अध्यायः 035
सुशर्मणा युद्धे विराटस्य ग्रहणम् ॥ 1 ॥ भीमेन युधिष्ठिरचोदनया विराटस्य मोचनपूर्वकं सुशर्मणो बन्धनम् ॥ 2 ॥ युधिष्ठिरेण करुणया सुशर्मणो विमोक्षणम् ॥ 3 ॥
वैशंपायन उवाच । 
					तमसाऽभिप्लुते लोके रजसा चैव भारत ।
						व्यतिष्ठन्त मुहूर्तं ते व्यूढानीकाः प्रहारिणम् ॥ 1 ॥
					ततोऽन्धकारं प्रणुदन्नुदतिष्ठन्निशाकरः ।
						कुर्वाणो विमलां रात्रिं दर्शयन्क्षत्रियान्रणे ॥ 2 ॥
					ततः प्रकाशमासाद्य पुनर्युद्धमवर्तत ।
						घोररूपं तदा तेषामवेक्ष्य तु परस्परम् ॥ 3 ॥
					तथैव तेषां तुमुलानि तानि क्रुद्धानि चान्योन्यमभिद्रवन्ति ।
						गदासिपट्टैश्च परश्वथैश्च प्रासैश्च तीक्ष्णाग्रसुधौतधारैः ॥ 4 ॥
					बलं तु मात्स्यस्य बलेन राजा सर्वं त्रिगर्ताधिपतिः सुशर्मा ।
						प्रमथ्य जित्वा च निपीड्य मत्स्यान्विराटमोजस्विनमभ्यधावत् ॥ 5 ॥
					मत्ताविव वृषौ तौ तु गजाविव मदोद्धतौ ।
						सिंहाविव गजग्राहौ शक्रवृत्राविवोद्धतौ ॥ 6 ॥
					उभौ तुल्यबलोत्साहावुभौ तुल्यपराक्रमौ ।
						उभौ तुल्यास्रविक्षेपावुभौ युद्धविशारदौ ॥ 7 ॥
					तौ निहत्य पृथग्धुर्यानुभयोः पार्ष्णिसारथी ।
						आस्तां तुल्यधनुर्ग्राहौ कृष्णकंसाविवोद्धतौ ॥ 8 ॥
					ततः सुशर्मा त्रैगर्तः सह भ्रात्रा सुवर्मणा ।
						अभ्यद्रवन्मत्स्यराजं रथव्रातेन सर्वशः ॥ 9 ॥
					ततो रथाभ्यां प्रस्कन्द्य भ्रातरौ क्षत्रियर्षभौ ।
						गदापाणी सुसंरब्धौ समभ्यद्रवतां जवात् ॥ 10 ॥
					सुशर्मा परवीरघ्नो बलवान्वीर्यवान्गदी ।
						विरथं मत्स्यराजानं जीवग्राहमथाग्रहीत् ॥ 11 ॥
					तमुन्मथ्य सुशर्मा तु युवतीमिव कामुकः ।
						स्यन्दनं स्वं समारोप्य प्रययौ भीमविक्रमः ॥ 12 ॥
					तस्मिन्गृहीते विरथे विराटे बलवत्तरे ।
						बलं सर्वं विभग्नं तन्निरुत्साहं निराशकम् ॥ 13 ॥
					प्राद्रवन्त भयान्मात्स्यास्त्रिगर्तैरर्दिता रणे ।
						विदिक्षुः दिक्षु सर्वासु पलायन्ति च यान्ति च ॥ 14 ॥
					तेषु विद्रांव्यमाणेषु कुन्तीपुत्रो युधिष्ठिरः ।
						अभ्यभाषत धर्मात्मा भिमसेनमरिन्दमम् ॥ 15 ॥
					मात्स्यराजस्त्रिगर्तेन परामृष्टः सुशर्मणा ।
						तं मोक्षय महाबाही मा गमद्द्विषतां वशम् ॥ 16 ॥
					भीमसेनः महाबाहो गृहीतं तु सुशर्मणा ।
						त्रायस्व मोचय क्षिप्रमस्मत्प्रीतिकरं नृपम् ॥ 17 ॥
					उषिताः स्म सुखं सर्वे सर्वकामैः सुपूजिताः ।
						भीमसेन त्वया कार्या तस्य वातस्य निष्कृतिः ॥ 18 ॥
						वैशंपायन उवाच । 
					तं तथावादिनं तत्र भीमसेनो महाबलः ।
						अभ्यभाषत दुर्धर्षो रणमध्ये युधिष्ठिरम् ॥ 19 ॥
					अहमेनं परित्रास्ये शासनात्तव पार्थिव ।
						पश्येदं सुमहत्कर्म युध्यतो मम शत्रुभिः ॥ 20 ॥
					स्वबाहुबलमाश्रित्य परेषामसमं रणे ।
						एकान्तमाश्रितो राजंस्तिष्ठ त्वं भ्रातृभिः सह ॥ 21 ॥
					अयं वृक्षो महाशाखो गिरिमात्रो वनस्पतिः ।
						अहमेनं समारुज्य पोथयिष्यामि शात्रवान् ॥ 22 ॥
						वैशंपायन उवाच । 
					तं मत्तमिव मातङ्गं वीक्षमाणं वनस्पतिम् ।
						अब्रवीद्भ्रातरं वीरं धर्मराजो युधिष्ठिरः ॥ 23 ॥
					भीम मा साहसं कार्षीस्तिष्ठत्वेष वनस्पतिः ॥ 24 ॥
						
