अध्यायः 082
					 युधिष्ठिरादिभिरनुगम्यमानेन श्रीकृष्णेन रथमधिरुह्य सात्यकिना सह
						हास्तिनपुरंप्रति प्रस्थानम् ॥ 1 ॥ 
					
					
						कुरूणामद्य सर्वेषां भवान्सुहृदनुत्तमः ।
						संबन्धी दयितो नित्यमुभयोः पक्षयोरपि ॥
					 
					
						पाण्डवैर्धार्तराष्ट्राणां प्रतिपाद्यमनामयम् ।
						समर्थः प्रशमं चैव कर्तुमर्हसि केशव ॥
					 
					
						त्वमित्तः पुण्डरीकाक्ष सुयोधनममर्षणम् ।
						शान्त्यर्थं भ्रातरं ब्रूया यत्तद्वाच्यममित्रहन् ॥
					 
					
						त्वया धर्मार्थयुक्तं चेदुक्तं शिवमनामयम् ।
						हितं नादास्यते बालो दिष्टस्य वशमेष्यति ॥
						श्रीभगवानुवाच । 
					 
					
						धर्म्यमस्मद्धितं चैव कुरूणां यदनामयम् ।
						एष यास्यामि राजानं धृतराष्ट्रमभीप्सया ॥
						वैशंपायन उवाच । 
					 
					
						ततो व्यपेते तमसि सूर्ये विमल उद्गते ।
						मैत्रे मुहूर्ते संप्राप्ते मद्वर्चिषि दिवाकरे ॥
					 
					
						कौमुदे मासि रेवत्यां शरदन्ते हिमागमे ।
						स्फीतसस्यसुखे काले कल्यः सत्ववतां वरः ॥
					 
					
						मङ्गल्याः पुण्यनिर्घोषा वाचः श्रृण्वंश्च सूनृताः ।
						ब्राह्मणानां प्रतीतानामृषीणामिव वासवः ॥
					 
					
						कृत्वा पौर्वाह्णिकं कृत्यं स्नातः शुचिरलङ्कृतः ।
						उपतस्थे विवस्वन्तं पावकं च जनार्दनः ॥
					 
					
						ऋषभं पृष्ठ आलभ्य ब्राह्मणानभिवाद्य च ।
						अग्निं प्रदक्षिणं कृत्वा पश्यन्कल्याणमग्रतः ॥
					 
					
						तत्प्रतिज्ञाय वचनं पाण्डवस्य जनार्दनः ।
						शिनेर्नप्तारमासीनमभ्यभाषत सात्यकिम् ॥
					 
					
						रथ आरोप्यतां शङ्खश्चक्रं च गदया सह ।
						उपासङ्गाश्च शक्त्यश्च सर्वप्रहरणानि च ॥
					 
					
						दुर्योधनश्च दुष्टात्मा कर्णश्च सहसौबलः ।
						न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा ॥
					 
					
						ततस्तन्मतमाज्ञाय केशवस्य पुनःसराः ।
						प्रसस्त्नुर्योजयिष्यन्तो रथं चक्रगदाभृतः ॥
					 
					
						तं दीप्तमिव कालाग्निमाकाशगमिवाशुगम् ।
						सूर्यचन्द्रप्रकाशाभ्यां चक्राभ्यां समलङ्कृतम् ॥
					 
					
						अर्धचन्द्रैश्च चन्द्रैश्च मत्स्यैः समृगपक्षिभिः ।
						पुष्पैश्च विविधैश्चित्रं मणिरत्नैश्च सर्वशः ॥
					 
					
						तरुणादित्यसङ्काशं बृहन्तं चारुदर्शनम् ।
						मणिहेमविचित्राङ्गं सुध्वजं सुपताकिनम् ॥
					 
					
						सूपस्करमनाधृष्यं वैयाघ्रपरिवारणम् ।
						यशोघ्नं प्रत्यमित्राणां यदूनां नन्दिवर्धनम् ॥
					 
					
						वाजिभिः शैब्यसुग्रीवमेधपुष्पबलाहकैः ।
						स्नातैः संपादयामासुः संपन्नैः सर्वसंपदा ॥
					 
					
						महिमानं तु कृष्णस्य भूय एवाभिवर्धयन् ।
						सुघोषः पतगेन्द्रेण ध्वजेन युयुजे रथः ॥
					 
