अध्यायः 066
दुर्योधनेन धृतराष्ट्रवत्तनानभिनन्दने राज्ञां निर्गमनम् ॥ 1 ॥ धृतराष्ट्रेण स्वपरसेनयोः सारासारकथनचोदितेन सञ्जयेन व्यासगान्धारीसन्निधौ कथनकथनम् ॥ 2 । श्रीव्यासेन सञ्जयंप्रति धृतराष्ट्रप्रश्नस्योत्तरदानाभ्यनुज्ञानम् ॥ 3 ।
वैशंपायान उवाच । 
					दुर्योधने धार्तराष्ट्रे तद्वचो नाभिनन्दति ।
						तूष्णींभूतेषु सर्वेषु समुत्तस्थुर्नरर्षभाः ॥
					उत्थितेषु महाराज पृथिव्यां सर्वराजसु ।
						रहिते सञ्जयं राजा परिप्रष्टुं प्रचक्रमे ॥
					आशंसमानो विजयं तेषां पुत्रवशानुगः ।
						आत्मनश्च परेषां च पाण्डवानां च निश्चयम् ॥
						धृतराष्ट्र उवाच । 
					गावल्गणे ब्रूहि नः सारफल्गु
							स्वेसनायं यावदिहास्ति किंचित् ।
						
						त्वं पाण्डवानां निपुणं वेत्थ सर्वं
							किमेषां ज्यायः किमु तेषां कनीयः ॥
						
					त्वमेतयोः सारवित्सर्वदर्शी
							धर्मार्थयोर्निपुणो निश्चयज्ञः ।
						
						स मे पृष्टः सञ्जय ब्रूहि सर्वं
							युध्यमानाः कतरेऽस्मिन्न सन्ति ॥
						
						सञ्जय उवाच । 
					न त्वां ब्रूयां रहिते जातु किंचि-
							दसूया हि त्वां प्रविशेत राजन् ।
						
						आनयस्व पितरं महाव्रतं
							गान्धारीं च महिषीमाजमीढ ॥
						
					तो तेऽसूयां विनयेतां नरेन्द्र
							धर्मज्ञौ तौ निपुणौ निश्चयज्ञौ ।
						
						तयोस्तु त्वां सन्निधौ तद्वदेयं
							कृत्स्नं मतं केशवपार्थयोर्यत् ॥
						
						वैशंपायन उवाच । 
					इत्युक्तेन च गान्धारी व्यासश्चात्राजगामह ।
						आनीतौ विदुरेणेह सभां शीघ्रं प्रवेशितौ ॥
					ततस्तन्मतमाज्ञाय सञ्जयस्यात्मजस्य च ।
						अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत् ॥
						व्यास उवाच । 
					संपृच्छते धृतराष्ट्रय सञ्जय
							आचक्ष्व सर्वं यावदेषोऽनुयुङ्क्ते ।
						
						सर्वं यावद्वेत्थ तस्मिन्यथाव-
							द्याथातथ्यं वासुदेवेऽर्जुने च ॥ ॥
					इति श्रीमन्महाभारतो उद्योगपर्वणि यानसन्धिपर्वणि षट्षष्टितमोऽध्यायः ॥
5-66-3 परेषां तटस्थानाम् ॥ 5-66-5 युध्यमाना न सन्ति उदासीना इत्यर्थः ॥ 5-66-6 पितरं व्यासम् ॥
