाभावात् । किं च ।
तस्माद्ग्रहैकत्वमपि विवक्षितम् । अस्ति ह्युद्दिश्यमानस्यापि ग्रहस्य विधिसंस्पर्शः । अन्यथा हि विनाऽपि ग्रहेण संमार्गे कृते तत्कृतः शास्त्रार्थो भवेत् । अथ प्राप्तत्वाद्ग्रहस्याविधानमुच्येत । तदयुक्तम् । संमार्गं प्रत्यप्राप्तत्वात् । अथ ज्योतिष्टोमे प्राप्तेरविधिरुच्यते । स पश्वादेरपि लोके प्राप्तत्वात्प्राप्नोति । अथासौ यागेऽप्राप्तो विधीयते । तद्ग्रहस्याप्यविशिष्टम् । अथ संमार्गस्य ज्योतिष्टोमप्रकरणाबहिर्भावाद्ग्रहाविधानमुच्येत । तत्पशुयागस्यापि 719 लोकान्तर्गतत्वादविशिष्टम् । शक्यं हि यो ग्रह इतिवद्यः पशुरित्यपि वक्तुम् । उद्दिश्यमानत्वात्तु याऽत्र ग्रहस्याविधानाशङ्का सा विध्यनुवादयोरुद्दिश्यमानोपादीयमानयोश्चात्यन्तभेदादयुक्ता । तथा हि ।
तस्माद्विशिष्टसंमार्गविध्याक्षेपाद्ग्रहत्ववदेकत्वस्यापि विधिसंस्पर्शे सत्यर्थाद्गुणप्रधानभाव इत्येकत्वं निष्प्रयोजनत्वाद्गुणभूतं ग्रहश्च प्रयोजनवत्त्वात्प्रधानभूतः । किं च ।
एकस्मिन्नेव च पदे युगपदुच्चरिते ग्रहानुष्ठानं प्रति विदिराश्रीयते नैकत्वमिति विप्रतिषिद्धम् । न च विभक्तिः पदान्तरम् । स्वातन्त्र्येणानियतपूर्वापरत्वेन चाप्रयुज्यमानत्वात् । गमकत्वात्पदमिति चेन्न । धूमांदिष्वतिप्रसङ्गात् । एकस्मिन्नपि चाऽऽख्यातादिप्रत्ययेनैकोऽर्थः प्रतीयत इति प्रत्यर्थं पदत्वप्रसङ्गः । पदमिति च लौकिकः शब्दः स यत्र लोकेन प्रयुज्यते यत्र च स्मर्तृभिः स्मर्यते न ततोऽपनेतुं शक्यते । ‘सुप्ति652ङन्तं पदम्’ इति च स्मृतिः । तत्रैव च पदशब्दः प्रयुज्यते । तस्मात्प्रकृतिप्रत्ययसमुदायः पदं नावयवः । अभ्युपेत्यापि तु ।
अविवक्षायां शब्दस्याश्रुतसमत्वमाश्रीयते ।
तदिह यदि तावत्संख्यापरित्यागाद्विभक्तिः परित्यक्ता ततः कर्मत्वपरित्यागोऽपि प्राप्नोति । ततश्च ग्रहस्य संस्कार्यत्वं हीयेत । प्र653योजनवत्त्वात्संस्कार्यत्वमिति चेन्न । कारकविभक्तिमन्तरेण क्रियासंबन्धाभावात् । न ह्यविभक्तिकस्य ग्रह इत्येतावतः संमार्ष्टीत्यनेन संबन्धोऽवकल्पते । ततोऽवश्यं कर्मत्वं विवक्षितव्यम् । अतश्चाऽऽदृतायां 720 विभक्तावेकदेशपरित्यागाभावात्संख्याविवक्षा दुर्निवारेत्यशक्यः सर्वेषां संमार्गः । तेथा हि ।
अत्र655 प्रतिविधीयते ।
यदा हि ग्रहैकत्वोद्देशेन संमार्गो विधीयते तदोद्दिश्यमानयोः परस्परसंबन्धाभावात्प्रत्येकं वाक्यपरिसमाप्तिलक्षणस्तावदेको वाक्यभेदः । उपादेयनानात्वे पुनः सर्वविशिष्टभावनाप्रयोजनत्वादेककार्यत्वे सत्याञ्जस्येनैवैकवाक्यत्वं स्यात् । अस्मिन्नेव च पक्षे प्रधानभूतक्रियावशीकाराद्विशेषणानामन्योन्यनियमसिद्धिः । उद्दिश्यमानानां पुनरवशीकृतत्वात्प्रत्येकं क्रियाग्रहणसामर्थ्यात्क्रियैव वशीकृता तैराकृष्यत इत्येकैकस्यान्योन्यनिरपेक्षस्य कर्तव्यताऽवगम्यते । तदिह ग्रह एकत्वनिरपेक्षः संस्कर्तव्यः, एकत्वमपि ग्रहनिरपेक्षं संस्कर्तव्यम् । तत्र यदि तावद्ग्रहगतमेवैकत्वं संस्क्रियते ततः सापेक्षकरणादुभयोर्निरपेक्षसंबन्धावधृतं प्राधान्यं विहन्येत । अथ द्रव्यान्तरगतम् । तन्न ज्ञायेत किमिति । न हि ग्रहवत्किंचिदेकं नाम प्रकरणे पश्यामः । यदेव ह्येकं तदेवान्यापेक्षयाऽनेकम् । न चावच्छेदे कारणं किंचिदस्ति । येनान्यनिरपेक्षत्वेनैकमवधार्येत । ननुत्पत्तौ यदेकवचनान्तशब्दचोदितं तदेकं भविष्यति । न । तेषामपि बहुत्वात्किमिति निरूपणाशक्तेः । अथ सर्वेषां कस्मान्न भवति । न । तत्रापि चोदितहान्यचोदितकरणापत्तेः । तथा हि ।
721 गुणभूतेन ह्येकेनैकत्वयुक्तेन क्रिया साध्यमाना नान्यमपेक्षत इति यत्किंचिदप्युपादाय शास्रार्थः कृतः स्यात् । प्राधान्ये पुनर्यदेवैकत्वयुक्तं न गृह्येत तस्यैव वैगुण्यं प्रसज्येत । यदि त्वन्यदपि संस्क्रियेत ततोऽनेकैकत्वसंनिपातात्संख्यान्तरोपजने सति श्रुतैकत्वपरित्यागेनानेकसंस्काराच्छ्रुतं हीयेताश्रुतं च परिगृह्येत । वीप्सार्थश्च कल्प्येतैकैकं संमार्ष्टीति । जात्युद्देशेन शुक्लादिगुणान्तरोद्देशेन वा संस्कारे विहितेन संस्कृतावपि न जातिगुणान्तरापत्तिर्भवति । तथा हि ।
तत्रैतत्स्यात् । सर्वेष्वपि संस्क्रियमाणेष्वनुष्ठानवेलायामेकैक एव दृश्यते । तस्मादविरोध इत्युच्यते ।
न हि कश्चिदपि युगपदनेकं ग्रहं संमार्ष्टि । ततश्च विवक्षितेऽपि तादृशमेवेति मन्दं विवक्षाफलम् । 656ननु युगपत्संमार्गविरोध एव फलं भवति । नैतदस्ति । प्रत्येकं गृह्यमाणानां तद्वदेव संस्कारे सति यौगपद्यप्रसङ्गभावात् । अभ्युपेत्यवादमात्रं चैतत्स्वतन्त्रैकत्वाप्रतीतेः । अतश्चैकत्वांशसंबन्धस्यानवधारणेनाशास्त्रविषयत्वात्केवलग्रहपरमेव शास्त्रं विज्ञायते । यद्यपि च द्रव्यान्तरगतत्वेन तद्विवक्षितमेव तथाऽपि ग्रहस्य तावदविवक्षितमिति सिद्धः सर्वेषां संमार्गः ।
अथ तु गुणभूतमेकत्वं विधीयेत तत्र द्वितीया तावद्गुणभावं नैव ब्रवीतीति व्याख्यातं 657सक्त्वधिकरणे । सा यद्यविवक्षितेप्सितार्था कारकमात्रलक्षणार्थेति विवक्ष्यते ततः स एव तावदेको दोष इत्येकत्ववच्च ग्रहस्यापि गुणत्वप्रसङ्ग । अथ ग्रहस्य प्राधान्यमेकत्वस्य च गुणत्वं परिगृह्येयातां तथाऽपि सकृदुच्चारणे गुणप्रधानत्वश्रुतिलक्षणाश्रयणाद्विभक्तिविरूप्यादिनिमित्तो वाक्यभेदः । तत्रैतत्स्यात् । ऐकरूप्यार्थमेकत्ववद्ग्रहस्यापि तावद्गुणत्वमेवावगमयेत् । ततः प्रयोजनवत्तावशेन ग्रहस्य प्राधान्यम् । न चार्थाद्भवच्छब्दस्य वैरूप्यमापादयतीति । तत्र ब्रूमः ।
सर्वैव शब्दप्रवृत्तिरसंभवाद्विप्रकर्षं प्रतिपद्यते । नास्मदिच्छामात्रेण । तदिह यदि तावच्छ्रुतिवशात्प्राधान्यं परिगृह्यते ततस्तदेवैकम् । अथास्य कथंचिदसंभवं कल्पयित्वा लक्षणाऽऽश्रीयते । ततः पुनः संभवकल्पनाविरोधात्सत्यपि प्रयोजनवत्त्वे शास्त्रवशेन गुणत्वप्रसङ्गः । युगपत्संभवासंभवपरिग्रहात्प्राधान्यगुणत्वयोः प्राधान्याल्लोचनेन विक्षेपाच्च शब्दक्लेशः । प्रथमं हि श्रुतिवशात्प्राधान्यं प्रतीयते ततस्तदुज्झित्वा मध्ये गुणत्वं ततस्तस्याप्यसंभवादन्ते पुनः प्राधान्यमिति विक्षेपः । पश्चात्तनमपि च प्राधान्यमवश्यं शब्द एवाऽऽरोपयितव्यम् । न ह्यर्थो नाम किंचित्प्रमाणम् । किं तर्हि । शब्दशक्तिकल्प नाहेतुः । अतश्चानेककल्पनानिमित्तो ह्यस्त्येव वाक्यभेदः । किं च ।
