अध्यायः 033
जनमेजयप्रश्नानुरोधेन सहदेवस्य द्राविडपाण्ड्यदेशगमनकथनम् ॥ 1 ॥
`जनमेजय उवाच ॥
इच्छाम्यागमनं श्रोतुं हैडिम्बस्य द्विजोत्तम ।
						लङ्कायां च गतिं ब्रह्मन्पौलस्त्यस्य च दर्शनम् ॥
					कावेरीदर्शनं चैव आनुपूर्व्या वदस्व मे ।
						
						वैशम्पायन उवाच ।
						शृणु राजन्यथा वृत्तं सहेदवस्य साहसम् ॥
						
					कालनद्वीपगांश्चैव तरसाऽजित्य चाहवे ।
						दक्षिणां च दिशं जित्वा चोलस्य विषयं ययौ ॥
					ददर्श पुण्यतोयां वै कावेरीं सरितां वराम् ।
						नाजापक्षिगणैर्जुष्टां तापसैरुपशोभिताम् ॥
					------------------------ ।
						कदम्बैः सप्तपर्णैश्च कश्मर्यामलकैर्वृताम् ॥
					-----महाशाखैः प्लक्षैरौदुम्बरैरपि ।
						----- अश्वत्थैः खदिरैर्वृताम् ॥
					-------- सञ्छन्नामश्वकर्णैश्च शोभिताम् ।
						बूतैः पुण्ड्रकपत्रैश्च कदलीवनसंवृताम् ॥
					चक्रवाकगणैः कीर्णं प्लवैश्च जलवायसैः ।
						समुद्रकाकैः क्रौञ्चैश्च नादितां जलकुक्कुटैः ॥
					एवं खगैश्च बहुभिः सङ्घुष्टां जलवासिभिः ।
						आश्रमैर्बहुभिः सक्तां चैत्यवृक्षैश्च शोभिताम् ॥
					शोभितां ब्राह्मणैः शुभ्रैर्वेदवेदाङ्गपारगैः ।
						क्वचित्तीररुहैर्वृक्षैर्मालाभिरिव शोभिताम् ॥
					क्वचित्सुपुष्पितैर्वृक्षैः क्वचित्सौगन्धिकोत्पलैः ।
						कह्लारकुमुदोत्फुल्लैः कमलैरुपशोभिताम् ॥
					कावेरीं तादृशीं दृष्ट्वा प्रीतिमान्पाण्डवस्तदा ।
						अस्मद्राष्ट्रे यथा गङ्गा कावेरी च तथा शुभा ॥
					सहदेवस्तु तां तीर्त्वा नदीमनुचरैः सह ।
						दक्षिणं तीरभासाद्य गमनायोपचक्रमे ॥
					आगतं पाण्डवं तत्र श्रुत्वा विषयवासिनः ।
						दर्शनार्थं ययुस्ते तु कौतूहलसमन्विताः ॥
					द्रमिडाः पुरुषा राजन्स्रियचश्च प्रियदर्शनाः ।
						गत्वा पाण्डुसुतं तत्र ददृशुस्ते मुदाऽन्विताः ॥
					सुकुमारं विशालाक्षं व्रजन्तं त्रिदशोपमम् ।
						दर्शनीयतमं लोके नेत्रैरनिमिषैरिव ॥
					आश्चर्यभूतं ददृशुर्द्रमिडास्ते समागताः ।
						महासेनोपमं दृष्ट्वा पूजां चक्रुश्च तस्य वै ॥
					रत्नैश्च विविधैरिष्टैर्भोगैरन्यैश्च संमतैः ।
						गतिमङ्गलयुक्तार्भिः स्तुवन्तो नकुलानुजम् ॥
					सहदेवस्तु तान्दृष्ट्वा द्रमिलानागतान्मुदा ।
						विसृज्य तान्महाबाहुः प्रस्थितो दक्षिणां दिशम् ॥
					दूतेन तरसा चोलं विजित्य द्रमिडेश्वरम् ।
						ततो रत्नान्युपादाय पाण्डस्य विषयं ययौ ॥
					दर्शने सहदेवस्य न च तृप्ता नराः परे ।
						गच्छन्तमनुगच्छन्तः प्राप्ताः कौतूहलान्विताः ॥
					ततो माद्रीसुतों राजन्मृगसङ्घान्विलोकयन् ।
						गजान्वनचरानन्यान्व्याघ्रान्कुष्णमृगान्बहून् ॥
					शुकान्मयूरान्दृष्ट्वा तु गृध्रानारण्यकुक्कुटान् ।
						ततो देशं समासाद्य श्वशुरस्य महीपतेः ॥
					प्रेषयामास माद्रेयो दूतान्पाण्ड्याय वै तदा ।
						प्रतिजग्राह तस्याज्ञां सम्प्रीत्या मलयध्वजः ॥
					भार्या रूपवती जिष्णोः पाण्ड्यस्य तनया शुभा ।
						चित्राङ्गदेति विख्याता द्रमिडी योषितां वरा ॥
					आगतं सहदेवं तु सा श्रुत्वाऽन्तः पुरे पितुः ।
						प्रेषयामास सम्प्रीत्या पूजारत्नं च वै बहु ॥
					पाण्ड्योऽपि बहुरत्नानि दूतैः सह मुमोच ह ।
						मणिमुक्ताप्रवालानि सहदेवाय कीर्तिमान् ॥
					तां दृष्ट्वाऽप्रतिमां पूजां पाण्डवोऽपि मुदा नृप ।
						भ्रातुः पुत्रे बहून्रत्नान्दत्वा वै बभ्रूवाहने ॥
					पाण्ड्यं द्रमिडराजानं श्वशुरं मलयध्वजम् ।
						स दूतैस्तं वशे कृत्वा मणलूरेश्वरं तदा ॥
					ततो रत्नान्युपादाय द्रमिडैरावृतो ययौ ।
						अगस्त्यस्यालयं दिव्यं देवलोकसमं गिरिम् ॥
					स तं प्रदक्षिमं कृत्वा मलयं भरतर्षभ ।
						लङ्घयित्वा तु माद्रेयस्ताम्रपणीं नदीं शुभाम् ॥
					प्रसन्नसलिलां दिव्यां सुशीतां च मनोहराम् ।
						समुद्रतीरमासाद्य न्यविशत्पाण्डुनन्दनः ॥ ॥
					इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि त्रयस्त्रिंशोऽध्यायः ॥ 33 ॥