अध्यायः 014
द्रोणयुद्धं द्वैरथयुद्धमभिमन्युपराक्रमश्च ॥ 1 ॥
सञ्जय उवाच ।
ततः स पाण्डवानीके जनयन्सुमहद्भयम् ।
व्यचरत्पृतनां द्रोणो दहन्कक्षमिवानलः ॥
निर्दहन्तमनीकानि साक्षादग्निमिवोत्थितम् ।
दृष्ट्वा रुक्मरथं क्रुद्धं समकम्पन्त सृञ्जयाः ॥
सततं कृष्यतः सङ्ख्ये धनुषोऽस्याशुकारिणः ।
ज्याघोषः शुश्रुवेऽत्यर्थं विस्फूर्जितमिवाशनेः ॥
रथिनः सादिनश्चैव नागानश्वान्पदातिनः ।
रौद्रा हस्तवता मुक्ताः सम्मृद्गन्ति स्स सायकाः ॥
नानद्यमानः पर्जन्यः प्रवृद्धः शुचिसङ्क्षये ।
अश्मवर्षमिवावर्षत्परेषामावहद्भयम् ॥
विचरन्स दिशः सर्वाः सेनां सङ्क्षोभयन्प्रभुः ।
वर्धयामास सन्त्रासं शात्रवाणाममानुषम् ॥
तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम् ।
भ्राजमानं रथे तस्मिन्दृश्यते स्म महाभयम् ॥
स वीरः सत्यवान्प्राज्ञो धर्मनित्यः सदा पुनः ।
युगान्तकालवद्धोरां रौद्रां प्रावर्तयन्नदीम् ॥
अमर्षवेगप्रभवां क्रव्यादगणसङ्कुलाम् ।
बलौघैः सर्वतः पूर्णां ध्वजवृक्षापहारिणीम् ॥
शोणितोदां रथावर्तां हस्त्यश्वकृतरोधसम् ।
कवचोडुपसंयुक्तां मांसपङ्कसमाकुलाम् ॥
मेदोमज्जास्थिसिकतामुष्मीषचयफेनिलाम् ॥
सङ्ग्रामजलदापूर्णां प्रासमत्स्यसमाकुलाम् ॥
नरनागाश्वकलिलां शरवेगौघवाहिनीम् ।
शरीरदारुसङ्घाटां रथकच्छपसङ्कुलाम् ॥
उत्तमाङ्गैः पङ्कजिनीं निस्त्रिंशझषसङ्कुलाम् ।
रथनागहूदोपेतां नानाभारणभूषिताम् ॥
महारथशतावर्तां भूमिरेणूर्मिमालिनीम् ।
महावीर्यवतां सङ्ख्ये सुतरां भीरुदुस्तराम् ॥
शरीरशतसम्बाधां गृध्रकङ्कनिषेविताम् ।
महारथसहस्राणि नयन्तीं यमसादनम् ॥
शूलव्यालसमाकीर्णां प्राणिवाजिनिषेविताम् ।
छिन्नक्षत्रमहाहंसां मुकुटाण्डजसेविताम् ॥
चक्रकूर्माङ्गदानक्रां शरक्षुद्रझषाकुलाम् ।
बकगृध्रसृगालानां घोरसङ्घैर्निषेविताम् ॥
निहतान्प्राणिनः सङ्ख्ये द्रोणेन बलिना रणे ।
वहन्तीं पितृलोकाय शतशो राजसत्तम ॥
शऱीरशतसम्बाधां केशशैवलशाद्वलाम् ।
नदीं प्रावर्तयद्राजन्भीरूपणां भयवर्धिनीम् ॥
तर्जयन्तमनीकानि तानि तानि महारथम् ।
सर्वतोऽभ्यद्रवन्द्रोणं युधिष्ठिरपुरोगमाः ॥
तानभिद्रवतः शूरांस्तावका दृढविक्रमाः ।
सर्वतः प्रत्यगृह्णन्त तदभूद्रोमहर्षणम् ॥
शतमायस्तु शकुनिः सहदेवं समाद्रवत् ।
सनियन्तृध्वजरथं विव्याघ निशितैः शरैः ॥
तस्य माद्रीसुतः केतुं धनुः सूतं हयानपि ।
नातिक्रुद्धः शरैश्छित्त्वा षष्ठ्या विव्याध सौबलम् ।
`भित्त्वा च शरवर्षेण शकुनिं प्रत्यवारयत्' ॥
गदां गृहीत्वा शकुनिः प्रचस्कन्द रथोत्तमात् ।
स तस्य गदया राजन्रथात्सूतमपातयत् ॥
ततस्तौ विरथौ राजन्गदाहस्तौ महाबलौ ।
चिक्रीडतू रणे शूरौ सशृङ्गाविव पर्वतौ ॥
द्रोणः पाञ्चालदायादं विव्याध निशितैः शरैः ।
तयोस्तत्र महाराज बाणवर्षैः प्रकाशितम् ।
खद्योतैरिव चाकाशं प्रदोषे पुरुषर्षभ ॥
विविंशतिं भीमसेनो विंशत्या निशितैः शरैः ।
