अध्यायः 227
					 स्वाहयाऽरुन्धतीवर्जं सप्तर्षिपत्नीसारूप्येणाग्निना सह रमणम् ॥ 1 ॥ ततो गारुडरूपस्वीकारेणाग्निरेतसां श्वेतपर्वतस्थकाञ्चनकुण्डे प्रक्षेपणम् ॥ 2 ॥ स्वकन्नात्तद्रेतसः षण्मुखस्य संभवः ॥ ततस्तेन बाणैः
						क्रौञ्चगिरिविदारणपूर्वकं शक्त्या श्वेतगिरिशिखरविभेदनम् ॥ 4 ॥ 
					
					
						शिवा भार्या त्वङ्गिरसः शीलरूपगुणान्विता ।
						तस्याः सा प्रथमं रूपं कृत्वादेवी जनाधिप ॥
					 
					
						जगाम पावकाभ्याशं तं चोवाच वराङ्गना ।
						मामग्ने कामसंतप्तां त्वं कामयितुमर्हसि ॥
					 
					
						करिष्यसि न चेदेवं मृतां मामुपधारय ।
						`तवाप्यधर्मः सुमहान्भविता वै हुताशन' ॥
					 
					
						अहमङ्गिरसो भार्या शिवा नाम हुताशन ।
						सखीभिः सहिता प्राप्ता मन्त्रयित्वा विनिश्चयम् ॥
						अग्निरुवाच । 
					 
					
						कथं मां त्वं विजानीषे कामार्तमितराः कथम् ।
						यास्त्वया कीर्तिताः सर्वाः सप्तर्षीणां प्रियाः स्त्रियः ॥
						शिवोवाच । 
					 
					
						अस्माकं त्वं प्रियो नित्यं बिभीमस्तु वयं तव ।
						त्वच्चित्तमिङ्गितैर्ज्ञात्वा प्रेषिताऽस्मि तवान्तिकम् ॥
					 
					
						मैथुनायेह संप्राप्ता कामाच्चैव द्रुतं च माम् ।
							`उपयन्तुं महावीर्य पूर्वमेव त्वमर्हसि' ।
						
						[जामयो मां प्रतीक्षन्ते गमिष्यामि हुताशन] ॥
						
						मार्कण्डेय उवाच । 
					 
					
						ततोऽग्निरुपयेमे तां शिवां प्रीतिमुदायुतः ।
						प्रीत्या देवी समायुक्ता शुक्रं जग्राह पाणिना ॥
					 
					
						साऽचन्तयन्ममेदं ये रूपं द्रक्ष्यन्ति कानने ।
						ते ब्राह्मणीनामनृतं दोषं वक्ष्यन्ति पावके ॥
					 
					
						तस्मादेतद्रक्षमाणआ गरुडी संभवाम्यहम् ।
						वनान्निर्गमनं चैव सुखं मम भविष्यति ॥
						मार्कण्डेय उवाच । 
					 
					
						सुपर्णी सा तदा भूत्वा निर्जगाम महावनात् ।
						उपश्यत्पर्वतं श्वेतं शरस्तम्बैः सुसंवृतम् ॥
					 
					
						दृष्टीविषैः सप्तशीर्षैर्गुप्तं भोगिभिरद्भुतैः ।
						रक्षोभिश्च पिशाचैश्च रौद्रैर्भूतगणैस्तथा ॥
					 
					
						राक्षसीभिश्च संपूर्णमनेकैश्च मृगद्विजैः ।
						`नदीप्रस्रवणोपेतं नानातरुलताचितम्' ॥
					 
					
						सा तत्र सहसा गत्वा शैलपृष्ठं सुदुर्गमम् ।
						प्राक्षिपत्काञ्चने कुण्डे शुक्रं सा त्वरिता शुभा ॥
					 
					
						शिष्टानामपि सा देवी सप्तर्षीणां महात्मनाम् ।
						पत्नीसरूपतां कृत्वा रमयामास पावकम् ॥
					 
					
						दिव्यरूपमरुन्धत्याः कर्तुं न शकितं तया ।
						तस्यास्तपःप्रभावेण भर्तृशुश्रूषणेन च ॥
					 
					
						षट्कृत्वस्तत्तु निक्षिप्तमग्ने रेतः कुरुत्तम ।
						तस्मन्कुण्डे प्रतिपदि कामिन्या स्वाहया तदा ॥
					 
					
						तत्स्कन्नं तेजसा तत्रसंवृतंजनयत्सुतम् ।
						ऋषिभिः पूजितं स्कन्नमनयन्स्कन्दतां ततः ॥
					 
					
						षट््शिरा द्विगुणश्रोत्रो द्वादशाक्षिभूजक्रमः ।
						एकग्रीवस्त्वेककायः कुमारः समपद्यत ॥
					 
