वेदोपक्रमाधिकरणम्

803 एवं लिङ्गविनियोगमुपवर्ण्य संप्रति वाक्यविनियोगः प्रस्तूयते । तत्रोदाहरणम् । ‘उच्चैर्ऋचा क्रियते’ इत्यादि वाक्यम् । ‘तद्यदि ऋक्त उल्बणं क्रियते गार्हपत्यं परेत्य भूः स्वाहेति जुहुयात्’ ‘यदि यजुष्टो यदि सामतः’ इत्यादि च । तत्र किमृग्यजुःसामशब्दैरुच्चैस्त्वोपांशुत्वधर्मविधौ महाव्याहृत्यग्नित्रयसंबद्धहोमविधौ च पूर्वोत्त772रपदसंबन्धनिरपेक्षाभिधानश्रुतिवशेन ‘तेषामृ773ग्यत्रार्थवशेन पादव्यवस्था’ इत्येवंलक्षणानामृगादिजातानां ग्रहणमुत समस्तमन्त्रब्राह्मणात्मकानां वेदानामिति । कुतः संशयः । एकवाक्योपक्रमोपसंहारश्रुत्योर्विप्रतिपत्तेः । उपक्रमे हि वेदाः श्रूयन्ते । उपसंहारे तु ऋगादिजातानि । तत्र यदि वोपक्रमस्थवेदपदमवयवभूतजातलक्षणार्थम् । अथवोपसंहारस्थमृगादिजातं सब्राह्यणकसमुदायलक्षणार्थमिति समञ्जसासमञ्जसयोः संदेहः । स च ‘अक्ताः शर्कराः’ इतिवदाक्षेपपरिहाराभ्यां समर्थनीयः । एवं तर्हि तेनैव774 गतत्वान्नैतदारब्धव्यम् । नायमुपालम्भः । संदिग्धेषु हि वाक्यशेषस्य तत्र प्रामाण्यमुक्तम् । इह पुनर्विध्युद्देशवर्तिनामृगादिशब्दानां निःसंदिग्धमन्त्रभेदजातवचनत्वादसंदिग्ध एव विध्युद्देशः । तेन व्यवधारणकल्पनयाऽन्यतरपक्षावधारणं कार्यमित्यारभ्यते । किं प्राप्तम् । तदीयपूर्वपक्षन्यायेनैव विध्युद्देशश्रुतिबलीयस्त्वाज्जाताधिकार इति । किं च ।

यथा च द्रव्यसामान्यं क्रिया वा न विरुध्यते ।
विशेषैर्वाक्यशेषस्थैर्नैवं वेदैर्ऋगादयः ॥

न कथंचिदृगादिशब्देन ब्राह्मणं वक्तुं शक्यम् । शक्नोति तु वेदशब्द एकदेशेऽपि वर्तितुं, समुदायशब्दानामेकदेशेष्वप्युपलब्धेः, यथा ग्राम आयात इति । तथा चाध्येतारस्तत्रैव सुतरां प्रयुञ्जते वेदमधीमहे वेदो वर्तत इति । न च ब्राह्मणमधीयानास्तथा 804 वदन्ति । किं775 च ।

जातस्य हि व्यवस्थानाच्छक्यं धर्मावधारणम् ।
संकीर्णत्वात्तु वेदानां भवेत्तद्धर्मसंकरः ॥

ऋचो हि ता एव काश्चित्त्रिष्वपि वेदेषु पठ्यन्ते । तथा यजूंषि । तत्र यदि वेदत्वं धर्मसंबन्धहेतुतस्तादृशेषु न ज्ञायते को धर्मः क्रियतामित्यन्याय्यो वा विकल्प आश्रीयते । वेदान्तरव्यपदेशस्य तुल्यबलत्वात् । जातिपक्षे तु नैष दोषः । न ह्येकस्मिन्वर्णसमूहे जातिद्वयं समवेतम् । ज्योतिष्टोमप्रकरणं चैवमनुग्रहीष्यते । अन्यथा वेदस्य समस्तेष्टिपश्वेकाहाहीनसत्रविषयत्वाद्यावद्वेदानुसारी धर्मः प्रकरणमुल्लङ्घ्य सार्वत्रिकः स्यात् । ननु जाताधिकारेऽपि वेदवज्जातस्य प्रकरणान्तरेष्वपि भावात्तुल्यमेतत् । अथ प्रकृतजातातिक्रमकारणाभावादिह व्यवस्था, सा वेदपक्षेऽप्यविशिष्टा । यावन्प्रकरणे वेद इत्यवधारणात् । नैतत्तुल्यम् । कुतः ।