विद्ध्वा नाकम्पयद्वीरस्तदद्भुतमिवाभवत् ॥
विविंशतिस्तु सहसा व्यश्वकेतुशरासनम् ।
भीमं चक्रे महाराज ततः सैन्यान्यपूजयन् ॥
स तन्न ममृषे वीरः शत्रोर्विक्रममाहवे ।
ततोऽस्य गदया दान्तान्हयात्सर्वानपातयत् ॥
हताश्वात्स रथाद्राजन्गृह्य चर्म महाबलः ।
अभ्ययाद्भीमसेनं तु मत्तो मत्तमिव द्विपम् ॥
शल्यस्तु नकुलं वीरः स्वस्रीयं प्रियमात्मनः ।
विव्याध प्रहसन्बाणैर्लालयन्कोपयन्निव ॥
तस्याश्वानातपत्रं च ध्वजं सूतमथो धनुः ।
निपात्य नकुलः सङ््ख्ये शङ्खं दध्मौ प्रतापवान् ॥
धृष्टकेतुः कृपेणास्ताञ्छित्त्वा बहुविधाञ्छरान् ।
कृपं विव्याध सप्तत्या ध्वजं चास्य त्रिभिः शरैः ॥
तं कृपः शरवर्षेण महता समवारयत् ।
विव्याध च रणे विप्रो धृष्टकेतुममर्षणम् ॥
सात्यकिः कृतवर्माणं नाराचेन स्तनान्तरे ।
विद्ध्वा विव्याध सप्तत्या पुनरन्यैः स्मयन्निव ॥
तं भोजः सप्तसप्तत्या विद्ध्वाऽऽशु निशितैः शरैः ।
नाकम्पयत शैनेयं शीघ्रो वायुरिवाचलम् ॥
सेनापतिः सुशर्माणं भृशं मर्मस्वताडयत् ।
स चापि तं तोमरेण जत्रुदेशेऽभ्यताडयत् ॥
वैकर्तनं तु समरे विराटः प्रत्यवारयत् ।
सह मत्स्यैर्महावीर्यैस्तदद्भुतमिवाभवत् ॥
तत्पौरुषमभूत्तत्र सूतपुत्रस्य दारुणम् ।
यत्सैन्यं वारयामास शरैः सन्नतपर्वभिः ॥
द्रुपदस्तु स्वयं राजा भगदत्तेन सङ्गतः ।
तयोर्युद्धं महाराज चित्ररूपमिवाभवत् ॥
भगदत्तस्तु राजानं द्रुपदं नतपर्वभिः ।
सनियन्तृध्वजरथं विव्याध पुरुषर्षभः ॥
द्रुपदस्तु ततः क्रुद्धो भगदत्तं महारथम् ।
आजघानोरसि क्षिप्रं शरेणानतपर्वणा ॥
युद्धं योधवरौ लोके सौमदत्तिशिखण्डिनौ ।
भूतानां त्रासजननं चक्रातेऽस्त्रविशारदौ ॥
भूरिश्रवा रणे राजन्याज्ञसेनिं महारथम् ।
महता सायकौघेन च्छादयामास वीर्यवान् ॥
शिखण्डी तु ततः क्रुद्धः सौमदत्तिं विशाम्पते ।
नवत्या सायकानां तु कम्पयामास भारत ॥
राक्षसौ रौद्रकर्माणौ हेडिम्बालम्बुसावुभौ ।
चक्रातेऽत्युद्भुतं युद्धं परस्परजयैषिणौ ॥
मायाशतसृजौ दृप्तौ मायाभिरितरेतरम् ।
अन्तर्हितौ चेरतुस्तौ भृशं विस्मयकारिणौ ॥
चेकितानोऽनुविन्देन युयुधे चातिभैरवम् ।
यथा देवासुरे युद्धे बलशक्रौ महाबलौ ॥
लक्ष्मणः क्षत्रदेवेन विमर्दमकरोद्भृशम् ।
यथा विष्णुः पुरा राजन्हिरण्याक्षेण संयुगे ॥
ततः प्रचलिताश्वेन विधिवत्कल्पितेन च ।
रथेनाभ्यपतद्राजन्सौभद्रं पौरवो पौरवो नदन् ॥
ततोऽभ्ययात्स त्वरितो युद्धाकाङ्क्षी महाबलः ।
तेन चक्रे महद्युद्धमभिमन्युररिन्दमः ॥
पौरवस्त्वथ सौभद्रं शरव्रातैरवाकिरत् ।
तस्यार्जुनिर्ध्वजं छत्रं धनुश्चोर्व्यामपातयत् ॥
सौभद्रः पौरवं त्वन्यैर्विद्ध्वा सप्तभिराशुगैः ।
पञ्चभिस्तस्य विव्याध हयान्सूनं च सायकैः ॥
ततः प्रहर्षयन्सेनां सिंहवद्विनदन्मुहुः ।
समादत्तार्जुनिस्तूर्णं पौरवान्तकरं शरम् ॥
तं तु सन्धितमाज्ञाय सायकं घोरदर्शनम् ।
