अध्यायः 113
					 ऋश्यशृङ्गेण विभाण्डकंप्रति भ्रमाद्वेश्याकुमार्यां
						मुनिकुमारत्वव्यपदेशेन तदागमनोक्तिपूर्वकं तदङ्गचेष्टाविलासैस्तस्यामेव
						स्वचित्तासक्त्युक्तिः ॥ 1 ॥ 
					
					
						इहागतो जटिलो ब्रह्मचारी
							न वै ह्रस्वो नातिदीर्घो मनस्वी ।
						
						सुवर्णवर्णः कमलायताक्षः
							सुतः सुराणामवि शोभमानः ॥
						
					 
					
						समृद्धरूपः सवितेव दीप्तः
							सुश्लक्ष्णवाक्कृष्णतारश्चकोरात् ।
						
						नीलाः प्रसन्नाश्च जटाः सुगन्धा
							हिरण्यरज्जुग्रथिताः सुदीर्घाः ॥
						
					 
					
						आधारभूतः पुनरस्य कण्ठे
							विभ्राजते विद्युदिवान्तरिक्षे ।
						
						द्वौ चास् पिण्डावधरेण कण्ठा-
							दजातरोमौ सुमनोहरौ च ॥
						
					 
					
						विलग्नमध्यश्च स नाभिदेशे
							कटिश्च तस्यातिकृतप्रमाणा ।
						
						तथाऽस् चीरान्तरतः प्रभाति
							हिरण्मयी मेखला मे यथेयम् ॥
						
					 
					
						अन्यच्च तस्याद्भुतदर्शनीयं
							विकूजितं पादयोः संप्रभाति ।
						
						पाण्योश्च तद्वत्स्वनवन्निबद्धौ
							कलापकावक्षमाला यथेयम् ॥
						
					 
					
						विचेष्टमानस्य च तस्य तानि
							कूजन्ति हंसाः सरसीव मत्ताः ।
						
						चीराणि तस्याद्भुतदर्शनानि
							नेमानि तद्वन्मम रूपवन्ति ॥
						
					 
					
						वक्रं च तस्याद्भुतदर्सनीयं
							प्रव्याहृतं ह्लादयतीव चेतः ।
						
						पिंस्कोकिलस्येव च तस्य वाणि
							तां शृण्वतो मे व्यथितोऽन्तरात्मा ॥
						
					 
					
						यथा वनं माधवमासिमध्ये
							समीरीतं श्वसनेनेव भाति ।
						
						तथा स भात्युत्तमपुण्यगन्धी
							निषेव्यमाणः पवनेन तात ॥
						
					 
					
						सुसंवताश्चापि जटा विभक्ता
							द्वैधीकृता भातिललाटदेशे ।
						
						कर्णौ च चित्रैरिव चक्रवाकैः
							समावृतौ तस्य सुरूपवद्भिः ॥
						
					 
					
						तथा फलं वृत्तमथो विचित्रं
							समाहतं पाणिना दक्षिणेन ।
						
						तद्भूमिमासाद्य पुनःपुनश्च
							समुत्पतत्यद्भुतरूपमुच्चैः ॥
						
					 
					
						तच्चाभिहत्वा परिवर्ततेऽसौ
							वातेरितो वृक्ष इवावघूर्णम् ।
						
						तं प्रेक्षतः पुत्रमिवामराणां
							प्रीतिः परा तात रतिश्च जाता ॥
						
					 
					
						स मे समाश्लिष्य पुनः शरीरं
							जटासु गृह्याभ्यवनाम्य वक्रम् ।
						
						वक्रेण वक्रं प्रणिधाय शब्दं
							चकार तन्मेऽजनयत्प्रहर्षम् ॥
						
					 
					
						न चापि पाद्यं बहुमन्यतेऽसौ
							फलानि चेमानि मया हृतानि ।
						
						एवंव्रतोस्मीति च मामवोच-
							त्फलानि चान्यानि नवान्यदान्मे ॥
						
					 
					
						मयोपयुक्तानि फलानि यानि
							नेमानि तुल्यानि रसेन तेषाम् ।
						
						न चापि तेषां त्वगियं यथैषां
							साराणि नैषामिव सन्ति तेषाम् ॥
						
					 
					
						तोयानि चैवातिरसानि मह्यं
							प्रादात्म वै पातुमुदाररूपः ।
						
						पीत्वैव यान्यभ्यधिकः प्रहर्षो
							ममाभवद्भूश्चलितेव चासीत् ॥
						
					 
					
						इमानि चित्राणि च गन्धवन्ति
							माल्यानि तस्योद्ग्रथितानि पट्टैः ।
						
						यानि प्रकीर्येह गतः स्वमेव
							स आश्रमं तपसा द्योतमानः ॥
						
					 
					
						गतेन तेनास्मिकृतो विचेता
							गात्रं च मे संपरिदह्यतीव ।
						
						इच्छामि तस्यान्तिकमाशु गन्तुं
							तं चेह नित्यं परिवर्तमानम् ॥
						
					 
					
						गच्छामि तस्यान्तिकमेव तात
							का नाम सा ब्रह्मचर्या च तस्य ।
						
						इच्छाम्यहं चरितुं तेन सार्धं
							यथा तपः स चरत्यार्यधर्मा ॥
						
					 
					
						चर्तुं तथेच्छा हृदये ममास्ति
							दुनोति चित्तं यदि तं न पश्ये ॥
					 
					 इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि त्रयोदशाधिकशततमोऽध्यायः ॥ 113 ॥ 
					 3-113-3 आधाररूपा पुनरिति झ. ध. पाठः ॥ 3-113-5 कलापकौ
						भूषणविशेषौ । स्वार्थे कः । कङ्गणावित्यर्थः । विकुञ्चितं पादयोः संप्रभाति इति ध.
						पाठः ॥ 3-113-10 तथा फलं फलसदृशं कन्दुकम् ॥ 3-113-11 प्रीतिराह्लादः ।
						रतिरासक्तिः ॥