अध्यायः 174
कर्णं युयुत्सोरर्जुनस्य कृष्णेन सहेतुकथनं तेन युद्धनिषेधः ॥ 1 ॥ कृष्णार्जुनचोदनया घटोत्कचस्य कर्णेन सह रणारम्भः ॥ 2 ॥
सञ्जय उवाच । 
					ततः कर्णो रणे दृष्ट्वा पार्षतं परवीरहा ।
						आजघानरोसि शरैर्दशभिर्मर्मभेदिभिः ॥
					प्रतिविव्याध तं तूर्णं धृष्टद्युम्नोपि मारिष ।
						दशभिः सायकैर्हृष्टस्तिष्ठतिष्ठेति चाब्रवीत् ॥
					तावन्योन्यं शरैः सङ्ख्ये सञ्छाद्य सुमहारथैः ।
						पुनः पूर्णायतोत्सृष्टैर्विव्यधाते परस्परम् ॥
					ततः पाञ्चालमुख्यस्य धृष्टद्युम्नस्य संयुगे ।
						सारथिं चतुरश्चाश्वान्कर्णो विव्याध सायकैः ॥
					कार्मुकप्रवरं चापि प्रचिच्छेद शितैः शरैः ।
						सारथिं चास्य भल्लेन रथनीडादपातयत् ॥
					धृष्टद्युम्नस्तु विरथो हताश्वो हतसारथिः ।
						गृहीत्वा परिघं घोरं कर्णस्याश्वानपीडयत् ॥
					विद्धश्च बहुभिस्तेन शरैराशीविषोपमैः ।
						ततो युधिष्ठिरानीकं पद्ध्यामेवान्वपद्यत ॥
					आरुरोह रथं चापि सहदेवस्य मारिष ।
						प्रयातुकामः कर्णाय वारितो धर्मसूनुना ॥
					कर्णस्तु सुमहातेजाः सिंहनादविमिश्रितम् ।
						धनुःशब्दं महच्चक्रे दध्मौ तारेण चाम्बुजम् ॥
					दृष्ट्वा विनिर्जितं युद्धे पार्षतं ते महारथाः ।
						अमर्षवशमापन्नाः पाञ्चालाः सहसोमकाः ॥
					सूतपुत्रवधार्थाय शस्त्राण्यादाय सर्वशः ।
						प्रययुः कर्णमुद्दिश्य मृत्युं कृत्वा निवर्तनम् ॥
					कर्णस्यापि रथे वाहानन्यान्सूतोऽभ्ययोजयत् ।
						शङ्खवर्णान्महावेगान्सैन्धवान्साधुवाहिनः ॥
					लब्धलक्षस्तु राधेयः पञ्चालानां महारथान् ।
						अभ्यपीडयदायस्तः शरैर्मेघ इवाचलम् ॥
					सा पीड्यमाना कर्णेन पाञ्चालानां महाचमूः ।
						सम्प्राद्रवत्सुसन्त्रस्ता सिंहेनेवार्दिता मृगी ॥
					पतितास्तुरगेभ्यश्च गजेभ्यश्च महीतले ।
						रथेभ्यश्च नरास्तूर्णमदृश्यन्त ततस्ततः ॥
					धावमानस्य योधस्य क्षुरप्रैः स महामृधे ।
						बाहू चिच्छेद वै कर्णः शिरश्चैव सकुण्डलम् ॥
					ऊरू चिच्छेद चान्यस्य गजस्थस्य विशाम्पते ।
						वाजिपृष्ठगतस्यापि भूमिष्ठस्य च मारिष ॥
					नाज्ञासिषुर्धावमाना बहवश्च महारथाः ।
						सञ्छिन्नान्यात्मगात्राणि वाहनानि च संयुगे ॥
					ते वध्यमानाः समरे पाञ्चालाः सृञ्जयैः सह ।
						तृणप्रस्पन्दनाच्चापि सूतपुत्रं स्म मेनिरे ॥
					अपि स्वं समरे योधं धावमानं विचेतसम् ।
						कर्णमेवाभ्यमन्यन्त ततो भीता द्रवन्ति ते ॥
					तान्यनीकानि भग्नानि द्रवमाणानि भारत ।
						अभ्यद्रवद्द्रुतं कर्णः पृष्ठतो विकिरञ्छरान् ॥
					अवेक्षमाणास्त्वन्योन्यं सुसम्मूढा विचेतसः ।
						नाशक्नुवन्नवस्थातुं काल्यमाना महात्मना ॥
					कर्णेनाभ्याहता राजन्पाञ्चालाः परमेषुभिः ।
						द्रोणेन च दिशः सर्वा वीक्षमाणाः प्रदुद्रुवुः ॥
					ततो युधिष्ठिरो राजा स्वसैन्यं प्रेक्ष्य विद्रुतम् ।