यद्यपि च ग्रहस्य प्राधान्यं प्रयोजनवत्तयैव सिद्धं तथाऽपि द्वितीया तदापादयन्ती सती नानुवादमात्रमपि लभमानाऽर्थान्तरे वर्तेत । तद्यथा ‘दध्नेन्द्रियकामस्य जुहुयात्’ इत्यत्र प्रकरणप्राप्तमपि सन्तं होममेव धातुरनुवदति न विधानार्थमप्यन्यदेव गमनादि धात्वर्थान्तरं ब्रवीतीति । ततश्च ग्रहस्य प्राधान्यानुवादादेकत्वस्य च गुणभावविधानादपरो वाक्यभेदः । श्रुत्या चावश्यंभाविनि ग्रहप्राधान्यविधाने लभ्यमाने को जातुचिदर्थात्क्लेशेन कल्पयिष्यति ।
तस्माच्छब्दसामर्थ्यादुभयत्र प्राधान्यं ग्रहीतव्यम् । तत्र चानिरूपणादविवक्षेत्युक्तम् । भाष्यमप्येतेष्वेव वाक्यभेदेषु योजयितव्यम् । ननु च ‘अग्नेस्तृणानि’ इत्यत्र द्वितीयासंयोगाभावाद्यथोक्तवाक्यभेदाभावादेकत्वविवक्षा स्यात् । नैष दोषः । यद्यप्येषा षष्ठी विशेषणत्वाद्गुणभूतमिवाग्निं प्रतिपादयति तथाऽपि संबन्धान्तराभावादङ्गाङ्गिसंबन्ध एव ज्ञायते । तत्राप्यग्नेः प्रयोजनवत्त्वात्तृणापचयस्य तदभावाद्राज्ञः पुरुष इत्यत्र यथा राजा पुरुषस्य स्वाम्येवमग्निस्तृणापचयस्य स्वामीत्येतदेव गम्यते । यद्यपि चैषा पञ्चमी स्यात् । तथाऽप्यग्न्यपादानकस्य तृणापचयस्य फलाभावादवश्यं ‘मध्यात्पूर्वार्धाच्च द्विरवद्यति’ इतिवदविवक्षितगुणार्था कार्यवशेनाग्निप्राधान्यं लक्षयन्ती प्रवर्तते । ततश्चाग्नेः 723 प्राधान्यमेकत्वस्य च गुणभाव इत्यादि पूर्ववदेव योजनीयम् । तृणानीत्येतदपि बहुवचनमविवक्षितमिति व्याख्येयम् । तथा ‘भिन्ने जुहोति’ इत्यादिषु । यदि तावद्भिन्नैकत्वयोर्नियोगविकल्पसमुच्चयादिभिर्निमित्तत्वं सप्तम्योच्येत ततः प्रत्येकं वाक्यपरिसमाप्तेः परस्परसंबन्धाभावः । अथैकत्वमुपादेयत्वेन प्रतिपाद्येत भिन्नमनुपादेयत्वेन ततो यद्यपि गुणत्वप्रधानत्वविरोधो नास्ति तथाऽपि पूर्ववदेव विरोधः । एकवाक्यत्वे नानारूपत्वं नामेत्यविवक्षा । सत्यां चाऽऽकाङ्क्षायां विवक्ष्येत । सा चोपादीयमानेष्वाकाङ्क्षोपजायते नोद्दिश्यमानेषु । उद्दिश्यमाने हि प्रातिपादिकार्थसंबन्धिमात्रापेक्षित्वान्न संख्याकाङ्क्षा । प्रमाणान्तरादेव विज्ञातसंख्यत्वात् । अतो यादृशं ग्रहादि प्रमाणान्तरेऽवधृतं तादृश्यस्य संमार्गादय इति निश्चीयते । सर्वलक्षणेषु प्रतीतिमात्रौपयिकत्वादनुष्ठानानङ्गत्वम् । यथा योऽयं शुक्लवासा दृश्यते तमानयेत्यादिषु वासःप्रभृतीनाम् । तत्र यावता विनाऽनुष्ठानं न सिध्यति तावदुपादातव्यमिति ग्रहादिमात्रं परिगृह्यते । ननु बहुषु विवक्षितेषु बहुवचनमिति—अविवक्षितोऽप्यविद्यमानोऽर्थो न शक्यो वक्तुमिति मन्यते । तत्र वेदस्य नित्यत्वाद्यथोच्चरितार्थान्वेषणमात्रे पुरुषाणां व्यापार इति न कर्तेव पर्युनुयुज्यते । तेन प्रातिपदिकार्थानुग्रहार्था विभक्तिरिति द्रष्टव्यम् । कारकप्रतीतिपरा वा सती नान्तरीयकत्वात्संख्यां प्रतिपादयति । यथा प्रकाशनार्थं प्रज्वालितोऽग्निरिन्धनं भस्मी करोति, एवमत्रापि 658‘प्रथमं वा नियम्येत’ इत्येवं कर्मत्वप्रतिपादकमेकवचनम् । ‘यस्य पुरोडाशौ’ इत्यादिषु चाऽऽधिकारिकं हविरुभयत्ववद्द्विवचनम् । अन्यथा हि 659‘मुख्यं वा’ इति कदाचिदाग्नेयग्रहणाभ्रान्तिः स्यात् । अपि च ग्रहः प्रातिपदिकार्थ इति—यदाऽन्विष्यमाणमपि क्रियासं724 बन्धित्वं न घटते तदा तुल्यायामविवक्षायां वरं द्रव्यविशेषणमेवेदमित्यभिप्रायः । ततश्च संमार्गस्तेन विनाऽप्यविगुणः । जातिसंख्या चैषा प्रत्येकं संमृज्यमानव्यक्तिगता वा समर्थनीया ॥ १४ ॥
पशौ पुनर्द्रव्यस्य निष्प्रयोजनत्वात्सक्तुवदविवक्षितेप्सितार्थया द्वितीयया कारक सामान्यं लक्षयित्वा तद्विशेषाकाङ्क्षायां सत्यां भूतभव्यसमुच्चारणद्रव्यकर्मसंयोगन्यायेन660 करणत्वेन गुणभावेऽवगमिते सर्वेषामेव जातिद्रव्यंसंख्यालिङ्गानां भावनां यागं च प्रत्युपादीयमानत्वादवैरूप्येण विशिष्टैकभावनाविधानादर्थापत्तिलभ्यविशेषणविध्यन्तराविर्भावाच्चैकवाक्यत्वसिद्धिः ॥ १५ ॥
चमसाधिकरणम्
725 एकत्ववदेव ग्रहत्वस्यापि प्रदर्शनार्थत्वाच्चमसेष्वपि संमार्ग इत्युपन्यस्य प्रदर्शनार्थत्वे प्रमाणाभावाद्वाक्येन च संबन्धोपादानाद्ग्रहादवच्छिद्य श्रुत्या केवलसंमार्गविधानात्पूर्वपक्षः परिगृहीतः । इह त्ववघातादिवदेव भङ्गो661द्धारौ क662र्तव्यौ । नन्वेवं सति तेनैव गतत्वादधिकरणमेव नाऽऽरब्धव्यम् । सत्यं नाऽऽरभ्येत यदि ग्रहाधिकरणेनाविवक्षाकालुष्यबुद्धिर्न स्यात् । एवं त्वेकत्वविवक्षासंत्रासितः सर्वमेवाविवक्षितं मन्यते । अथवाऽऽग्नेयाद्यपूर्वाणां कर्मभेदाद्भेदे सति युक्ताऽवघादीनां व्यवस्था । ज्योतिष्टोमकर्मणस्त्वेकत्वादेकापूर्वसाधनयोर्ग्रहचमसयोर्धर्मसंकर इत्यभिप्रायः । संस्काराद्वेति चापूर्वसाधनप्रयुक्तत्वेन प्रतिप्रधानावृत्तिक्रियोपपादनार्थम् ॥ १६ ॥
726 यथास्थूलं तावदुत्तरम् । ग्रहासंबन्धे सति संमार्गविधानाभावादवश्यंभावित्वाच्च संबन्ध्यन्तरस्य न केवलसंमार्गविधानम् । अथवा ग्रहशब्देन यदपूर्वं लक्षितं तत्प्रयुक्तत्वाद्व्यवस्था । नन्वपूर्वसंयोगाविशेषादित्येकापूर्वाभिप्रायम् । सत्यपि तु कर्मैकत्वे तदपूर्वाभेदे च ग्रहचमसाभ्यासानामयुगपत्कालत्वात्स्वरूपसाहित्यमेकस्मिन्कर्मण्यपूर्वे वा न संभवतीत्यवश्यं प्रत्यभ्यासमवान्तरापूर्वभेदेन भवितव्यम् । विनाऽपि चाभ्यासेन यागस्वरूपसिद्धेरदृष्टार्थ एवाभ्यासः । ततश्च ग्रहशब्दोपस्थापितप्रत्यासन्नावान्तरापूर्वातिक्रमकारणाभावाद्व्यवस्थासिद्धिः । अवघातादिवदेव ‘फ663लं तु सह चेष्टया’ इत्येषोऽर्थो 727 योजयितव्यः । न चैकत्वविवक्षावद्ग्रहत्वविवक्षायां वाक्यभेदो भविष्यतीति पूर्वाधिकरणेन भ्रमितव्यम् ॥ १७ ॥
आनर्थक्यतदङ्गाधिकरणम्
यदि सप्तदशारत्निः, वाजपेयस्येति विधीयते, यूपशब्दो यथाकथंचित्तदनुवादः । ततः षोडशिपात्रे निवेशः । अथापि यो वाजपेयस्य संबन्धी स सप्तदशारत्निरिति विधीयते तथाऽप्येवम् । अथ यो यूपः स सप्तदशारत्निरिति वचनव्यक्तिः, वाजपेयशब्दो यथाकथंचिद्विशेषणं प्रकरणप्राप्तानुवादो वा । ततस्तदङ्गपशुयूपस्येदं परिमाणमिति । किं प्राप्तम् ।