					मा त्वां वृक्षेण कर्माणि कुर्वन्तमतिमानुषम् ।
						जनाः समवबुध्येरन्भीमोऽयमिति भारत ॥ 25 ॥
					मा ग्रहीस्त्वमिमं वृक्षं सिंहनादं च मा नद ।
						कर्मणा सिंहनादेन विज्ञास्यन्ति जना ध्रुवम् ॥ 26 ॥
					इमं वृक्षं गृहीत्वा त्वं नेमां सेनामभिद्रव ।
						वृक्षं च त्वां रुजन्तं वै विज्ञास्यति जनो ध्रुवं ॥ 27 ॥
					अन्यदेवायुधं गृह्य प्रतिपद्यस्व मानुषम् ।
						चापं वा यदि वा शक्तिं निस्त्रिंशं वा परश्वथम् ॥ 28 ॥
					यदेव मानुषं भीम भवेदन्यैरलक्षितम् ।
						तदेवायुधमादाय मोचयाशु महीतिम् ॥ 29 ॥
					यमौ च चक्ररक्षौ ते भवितारौ महाबलौ ।
						व्यायच्छतस्ते समरे मत्स्यराजं परीप्स्रतः ॥ 30 ॥
						वैशंपायन उवाच । 
					भ्रातुर्वचनमादाय भीमो वृक्षं विसृज्य च ।
						चापमादाय संप्राप्तो रथमास्थाय पाण्डवः ॥ 31 ॥
					व्यमुञ्चच्छरवर्षाणि सतोय इव तोयदः ।
						तं भीमो भीमकर्माणं शुशर्माणमथाऽऽद्रवत् ॥ 32 ॥
					विराटमभिवीक्ष्यैनं तिष्ठितिष्ठेति चावदत् ॥ 33 ॥
						
					सुशर्मा चिन्तयामास कालान्तकयमोपमम् ।
						तिष्ठतिष्ठेति भाषन्तं पृष्ठतो रथपुङ्गवः ॥ 34 ॥
					पश्यतां सुमहत्कर्म महद्युद्धमुपस्थितम् ।
						परावृत्तो धनुर्गृह्य सुशर्मा भ्रातृभिः सह ॥ 35 ॥
					निमेषान्तरमात्रेण भीमसेनेन ते रथाः ।
						रथानां च गजानां च वाजिनां च ससादिनां ॥ 36 ॥
					सहस्रशतसंघाताः शूराणामुग्रधन्विनाम् ।
						पातिता भीमसेनेन विराटस्य समीपतः ॥ 37 ॥
					पत्तयो निहतास्तेषां गदां गृह्य महात्मना ॥ 38 ॥
						
					तद्दृष्ट्वा तादृशं युद्धं सुशर्मा युद्धदुर्मदः ।
						चिन्तयामास मनसा किं शेषं हि बलस्य मे ॥ 39 ॥
					अपरो दृश्यते सैन्ये पुरा मग्नो महाबले ।
						आकर्णपूर्णेन तदा धनुषा प्रत्यदृश्यत ॥ 40 ॥
					सुशर्मा सायकांस्तीक्ष्णान्क्षिपते च पुनःपुनः ॥ 41 ॥
						
					ततः समस्तास्ते सर्वे तुरगानभ्यचोदयन् ।
						दिव्यमस्त्रं विकुर्वाणास्त्रिगर्तान्प्रत्यमर्षणाः ॥ 42 ॥
					तान्निवृत्तरथान्दृष्ट्वा पाण्डवास्तां महाचमूम् ।
						वैराटिः परमक्रुद्धो युयुधे परमाद्भुतम् ॥ 43 ॥
					त्रिगर्ताः समभिक्रम्य अयुध्यन्त जयैषिणः ।
							तान्भीमसेनः संक्रुद्धः सर्वशस्त्रभृतांवरः ।
						