प्रतिसंघातवर्तित्वाज्जातं प्रकरणेऽस्ति नः ।
वेदो महासमूहत्वात्प्रकृतौ न समाप्यते ॥
सर्वर्गादिसमूहेषु जातं व्यासङ्गि चेद्भवेत् ।
प्रकृतौ न समाप्येत ततस्तदपि वेदवत् ॥
मन्त्र776ब्राह्मणतर्काणां समूहे काठकादिके ।
वेदत्वं वर्तते नित्यमनेकक्रतुगामिनि ॥
समूहास्त्वेकवाक्यानां ये पादपदपर्वणाम् ।
ऋग्यजुःसामजातानि प्रत्येकं तेषु सन्ति नः ।
यथा वनादिसंघाताः प्राक्सामान्यसमन्विताः ।
805
तथर्गादिसमूहानां सामान्यं जातमुच्यते ॥
जातिरेव तु यज्जातं भाष्यकारेण वर्णितम् ।
व्याख्यातृभिश्च तन्नैवमृगादौ जात्यसंभवात् ॥
द्वि777वर्णे च पदे जातिर्गोशब्दत्वं न कल्पितम् ।
वाक्यत्ववत्कथं नु स्युर्ऋग्यजुः सामजातयः ॥

यथैव हि वाक्यत्वं नाम जातिर्भिन्नस्थानकरणप्रपन्नाभिव्यङ्ग्यक्रमवद्वर्णात्मकपदसमूहेऽन्त्यवर्णे वा विलक्षणावयवपदार्थसंबन्धप्रत्ययाकाङ्क्षाव्यवधानाद्भ्रमणत्वादिन्यायेन कल्पयितुं त778द्भूताधिकरणे नाध्यवसितम् । तथैवर्क्त्वयजुष्ट्वसामत्वानि क्रमवद्वर्णस्वराश्रयाणि न शक्यानि कल्पयितुम् ।

किं त्वेकार्थसमूहस्थमृग्यजुः सामसंज्ञितम् ।
जातं समूहसामान्यं न जातिर्नाम काचन ॥
यौगिकानां यथा जातेरन्यत्सामान्यमिष्यते ।
तथा समूहसामान्यं जातं जातिविलक्षणम् ॥

लोकेऽपि चैषैव जातिजातशब्दार्थप्रसिद्धिरित्येवमेव व्याख्येयम् ॥ १ ॥

किमिदं प्रायदर्शनादिति—नेदमन्यैः प्रायदर्शनैस्तुल्यमिति पश्यन्पृच्छति । ‘प्राय779वचनाच्च’ इत्यत्र हि प्रधानप्राये यत्रान्यानि प्रधानानि तत्र वचनादित्युक्तम् । तथा ‘विश780ये प्रायदर्शनात्’ इति संस्कारप्राये यत्रान्ये संस्कारा गोदोहनादयस्तत्रास्य दर्शनमिति । न त्विह यत्रान्ये वेदास्तत्रैषामृगादीनां दर्शनमित्यपि शक्यं वक्तुम् । न ह्येतद्व्यतिरिक्ता वेदाः सन्ति, येषां मध्यपाते संकीर्त्येरन् । अतो नेह प्रायदर्शनमस्तीति । तत्रोत्तरमाह—वेदप्राये वेदोपक्रमे—वेदबुद्धिजनितसंस्कारव्याप्ते 806 मनसि, इमे शब्दाः श्रूयन्ते । तद्दर्शयति—प्रजापतिर्वा इदमेकं आसीत् । यत्तु781 विध्युद्देशबलीयस्त्वादर्थवादपदस्थो वेदशब्दोऽवयवविषयो भविष्यतीति । तत्र ब्रूमः ।