						अपयाने मनः कृत्वा फल्गुनं वाक्यमब्रवीत् ॥
					पश्य कर्णं महेष्वासं धनुष्पाणिमवस्थितम् ।
						निशीथे दारुणे काले तपन्तमिव भास्करम् ॥
					कर्णसायकनुन्नानां क्रोशतामेष निःस्वनः ।
						अनिशं श्रूयते पार्थ त्वद्बन्धूनामनाथवत् ॥
					यथा विसृजतश्चास्य सन्दधानस्य चाशुगान् ।
						पश्यामि नान्तरं पार्थ क्षपयिष्यति नो ध्रुवम् ॥
					यदत्रानन्तरं कार्यं प्राप्तकाल च पश्यसि ।
						कर्णस्य वधसंयुक्तं तत्कुरुष्व धनञ्जय ॥
					एवमुक्तो महाराज पार्थः कृष्णमथाब्रवीत् ।
						भीतः कुन्तीसुतो राजा राधेयस्याद्य विक्रमात् ॥
					एवं गते प्राप्तकालं कर्णानीके पुनः पुनः ।
						भवान्व्यवस्यतु क्षिप्रं द्रवते हि वरूथिनी ॥
					द्रोणसायकनुन्नानां भग्नानां मधुसूदन ।
						कर्णेन त्रास्यमानानामवस्थानं न विद्यते ॥
					पश्यामि च तथा कर्णं विचरन्तमभीतवत् ।
						द्रवमाणान्रथोदारान्किरन्तं निशितैः शरैः ॥
					नैनं शक्ष्यामि संसोढुं चरन्तं रणमूर्धनि ।
						प्रत्यक्षं वृष्णिशार्दूल पादस्पर्शमिवोरगः ॥
					स सवांस्तत्र यात्वाशु यत्र कर्णो महारथः ।
						अहमेनं हनिष्यामि मां वैष मधुसूदन ॥
						श्रीवासुदेव उवाच । 
					पश्यामि कर्णं कौन्तेय देवराजमिवाहवे ।
						विचरन्तं नरव्याघ्रमतिमानुषविक्रमम् ॥
					नैतस्यान्योऽस्ति सङ्ग्रामे प्रत्युद्याता धनञ्जय ।
						ऋते त्वां पुरुषव्याघ्र राक्षसाद्वा घटोत्कचात् ॥
					न तु तावदहं मन्ये प्राप्तकालं तवानघ ।
						समागमं महाबाहो सूतपुत्रेण संयुगे ॥
					दीप्यमाना महोल्केव तिष्ठत्यस्य हि वासवी ।
						त्वदर्थं हि महाबाहो सूतपुत्रेण संयुगे ॥
					रक्ष्यते शक्तिरेषा हि रौद्रां रूपं बिभर्ति च ।
						घटोत्कचस्तु राधेयं प्रत्युद्यातु महाबलः ॥
					स हि भीमेन बलिना जातः सुरपराक्रमः ।
						तस्मिन्नस्त्राणि दिव्यानि राक्षसान्यासुराणि च ॥
					सततं चानुरक्तो वो हितैषी च घटोत्कचः ।
						विजेष्यति रणे कर्णमिति मे नात्र संशयः ॥
						सञ्जय उवाच । 
					एवमुक्तो महाबाहुः पार्थः पुष्करलोचनः ।
						आजुहावाथ तद्रक्षस्तच्चासीत्प्रादुरप्रतः ॥
					कवची सशरः खङ्गी सधन्वा च विशाम्पते ।
							अभिवाद्य ततः कृष्णं पाण्डवं च धनञ्जयम् ।
						
						अब्रवीच्च तदा कृष्णमयमस्म्यनुशाधि माम् ॥
						
					ततस्तं मेघसङ्काशं दीप्तास्यं दीप्तकुण्डलम् ।
						अभ्यभाषत हैडिम्बिं दाशार्हः प्रहसन्निव ॥
						वासुदेव उवाच । 
					घटोत्कच विजानीहि यत्त्वां वक्ष्यामि पुत्रक ।
							प्राप्तो विक्रमकालोऽयं तव नान्यस्य कस्याचित् ।
						
						स त्वं निमज्जतां युद्धे बन्धूनां बान्धवो भव ॥
						
					यावन्ति च तवास्त्राणि सन्ति मायाश्च राक्षसीः ।
						`अद्यैव समयस्तेषां मायानां चैव राक्षस' ॥
					पश्य कर्णेन हैडिम्बे पाण्डवानामनीकिनीम् ।