साक्षात्कर्मणः सप्तदशारत्नित्वं न संभवतीति तदङ्गद्रव्यं गृह्यते । यत्र यदेव साक्षात्संबन्धि तदेव ग्रहीतव्यम् । यद्यपि पशुरपि वाजपेयप्रकरणान्तर्गत इति तत्संबन्धेऽपि प्रकरणादनतिरेको भवत्येव, वाजपेयस्य तद्धि भवति । तथाऽप्यङ्गप्रधानानां भिन्नकथंभावयोगित्वाद्वाजपेयकथंभावेनाग्रहणात्प्रकरणबाधोऽभिधीयते । वाजपेयस्येति च षष्ठीश्रुत्या संबन्धो भवति । भवतस्तु यूपसामानाधिकरण्याद्वाक्येन स्यात् । न च वाजपेयशब्दवेलायां कश्चिद्विरोधो येन लक्षणाऽऽश्रीयते ‘गु664णे त्वन्यायकल्पना’ इति तद्वरं 728 यूपशब्द एव लक्षणा । तस्मादूर्ध्वपात्र एव निवेश इति प्राप्तेऽभिधीयते ।
यो हि प्रकरणमव्यवहितसंबन्धं चानुजिघृक्षति तस्य यूपशब्दोऽनर्थकः स्यात् । ऊर्ध्वपात्रं लक्षयिष्यतीति चेन्न । असति सामानाधिकरण्येऽन्यथा संभवे वा लक्षणाभावात् । अस्मत्पक्षे पुनर्न किंचिल्लक्षणावृत्तम् । षष्ठ्याः संबन्धमात्रवाचित्वेनानङ्गेऽप्युपकारकमात्रापेक्षयोपपन्नत्वात् । न ह्यसावङ्गाङ्गिसंबन्धमेवैकं ब्रवीति । अनङ्गमपि स यूपस्तदङ्गपश्वर्थत्वादुपकारको वाजपेयस्य । यत्त्वानन्तर्येण षष्ठीश्रुतिर्विनियोजिकेति, तद्यूप शब्देनापि सहाविशिष्टम् । अतश्च सप्तदशारत्निविधिपरेऽनूद्यमानत्वाद्यादृशं वयं वाजपेयस्य यूपं पश्यामस्तादृशस्य ग्रहणमिति पशुयूपाश्रयणम् । अस्ति त्वेषाऽपि जिज्ञासा यदि वाजपेयस्य साक्षाद्यूपः स्यादिति । यदा तु से नोपलब्धस्तदा पक्षान्तरमवलम्बितम् । किं च ।
साक्षात्तावन्न सप्तदशारत्नित्वं युज्यत इत्युक्तम् । संबन्धिमात्रमप्यनिर्दिष्टं, वाजपेयस्येत्येतावन्मात्रेण न ज्ञायेत । यूपशब्दार्थस्त्वतत्संबन्धित्वाद्दूरभ्रष्टः । तस्माद्यथोक्तमेवास्य विशेषणत्वम् । अधिकारप्रकरणप्राप्तमनुवदिष्यति । वक्ष्यति ह्येतत् ‘आ665रा729 दपीति चेन्न । तद्वाक्ये हि तदर्थत्वात्, इत्यत्र यथा प्रकरणवशेन तदुपकारिमात्रे धर्मा विधीयन्ते न साक्षादङ्गेष्वेव केवलेष्विति । तस्मान्न केनचित्प्रमाणेन विरोध इति ॥ १८ ॥
अभिक्रमणाधिकरणम्
एवं संस्कारद्रव्यगुणा विचारिताः । इदानीं यत्कर्मैव कर्मसंबन्धित्वेन श्रूयमाणमर्थात्संस्कारत्वं प्रतिपत्स्यते तद्विचार्यते । तत्राभिक्राममिति णमुला वीप्सार्थोपादानादभिक्रम्याभिक्रम्य किमपि करोतीत्यपेक्षिते परश्च जुहोतिः प्रकृतप्रयाजग्राही दृश्यते । तत्किमभिक्रमणं तेनैव संबध्यत उत प्रकृतमात्रेणेति । संबन्धश्रवणे च सति संशयाक्षेपपरिहारावरुणाधिकरणवद्द्रष्टव्यौ । कर्मणोऽमूर्तत्वाद्वाक्येन च स्वसंबन्धोपादानात् । अनेनैव विशेषेण पुनरारम्भः । यत्तत्र समानाधिकरणं द्रव्यमुपात्तं तद्विषयनियमे च तत्साध्याक्रियासंबन्धस्योपपत्तित्वम् । इह तु तस्यैव साध्यत्वम् । अपेक्षितश्च गुणः परिच्छेदकत्वेन विज्ञातक्रियासंबन्धप्रकारः । त त्वत्राभिक्रिया । नानाभूतानि च तत्र क्रियान्तरद्रव्याणि । अत्र पुनः सर्वकर्मसु स एवाध्वर्युः कर्तेत्यपुनरुक्तता । किं तावत्प्राप्तं सर्वार्थमिति । कुतः ।
न तावदभिक्रमणेन होमं करोतीति वक्तुं शक्यम् । अतो न प्रयाजैः संबध्यते । ततश्चारुणाधिकरणपूर्वपक्षवद्वाक्यभेदः स्यात् । नन्वनेनैव हेतुनाऽन्यत्राप्यनमिनिवेश इत्यरुणाचोद्यमेव । परिहारश्चाऽऽख्याते कर्तुर्गुणभूतत्वाद्बलाद्धोमसंबन्धा666पत्तेर्न जुहोतिना गृहीतेन प्रयाजादीनां कर्त्रा संबन्धः । अन्यत्र तु प्रकरणगृहीतस्य प्रधानभूतस्य कर्तुः संबन्धो न विरोत्स्यते ॥ १९ ॥
सर्वथा तावदभिक्राममित्येतत्पदं न क्रि667यान्तरमन्तरेण निराकाङ्क्षी भवति । न ह्येतद्द्रव्यसंबन्धं कथंचिदपि ब्रवीति । तस्मात्प्रकृतप्रयाजग्राहिणा जुहोतिनैकवाक्यत्वात्तादर्थ्यं विज्ञायते । शक्नोति च कर्तृप्रत्यासत्तिकरणेन तदुपकर्तुम् । अपेक्षिता चाऽऽहवनीयप्रत्यासत्तिरध्वर्योः प्रयाजैः । अरुणत्ववदेव वाऽर्थाद्द्रव्यसंबन्ध इति कर्तुरुपसर्जनत्वेऽपि न कश्चिद्दोषः । एवं चोपकाररूपेण कर्मापि कर्मसाध्यं भवतीत्येतदपि 731 सिद्धम् । य668दा त्वतिस्थूलत्वान्नैवाभिक्राममित्येतत्पदमात्रविच्छेदेन पूर्वपक्षः । क्रियते । कथं तर्हि । यज्जुहोतीति समस्तप्रकरणजुहोत्यनुवादेनाभिक्रमणविधानादवान्तरप्रकरणस्य चाभावान्महाप्रकरणविनियोगाश्रयेण पूर्वपक्षाश्रयणम् । तदा ‘कर्तृगुणे तु’ अभिक्रमणेऽवान्तरप्रकरणापर्युपस्थापितप्रयाजकर्मासमवायात्तत्प्रकरणैकवाक्यत्वाभावमात्रमेव वाक्यभेदः स्यादित्युक्त्वा ‘साकाङ्क्षं त्विति’ अवान्तरप्रकरणमेव प्रयाजचोदनाप्रसृतकथंभावाकाङ्क्षासंबन्धद्वारा तदेकवाक्यत्वेन सिद्धान्तोऽभिधीयते । यदपि ‘असमाप्तं हि पूर्वेणेति’ तन्न वाक्यासमाप्त्यभिप्रायेण । किं तर्हि । असमाप्तं ह्यवान्तरप्रकरणं पूर्वेण प्रयाजस्वरूपगुणविधिनेत्यर्थः ।
उपवीतस्य दर्शपूर्णमासाङ्गताधिकरणम्
732 सिद्धे कर्मणां कर्मसमवायेऽधुनाऽवान्तरप्रकरणमहाप्रकरणयोः कतरद्विनियोजकमित्युपवीतमुदाहृतम् । तत्र सामिधेन्यनुवाकविभागप्रदर्शनं सामिधेनीप्रकरणसदसद्भाविवेकार्थम् । ननु दर्शपूर्णमासयोरेव प्रकरणमिति—महाप्रकरणग्रस्तत्वान्नैवावान्तरप्रकरणान्याविर्भवन्ति । अथवाऽग्निसमिन्धनप्रकाशनद्वारेण दृष्टसंस्कारार्थत्वान्न तासां प्रकरणमिति मन्यते । नैतदेवम् ।
यथैवाङ्गवाक्यानि परिपूर्णस्वार्थानि सन्ति दर्शपूर्णमासवाक्येनैकवाक्यतां यान्ति न चाऽऽत्मरूपं जहति, एवमङ्गभावनाः स्वाङ्गपरिपूर्णाः परमभावनायां संबध्यन्ते । न तदधीनत्वेन तासां स्वधर्मनिवृत्तिः । संस्कारोऽपि चापूर्वार्थत्वात्तत्सिद्ध्युपायमपेक्षमाणः प्रकरणी भवति । दृष्टार्थेष्वपि नियमादृष्टसिद्ध्यर्थं कथंभावापेक्षोत्पत्तेः प्रकरणसद्भावः ।