विध्यर्थवादसंबद्धमन्यदेव बलाबलम् ।
मुख्यपश्चात्तनत्वेन ज्ञानानामन्यदेव तत् ॥

ये हि विध्युद्देशात्परस्तादर्थवादाः श्रूयन्ते तेषामस्ति दौर्बल्यम् । ये पुरस्ताच्छ्रूयन्ते ते मुख्यत्वाद्बलीयांसो भवन्ति । सर्वस्यैव हि शब्दस्य स्वार्थातिलङ्घने विरोधः कारणम् । स च प्रतियोगिनि दृष्टे विरोधो विज्ञायते । तदिह यदा ‘त्रयो वेदा असृज्यन्त । अग्नेर्ऋग्वेदः’ इत्यादि श्रूयते न तदा जातवचनानामृगादीनामुच्चारणमस्ति । यद्दर्शनेन वेदशब्दोऽवयवलक्षणार्थो भवेत् । अतस्तेन तावच्छ्रुतिवृत्तेनैव व्याप्ता बुद्धिः । अथेदानीमृगादिशब्दाः स्वार्थपराः सन्तो न संबध्यन्त इति बलाल्लक्षणां प्रतिपद्यन्त इति । तेन सत्यपि विध्युद्देशग782तत्वे दौर्बल्यं ‘मुख्यं वा783 पूर्वचोदनाल्लोकवत्’ इत्येवमितरबलीयस्त्वात् । ननु ‘पौर्वाप784र्ये पूर्वदौर्बल्यं प्रकृतिवत्’ इत्यनेनोत्पन्नमप्यर्थवादान्मुख्यवेदज्ञानं बाधित्वा विध्युद्देशज्ञानमेव गृह्येत । नैतदेवम् ।

पौर्वापर्यबलीयस्त्वं तत्र नाम प्रतीयते ।
अन्योन्यनिरपेक्षाणां यत्र जन्म धियां भवेत् ॥

ये हि भिन्नवाक्यगताः परस्परनिरपेक्षा विरोधिनोऽर्थाः श्रूयन्ते तेषां पूर्वस्योत्तरानुपमर्देनैव लब्धात्मकत्वादुत्तरस्य पूर्वोपभर्देन विनाऽऽत्मलाभानुपपत्तेः पौर्वापर्यबलीयस्त्वन्यायो भवति । यत्र त्वेकवाक्यतया परस्परापेक्षाणां श्रवणं न तत्रैतद्भवति । तत्र ह्याकाङ्क्षावशेनैकवाक्यता भवति । पूर्वप्रतीते चोत्तरमात्मानुगुणमधिकं वाऽकाङ्क्षति । अतश्च यदनधिकमननुगुणं वा तदनपेक्षितत्वान्नैव तस्मिन्वाक्येऽस्ति । न चाविद्यमानेन 807 पूर्वबाधः शक्यत इति पूर्वबलीयस्त्वं भवति । तदिह विध्यर्थवादयोः समानविषयत्वाद्यावदेवार्थवादे वेदाः संकीर्त्तितास्तावदेव किमप्येषां विधास्यत इत्येतदवधृतम् । ततश्च किमेषां विधेयमित्येतावन्मात्रमपेक्षते । न तु कस्य किं विधास्यत इति । तेनोत्तरस्मादवयवादपेक्षितमात्रं गृह्यते । विधेयं चापेक्षितं न विधिविषय इत्युच्चैस्त्वादिमात्रं संबध्यते न त्वृगादयः । ततश्चाविवक्षितत्वान्नैवैषां विध्युद्देशेऽस्तित्वमिति नार्थवादं बाधन्ते । अर्थवादस्थ एव तु विध्युद्देशविषयत्वेनापि वेदोऽवधार्यते । तस्माद्वेदलक्षणार्थत्वमृगादीनाम् । वेदश्च व्यापकत्वाद785हेतुलक्षणयुक्तः सन्न शक्नोत्येवावयवं लक्षयितुम् । ऋगादयस्तु नियम्यत्वात्समुदायं लक्षयन्ति । यथा चान्यत्रार्थवादानामनुवादत्वाल्लक्षणावृत्तिरदोषस्तथाऽत्रार्थवादावगतविषये विधावृगादिशब्दानामनुवादकत्वाल्लक्षणायामप्यदोषः । तेनैषा वचनव्यक्तिः, यस्मादेवमेते वेदा जातास्तस्मादेषामुच्चैस्त्वादि कर्तव्यमिति वक्तव्ये तमेवार्थसिद्धमङ्गीकृत्य ऋगादय उच्चार्यन्ते । अन्यथा ह्यसंबद्धमेव स्यात् । विध्यर्थवादयोर्नानाविषयत्वात् । तस्माद्वेदाधिकार इति ॥ २ ॥