						काल्यमानां रणे तात सिंहनेवेतरान्मृगान् ॥
					एष कर्णो महेष्वासो मतिमान्दृढविक्रमः ।
						पाण्वानामनीकेषु निहन्ति क्षत्रियर्षभान् ॥
					किरन्तः शरवर्षाणि महान्ति दृढधन्विनः ।
						न शक्नुवन्त्यवस्थातुं पीड्यमानाः शरार्चिषा ॥
					निशीथे सूतपुत्रेण शरवर्षेण पीडिताः ।
						एते द्रवन्ति पाञ्चालाः सिंहेनेवार्दिता मृशाः ॥
					एतस्यैवं प्रवृद्धस्य सूतपुत्रस्य संयुगे ।
						निषेद्धा विद्यते नान्यस्त्वामृते भीमविक्रम ॥
					स त्वं कुरु महाबाहो कर्म युक्तमिहात्मनः ।
						मातुलानां पितॄणां च तेसजोऽस्त्रबलस्य च ॥
					एतदर्थे हि हैडिम्बे पुत्रानिच्छन्ति मानवाः ।
						कथं नस्तारयेद्दुःखात्स त्वं तारय बान्धवान् ॥
					इच्छन्ति पितरः पुत्रान्स्वार्थहेतोर्घटोत्कच ।
						हहलोकात्परे लोके तारयिष्यन्ति ये हिताः ॥
					तव ह्यत्र बलं भीमं मायाश्च तव दुस्तराः ।
						सङ्क्रामे युध्यमानस्य सततं भीमनन्दन ॥
					पाण्डवानां प्रभग्नानां कर्णेन निशि सायकैः ।
						मज्जतां धार्तराष्ट्रेषु भव पारं परन्तप ॥
					रात्रौ हि राक्षसा भूयो भवन्त्यमितविक्रमाः ।
						बलवन्तः सुदुर्धर्षाः शूरा विक्रान्तचारिणः ॥
					जहि कर्णं हमेष्वासं निशीथे मायया रणे ।
						पार्था द्रोणं वधिष्यन्ति धृष्टद्युम्नपुरोगमाः ॥
						सञ्जय उवाच । 
					केशवस्य वचः श्रुत्वा बीभत्सुरपि राक्षसम् ।
						अभ्यभाषत कौरव्य घटोत्कचमरिन्दमम् ॥
					घटोत्कच भवांश्चैव दीर्घबाहुश्च सात्यकिः ।
						मतौ मे सर्वसैन्येषु भीमसेनश्च पाण्डवः ॥
					तद्भवान्यातु कर्णेन द्वैरथं युध्यतां निशि ।
						सात्यकिः पृष्ठगोपस्ते भविष्यति महारथः ॥
					जहि कर्णं रणे शूरं सात्वतेन सहायवान् ।
						यथेन्द्रस्तारकं पूर्वं स्कन्देन सह जघ्निवान् ॥
						घटोत्कच उवाच । 
					`एवमेव महाबाहो यथा वदसि मां प्रभो ।
						त्वया नियुक्तो गच्छामि कर्णस्य बधकाङ्क्षया' ॥
					अलमेवास्मि कर्णाय द्रोणायालं च भारत ।
						अन्येषां क्षत्रियाणां च कृतास्त्राणां महात्मनाम् ॥
					अद्य दास्यामि सङ्ग्रामं सूतपुत्राय तं निशि ।
						यं जनाः सम्प्रवक्ष्यन्ति यावद्भूमिर्धरिष्यति ॥
					न चात्र शूरान्मोक्ष्यामि न भीतान्न कृताञ्जलीन् ।
						सर्वानेव वधिष्यामि राक्षसं धर्ममास्थितः ॥
						सञ्जय उवाच । 
					एवमुक्त्वा महाबाहुर्हैडिम्बिः परवीरहा ।
						अभ्ययात्तुमुले कर्णं तव सैन्यं विभीषयन् ॥
					तमापतन्तं सङ्क्रुद्धं दीप्तास्यं दीप्तमूर्धजम् ।
						प्रहसन्पुरुषव्याघ्रः प्रतिजग्राह सूतजः ॥
					तयोः समभवद्युद्धं कर्णराक्षसयोर्निशि ।
						गर्जतो राजशार्दूल शक्रप्रह्लादयोरिव ॥ ॥
					इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे चतुःसप्तत्यधिकशततमोऽध्यायः ॥ 174 ॥
5-174-13 आयस्तः प्रयत्नवान् ॥ 5-174-174 चतुःसप्तत्यधिकशततमोऽध्यायः ॥
श्रीः