733 तस्मादेवंविधानामप्यङ्गानामवान्तरप्रकरणेन भवितव्यम् । अतश्च यद्यपि दृष्टार्थाकाङ्क्षा दृष्टेनैव पूर्यते । अग्निसमिन्धनप्रकाशनं भावयेत्केन—सामिधेन्यनुवचनेन, कथं, विव669क्षाप्रयत्नाभिधातादिक्रमोपजनितवर्णग्रहणसामर्थ्यकरणश्रोत्रसंस्कारानुगृहीतेनेति, तथाऽपि नियमादृष्टं कथं सेत्स्यतीत्यनुवर्तत एवाऽऽकाङ्क्षा । सा च शास्त्रचोदितेनादृष्टार्थेनैवोपायेन पूर्यते । तस्मादस्ति सामिधेन्यनुवचनस्योपवीतादिग्रहणसमर्थमवान्तरप्रकरणम् । एवं तर्हि तस्य संनिकर्षेण बलीयस्त्वात्तदङ्गत्वेनैव भवितव्यमिति कुतो महाप्रकरणविनियोगाशङ्का । उच्यते । सत्यमेतदेवं स्यात् । यदि तस्य निवित्पदव्यवधानेन प्रकरणविच्छेदाशङ्का न स्यात् । एवं तर्हि विच्छिन्ने तस्मिञ्जितं महाप्रकरणेनेति । नैतदेवम् । कुतः । काम्यसाभिधेनीकल्पसंकीर्तनेनाविच्छेदसंदेहादविस्पष्टं महाप्रकरणम् । किं तावत्प्राप्तम् ।
यथा दर्शपूर्णमासप्रकरणे पूषाद्यनुमन्त्रणान्यसंबद्धान्यपि न पुरस्तात्प्रकरणं विच्छिन्दन्ति तथा निवित्पदान्यपि न विच्छिन्द्युः प्रकरणम् । अथवाऽवान्तरप्रकरणेन निविदामपि साभिधेन्यनुवनचनाङ्गत्वान्नैवासंबद्धपदव्यवाय इत्युपपन्नमुपवीतमपि तदङ्गमेवेत्येवं प्राप्ते ब्रूमः ।
तावद्धि प्रकरणमनुवर्तते यावद्विनियोगार्हं पश्यति । असंयुक्तं च प्रकरणेन विनि युज्यते । तदिह निवित्पदानि तावल्लिङ्गेन सामिधेनीभिस्तुल्यान्यग्निसमिन्धने विनियुज्यन्ते ‘देवेद्धो मन्विद्ध’ इति । तत्र यद्य670ग्निः सामिधेन्यङ्गं भवेत्ततस्तद्द्वा671रेण तान्यप्यङ्गं भवेयुः । अथानङ्गे सत्यप्यङ्गता कल्प्यते ततः सामिधेनीनामपि निवित्पदाङ्गत्वं कश्चित्कल्पयेत् । तेन निवित्सु तावत्प्रकरणं नानुवृत्तम् । काम्यास्तु कल्पाः श्रुत्यैव पुरुषा र्थत्वेनावगता इति नैव सामिधेन्यनुवचनेन गृह्यन्ते । यदि पुनर्निविदोऽङ्गं भवेयुस्ततो गोदा672हेनन्यायेनाऽऽश्रयग्रहणादपि तावत्काम्येषु प्रकरणानुवृत्तिः स्यात् । अथापि काम्यानामङ्गत्वं भवेत्तथाऽपि पूषाद्यनुमन्त्रणवत्प्रकरणाबाधं निविदां कथंचिदनुसंधानेनाध्यवस्येम । न त्वन्यतरदस्तीत्यसत्यवान्तरप्रकरणे महाप्रकरणेन सर्वार्थता । ननु च यदि विच्छिन्ने प्रकरणे काम्याः कल्पाः श्रूयन्ते तत एकविंशत्या प्रतिष्ठां भावयेत्किमाश्रितयेति प्रकरणेनाऽऽश्रयेऽनुपनीयमाने साकाङ्क्षत्वादपरिपूर्णता प्राप्नोति । अथ वाक्येनाऽऽश्रय उपनीयेत ततः प्राप्ते कर्मणि संबन्धद्वयकरणाद्वाक्यं भिद्येत । तत्र यदि 735 वाक्यभेदोऽभ्युपगम्येत क्रथंचिद्वा परिह्नियेत ततो रेवतीवारवन्तीयसौभरादिष्वप्येवमेव वाक्येन प्रकृताश्रयदानात्सिद्धान्तहानिः । अथाऽऽश्रयलाभार्थं कथंचिदनुवर्तेत प्रकरणं तत उपवीतमपि तथैव प्राप्नोतीति सर्वथा संकटमेतत् । उच्यते ।
नैवात्रैकविंशत्यादेर्गुणात्फलम् । किं तर्हि । रेवतीवारवन्तीयादिवाक्यवदेवानेनापि विशिष्टं कर्म विधीयते । ततश्च भा673वार्थाधिकरणन्यायेन धात्वर्थात्फलम् । अत एकविंशत्यादिवीशिष्टेनानुवचनेन प्रतिष्ठादि साधयेत् । कथमिति—अनुब्रूयादिति शब्दसामान्यात्संख्याप्रत्यासत्तेश्च सामिधेन्यनुवचनवदिति गम्यते । ततश्च संख्येयानामृचामन्येषां च धर्माणां प्राप्तिः । यद्यपि चात्र कर्मान्तरत्वाकर्मान्तरत्वयोः फलं नास्ति तथाऽपि वाक्यमेवमवकल्पत इतीत्थं वर्णितम् । न त्वेवं सत्येतान्यनुवचनान्तराणि दर्शपूर्णमासाभ्यामगृहीतत्वात्पृथगेव प्रयोक्तव्यानि । न तावदेतेनास्मत्पक्षो निवर्त्यते । सर्वथोपवीतस्य सर्वार्थत्वसिद्धेः । न च स्वतन्त्रः प्रयोगः स्यात् । कुतः ।
यो हि निगदः प्राक् सामिधेनीभ्यः प्रयुज्यते स निवित्पदवदेव न सामिधेन्यङ्गम् । तदनन्तरत्वेन चोच्यमानास्वनुब्रूयादिति विधिर्न स्वतन्त्राणाम् । तद्यदि पृथक् प्रयोगः स्यात्ततः सामिधेन्यङ्गमात्रग्रहणादितरेण निगदेन विनाऽनुवचनत्वं विहन्येत । किं च ।
एकविंशत्यादिभिस्तावदवश्यं सामिधेन्यः संख्यातव्याः । ताश्चाग्निसामिन्धनं प्रकाशयन्त्यः सामिधेन्य इत्युच्यन्ते । स चाग्निः परप्रयुक्तस्ताभिः प्रकाशयितव्यः । तेन 736 ‘अर्थाभि675धानकर्म च’ इत्यस्य प्रकृतिवदनुप्रवेशात्प्राकृतस्य सामिधेनीकार्यस्याग्निसमिन्धनप्रकाशनस्यैतेनैव प्रसङ्गतः प्राप्तेरर्थात्प्रयोगमध्यपातिसमिन्धनाधीनत्वम् । नन्वेवमप्येषामेव काम्यानां कल्पानां सर्वेषामन्त्यस्य वोपवीतमङ्गं स्यात् । नैतदेवम् । कुतः ।
सर्वास्वेव विकृतिषु यत्प्राकृताङ्गमध्ये न पठितं तदकॢप्तोपकारत्वात्प्राकृतैर्निराकाङ्क्षीकृतै प्रकरणे पश्चादागच्छत्संनिधिविषयो भवति । स चाविरोधे विनियुङ्क्ते, विरोधे तु विदेवनादिवत्प्रकरणेन बाध्यते । तस्मात्कृत्स्नदर्शपूर्णमासार्थमुपवीतमिति सिद्धम् ॥ २१ ॥
वारणादीनां सर्वयज्ञाङ्गताधिकरणम्
676‘आनर्थक्यात्तदङ्गेषु’ इत्यस्यापवाद आरभ्यते । वारणवैकङ्कतानि होमार्थान्यहो737 मार्थानि च पात्राणि यज्ञगामित्वेन विहितान्याधानप्रकरणं बाधित्वा कतमस्य यज्ञस्य भवन्तिति ‘आनर्थक्या677त्तदङ्गेषु’ इति पवमानहविःषु विज्ञायन्ते । तथा प्राप्तेऽभिधीयते ।
प्रकरणगम्या पवमानहविषामाधानार्थतां बाधित्वा वाक्येनाग्न्यर्थता विज्ञायते ‘यदाहवनीये जुह्णति’ इति । तत्र678 चोद्यते । यद्यस्माद्वाक्यादाहवनीयः पवमानहविषां संस्कार्यो भवति ततः समानवाक्यनिर्देशादग्निहोत्रादीनामपि प्राप्नोति । अथ तेषां फलवत्त्वादाहवनीयोऽङ्गं ततः पवमानहविषामप्यङ्गमेव स्यात् । न ह्येकं वाक्यं फलवतां गुणभूतमफलानां च प्रधानभूतमाहवनीयं वक्तुं समर्थम् । विध्यनुवादोद्देश्योपादेयगुणप्रधानानां युगपद्विरोधात् । सप्तमी चैकत्र द्वितीयार्थं लक्षयति । अन्यत्र स्वार्थमेव वदतीति विरोधः । तथा च विश्वजिदादीनामश्रुतफलानामङ्गत्वप्रसङ्गः । सर्वं चायुक्तमेतत् । निष्पन्नश्चाऽऽहवनीय उ679पदिश्यते । फलवत्कर्मानुरोधेन च भाव्याहवनीयसंज्ञा 738 विज्ञायते । त680स्मात्किलैवं वर्णनीयम् । द्वे ह्येते वाक्ये तुल्यरूपे । पवमानहविष्प्रकरण एकमपरमनारभ्यवादे । तत्र प्राकरणिकेन निष्पाद्यमानत्वात्संस्कारापेक्षिण आहवनीयस्याफलानां पवमानहविष्प्रभृतीनां संस्कारत्वेन विधानम् । अनारभ्यवादेन तु निष्पन्नस्य सतः सर्वकर्माण्युद्दिश्याधिकरणत्वेन विधानम् । तस्मादविरोध इति । वयं तु ब्रूमः । किमनेनाश्रुतवाक्यकल्पनाक्लेशेन । अन्यथाऽप्येतदुपपद्यत एव । भवन्तु नाम पवमानहवींष्याधानाङ्गम् । तथाऽपि न तत्र पात्राणि भवन्ति । वाजपेयस्य यूप इति हि यूपग्रहणाद्व्यवहितसंबन्धेऽपि षष्ठ्युपपत्तेस्तथा कल्पितम् । न त्विहैवं किंचिदस्ति । यत्तु यज्ञावचरग्रहणं तत्प्रकृतयज्ञाभावादनारभ्यवादरूपेण सर्वत्र विदधाति । तच्चैतत्पूषाद्यनुमन्त्रणन्यायेनैव सेत्स्यतीति नार्थोऽधिकरणेन । सूत्रं तु पूर्व681स्यैव पदोत्त682रत्वेन नेयम् । ननु निविदां सामिधेन्यङ्गत्वान्न व्यवधायकत्वं स्यात् । अत आह—गुणानां च परार्थत्वादिति । तद्व्याख्यातम् । तथा हि ।