					
						तं मेरुशिखरप्रख्यं मेघदुन्दुभिनिस्वनम् ।
						आरुरोह रथं सौरिर्विमानमिव कामगम् ॥
					 
					
						ततः सात्यकिमारोप्य प्रययौ पुरुषोत्तमः ।
						पृथिवीं चान्तरिक्षं च रथघोषेण नादयन् ॥
					 
					
						व्यपोढाभ्रस्ततः कालः क्षणेन समपद्यत ।
						शिवश्चानुववौ वायुः प्रशान्तमभवद्रजः ॥
					 
					
						प्रदक्षिणानुलोमाश्च मङ्गल्या मृगपक्षिणः ।
						प्रयाणे वासुदेवस्य बभूवुरनुयायिनः ॥
					 
					
						मङ्गल्यार्थप्रदैः शब्दैरन्ववर्तन्त सर्वशः ।
						सारसाः शतपत्राश्च हंसाश्च मधुसूदनम् ॥
					 
					
						मन्त्राहुतिमहाहोमैर्हूयमानश्च पावकः ।
						प्रदक्षिणशिखो भूत्वा विधूमः समपद्यत ॥
					 
					
						वसिष्ठो वामदेवश्च भूरिद्युम्नो गयः क्रथः ।
						शुकनारदवाल्मीका मरुत्तः कुशिको भृगुः ॥
					 
					
						देवब्रह्मर्षयश्चैव कृष्णं यदुसुखावहम् ।
						प्रदक्षिणमवर्तन्त सहिता वासवानुजम् ॥
					 
					
						एवमेतैर्महाभागैर्महर्षिगणसाधुभिः ।
						पूजितः प्रययौ कृष्णः कुरूणां सदनं प्रति ॥
					 
					
						` देवताभ्यो नमस्कृत्य ब्राह्मणान्स्वस्ति वाच्य च ।
						प्रययौ पुण्डरीकाक्षः सात्यकेन सहाच्युतः ॥
					 
					
						तं प्रयान्तमनुप्रायात्कुन्तीपुत्रो युधिष्ठिरः ।
						भीमसेनार्जुनौ चोभौ माद्रीपुत्रौ च पाण्डवौ ॥
					 
					
						चेकितानश्च विक्रान्तो धृष्टकेतुश्च चेदिपः ।
						द्रुपदः काशिराजश्च शिखण्डी च महारथः ॥
					 
					
						धृष्टद्युम्नः सपुत्रश्च विराटः केकयैः सह ।
						संसाधनार्थं प्रययुः क्षत्रियाः क्षत्रियर्षभम् ॥
					 
					
						ततोऽनुव्रज्य गोविन्दं धर्मराजो युधिष्ठिरः ।
						राज्ञां सकाशे द्युतिमानुवाचेदं वचस्तदा ॥
					 
					
						यो वै न कामान्न भयान्न लोभान्नार्थकारणात् ।
						अन्यायमनुवर्तेत स्थिरबुद्धिरलोलुपः ॥
					 
					
						धर्मज्ञो धृतिमान्प्राज्ञः सर्वभूतेषु केशवः ।
						ईश्वरः सर्वभूतानां देवदेवः सनातनः ॥
					 
					
						तं सर्वगुणसंपन्नं श्रीवत्सकृतलक्षणम् ।
						संरिष्वज्य कौन्तेयः सन्देष्टुमुपचक्रमे ॥ ॥
					 
					 इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि द्व्यशीतितमोऽध्यायः ॥ 
					 5-82-2 प्रतिपाद्यं संपाद्यात् । अनामयं कुशलम् ॥ 5-82-5
						अभीप्सया प्राप्तुमिच्छया ॥ 5-82-7 कौमुदे कर्तिके ॥ 5-82-11 प्रतिज्ञाय
						अनुस्मृत्य ॥ 5-82-15 आकाशगः सूर्यः ॥ 5-82-18 सूपस्करं
						शोभनैरुपकरणैरुपेताम् । नन्दिवर्धनं आनन्दवर्धनम् ॥ 5-82-19 संपादयामासुः
						सज्जीकृतवन्तः ॥ 5-82-33 संसाधनार्थं कार्यनिष्पत्त्यर्थम् ॥ 5-82- 5-82-
						5-82-