अध्यायः 046
हिरण्यकशिपुना समुद्रे तपश्ररणम् ॥ 1 ॥ तपः प्रसन्नेन ब्रह्मणा तस्मै वरदानम् ॥ 2 ॥ तस्य वरप्राप्त्या भीतानां देवानां ब्रह्मणा परिसान्त्वनम् ॥ 3 ॥ हिरण्यकशइपुना त्रैलोक्यपीडने आत्मानं शरणं गतानां देवानां श्रीहरिणाऽभयप् रदानम् ॥ 4 ॥ नृसिंहरूपिणा हरिणा हिरण्यकशिपुहननम् ॥ 5 ॥
भीष्म उवाच ।
दैत्येन्द्रो बलवान्त्राजन्सुरारिर्बलगर्वितः ।
						हिरण्यकशिपुर्नाम आसीत्रैलोक्यकण्टकः ॥
					दैत्यानामादिपुरुषो वीर्येणाप्रतिमो बली ।
						प्रविश्य जलधं राजंश्चकार तप उत्तमम् ॥
					दशवर्षसहस्राणि शतानि दश पञ्च च ।
						व्रतोपवासतस्तस्थौ स्याणुमौनव्रतो दृढः ॥
					ततः शमदमाभ्यां च ब्रह्मचर्येण चानघ ।
						ब्रह्मा प्रीतमनास्तस्य तपसा नियमेन च ॥
					ततः स्वयम्भूर्भगवान्स्वयमागम्य भूपते ।
						विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥
					आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैस्तथा ।
						रुद्रैर्विश्वसहायैश्च यक्षराक्षसकिन्नरैः ॥
					दिशाभिर्विदिशाभिश्च नदीभिः सागरैः सह ।
						नक्षत्रैश्च मुहूर्तैश्च खेचरैश्चापरैर्ग्रहैः ॥
					देवर्षिभिस्तपोयुक्तैः सिद्धैः सप्तर्षिभिस्तदा ।
						राजर्षिभिः पुण्यतमैर्गन्धर्वैरप्सरोगणैः ॥
					चराचरगुरुः श्रीमान्वृतः सर्वसुरैस्तथा ।
						ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यमागम्य चाब्रवीत् ॥
					प्रीतोऽस्मि तव भक्तस्य तपसाऽनेन सुव्रत ।
						वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥
						हिरण्यकशिपुरुवाच । 
					न देवा न च गन्धर्वा न यक्षोरगराक्षसाः ।
						न मानुषाः पिशाचाश्च हन्युर्मां देवसत्तम ॥
					ऋषयो वा न मां शापैः क्रुद्धा लोकपितामह ।
						शपेयुस्तपसा युक्ता वर एष वृतो मया ॥
					न शस्त्रेण नचास्त्रेण गिरिणा पादपेन च ।
						न शुष्केण न चार्देण स्यान्न वाऽन्येन मे वधः ॥
					नाकाशे नाथ भूमौ वा रात्रौ वा दिवसेपि वा ।
						नान्तर्वा न बहिर्वापि स्याद्वधो मे पितामह ॥
					पशुभिर्वा मृगैर्न स्यात्पक्षिभिर्वा सरीसृपैः ।
							ददासि ------------------ ।
						