लक्षणाऽपि च या दृष्टपूर्वा तस्यामेव शीघ्रतरबुद्धिर्भवति । ऋगादयश्च वेदे दृष्टपूर्वाः । तद्दर्शयति—ऋग्भिः प्रातरिति । त्रिष्वेव तावत्पादेषु वेदशब्दसाहचर्यादृक्शब्दस्य वेदविषयत्वं ज्ञातम् । चतुर्थे तु वेदैरशून्य इत्यवश्यमृक्शब्दः सब्राह्मणके वेदे प्रयुक्त इति गृह्यते । यस्त्वध्येतृणां वेदशब्दप्रयोगो मन्त्रेषु दृष्ट इति । सत्यमस्ति । अत्रापि लक्षणा तथाऽपि तु ‘शास्त्र786स्था वा तन्निमित्तत्वात्’ इतीतरैव ज्यायसी ॥ ३ ॥

808 787दि च लौकिकेनापि प्रयोगेण कार्यं सोऽप्यस्ति वेद ऋगादीनाम् । कथम् । ऋग्यजुः सामानि तावत्त्रयीत्येव प्रसिद्धानि । ततश्च त्रयी विद्याऽस्येत्येवं त्रयीविद्यशब्दव्युत्पत्तिः । स च वेदत्रयाध्यायिनि प्रयुज्यते न जातत्रयविदि । छन्दोगेषु जातत्रयज्ञेष्वप्यप्रयोगात् । अतस्त्रयीविद्यशब्दे त्रयीशब्दो वेदेषु प्रयुक्त इति तत्समानाधिकरणानामृगादिशब्दानामपि तद्विषयत्वं विज्ञायते । तस्मादपि वेदेषु ऋगादिप्रसिद्धिः॥ ५ ॥

अनुभाषणमेतत् ॥ ६ ॥

न पाठमात्रेण, वेदान्तरव्यपदेशो भवति । यद्येन वेदेन विधीयते तत्तेनैव प्रमाणेन क्रियत इत्युच्यते । ततश्च यस्यैव मन्त्रस्य यत्र विधानं स एव तेन व्यपदेक्ष्यते । यदि 809 तूभयत्र विधास्यते तत्रोभयत्र ‘भूयस्त्वेनोभयश्रुति’ इत्यादि नास्ति तत्रागत्या विकल्पो ग्रहीष्यते ॥ ७ ॥