					
						द्वितीयायामभिव्यक्तस्तृतीयायां शिशुर्बभौ ।
						अङ्गप्रत्यङ्गसंभूतश्चतुर्थ्यामभवद्गुहः ॥
					 
					
						लोहिताभ्रेण महता संवृतः सह विद्युता ।
						लोहिताभ्रे सुमहति भाति सूर्य इवोदितः ॥
					 
					
						गृहीतं तु धनुस्तेन विपुलं रोमहर्षणम् ।
						न्यस्तं यत्रिपुरघ्नेन सुरारिविनिकृन्तनम् ॥
					 
					
						तद्गृहीत्वा धनुःश्रेष्ठं ननाद बलवांस्तदा ।
						संमोहयन्निमाँल्लोकान्गुहस्त्रीन्सचराचरान् ॥
					 
					
						तस् तं निनदं श्रुत्वा महामेघौघनिःस्वनम् ।
						उत्पेततुर्महानागौ चित्रश्चैरावतश्च ह ॥
					 
					
						तावापतन्तौ संप्रेक्ष्यस बालोऽर्कसमद्युतिः ।
						द्वाभ्यां गृहीत्वा पाणिभ्यां शक्तिं चान्येन पाणिना ॥
					 
					
						अपरेणाग्निदायादस्ताम्रचूडं भुजेन सः ।
							महाकायमुपश्लिष्टं कुक्कुटं बलिनां वरम् ।
						
						गृहीत्वा व्यनदद्भीमं चिक्रीड च महाभुजः ॥
						
					 
					
						द्वाभ्यां भुजाभ्यां बलवान्गृहीत्वा शङ्खमुत्तमम् ।
							प्राध्मापयत् भूतानां त्रासनं बलिनामपि ।
						
						द्वाभ्यां भुजाभ्यामाकाशं बहुशो निजघान ॥ 3-227-28aक्रीडन्भाति
								महासेनस्त्रींल्लोकान्वदनैः पिवन् ।
							पर्वताग्रेऽप्रमेयात्मा रश्मिमानुदये यथा ॥
						
					 
					
						स तस् पर्वतस्याग्रे निषण्णोऽद्भुतविक्रमः ।
						व्यलोकयदमेयात्मा मुखैर्नानाविधैर्दिशः ॥
					 
					
						स पश्यन्विविधान्भावांश्चकार निनदं पुनः ।
							तस्य तं निनदं श्रुत्वा न्यपतन्बहुधा जनाः ।
						
						भीताश्चोद्विग्रमनसस्तमेव शरणं ययुः ॥
						
					 
					
						ये तुं संश्रिता देवं नानावर्णास्तदा जनाः ।
						तानप्याहुः पारिषदान्ब्राह्मणाः सुमहाबलान् ॥
					 
					
						स तूत्थाय महाबाहुरुपसान्त्व्य च ताञ्जनान् ।
						धनुर्विकृष्य व्यसृजद्बाणाञ्श्वेते महागिरौ ॥
					 
					
						विभेद स शरैः शैलं क्रौञ्चं हिमवतः सुतम् ।
						तेन हंसाश्च गृध्राश्च मेरुं गच्छन्ति पर्वतम् ॥
					 
					
						स विशीर्णोऽपतच्छैलो भृशमार्तस्वराव्रुवन् ॥
						
					 
					
						तस्मिन्निपतिते त्वन्ये नेदुः शैला भृशं भयात् ।
						`घोरमार्तस्वरं चक्रुर्दृष्ट्वा क्रौञ्चं विदारितम्' ॥
					 
					
						सतं नादं भृशार्तानां श्रुत्वाऽपि बलिनांवरः ।
						न प्राव्यधदमेयात्मा शक्तिमुद्यम्य चानदत् ॥
					 
					
						सा तदा विमला शक्तिः क्षिप्ता तेन महात्मना ।
						बिभेद शिखरं घोरं श्वेतस् तरसा गिरेः ॥
					 
					
						स तेनाभिहतो दीर्णो गिरिः श्वेतोऽचलैः सह ।
						पलायत महीं त्यक्त्वा भीतस्तस्मान्महात्मनः ॥
					 
					
						ततः प्रव्यथिता भूमिर्व्यशीर्यत समन्ततः ।
						आर्ता स्कन्दं समासाद्य पुनर्बलवती बभौ ॥
					 
					
						पर्वताश्च नमस्कृत्यतमेव पृथिवीं गताः ।
							अथैनमभजल्लोकः स्कन्दं शुक्लस्य पञ्चमीम् ॥
					 
					 इति श्रीमन्महाभारते अरण्यपर्वणि रमार्कण्डेयसमास्यापर्वणि
						सप्तविंशत्यधिकद्विशततमोऽध्यायः ॥ 227 ॥ 
					 3-227-4 शिष्टाभिः प्रहिता प्राप्तेति झ. पाठः ॥ 3-227-9 ते
						ब्राह्मणीनामहितमिति झ. थ. पाठः ॥