अध्यायः 047
द्रोणवचनादर्जुनस्यार्जुनत्वावधारणेन विषादात्तूष्णींभूतेषु स्वीयेषु दुर्योधनेन द्रोणानादरपूर्वकं तान्प्रति समरप्रोत्साहनम् ॥ 1 ॥
वैशंपायन उवाच । 
					ततो दुर्योधनो राजा समरे भीष्ममब्रवीत् ।
						द्रोणं च रथिशार्दूलं कृपं च सुमहाबलम् ॥
					उक्तोऽयमर्थ आचार्य मया कर्णेन चासकृत् ।
						पुनरेव च वक्ष्यामि न हि तृप्यामि तद्ब्रुवन् ॥
					पराजितैर्विवस्तव्यं तैश्च द्वादशवत्सरान् ।
						वने जनपदेऽज्ञातैरेष एव पणो हि नः ॥
					तेषां न तावन्निर्वृत्तो वत्सरः स त्रयोदशः ।
						अज्ञातवासे बीभत्सुरथास्माभिः परिश्रुतः ॥
					अनिर्वृत्ते तु निर्वासे यदि बीभत्सुरागतः ।
						पुनर्द्वादशवर्षाणि वने वत्स्यन्ति पाण्डवाः ॥
					लोभाद्वा ते न जानीयुरस्मान्वा मोह आविशत् ।
						हीनातिरिक्तमेतेषां भीष्मो वेदितुमर्हति ॥
					अर्थानां हि पुनर्द्वैधे नित्यं भवति संशयः ।
						अन्यथा चिन्तितो ह्यर्थः पुनर्भवति चान्यथा ॥
					उत्तरं मार्गमाणानां मात्स्यसेनां युयुत्सताम् ।
						यदि बीभत्सुरायातः किंतु कृत्यमतः परम् ॥
					त्रिगर्तानां कृतं कार्यं पाण्डवानां च मार्गणम् ।
						विप्रकारैर्हि मात्स्येन सुशर्मा बाधित पुरा ॥
					तेषां भयाभिपन्नानां वस्तानां त्राणभिच्छताम् ।
						अभयं याचमानानां तदाऽस्माभिः परिश्रुतम् ॥
					प्रथमं वैर्ग्रहीतव्यं मात्स्यानां गोधनं महत् ।
						अष्टम्याश्चापराह्णे तु इति नस्तैः समाहितम् ॥
					नवम्यां पुनरस्माभिः सूर्यस्योदयनं प्रति ।
						इमा गावो ग्रहीतव्या याते मत्स्ये गवांपदम् ॥
					इत्येवं निश्चयोऽस्माकं मन्त्रोऽभून्नागसाह्वये ।
						पाण्डवानां परिज्ञाने सर्वेषां नः परस्परम् ॥
					ते वा गाश्च नयिष्यन्ति यदि वा स्युः पराजिताः ।
						अस्मान्वाऽप्यतिसन्धाय कुर्युर्मात्स्येन संगतिम् ॥
					अथवा तानुपादाय मात्स्यो जानपदैः सह ।
						सर्वथा सेनया सार्धमस्मानेष युयुत्सति ॥
					तेषामेको महावीर्यः कश्चिदेव पुनःसरः ।
						अस्माञ्जेतुमिहायातो मात्स्यो वाऽपि स्वयं भवेत् ॥
					यद्येष राजा मात्स्यानां यदि बीभत्सुरागतः ।
						सर्वैर्योद्धव्यमस्माभिरिति नः समयः कृतः ॥
					अथ कस्मात्थिता ह्येते रथेषु रथिसत्तमाः ।
							भीष्मद्रोणकृपाः कर्णो विकर्णो द्रौणिरेव च ।
						
						संभ्रान्तमनसः सर्वे प्राप्ते ह्यस्मिन्धनञ्जये ॥
						
					नान्यत्र युद्धाच्छ्रेयोस्ति तथाऽऽत्मा प्रणिधीयताम् ।
						सर्वलोकेन वा युद्धं देवैर्वाऽस्तु सवासवैः ॥
					अनाच्छिन्ने धनेऽस्माकमथ शक्रेण वज्रिणा ।
						यमेन वाऽपि संग्रामे को हास्तिनपुरं व्रजेत् ॥
					शरैरभिप्रणुन्नानां भग्नानां गहने वने ।
						को हि जीवेत्पदातीनां भवेदश्वेषु संशयः ॥
					आचार्यं पृष्ठतः कृत्वा तथा नीतिर्विधीयताम् ।
						जानामि च मतं तेषामतस्त्रासयतीव नः ॥
					अर्जुने चापि संप्रीतिमधिकामुपलक्षये ।
							तथा दृष्ट्वा हि बीभत्सुमुपायान्तं प्रशंसति ।
						
						यथा सेना न भज्येत तथा नीतिर्विधीयताम् ॥
						
					अदेशिका ह्यरण्येऽस्मिन्कृच्छ्रे शत्रुवशं गता ।
						यथा न विभ्रमेत्सेना तथा नीतिर्विधीयताम् ॥
					अश्वानां हेषितं श्रुत्वा का प्रशंसा भवेत्परे ।
						स्थाने वाऽपि व्रजन्तो वा सदा हेषन्ति वाजिनः ॥
					सदा च वायवो वान्ति नित्यं वर्षति वासवः ।
						स्तनयित्नोश्च निर्घोषः श्रूयते बहुशस्तथा ॥
					भीषयन्पाण्डवेयेभ्यो भवान्सर्वानिमाञ्जनान् ।
						प्रमुखे सर्वसैन्यानामबद्धं बहु भाषते ॥
					यथैवाश्वान्मार्गमाणास्तानेवाभिपरीप्सवः ।
						हेषितानीव शृण्वन्ति तदिदं भवतस्तथा ॥
					किमत्र कार्यं पार्थस्य कथं वा स प्रशस्यते ।
						अन्यत्र कामाद्द्वेषाद्वा रोषाद्वाऽस्मासु केवलम् ॥
					आचार्या वै कारुणिकाः प्राज्ञाश्चापायदर्शिनः ।
						नैते महाहवे घोरे संप्रष्टव्याः कथंचन ॥
					प्रासादेषु विचित्रेषु गोष्ठीपानाशनेषु च ।
						कथा विचित्राः कुर्वाणाः पण्डितास्तत्र सोभनः ॥
					बहून्याश्चर्यरूपाणि कुर्वते जनसंसदि ।
						इष्वस्त्रे चापसंधाने पण्डितास्तत्र शोभनाः ॥
					परेषां विवरज्ञाने मनुष्याचरितेषु च ।
						अन्नसंस्कारदोषेषु पण्डितास्तत्र शोभनाः ॥
					पण्डितान्पृष्ठतः कृत्वा परेषां गुणवादिनः ।
						विधीयतां तथा नीतिर्यथा वध्येत वै परः ॥
					गावश्चैताः प्रतिष्ठन्तां सेनां व्यूहन्तु माचिरम् ।
						आरक्षाश्च विधीयन्तां यत्र योत्स्यामहे परैः ॥ ॥
					इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि सप्तचत्वारिंशोऽध्यायः ॥ 47 ॥
4-47-11 सप्तम्याश्चापराह्णे त्विति नवम्यां पुनरस्माभिरिति च थo पाठः ॥ ॥ सप्तचत्वारिंशोऽध्यायः ॥ 47 ॥