वार्त्रघ्न्यादीनामाज्यभागाङ्गताधिकरणम्
यथा683संयोगं निवेशार्थमारम्भः । कुतः संदेह इति । संयोगस्यैव द्वेधा प्रतिभानात् ।
तस्मादाज्यभागक्रमं बाधित्वा वाक्येन प्रधानार्थत्वे प्राप्तेऽभिधीयते ।
अमावास्यायां तावत्सौमी नैव विद्यमानार्था । न ह्यमावास्यायां सोमः प्रधानदेवता । पौर्णमास्यामप्यग्निसहितस्य चोदितत्वात्केवलस्य प्रकाशनं महेन्द्राधिकरणे निराकृतम् । न चाग्नीषोमयोर्द्वयोरपि प्रयोगः, ‘पुरोनुवाक्यामन्वाह’ इत्येककर्मणि विवक्षितैकसंख्यत्वात् । अथाप्राप्तमपि द्वित्वं विधीयते ततो मन्त्रविशेषस्य द्वित्वस्य च विधाना द्वाक्यं भिद्यते । आज्यभागयोस्तु कालकृतं व्यवस्थामात्रं सुकरमित्युक्त685म् ।
आनन्तर्यानियामकत्वाधिकरणम्
क्रमविनियोगोऽनन्तरमवस्थितः । इदानीं तदपवादः क्रियते । मुष्ट्योः करणं वाग्यमश्च याजमानम् । आवेदनमाध्वर्यवम् । तत्र कथमङ्गाङ्गिभाव आशङ्क्यते । नैष दोषः । आध्वर्यवेष्वपि प्रयोक्तृत्वेन यजमानस्य कर्तृत्वात् । अथवा यत्तत्र दीक्षितस्याऽऽवेद्यमानं तस्याङ्गत्वेनेतरौ संदिह्येते । कस्मात्पुनस्तुल्य आनन्तर्यै पूर्वस्यैवाङ्गत्वमुच्यते न परस्य । केचिदाहुः । अनियमप्रदर्शनार्थमेव प्राथम्यात्पूर्वोपादनम् । अथवा सर्वभावनासु किमित्युपकार्यापेक्षणं प्रथममुत्पद्यते । सर्वापेक्षणेषु च पुरस्तादुच्चरितस्य ग्रन्थानुगुण्यात्पूर्वमालोचनं भवति । तेन मुष्टिकरणवाग्यमाभ्यां किं कर्तव्यमित्यपेक्षिते ‘दीक्षितमावेदयति’ इत्युपतिष्ठते । न च तदतिक्रमे हेतुरस्ति । शक्यते च तस्यापि परतः प्रयोजनवत्त्वं कल्पयितुम् । अतस्तदर्थत्वमेव युक्तम् । एवं हस्तावनेजनस्योलपराजिस्तरणार्थत्वम् । ऊ686र्ध्वैस्तृणैदीर्घं वेदिमध्ये स्तरणमुलपराजिस्तरणं प्रत्येतव्यम् । सर्वत्र च योग्यत्वमवान्तरप्रकरणमेकवाक्यत्वं च महाप्रकरणद्बलीयांसि विनियोजकानि । तस्मा741 त्सर्वं पूर्वसमाम्नातमुत्तरसमाम्नातस्याङ्गम् । योग्यत्वाभावात्तु मुष्टिकरणवाग्यमयोः परस्पराङ्गत्वं नोपन्यस्तम् । न ह्युभयोः प्रधानार्थयोरन्योन्यापेक्षा । तेनायोग्यमात्रमतिक्रम्य न दूरं गन्तव्यमित्येवं प्राप्ते ब्रूमः ।
न हि द्वयोराख्यातयोः केनचिदुपबन्धेन विनैकवाक्यत्वं संभवति । यत्प्रकरणं बाधेत । योग्यता पुनरनन्तरार्थत्वे च समा । यद्वा सर्वार्थत्वे युक्ततरा । बहुषु हि पदार्थेष्ववधानमुपयुज्यतेतराम् । एकस्तु यथाकथंचिदपि क्रियते । न चावान्तरप्रकरणमिह विद्यते । यदि तावत्पूर्वस्य कथंभावस्तत उत्तरमेवाङ्गं प्राप्नोति । न चैवं भवितुमर्हति । साध्यांशस्यापरिपूर्णत्वात् । न चोत्तरेणासा687वकॢप्तप्रयोजनावस्थेन शक्यः पूरयितुम् । एवं तस्याप्युत्तरेणेति यावत्प्रधानं प्राप्तम् । यद्येवं ततो योऽन्तराले गुण688कामस्तेन सह सर्वमाधस्त्यमङ्गं संबध्येत, नैव प्रधानं यावत्प्राप्नुयात्, अवान्तरकथंभावस्य निष्पन्नत्वादिति । उच्यते ।
प्रधानकथंभावस्त्वभितोऽन्यसंबन्धमात्रमुक्त्वा यावदन्तं गच्छतीत्यनुषङ्गाधिकरणे व्याख्यातम् । नन्वेवं सति सर्वावान्तरप्रकरणोच्छेद एव प्राप्नोति । उच्यते ।
742 सर्वेषां हि प्रयाजादीनामङ्गं किंचिदुक्त्वा पुनः परामर्शोऽस्तीति तत्पर्यन्तावान्तरप्रकरणकल्पना भवति । अन्यथा ह्यव्यवस्थैव स्यात्सर्वशेषाणां परस्परशेषत्वप्रसङ्गात् । यत्र पुनः संकीर्तनं नास्ति तत्र सर्वं प्रधानार्थमेवाध्यवसातव्यम् । तस्य तु किं केवलस्याथ साङ्गस्येत्यत्र विवेकं ‘प्रकर690णविशेषादसंयुक्तं प्रधानस्य’ इत्यारभ्य वक्ष्यति । तदिह योग्यतया मुष्टिकरणादीनां साङ्गप्रधानार्थत्वं निश्चितम् । यदि त्वावेदयितुं स्तरितुमिति च श्रूयेत ततः ‘तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्’ इत्येकवाक्यतया विनियोगो भवेत् । न त्वेवमस्ति । तस्मात्सर्वार्थत्वमिति ॥ २४ ॥
इतश्चाऽऽनन्तर्यमप्रमाणम् । यत एकवाक्यतालक्षणमेषु प्रत्येकं दृश्यते न सर्वेषु । तस्मादपि नान्योन्यार्थता ॥ २५ ॥
चतुर्धाकरणाधिकरणम्
यथासंयोगं धर्मव्यवस्थोक्ता । स तु संयोगः किमेकदेशेनापि भवत्युत समस्तेनैवेति विचारः । किं चतुर्धाकरणविधावाग्नेयशब्देन द्विदेवत्यो गृह्यते न वेति । गृह्यत इति ब्रूमः । कुतः ।
743 यद्यप्यग्निरदेवता न त्वसमवेतः । समवेतत्वं चोपलक्षणकारणं न देवतात्वम् । न चात्राग्निः कार्ययोगी । येनात्यन्तमाद्रियेत । किं तर्हि । उपलक्षणार्थः । न चोपलक्षणानि यथाश्रुतान्येवोपांशुयाजान्तरालकाललक्षणार्थपुरोडाशद्वयवत्कार्येष्वाश्रीयन्ते ।
उपलक्षणकार्ययोर्मिथः संबन्धाभावात्साधारणत्वम् । भाष्यकारेण त्वेतदेवानुषज्योक्तं मिथस्तेषामसंबन्धादचोदना स्यादिति । भवति चैवंविधानां साधारणत्वं तथा च प्राशित्रे दृश्यत इति ॥ २६ ॥
उद्दिश्यमानं तावद्विवक्षितमित्युक्तम् । न चाग्नीषोमीयैन्द्राग्नयोराग्नेयत्वमस्ति । न ह्यत्राग्निसत्तामात्रमुपलक्षणम् । किं तर्हि । तद्धितोपात्तं देवतात्वम् । अग्निः पुनस्तद्विशेषणम् । यां चोद्दिश्य द्रव्यं त्यज्यते सा देवता । न च द्विदेवत्योऽग्निमुद्दिश्य त्यज्यते ।
आग्नेय इति यो निरपेक्षाग्निदेवत्यः सोऽभिधीयते । न च द्विदेवत्ये निरपेक्षोऽग्निर्देवता । तेनायं तद्धितो नाग्नीषोमादिगताग्निशब्दादुत्पद्यत इति न तदर्थस्य देवतात्वमाह । यत्र त्वसौ निरपेक्षो देवता स शक्य आग्नेय इति वक्तुम् । यत्तु प्राशित्रवदिति । तत्रोच्यते । देशविशेषलक्षणार्थाऽस्मिन्नाग्नेयगुणश्रुतिः । सामान्यवाक्येन सर्वत्र प्राशित्रावदाने प्राप्ते मस्तकविरोगविशेषविधानार्थमेतद्वचनमिति वैषम्यम् ।
तं चतुर्धा कृत्वा पुरोडाशं बर्हिषदं करोति इति ।
अत्रोच्यते ।
