अध्यायः 238
कर्णशकुनिभ्यां दुर्योधनंप्रतिस्ववैभवप्रदर्सनेन पाण्डवानां दुःखजननाय द्वैतवनगमनचोदना ॥ 1 ॥
वैशंपायन उवाच । 
					धृतराष्ट्रस्य तद्वाक्यं निशम्य शकुनिस्तदा ।
						दुर्योधनमिदं काले कर्णेन सहितोऽब्रवीत् ॥
					प्रव्राज्य पाण्डवान्वीरान्स्वेन वीर्येण भारत ।
						भुङ्क्ष्वेमां पृथिवीमेको दिवि शम्बरहायथा ॥
					`तवाद्यपृथिवी राजन्नखिला सागराम्बरा ।
						सपर्वतवनाकारा सहस्थावरजङ्गमा' ॥
					प्राच्याश्च दाक्षिणात्याश्च पतीच्योदीच्यवासिनः ।
						कृताः करप्रदाः सर्वे राजानस्ते नाराधिप ॥
					या हि सा दीप्यमानेव पाण्डवान्भजडते पुरा ।
						साऽद्यलक्ष्मीस्त्वया राजन्नवाप्ता भ्रातृभिः सह ॥
					इन्द्रप्रस्थगते यां तां दीप्यमानां युधिष्ठिरे ।
						अपश्याम श्रियं राजन्सुचिरं शोककर्शिताः ॥
					सा तु बुद्धिबलेनेयं राज्ञस्तस्मात्तथाविधात् ।
						त्वयाक्षिप्ता महाबाहो दीप्यमानेव दृश्यते ॥
					तथैव तव राजेन्द्रराजानः परवीरहन् ।
						शासनेऽधिष्ठिताः सर्वेकिं कुर्म इति वादिनः ॥
					ते वयं पृथिवी राजन्निखिला सागराम्बरा ।
						सपर्वतवना देवी सग्रामनगराकरा ॥
					नानावनोद्देशवती पत्तनैरुपशोभिता ।
						`नानाजनपदाकीर्णा स्फीतराष्ट्रा महाहला' ॥
					नन्द्यमानो द्विजै राजन्भासि नक्षत्रराडिव ।
						पौरुषाद्दिवि देवेषु भ्राजसे रश्मिवानिव ॥
					रुद्रैरिव यमो राजा मरुद्भिरिव वासवः ।
						कुरुभिस्त्वं वृतो राजन्भासि नक्षत्रराडिव ॥
					यैः स्म ते नाद्रियेताज्ञा न च ये शासने स्थिताः ।
						पश्यामस्ताञ्श्रिया हीनान्पाण्डवान्वनवासिनः ॥
					श्रूयते हि महाराजसरो द्वैतवनं प्रति ।
						वसन्तः पाण्डवाः सार्धं ब्राह्मणैर्वनवासिभिः ॥
					सप्रयाहि महाराज श्रिया परमया युतः ।
						तापयन्पाण्डुपुत्रांस्त्वं रश्मिवानिव तेजसा ॥
					स्तितोराज्येऽच्युतान्राज्याच्छियाहीनाञ्छ्रियावृतः
							असमृद्धान्समृद्धार्थः पश्य पाण्डुसुतान्नृप ॥
						
					महाभिजनसंपन्नं भद्रे महति संस्थितम् ।
						पाण्डवास्त्वाऽभिवीक्षन्तु ययातिमिव नाहुषां ॥
					यां श्रियं सुहृदश्चैव दुर्हृदश्च विशांपते ।
						पश्यन्ति पौरुषैर्दीप्तां सा समर्था भवत्युत ॥
					समस्थो विषमस्थान्हि दुर्हृदो योऽभिवीक्षते ।
						जगतीस्थनिवाद्रिस्थः किमतः परमं सुखम् ॥
					न पुत्रधनलाभेन न राज्येनापि विन्दति ।
						प्रीतिं नृपतिशार्दूल याममित्राधदर्शनात् ॥
					किंनु तस्य सुखं न स्यादाश्रमे यो धनंजयम् ।
						अभिवीक्षेत सिद्धार्थो वल्कलाजिनवाससम् ॥
					सुवाससो हि ते भार्या वल्कलाजिनसंवृताम् ।
						पश्यन्तु दुःखितां कृष्णां सा च निर्विद्यतां पुनः ॥
					विनिन्दतां तथाऽत्मानं जीवितं च धनच्युतम् ।
						`दाराणां ते श्रियं दृष्ट्वा दीप्तामद्य जनाधिपा' ॥
					न तथा हिसभामध्ये तस्या भवितुमर्हति ।
						वैमनस्यं यथा दृष्ट्वा तव भार्याः स्वलंकृताः ॥
						वैशंपायन उवाच । 
					एवमुक्त्वा तु राजानं कर्णः शकुनिना सह ।
							तूष्णीं बभूवतुरुभौ दाक्यान्ते जनमेजय ॥
					इति श्रीमन्महाबारते अरण्यपर्वणि धोयात्रापर्वणि अष्टत्रिंशदधिकद्विशततमोऽध्यायः ॥ 238 ॥
3-238-4 प्रतीच्या उदीच्याश्च देशास्तद्वासिनः । ते त्वया ॥ 3-238-13 नाद्रियेत नादृता ॥ 3-238-17 त्वा त्वाम् ॥ 3-238-18 समर्था सुहृदां हर्षं शत्रूणां च शोकं दातुमिति शेषः ॥ 3-238-20 अघं दुःखम् ॥ 3-238-22 निर्विद्यतां जीवितादपि विरक्ता भवतु ॥