बाधेतेति वा पाठः ॥ ८ ॥

जातध788र्मपक्षे ‘ऋच्यध्यूढं साम गायति’ इत्यृक्सामयोरवियोगादृग्धर्मेणैव सामधर्मसिद्धेर्वृथा पुनरुपदेशः । न हि कश्चित्सामाधारभूतामृचच्चैरुच्चारयन्सामान्यन्यथोच्चारयितुं समर्थः । वेदाधिकारे त्वन्यदृग्वेदेन विधीयते । अन्यच्च सामवेदेनेत्यर्थवदुपदेशद्वयम् । अनृक्प्रजापतिहृदयाद्यर्थमितरत्रापि भविष्यतीति चेत् । न । तस्य ज्योतिष्टोमाङ्गत्वात् । प्रकरणे ह्ययं स्तोत्रसाम्नामुपदेशः । न च तेषामनृक्काणां प्रयोगः । अल्पविषयत्वाच्च मन्दपरिहृतमेवाऽऽनर्थक्यम् । तस्मादपि वेदाधिकार इति सिद्धम् ॥ ४ ॥

इति वेदोपक्रमाधिकरणम् ॥ १ ॥
  1. पूर्वोत्तरपदेति—उपक्रमोपसंहारस्थपदेत्यर्थः ।

  2. ( अ॰ २ पा॰ १ अ॰ १० सू॰ ३५ )
  3. तेनैवेति—अक्ताधिकरणेनैवेत्यर्थः ।

  4. अपि चेत्यादि भाष्यं व्याचष्टे—किं चेत्यादिना ।

  5. मन्त्रब्राह्मणेत्यादिश्लोकद्वयस्यायमर्थः— ‘विधिर्विधेयं तर्कश्च वेदः’ इति कातीयानां विधिशब्दोक्तस्य ब्राह्मणस्य विधेयशब्दोक्तानां मन्त्राणां तर्कपदोक्तस्य ‘यतो वा इमानि भूतानि जायन्ते’ इत्याद्युपनिषद्भागस्य च वेदत्वस्मृतेस्तत्समूहे काठकाद्याख्ये क्रतुविषये वेदत्वं व्यासज्य वतते । पादसमूहे एकवाक्यभूतमृग्जातं, पदसमूहे यजुर्जातमवच्छेदरूपभक्त्यवयवात्मकपर्वसमूहे सामजातं च पर्याप्य वर्तत इति ।

  6. विच्छिन्नयत्नव्यङ्ग्यैश्च नित्यैः सर्वगतैरपि व्यतिरिक्तपदारम्भो वर्णैर्नात्रोपपद्यते ॥ अनारब्धे च गोशब्दे गोशब्दत्वं कथं भवेत् । इत्यादिना श्लोकवार्तिकोक्तगोशब्दत्वन्यायं प्रकृतेऽतिदिशतिद्धिवर्णे चेत्यादिना ।

  7. ( अ॰ १ पा॰ १ अ॰ ७ ) इत्यत्रेति शेषः
  8. ( अ॰ २ पा॰ २ अ॰ ४ सू॰ १२ )
  9. ( अ॰ २ पा॰ ३ अ॰ ६ सू॰ १६ )
  10. ‘कुत एतदिति’ भाष्यमवतारयति—यत्त्वित्यादिना ।

  11. ऋगादिशब्दानामिति शेषः ।

  12. ( अ॰ १२ पा॰ २ अ॰ ८ सू॰ २५ )
  13. ( अ॰ ६ पा॰ ५ अ॰ १९ सू॰ ५४ )
  14. अहेतुलक्षणयुक्तः—व्याप्यत्वरूपहेतुलक्षणशून्य इत्यर्थः ।

  15. ( अ॰ १ पा॰ ३ अ॰ ४ सू॰ ९ )
  16. ‘धर्मोपदेशाच्च’ इति सूत्रमसंबद्धपदव्यवायापत्त्या स्वस्थानादुत्कृष्य ‘त्रयीविद्याख्या च तद्विदि’ इति सूत्रं तावदादौ व्याचष्टे—यदि चेत्यादिना ।

  17. ‘लिङ्गच्च’ इति सूत्रानन्तरं पठितमपि ‘धर्मोपदेशाच्च न हि द्रव्येण संबन्धः’ इति सूत्रं पूर्वपक्षनिरासाथंतया संप्रति व्याख्यास्यति—जातधर्मपक्ष इत्यादिना ।