प्राशित्रेऽपि तथेति चेत् । न । गुणार्थत्वात् । मस्तकं विरुज्येति गुणपरत्वादशक्यः सामान्यविधिरुपसंहर्तुम् । इदं तु निर्गुणं पुनर्वचनं शक्नोति सामान्यं स्वविषये स्थापयितुम् । दूरस्थत्वादशक्योऽस्योपसंहार इति चेत् । न । यस्य691 येनार्थसंबन्ध इति न्यायात् । तेन—
अथवा विशेषेण प्राप्तत्वात्सामान्यमनूद्यते बर्हिषत्त्वकरणाविधानार्थम् । अथ तदपि प्राप्तं ततः क्रमार्थं श्रवणमिति वक्तव्यम् । अतश्चाऽऽग्नेयस्यैव चतुर्धाकरणमिति सिद्धम् । यदि तु तत्र केवलाग्निदेवत्यो नाभविष्यादिति—लक्षणार्था गुणश्रुतिरित्येतस्यैव व्याख्या । केवलदेवत्याभावे हि मनोतायाभिवाग्निशब्द उभौ लक्षयेत् । तदर्था वा गुणश्रुतिर्भवेत् । अस्ति त्वेकदेवत्यस्तस्मात्तस्यैव चतुर्धाकरणम् । यद्यपि चोपलक्षणं कार्ययोगि न भवति तथाऽपि तेनानुपलक्षितं न शक्यं ग्रहीतुमित्येकदेवत्यस्यैव ग्रहणमिति सिद्धम् ॥ २७ ॥
-
प्रद्दर्शनावसर इत्यर्थः ।
↩ - ( अ॰ ३ पा॰ १ अ॰ ३ सू॰ ५ )↩
-
ऊह इत्यर्थः ।
↩ -
तदानन्तर्यमुच्यत इति पाठान्तरम् ।
↩ - ( अ॰ २ पा॰ २ अ॰ २ )↩
-
एकस्यैवं पुनःश्रुतिरिति सूत्रारम्भो ज्ञेयः ।
↩ -
आलोक्यमाना इति पाठान्तरम् ।
↩ - ( पा॰ सू॰ ४—३—१०१ )↩
-
तेषामर्थाधिकरण इति शेषः ।
↩ - ( अ॰ ३ पा॰ ३ अ॰ १ सू॰ १ । )↩
-
यद्विना यदनुपपन्नं तत्तस्य नान्तरीयकमित्युच्यते ।
↩ - ( अ॰ ३ पा॰ ३ अ॰ ७ ) इत्यत्रेति शेषः↩
- ( अ॰ ३ पा॰ ३ अ॰ १ सू॰ २ ) एतत्सूत्रावयवः↩
- ( अ॰ ३ पा॰ ६ अ॰ ७ सू ॰ १८ ) ।↩
-
( चतुर्णामिति—श्रुतिलिङ्गवाक्यप्रकरणानामित्यर्थः
↩ - ( अ॰ ३ पा॰ ७ अ॰ ८ सू॰ १८ )↩
-
पक्षहेत्वोः परिग्रह इति-अत्रायमनुमानप्रयोगः । प्रयाजादिः शेषपदवाच्यः । परार्थत्वात् । यन्नैवं तत्रैवं यथा घटादिः । यद्यप्यत्र शेषपदवाच्यतावच्छेदकं परार्थत्वमेव पक्षतावच्छेदकमिति हेतुव्यापकसाध्यसमानाधिकरणो हेतुरिति व्याप्तिग्रहकाल एव हेतौ साध्याधिकरणवृत्तित्वे भासमाने समानसंवित्संवेद्यतया हेत्वधिकरणवृत्तिस्वस्यापि साध्ये भानात्साध्यसिद्धिरनुमितिप्रतिबन्धिका संभाव्यते तथाऽपि साध्याभाववदवृत्तित्वरूपसाध्यसामानाधिकरण्याघटितव्याप्तिज्ञानस्यैव हेतुत्वाङ्गीकारात् । अथवा व्यतिरेक्यनुमानत्वादस्य साध्याभावव्यापकीभूताभावप्रतियोगित्वरूपव्यतिरेकव्याप्तिज्ञानस्यैवानुमितिहेतुत्वाङ्गीकारात्पक्षतावच्छेदकहेत्वोरैक्येऽपि न काचित्क्षतिरिति दिक् ।
↩ -
सिद्धेरिति—पुरोडाशप्रयोज्यत्वादित्यर्थः ।
↩ - ( अ॰ ५ पा॰ १ अ॰ १५ सू २८ )↩
- ( अ॰ ९ पा॰ ४ अ॰ ७ सू॰ २८ )↩
- ( अ॰ ४ पा॰ १ अ॰ १४ सू॰ ३४ )↩
- ( अ॰ ६ पा॰ ४ अ॰ २ सू॰ ३ )↩
-
दशापबित्रेणेति—वस्त्रखण्डेनेत्यर्थः ।
↩ -
व्यतिरेकेति पाठान्तरम् ।
↩ -
उद्देशेन हीतिइदमत्राऽऽकूतम् । निरूपकतासंबन्धे यन्निष्ठोद्देश्यताविशिष्टकृतिकारकत्वेन विहितं यत्, तत्त्वं तदङ् गत्वमिति । ‘दर्शपूंर्णमासाभ्यां स्वर्गकामो यजेत’ इत्यनेन दर्शपूर्णमासयोः स्वर्गनिष्ठोद्देश्यताविशिष्टकृतिकारकत्वेन विहितत्वाल्लक्षणसंगतिः । अत्र च लक्षणे कृतिकारकत्वं कृत्यन्वितकर्तृत्वाद्यन्यतमान्वितत्वम् । विहितत्वं च स्वनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकतावच्छेदकत्वसंबन्धेन विधिविशिष्टत्वम् । अतः करणत्वादीनामेव कृत्यन्वितत्वादू भावनाया एव च विधिविषयत्वान्नाव्याप्त्यादिशङ्कावकाश इति दिक् ।
↩ -
इहत्यमेवेति पाठान्तरम् ।
↩ -
लक्ष्यमित्यर्थः ।
↩ - ( अ॰ ६ पा॰ १ अ॰ १ सू॰ १ )↩
-
औत्पत्तिकमिति—स्वाभाविकमित्यर्थः ।
↩ -
षष्ठाध्यायाद्याधिकरणमित्यर्थः ।
↩ -
तेन—भावार्थाधिकरणेनेत्यर्थः ।
↩ -
अभिधायेति—न तु यागफलपुरुषा इत्यनेन भाष्येणेत्यर्थः ।
↩ -
अन्त इति—कस्य पुरुषः प्रधानभूत इत्यादिनेति शेषः ।
↩ -
अस्य—पुरुषपदस्येत्यर्थः ।
↩ -
न तु यागफलपुरुषा इति भाष्यार्थं प्रदर्शयति—न तु यागफलेत्यादिना ।
↩ -
सूत्रद्वयेनेति— ‘कर्माण्यपि जैमिनिः फलार्थत्वात्’ ‘फलं च पुरुषार्थत्वात्’ इति सूत्रद्वयेनेत्यर्थः ।
↩ -
‘यागोपसर्जन’ मिति—याग उपसर्जनं यस्येति बिग्रहः ।
↩ -
न ब्रवीतीति—अन्यथेति शेषः ।
↩ - ( अ॰ ३ पा॰ ३ अ॰ १ )↩
-
संबन्ध्यन्तरेण कार्यमिति पाठान्तरम् ।
↩ -
नवमाद्येति—यत्तत्र प्रोक्षणावघातादिधर्माः किं श्रुतर्वीहित्वाद्यवच्छिन्नोद्देशेन विधीयन्त उतापूर्वसाधनत्वावच्छिनोद्देशेनेति संशय्य व्रीह्यादिस्वरूपस्यावघातादिव्यतिरेकेणापि सिद्धत्वात्तदर्थत्वे विध्यानर्थक्यापत्तेर्लक्षणयाऽपूर्वसाधनत्वावच्छिन्नोद्देशेन विधीयन्त इति साधितं तत्परामृश्यते ।
↩ -
केवलेति—व्रीह्याद्युद्देश्यवाचकपदव्यतिरेकेण, प्रोक्षति, अवहन्ति, इत्यादिरूपेणेत्यर्थः ।
↩ -
यदपूर्वसाधनत्वमिति पाठान्तरम् ।
↩ -
( अ॰ १ पा॰ ४ अ॰ १४ सू॰ २५ )
↩ -
सूक्ष्मशक्त्यात्मकं वा तत्फलमेवोपजायत इत्यादिनाऽपूर्बाधिकरण इति शेषः ।
↩ -
अनेन च सौत्रं सह चेष्टयेति पदं विवृतं ज्ञेयम् ।
↩ -
आग्नेयादिजन्योत्पत्त्यपूर्वाणीत्यर्थः ।
↩ -
एषां—उत्पत्त्यपूर्वाणां, प्रयोजकशक्तिः—अङ्गग्राहकत्वशक्तिरित्यर्थः ।
↩ - ( अ॰ २ पा॰ १ अ॰ २ )↩
-
न च—निर्ज्ञातेति—आग्नेयादिजन्यावान्तरापूर्वाणामप्यदृष्टरूपत्वेन तदुत्पत्तेरनिर्ज्ञातप्रकारत्वादित्यर्थः ।
↩ -
यथा यवानामिति— ‘व्रीहीन्प्रोक्षति, अवहन्ति’ इत्यादौ व्रीह्यादिपदेनाऽऽग्नेयाद्युत्पत्त्यपूर्वनिष्ठकार्यतानिरूपितकारणतासमानाधिकरणकार्यतानिरूपितप्रदेयप्रकृतितण्डुलव्यापारककारणतासामान्याश्रयत्वं लक्षयित्वा तदवच्छिन्नोद्देशेनैव प्रोक्षणादयो विधीयन्ते । निरुक्तोद्देश्यतावच्छेककोटौ प्रयोजनाभावादिना व्रीहित्वादेरप्रवेशात्कारणतासामान्यप्रवेशाच्च धर्माणां यवसाधारण्यसिद्धिः । स्रुगादिव्यावृत्तिसिद्धिश्च, विवक्षितव्यापारेण निरुक्तसाधनतायास्तत्राभावात् । व्रीहियवयोस्तु, आग्नेयाद्युत्पत्त्यपूर्वनिष्ठकार्यतानिरूपिता कारणता—आग्नेयादियागनिष्ठा, तदधिकरणवर्तिनी या कार्यता—व्रीह्यादिनिष्ठकारणतानिरूपिता, आग्नेयादिनिष्ठा कार्यता, तन्निरूपिता या निरुक्तव्यापारककारणता— व्रीहियवनिष्ठा कारणता, तत्सामान्याश्रयत्वस्य सत्त्वादवघातादिधर्मप्राप्त्यविघात इति दिक ।
↩ -
भिन्नापूर्वमिति—विशेषापूर्वमित्यर्थः ।
↩ -