						ब्रह्मोवाच । 
					एते दिव्या--------------- ।
						सर्वकामवरां--------------- ॥
					एवमुक्त्वा स ------------हि ।
						रराज ब्रह्मलोके ------------ ॥
					ततो देवाश्च ------------- ।
						वरप्रदानं श्रुत्वै------------- ॥
						देवा ऊचुः । 
					वरेणाने भग-------------- ।
						तत्प्रसीदस्व भगवन्वधोपायोऽस्य चिन्त्यताम् ॥
						भीष्म उवाच ॥ 
					ततो लोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः ।
						प्रोवाच भगवान्वाक्यं सर्वदेवगणांस्तदा ॥
					अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम् ।
						तपसोऽन्तेऽस्य भगवान्वधं कृष्णः करिष्यति ॥
					एतच्छ्रुत्वा सुराः सर्वे ब्रह्मणा तस्य वै वधम् ।
						स्वानि स्थानानि दिव्यानि जग्मुस्ते वै मुदान्विताः ॥
					लब्धमात्रे वरे चापि सर्वास्ता बाधते प्रजाः ।
						हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः ॥
					राज्यं चकार दैत्येन्द्रो दैत्यसङ्घैः समावृतः ।
						सप्तद्वीपान्वशेचके लोकालोकान्तरं बलात् ॥
					दिव्यभोगान्समस्तान्वै लोके सर्वानवाप सः ।
						देवांस्त्रिभुवनस्थांस्तु पराजित्य महासुरः ॥
					त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः ।
						यदा वरमदोन्मत्तो न्यवसद्दानवो दिवि ॥
					अथ लोकान्सगस्तांश्च विजित्य स महाबलः ।
						भवेयमहमेवेन्द्रः सोमोऽग्निर्मारुतो रविः ॥
					सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश ।
						अहं क्रोधश्च कामश्च वरुणो वसवोऽर्यमा ॥
					धनदश्च धनाध्यक्षो यक्षकिम्पुरुषाधिपः ।
						एते भवेयमित्युक्त्वा स्वयं भूत्वा बलात्स च ॥
					एषां गृहीत्वा स्थानानि तेषां कार्याण्यवाप सः ।
						इज्यश्चासीन्मखवरैर्देवकिन्नरसत्तमैः ॥
					नरकस्थान्समानीय स्वर्गस्थांश्च चकार सः ।
						एवमादीनि कर्माणि कृत्वा दैत्यपतिर्बली ॥
					आश्रमेषु महाभागान्मुनीन्वै शंसितव्रतान् ।
						सत्यधर्मपरान्दान्तान्पुरा धर्षितवांस्तु सः ॥
					याज्ञीयान्कृतबान्दैत्यन्याजकांश्चैव देवताः ।
						यत्रयत्र सुरा जग्मुस्तत्रतत्र व्रजत्युत ॥
					स्थानानि देवतानां तु हृत्वा राज्यमकारयत् ।
						पञ्चकोट्यश्च वर्षाणि अयुतान्येकषष्टि च ॥
					षष्टिश्चैव सहस्राणां जग्मुस्तस्य दुरात्मनः ।
						एतद्वर्षं स दैत्येन्द्रो भोगैश्चर्यमवाप सः ॥
					तेनातिबाध्यमानास्ते दैत्येन्द्रेण बलीयसा ।
						ब्रह्मलोकं सुरा जग्मुः शर्वशक्रपुरोगमाः ॥
					पितामहं समासाद्य खिन्नाः प्राञ्जलयोऽब्रुवन् ॥
						
						देवा ऊचुः । 
					भगवन्भूतभव्येश नस्त्रायस्व इहागतान् ।
						भयं दितिसुताद्घोराद्भवत्यद्य दिवानिशम् ॥
					भगवन्सर्वदैत्यानां स्वयम्भूरादिकृत्प्रभुः ।
						स्रष्टा त्वं हव्यकव्यानामव्यक्तः प्रकृतिर्ध्रुवः ॥
						ब्रह्मोवाच । 
					श्रूयतामापदेवं हि दुर्विज्ञेया मयापि च ।
						नारायणस्तु पुरुषो विश्वरूपो महाद्युतिः ॥
					अव्यक्तः सर्वभूतानामचिन्त्यो विभुरव्ययः ।
						ममापि स तु युष्माकं व्यसने परमा गतिः ॥
					नारायणः परोऽव्यक्तादहमव्यक्तसम्भवः ।
						मत्तो जज्ञुः प्रजा लोकाः सर्वे देवासुराश्च ते ॥
					देवा यथाहं युष्माकं तथा नारायणो मम ।
						पितामहोऽहं सर्वस्य स विष्णुः प्रपितामहः ॥
					निश्चितं विषुधा दैत्यं स विष्णुस्तं हनिष्यति ।
						तस्य नास्ति न शक्यं च तस्माद्व्रजत माचिरम् ॥
						भीष्म उवाच ॥ 
					पितामहवचः श्रुत्वा सर्वे ते भरतर्षभ ।
						विबुधा ब्रह्मणा सार्धं जग्मुः क्षीरोदधिं प्रति ॥
					आदित्या वसवः साध्या विश्वे च मरुतस्तथा ।
						रुद्रा महर्षयश्चैव अश्विनौ च सुरूपिणौ ॥
					अन्ये च दिव्या ये राजंस्ते सर्वे सगणाः सुराः ।
						चतुर्मुखं पुरस्कृत्य श्वेतद्वीपमुपागताः ॥
						देवा ऊचुः । 
					त्रायस्व नोऽद्य देवेश हिरण्यकशिपोर्वधात् ।
						त्वं हि नः परमो धाता ब्रह्मादीनां सुरोत्तम ॥
					उत्फुल्लाम्बुजपत्राक्ष शत्रुपक्षभयङ्कर ।
						क्षयाय दितिवंशस्य शरणं त्वं भविष्यसि ॥
						भीष्ण उवाच ॥ 
					तद्देवानां वचः श्रुत्वा तदा विष्णुः शुचिश्रवाः ।
						अदृश्यः सर्वभूतात्मा वक्तुमेवोपचक्रमे ॥
						विष्णुरुवाच ॥ 
					भयं त्यजध्वममरा अभयं वो ददाम्यहम् ।
						तदेव त्रिदिवं देवाः प्रतिपद्यत माचिरम् ॥
					एषोऽहं सगणं दैत्यं वरदानेन दर्पितम् ।
							अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम् ॥ 2-46-53
								ब्रह्मोवाच ॥ 
					भहवन्देवदेवेश खिन्ना एते भृशं सुराः ।
							तस्मात्त्वं जहि दैत्येन्द्रं क्षिप्रं कालोऽस्य माचिरम् ।
						
