अध्यायः 036
युधिष्ठिरचोदनया विराटप्रेषितैर्दूतैर्नगरमेत्य जयोद्धोषणम् ॥ 1 ॥
वैशंपायन उवाच ।
ततो विराटः कौन्तेयानतिमानुषविक्रमान् ।
अर्चयामास वित्तेन मानेन च महारथान् ।
वचसा चैव सान्त्वेन स्नेहेन च मुदाऽन्वितः ॥ 1 ॥
विराट उवाच ।
यथैव मम रत्नानि युष्माकं तानि वै तथा ।
कार्यं कुरुत तैः सर्वैर्यथाकामं यथासुखम् ॥ 2 ॥
ददाम्यलंकृताः कन्या वसूनि विविधानि च ।
मनसा चाप्यभिप्रेतं यद्वः शत्रुनिबर्हणाः ॥ 3 ॥
युष्माकं विक्रमादद्य मुक्तोऽहं स्वस्तिमानिह ।
तस्माद्भवन्तो मत्स्यानामीश्वराः सर्व एव हि ॥ 4 ॥
वैशंपायन उवाच ।
तं तथावादिनं तत्र कौरवेयाः पृथक्पृथक् ।
ऊचुः प्रहृष्टमनसो युधिष्ठिरपुरोगमाः ॥ 5 ॥
प्रतिनन्दामहे वाचं सर्वथैव विशांपते ।
एतावताऽद्य प्रीताःस्मो यत्त्वं मुक्तोसि शत्रुभिः ॥ 6 ॥
यत्त्वं मुक्तोसि शत्रुभ्यो ह्येतत्कार्यं हितं हि नः ।
न किंचित्कार्यमस्माकं न धनं मृगयामहे ॥ 7 ॥
अथाब्रवीत्प्रीतमना मात्स्यराजो युधिष्ठिरम् ।
निर्भरः प्रीतिपूरेण हर्षगद्गदया गिरा ॥ 8 ॥
पुनरेव महाबाहुर्विराटो राजसत्तमः ।
एहि त्वामभिषेक्ष्यामि मत्स्यराजस्तु नो भवान् ॥ 9 ॥
मनसा चाप्यभिप्रेतं यत्ते शत्रुनिबर्हण ।
तत्तेऽहं संप्रदास्यामि सर्वमर्हति नो भवान् ॥ 10 ॥
रत्नानि गाः सुवर्णं च मणिमुक्तमथापि वा ।
वैयाघ्रपद्य विप्रेन्द्र सर्वथैव नमोस्तु ते ॥ 11 ॥
त्वत्कृते ह्यद्य पश्यामि राज्यमात्मानमेव च ।
यतश्च जातः संरम्भः स च शत्रुर्वशं गतः ॥ 12 ॥
ततो युधिष्ठिरो मात्स्यं पुनरेवाब्रवीद्वचः ।
प्रतिनन्दामि ते वाचं मनोज्ञां मात्स्य भाषितां ॥ 13 ॥
आनृशंस्यपरो नित्यं सुमुखः सततं भवान् ।
पुनरेव विराटश्च राजा कङ्कमभाषत ॥ 14 ॥
अहो शूद्रस्य कर्माणि वललस्य द्विजोत्तम ।
सोहं शूद्रेण संग्रामे वललेनाभिरक्षितः ॥ 15 ॥
त्वत्कृते सर्वमेवैतदुपपन्नं ममानघ ।
वरं वृष्णीष्व भद्रं ते ब्रूहि किं करवाणि ते ॥ 16 ॥
ददामि ते महाप्रीत्या रत्नान्युच्चावचान्यहम् ।
शयनासनयानानि कन्याश्च समलंकुताः ॥ 17 ॥
हस्त्यश्वरथसङ्घाश्च राष्ट्राणि विविधानि च ।
एतानि च मम प्रीत्या प्रतिगृह्ण ममान्तिके ॥ 18 ॥
वैशंपायन उवाच ।
तं तथावादिनं तत्र कौरव्यः प्रत्यभाषत ।
एषैव तु मम प्रीतिर्यत्त्वं मुक्तोसि शत्रुभिः ॥ 19 ॥
प्रतीतश्चेत्पुरं तुष्टः प्रविशाद्य परंतप ।
दारैः पुत्रैश्च संश्लिष्य सा हि प्रीतिर्ममातुला ॥ 20 ॥
सुशर्माणं तु राजेन्द्र सभृत्यबलवाहनम् ।
विसर्जय नरश्रेष्ठं वरमेतदहं वृणे ॥ 21 ॥
वैशंपायन उवाच ।
एवमुक्ते तु कङ्केन विराटो राजसत्तमः ।
प्रत्युवाच ततः कङ्कं सुशर्मा यातु चेष्टतः ॥ 22 ॥
कङ्ख उवाच ।
गच्छन्तु दूतास्त्वरिता नगरं तव पार्थिव ।
सुहृदां प्रियमाख्यातुं घोषयन्तु च ते जयम् ॥ 23 ॥
ततस्तद्वचनान्मात्स्यो दूतान्राजा समादिशत् ।
आचक्षध्वं पुरं सत्वा संग्रामे विजयं मम ॥ 24 ॥
कुमार्यः समलंकृत्य प्रयागच्छन्तु मे पुरात् ।
वादित्राणि च सर्वाणि गणिकाश्च स्वलंकृताः ।
प्रत्यायान्तु च मे शीघ्रं नागराः सर्व एव ते ॥ 25 ॥
एवमुक्तास्तथा दूता रात्रौ यात्वा तु केवलम् ।
ततोऽन्तरे चानुषिता दूताः शीघ्रानुयायिनः ॥ 26 ॥
नगरं प्राविशंस्ते वै सूर्ये सम्यगथोदिते ।
विराटनगरं प्राप्य शीघ्रं नान्दीमघोषयन् ।
पताकोच्छ्रयमाल्याढ्यं पुरमप्रतिमं यथा ॥ 27 ॥ ॥
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि षट्त्रिंशोऽध्यायः ॥ 36 ॥