संयोग इति—संयुज्यते विनियुज्यतेऽनेनेति संयोगः । विनियोजकवाक्यमित्यर्थः ।
↩ - ( अ॰ ३ पा॰ १ अ॰ ४ )↩
-
बहुवचनं चेति—भाष्यस्थमिति शेषः ।
↩ -
विधेयार्थशब्देति—विधेयार्थसमर्पकाणां स्फ्यश्च कपालानि चेत्यादिशब्दानामित्यर्थः ।
↩ -
आकृत्यधिकरण इति शेषः ।
↩ -
नियोगतः—नियमेनेत्यर्थः ।
↩ -
गमकः—लक्षक इत्यर्थः ।
↩ -
सह—प्रकृत्यर्थेन सहेत्यर्थः ।
↩ -
तदुपदर्शनार्थमेवेति पठान्तरम् ।
↩ -
अनेन वैदिकशब्दानामेव विचारविषयतया लौकिकानां डित्थादिशब्दानां विचाराविषयत्वमुक्तं भवति ।
↩ -
स्वत इति—प्रतियोग्यनुयोगिभ्यां निरूपणीयस्येति पूर्वं शेषः ।
↩ -
संबन्धिद्वयविशिष्टं सबन्धमिति पूर्वं शेषः ।
↩ -
तेनैव—असंबद्धस्य विशेष्यव्यवच्छेदकत्वानुपपत्त्याख्यहेतुनैवेत्यर्थः ।
↩ -
संबन्धाक्षेपः—संबन्धप्रतीतिः ।
↩ -
अर्थात्—अर्थापत्तिप्रमाणादिति ।
↩ -
संबन्धी चासाविति पाठो युक्तः ।
↩ - ( अ॰ ३ पा॰ १ अ॰ ९ सू॰ १८ )↩
-
तच्च नेत्यत्र न चेति पाठान्तरं ।
↩ - ( पा॰ सू॰ २—२—२४ )↩
-
( अ॰ १ पा॰ ४ अ॰ ५ सू॰ ८ )
↩ - ( अ॰ ३ पा॰ १ अ॰ ४ सू॰ ८ )↩
-
कथं पुनरिति—इतिकर्तव्यताकाङ्क्षात्मकेन प्रकरणेन गृह्यमाणमितिकर्तव्यतारूपमेव स्यात् । क्रियाया एव च करणानुग्राहकत्वरूपेतिकर्तव्यतात्वात्कथमक्रियारूपस्यारुणिम्नः प्रकरणेन विनियोग इति शङ्काशयः ।
↩ -
ग्राहकत्वेन—विनियोजकत्वेन ।
↩ -
‘गुणवचनेभ्यो मतुपो लुगिष्टः’ इति वार्तिकादिति शेषः ।
↩ -
वचनमेव—अभिधानमेव ।
↩ - ( अ॰ १ पा॰ ३ अ॰ ९ )↩
-
येषां—नैयायिकानामित्यर्थः ।
↩ -
पैठराणां-पिठरपाकवादिनाम् ।
↩ -
पैलूकानां-पीलुशब्दवाच्यपरमाणुषु पाकवादिनो वैशेषिकास्तेषामित्यर्थः ।
↩ -
शक्तिकल्पनेति पाठान्तरम् ।
↩ -
पा॰ सू॰ ( ५-२-९५ )
↩ -
शुक्लादिरूपादिशब्दयोरिति शेषः ।
↩ -
तेन वैयधिकरण्येनाप्यन्वयो नोपपद्यत इति पूरणम् ।
↩ -
‘सक्तून् जुहोति’ इत्यत्रेति शेषः
↩ - ( अ॰ १ पा॰ ४ अ॰ ५ सू॰ ८ )↩
-
क्रियासम्बन्धविभक्तिः—कारकविभक्तिरित्यर्थः ।
↩ - ( अ॰ ६ पा॰ ८ अ॰ १० सू॰ ३५ । )↩
- ( अ॰ ४ पा॰ १ अ॰ ५ । )↩
-
बाधित इति पा॰ ।
↩ -
याग इत्यत्र क्रय इति पाठ उचितः ।
↩ -
क्रीणातेः प्राक्, नवर्णस्य, अन्यथेति पदस्य वा पूर्वं शेषोऽपेक्षितः ।
↩ - ( अ॰ ३ पा॰ १ अ॰ ९ सू॰ १८ )↩
-
प्रकरणेन—इतिकर्तव्यताकाङ्क्षात्मकेनेत्यर्थः ।
↩ -
गुणानां—कारकाणामित्यर्थः ।
↩ - ( अ॰ ३ पा॰ १ अ॰ ३ सू॰ ३ )↩
-
यद्विना यन्नोपपद्यते तत्तस्य नान्तरीयकमित्युच्यते ।
↩ - ( अ॰ १ पा॰ ४ अ॰ १४ सू॰ २५ )↩
-
अवगतद्रव्यगुण—इति । अवगतौ द्रव्यगुणौ यस्येति विग्रहः ।
↩ -
तच्चापीति—विरुद्धोक्तिप्रसङ्गादन्यदपि विरुद्धमिति प्रदर्शयति ।
↩ -
तदुक्तं—निष्क्रियत्वं गुणस्योक्तमित्यर्थः ।
↩ -
स्थितैरिति पा॰ ।
↩ -
तद्धेतुत्त्वेनोक्तमिति—गुणस्य निष्क्रियत्वेऽमूर्तत्वं हेतुत्वेनोक्तमित्यर्थः ।
↩ -
तत्परिच्छेदार्थ इति—क्रियासाधनद्रव्यपरिच्छेदार्थ इत्यर्थः ।
↩ -
वृद्धाविति—अनेकशतग्रहणे शतं दण्ड्यन्तामित्यत्रैकवचनार्थाननुष्ठानाच्छ्रुतिविरोधापत्तेरिति यावत् ।
↩ -
तदानीं—वाक्यभेदपक्षे ।
↩ -
संभवति प्रमादोऽभिप्रायान्तरं च येषु तानि । प्रमाणान्तरगम्योऽर्थो येषां तानि । संभवत्प्रमा दाभिप्रायान्तराणि च तानि प्रमाणान्तरगम्यार्थानि च संभवत्प्रमादाभिप्रायान्तरप्रमाणान्तरगम्यार्थानीति विग्रहः ।
↩ - ( अ॰ १ पा॰ १ अ॰ ८ सू॰ २९ )↩
-
तयोः—अभिधातृविनियोक्तृश्रुत्योर्मध्य इत्यर्थः
↩ -
परिच्छेदात्-निर्णयात् ।
↩ -
प्रतीत्यलक्षणीकृत्येत्यर्थः । विधिज्ञापनप्रयोजनकं, अनुष्ठानज्ञापनप्रयोजनकं च वचनमङ्गीकृत्य विवक्षाविवक्षे भवत इति तात्पर्यार्थः ।
↩ -
विधित्वं—अयमत्र प्रवर्ततामित्याकारकः प्रेरणाख्यो लिङ्निष्ठो व्यापारविशेषः ।
↩ -
अनुवर्तमाना इति पा॰ ।
↩ -
ताभ्यां—भावनाकारकाभ्यामित्यर्थः ।
↩ -
श्रुत्या—समानाभिधानश्रुत्येत्यर्थः ।
↩ -
अर्थात्—विशिष्टविध्यन्यथानुपपत्तिरूपादर्थापत्तिप्रमाणादित्यर्थः ।
↩ -
कारकान्तराणीति—धात्वर्थरूपकारकं तु पदश्रुत्यैव विधीयते न त्वर्थादित्येवं तात्पर्येण कारकान्तरेत्युक्तम् ।
↩ -
पूर्वसमावृत्तेति—संवत्सरवाचिसमाशब्देन काललक्षणात्पूर्वकाले वृत्ताः—संजाता ये व्याख्यातारस्तेषां यदिष्टं तदर्वाचीनेन व्याख्यात्रा विवक्षितमित्युच्यत इति कारिकार्थः ।
↩ -
एवं यः सर्वभूतानि ब्राह्मणो नित्यमर्चति । स गच्छति परं स्थानं तेजोमूर्तिः पथर्जुना । इति पूरणम् ।
↩ -
पद्यर्जुनेति—ऋजुमार्गेणेत्यर्थः ।
↩ - ( अ॰ ४ पा॰ १ अ॰ ५ सू॰ १५ )↩
- ( अ॰ ६ पा॰ १ अ॰ ३ सू॰ ६ )↩
- ( अ॰ २ पा॰ १ अ॰ ४ सू॰ १० )↩
-
साक्षात्—ग्रहपदशक्त्येत्यर्थः ।
↩ -
तदिति—तस्मादित्यर्थः ।
↩ -
ग्रहादीनामिति—ग्रहतदेकत्वसंमार्गाणां मध्ये ग्रहसंमार्गयोस्तावत्, एवमष्टपक्षी विचारणा कार्या । किं ग्रह एव भावनां विशिनष्टि किं वा संमार्ग एव उत ग्रहो वा संमार्गो वा । अथवा ग्रहश्च संमार्गश्च । आहोस्विदुभयोः संबन्धः । अथ समुदायो वा । अथवा ग्रहविशिष्टः संमार्गः, संमार्गविशिष्टो वा ग्रह इति ।
↩ -
‘सोमारौद्रं घृते चरुं निर्वपेच्छुक्लानां व्रीहीणाम्’ इत्यत्रोपादीयमानविशेषणैः शुक्लादिभिरित्यर्थः ।
↩ -
रूपात्—सामर्थ्यादित्यर्थः ।
↩ -
शीघ्रापहृतेऽर्थे मन्थरानर्थक्यमित्यत्र लोकप्रसिद्धिं प्रमाणयति—सोऽयमित्यादिना ।
↩ - ( अ॰ १ पा॰ २ अ॰ ४ सू॰ ३४ )↩
-
यद्भाष्यकारेण ‘इत्यश्वाभिधानीमादत्ते’ इत्यस्मिन्वाक्य इत्यश्वाभिधानीमिति वचनव्यक्त्यन्तरमाश्रितं तत्र यथाश्रुतत्वादरो न कार्यः । किंतु विशिष्टादानभावनाविध्युत्तरकालीनो योऽरुणैकहायन्योरिव मन्त्राश्वाभिधान्योः परस्परनियमस्तत्परा वचनव्यक्त्यन्तरोक्तिः । एवं ‘नाऽऽदत्ते’ इत्यनेन आददातिसंबन्धबोधकवचनव्यक्तिनिरासश्चाऽऽदानसामान्यान्वयनिरासार्थः । तथा लिङ्गेनैवाऽऽदाने मन्त्रप्राप्त्युक्तिश्च संभवमात्राभिप्रायेत्येवं भाष्यतात्पर्यंमाह—ततश्च भाष्येत्यादिना ।
↩ - ( अ॰ १० पा॰ ७ सू॰ ७३ ) इत्यत्रेति शेषः↩
-
स्वरूपेति—ग्रहविशेषणीभूतायाः संख्यायाः ग्रहस्वरूपेण—भावनाविशेषणेन, व्यवहितत्वादित्यर्थः ।
↩ -