						वैराटिः परमक्रुद्धो युयुधे परमाद्भुतम् ॥ 44 ॥
						
					सहस्रं प्राहिणीद्राजा कुन्तीपुत्रो युधिष्ठिरः ।
						नकुलश्चापि सप्तैव शतानि प्राहिणोच्छरैः ॥ 45 ॥
					शतानि त्रीणि शूराणां सहदेवः प्रतापवान् ।
						युधिष्ठिरसमादिष्टो निजघ्ने पुरुषर्षभः ॥ 46 ॥
					प्रविश्य महतीं सेनां त्रिगर्तानां महाबलः ।
						क्षोभयन्सर्वभूतानि सिंहः क्षुद्रमृगानिव ॥ 47 ॥
					ततो युधिष्ठिरो राजा त्वरमाणो महाबलः ।
						अभिद्रुत्य सुशर्माणं शरैरभ्यहनद्धृशम् ॥ 48 ॥
					सुशर्माऽपि सुसंक्रुद्धस्त्वराणो युधिष्ठिरम् ।
						अविध्यद्दशभिर्बाणैश्चतुर्भिश्चतुरो हयान् ॥ 49 ॥
					ततो राजन्क्षिप्रकारी कुन्तीऽपुत्रो वृकोदरः ।
						समासाद्य सुशर्माणमश्वांस्तस्य न्यपातयत् ॥ 50 ॥
					पृष्ठगोषौ च तस्याथ हत्वा परमसायकैः ।
						अथास्य सारथिं क्रुद्धो रथोपस्थादपतयत् ॥ 51 ॥
					चक्ररक्षस्तु शूरश्च शोणाश्वो नाम नामतः ।
						स भयाद्विरथं दृष्ट्वा त्रैगर्तं व्याजहात्तदा ॥ 52 ॥
					ततो विराटः प्रस्कन्द्य रथादथ सुशर्मणः ।
						गदामस्य परामृश्य तमेवाभ्यहनद्बली ॥ 53 ॥
					स चचार गदापाणिर्वृद्धोऽपि तरुणो यथा ॥ 54 ॥
						
					भीमस्तु भीमसंकाशो रथात्प्रस्कन्द्य वीर्यवान् ।
							उत्प्लुत्य गत्वा वेगेन तद्रथे विनिपत्य च ।
						
						सुशर्मणः शिरोऽगुह्णात्पुनराश्वास्य युध्यतः ॥ 55 ॥
						
					अग्राद्गिरेर्विनिक्षिप्य सिंहः क्षुद्रमृगं यथा ।
						ऊर्ध्वमुत्प्लृत्य मार्जार आखोर्यद्वच्छिरो रुषा ॥ 56 ॥
					समुद्यम्य तु रोषात्तं निष्पिपेष महीतले ।
						यदा मूर्ध्नि महाबाहुः प्राहरद्विलपिष्यतः ॥ 57 ॥
					तस्य जानु ददौ भीमो जघ्ने चैनमरत्निना ।
						स मोहमगमद्राजा प्रहारवरपीडितः ॥ 58 ॥
					तस्मिन्वीरे गृहीते तु त्रिगर्तानां महारथे ।
						अभज्यत बलं सर्वं त्रिगर्तानां भयातुरम् ॥ 59 ॥
					निवृत्य गास्ततः सर्वाः पाण्डुपुत्रा महारथाः ।
						अवजित्य सुशर्माणं धनं चादाय सर्वशः ॥ 60 ॥
					स्वबाहुबलसंपन्ना ह्रीनिषेवा यतव्रताः ।
							विराटस्य महात्मानः परिक्लेशविनाशनाः ।
						
						स्थिताः समक्षं ते सर्वे त्वथ भीमोऽभ्यभाषत ॥ 61 ॥
						
					नायं पापसमाचारो मत्तो जीवितुमर्हति ।
							किंनु शक्यं मया कर्तुं यद्राजा सततं घृणी ।
						
						गले गृहीत्वा राजानमानीय विवशं वशम् ॥ 62 ॥
						
					तत एनं विचेष्टन्तं बद्ध्वा पार्थो वृकोदरः ।
						रथमारोपयामास विसंज्ञं पांसुगुण्ठितम् ॥ 63 ॥
					अभ्येत्य रणमध्यस्थमभ्यगच्छद्युधिष्ठिरम् ।
						दर्शयामास भीमस्तु सुशर्माणं नराधिपम् ॥ 64 ॥
					प्रोवाच पुरुषव्याघ्रो भीममाहवशोभिनम् ।
						तं राजा प्राहसद्दृष्ट्वा मुच्यतां वै नराधमः ॥ 65 ॥
					एवमुक्तोऽब्रवीद्भीमः सुशर्माणं महाबलम् ।
						जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु ॥ 66 ॥
					दासोस्मीति त्वया वाच्यं संसत्सु च सभासु च ।
						एवं ते जीवितं दद्यामेष युद्धजितो विधिः ॥ 67 ॥
					तमुवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः ।
						मुञ्चमुञ्चाधमाचारं प्रमाणं यदि ते वयम् ॥ 68 ॥
					दासभावं गतो ह्येष विराटस्य महीपतेः ।
						अदासो गच्छ मुक्तोसि मैवं कार्षीः कदाचन ॥ 69 ॥
					एवमुक्ते तु सव्रीडः सुशर्माऽसीदधोमुखः ।
						स मुक्तोऽभ्येत्य राजानमभिवाद्य प्रतस्थिवान् ॥ 70 ॥
					विसृज्य तु सुशर्माणं पाण्डवास्ते हतद्विषः ।
							स्वबाहुबलसंपन्ना हीनिषेवा यतव्रताः ।
						
						संग्रामशिरसो मध्ये तां रात्रिं सुखिनोऽवसन् ॥ 71 ॥
						
					॥ श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि पञ्चत्रिंशोऽध्यायः ॥ 35 ॥
4-35-2 नन्दयन्क्षत्रियानिति थo पाठः ॥ 2 ॥