						एष त्वं सगणं दैत्यं वरदानेन दर्पितम् ॥
						
						विष्णुरुवाच ॥ 
					क्षिप्रमेव करिष्यामि त्वरया दैत्यनाशनम् ।
						तस्मात्त्वं विबुधाश्चैव प्रतिपद्यत वै दिवम् ॥
						भीष्म उवाच ॥ 
					एवमुक्त्वा तु भगवान्विसृज्य त्रिदिवेश्वरान् ।
						नरस्यार्धतनुर्भूत्वा सिंहस्यार्धतनुः पुनः ॥
					नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना ।
						भीमरूपो महातेजा व्यादितास्य इवान्तकः ॥
					हिरण्यकशिपुं राजञ्जगाम हरिरीश्वरः ।
						दैत्यास्तमागतं दृष्ट्वा नारसिंहं महाबलम् ॥
					ववर्षुः शस्त्रवर्षैस्ते सुसङ्क्रुद्धास्तदा हरिम् ।
						तैः सृष्टसर्वशस्त्राणि भक्षयामास वै हरिः ॥
					जघान न रणे दैत्यान्सहस्राणि बहूनि च ।
						तान्निहत्य च दैतेयान्सर्वान्क्रुद्धान्महाबलान् ॥
					अभ्यधावत्सुसङ्क्रुद्धो दैत्येन्द्रं बलगर्वितम् ।
						जीमूतघनसङ्काशो जीमूतघननिस्वनः ॥
					जीमूत इव दीप्तौजा जीमूत इव वेगवान् ।
						दैत्यं सोऽतिबलं दृप्तं दृप्तशार्दूलविक्रमम् ॥
					दृप्तैर्दैत्यगणैर्गुप्तं खरैर्नखमुकैरुत ।
						ततः कृत्वा तु युद्धं वै तेन दैत्येन वै हरिः ॥
					सन्ध्याकाले महातेजा भवनान्ते त्वरान्वितः ।
						ऊरौ निधाय दैत्येन्द्रं निर्बिभेद नखैस्तदा ॥
					महाबलं महावीर्यं वरदानेन गर्वितम् ।
						दैत्यश्रेष्ठं सुरश्रेष्ठो जघान तरसा हरिः ॥
					हिरण्यकशिपुं हत्वा सर्वदैत्यांश्च वै तदा ।
						विबुधानां प्रजानां च हितं कृत्वा महाद्युतिः ॥
					प्रमुमोद हरिर्देवः प्राप्य धर्मं तदा भुवि ।
							एष ते नारसिंहोऽत्र कथितः पाण्डुनन्दन ।
						
					शृणु त्वं वामनं नाम प्रादुर्भावं महात्मनः ॥ ॥
					इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि षट््चत्वारिंशोऽध्यायः ॥ 46 ॥