भावनाविशिष्टस्य—भावनां प्रति विशेष्यभूतस्यापि ग्रहस्य, नाप्येकत्वं विशेषणमित्यध्याहारेण पूरणम् ।
↩ -
अविशिष्टमिति—एकत्वेनेति शेषः ।
↩ -
अयं चापर इत्यादि—शक्यमाश्रयितुमित्यन्तं भाष्यं व्याख्यास्यति—तथा सतीत्यादि—ग्रहणमन्तेन ।
↩ - ( अ॰ ३ पा॰ १ अ॰ ६ )↩
-
द्रव्यादिति शेषः ।
↩ -
क्रयद्रव्येति—सोमक्रयाङ्गभूतैकहायनीद्रव्यपरिच्छेदद्वाराऽऽरुण्यं गुणोऽपि क्रयाङ्गमिष्यते । ग्रहस्य तु निष्फलसंमार्गाङ्गत्त्वासंभवान्न तत्परिच्छेदद्वारैकत्वस्य ग्रहाङ्गत्वं संभवतीति कारिकार्थः ।
↩ -
अत्रोच्यते । न ब्रूम इत्यादि तस्मान्नैतत्किंचिदपि कर्तुमित्यन्तं भाष्यं सिद्धान्तवादीत्वित्यारभ्य—परित्यागं वदतीत्येवमन्तेन संक्षेपतो व्याख्याय क्रियाविशेषणत्वपक्ष एकत्वस्य विवक्षानिरासभाष्यमाक्षिपति—नत्वित्यादिना ।
↩ - ( अ॰ ३ पा॰ ७ अ॰ २ ) इत्यत्रेति शेषः↩
-
तस्य सर्वत्रेति—यदि कश्चिद्यत्किंचिद्वैलक्षण्यमात्रेणातुल्यन्यायत्वं ब्रूयात्तदा तस्य तुल्यन्यायविषयाभावान्न क्वचिदप्यनुमानाङ्गं दृष्टान्तो नाप्युपमानव्यवहाराङ्गमुपमा सिध्येदित्याशयः ।
↩ -
पा॰ सू॰ ( १-४-१४ ) ।
↩ -
यथा ‘प्रयाजशेषेण हबींष्यभिघारयति’ इत्यत्र प्रयाजनिर्वृत्तिरूपकृतप्रयोजनत्वात्प्रयाजशेषस्य संस्कार्यत्वमिष्यते । तद्वदत्रापिभविष्यतीत्याशयः ।
↩ -
अर्धकुक्कुटिपाकवदिति—कुक्कुट्या अर्धं पच्यतामर्धं प्रसवाय धार्यतामिति केनचिदुक्ते कथं वैकस्य वस्तुनोऽर्धस्य पाको धारणं वा प्रसवायार्धस्य शक्यते कर्तुमित्येवंरूपमर्धजरतीयं लोकप्रवादायातमत्र दृष्टान्तार्थः ।
↩ -
एवमाक्षिप्तं सिद्धान्तभाष्यं समाधातुमारभते—अत्रेत्यादिना ।
↩ -
नन्विति—सर्वग्रहसंमार्गेऽपि प्रत्येकमनुष्ठानसिद्धिरकेत्वविवक्षाफलं भविष्यतीत्येकदेश्याशयः
↩ - ( अ॰ २ पा॰ १ अ॰ ४ सू॰ १२ )↩
- ( अ॰ ११ पा॰ १ सू॰ ४२ )↩
- ( अ॰ १२ पा॰ २ सू॰ २५ )↩
-
षष्ठाध्यायाद्याधिकरणन्यायेनेत्य्रर्थः
↩ -
भङ्गोद्धारौ—आक्षेपपरिहारावित्यर्थः ।
↩ -
कर्तव्यविति—‘विधीयतेऽवघातादिः श्रुत्या व्रीह्यादिसंगतः’ । इत्यादि तेषामर्थाधिकरणस्थवार्त्तिकोक्तप्रकारेणेत्यर्थः ।
↩ - ( अ॰ ३ पा॰ १ अ॰ ४ सू॰ १० )↩
- ( अ॰ ९ पा॰ ३ अ॰ ५ सू॰ १५)↩
- ( अ॰ ३ पा॰ ७ अ॰ १ सू॰ ३)↩
-
अभिक्रमणस्येति शेषः ।
↩ -
क्रियान्तरमन्तरेणेति—अभिक्राममिति णमुलो धातुसंबन्धाधिकारविहितत्वादिति शेषः ।
↩ -
एवं तावद्भाष्यमनुसृत्याधिकरणमारचय्य तत्र च पूर्वपक्षस्यातिफल्गुतया, अरुणाधिकरणेन गतप्रायत्त्वाश्चान्यथाऽधिकरणमारचयति—यदा त्वित्यादिना । इदमाकूतम्—अभिक्रमणस्य स्ववाक्योपात्तक्रियान्वयेऽप्यङ्गभावनाया अफलत्वेनेतिकर्तव्यताकाङ्क्षात्मकप्रकरणाभावाज्जुहोतिना प्रयाजहोममात्रग्रहणे प्रमाणाभावान्महाप्रकरणोपस्थितसर्वहोमानुवादेनाभिक्रमणविधानात्प्राकरणिकसर्वहोमाङ्गत्वमभिक्रमणस्य तत्कर्तृसंस्कारद्वारा युक्तम् । सूत्रार्थस्तु कर्तृगुणे—अभिक्रमणे, कर्मासमवायात्—प्रयाजकर्मण्यसमवायात्, तद्वाक्यैकवाक्यता न स्यादिति । एवं प्राप्ते सिद्धान्तस्तु नाभिक्रमणं प्राकरणिकसर्वहोमाङ्गम् । किं तु प्रयाजहोमाङ्गमेव । कुतः । प्रयाजावान्तराधिकारोपस्थितस्यैव जुहोतिनाऽनुवादात् । न चाङ्गाधिकारोऽप्रामाणिक इति वाच्यम् । भावनास्वाभाव्येन सर्वत्रेतिकर्तव्यताकाङ्क्षात्मकप्रकरणस्यापङ्नोतुमशक्यत्वात् । परं तु साऽगङ्भावनेतिकर्तव्यताकाङ्क्षा प्रधानाधिकारेण प्रतिबद्धेत्यङ्गग्रहणासामर्थ्यान्न परस्पराङ्गत्वप्रसक्तिः । यत्र त्वन्यानिवेश्यङ्गसंबन्धानुपपत्तिरूपोत्तेजकं तस्याः संभाव्यते, यथाऽत्रैव, प्रथमतः ‘अतिहायेडो बर्हिः प्रति समानयते जुह्वामौपभृतम्’ इत्यनेन प्रयाजोद्देशेन समानयनं विधाय मध्येऽभिक्रमणमाम्नाय पुनः श्रूयते ‘प्रयाजशेषेण हवीष्यभिधारयति’ इति । तत्र तु प्रथमाङ्गेनोत्तेजिताया यावदुत्तराङ्गसंबन्धमनुस्यूतायाः प्रयाजभावनेतिकर्तव्यताकाङ्क्षायाः प्रधानाधिकारापेक्षया बलीयस्याः सत्त्वात्तयैव मध्यपात्यभिक्रमणस्यापि ग्रहणत्सिद्धं तस्य प्रयाजहोममात्राङ्गत्वमिति । सूत्रार्थस्तु—साकाङ्क्षं—संदंशेनाभिव्यक्ताकाङ्क्षाभिक्रमणवाक्यं प्रयाजैकवाक्यं स्यात् । न ह्याद्योत्तेजनमात्रेणाभिव्यक्तेः समाप्तिरस्ति । लाघवादन्तिमनाश्यत्वाभ्युपगमादिति ।
↩ -
विवक्षाप्रयत्नेति—विवक्षाप्रयत्नादिक्रमेणोपजनितो यो वर्णग्रहणसामर्थ्यकरणरूपः श्रोत्रसंस्कारस्तदनुगृहीतेनेत्यर्थः ।
↩ -
अग्निरिति—अग्निसमिन्धनमित्यर्थः ।
↩ -
तद्द्वारेण-सामिधेनीफलप्रकाशनद्वारेणेत्यर्थः ।
↩ - (अ॰ ४ पा॰ १ अ॰ २)↩
- ( अ॰ २ पा॰ १ अ॰ १ )↩
-
क्रतुप्रयुक्तेति पा॰ ।
↩ - ( अ ४ पा॰ १ अ॰ ११ सू॰ २६ )↩
- ( अ॰ ३ पा॰ १ अ॰ ९ सू॰ १८ )↩
- (अ॰ ३ पा॰ १ अ॰ ९ सू॰ १८ )↩
-
एवमुपपादितं सिद्धान्तभाष्यमाक्षिपति—तत्र चोद्यत इत्यादिना ।
↩ -
उपदिश्यत इति—फलवदग्निहोत्रादिकर्मणामिति शेषः ।
↩ -
एवमाक्षिप्तं भाष्यं परमतेन समाधातुमारभते—तस्मादित्यादिना ।
↩ -
पूर्वस्यैव—संदिग्धे तु व्यवायात्’ इति सूत्रस्यैव शेषतयेत्यर्थः ।
↩ -
पदोत्तरत्वेन—शङ्कापदोत्तरत्वेनेत्यर्थः ।
↩ -
यथासंयोगमिति—आज्यभागक्रमाम्नातस्य वार्त्रध्नीवृधन्वतीमन्त्रचतुष्टयस्य क्रमावगताज्यभागसंबन्धाबाधेन निवेशार्थमित्यर्थः ।
↩ - (अ॰ ३ पा॰ १ अ॰ १२ सू॰ २२ )↩
-
पौर्णमास्यधिकरण इति शेषः ।
↩ -
‘उलपराजिं स्तृणाति’ इत्यत्रोलपराजिशब्दार्थमाह—ऊध्वैंरित्यादिना । उत्पूर्वस्य लुनातेः कपन्प्रत्ययान्त उलपशब्दः । उलपैः—ऊर्ध्वलवनयोग्यसुगन्ध्यादिकठिनतृणैः कृता राजिः—रेखापरपर्यायराज्याकारत्वमित्यर्थः ।
↩ -
असौ—कथंभाव इत्यर्थः ।
↩ -
गुणकाम इति—‘गोदोहनेन पशुकामस्य प्रणयेत्’ इत्यादिवाक्यविहितो गोदोहनादिरित्यर्थः ।
↩ -
परप्रकरणस्थानां—दर्शपूर्णमासादिप्रकरणस्थानां प्रयाजादीनां, श्रुत्यादिभिस्त्रिभिः कस्मिंश्चिदङ्गे ज्ञाते, पुनश्च तैरेव प्रमाणैरपरस्मिन्नङ्गे ज्ञाते, संदंशेन-संदंशसंभवेन तदिष्यते—अवान्तरप्रकरणमिष्यते । न सर्वत्रेति कारिकार्थः ।
↩ - ( अ॰ ३ पा॰ ७ अ॰ १ सू॰ १)↩
-
यस्य येनार्थसंबन्धो दूरस्थेनापि तस्य सः । अर्थतो ह्यसमर्थानामानन्तर्यमकारणम् । इति श्लोकपूरणम् ।
↩