द्वाभ्यां शराभ्यां हार्दिक्यश्चिच्छेद सशरं धनुः ॥
तदुत्सृज्य धनुश्छिन्नं सौभद्रः परवीरहा ।
उद्बबर्ह सितं खङ्गमाददनाः शरावरम् ॥
स तेनानेकतारेण चर्मणा कृतहस्तवत् ।
भ्रान्तासिना चरन्मार्गान्दर्शयन्वीर्यमात्मनः ॥
भ्रामितं पुनरुद्धान्तमाधूतं पुनरुत्थितम् ।
चर्मनिस्त्रिंशयो राजन्निर्विशेषमदृश्यत ॥
स पौरवरथस्येषामाप्लुत्य सहसा नदन् ।
पौरवं रथमास्थाय केशपक्षे परामृशत् ॥
जघानास्य पदा सूतमसिना पातयद्धृजम् ।
विक्षोभ्याम्भोनिधिं तार्क्ष्यस्तं नागमिव चाक्षिपत् ॥
तमागलितकेशान्तं ददृशुः सर्वपार्थिवाः ।
उक्षाणमिव सिंहेन पात्यमानमचेतसम् ॥
तमार्जुनिवशं प्राप्तं कृष्यमाणमनाथवत् ।
पौरवं पातितं दृष्ट्वा नामृष्यत जयद्रूथः ॥
स बर्हिबर्हावततं किङ्किणीशतजालवत् ।
चर्म चादाय खङ्गं च नदन्पर्यपतद्रथात् ॥
ततः सैन्धवमालोक्य कार्ष्णिरुत्सृज्य पौरवम् ।
उत्पपात रथात्तूर्णं श्येनवन्निपपात च ।
प्रासपट्टिशनिस्त्रिंशाञ्छत्रुभिः सम्प्रचोदितान् ।
चिच्छेद चासिना कार्ष्णिश्चर्मणा संरुरोध च ॥
स दर्शयित्वा सैन्यानां स्वबाहुबलमात्मनः ।
तमुद्यम्य महाखङ्गं चर्म चाथ पुनर्बली ॥
वृद्धक्षत्रस्य दायादं पितुरत्यन्तवैरिणम् ।
ससाराभिमुखः शूरः शार्दूल इव कुञ्जरम् ॥
तौ परस्परमासाद्य खह्गदन्तनखायुधौ ।
हृष्टवत्सम्प्रजहाते व्याघ्रकेसरिणाविव ॥
सम्पातेष्वभिघातेषु निपातेष्वसिचर्मणोः ।
न तयोरन्तरं कश्चिद्ददर्श नरसिंहयोः ॥
अवक्षेपोऽसिनिर्हादः शस्त्रान्तरनिदर्शनम् ।
बाह्यान्तरनिपातश्च निर्विशेमदृश्यत ॥
बाह्यमाभ्यन्तरं चैव चरन्तौ मार्गमुत्तमम् ।
ददृशाते महात्मानौ सपक्षाविव पर्वतौ ॥
ततो विक्षिपतः खङ्गं सौभद्रस्य यशस्विनः ।
शरावरणपक्षान्ते प्रजहार जयद्रथः ॥
रुक्मपत्रान्तरे सक्तस्तस्मिंश्चर्मणि भास्वरे ।
सिन्धुराजबलोद्धूतः सोऽभज्यत महानसिः ॥
भग्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट् ।
अदृश्यत निमेषेण स्वरथं पुनरास्थितः ॥
तं कार्ष्णिं समरान्मुक्तमास्थितं रथमुत्तमम् ।
सहिताः सर्वराजानः परिवव्रुः समन्ततः ॥
ततश्चर्म च खङ्गं च समुत्क्षिप्य महाबलः ।
ननादार्जुनदायादः प्रेक्षमाणो जयद्रथम् ॥
सिन्धुराजं परित्यज्य सौभद्रः परवीरहा ।
तापयामास तत्सैन्यं भुवनं भास्करो यथा ॥
तस्य सर्वायसीं शक्तिं शल्यः कनकभूषणाम् ।
चिक्षेप समरे घोरां दीप्तामग्निशिखामिव ॥
तामवप्लुत्य जग्राह विकोशं चाकरोदसिम् ।
वैनतेयो यथा कार्ष्णिः पतन्तमुरगोत्तमम् ॥
तस्य लाषवमाज्ञाय सत्वं चामिततेजसः ।
सहिताः सर्वराजानः सिंहनादमथानदन् ॥
ततस्तामेव शल्यस्य सौभद्रः परवीरहा ।
मुमोच भुजवीर्येण वैदूर्यविकृतां शिताम् ॥
सा तस्य रथमासाद्य निर्मुक्तभुजगोपमा ।
जघान सूतं शल्यस्य रथाच्चैनमपातयत् ॥
ततो विराटद्रुपदौ धृष्टकेतुर्युधिष्ठिरः ।
सात्यकिः केकया भीमो धृष्टद्युम्नशिखण्डिनौ ॥
यमौ च द्रौपदेयाश्च साधुसाध्विति चुक्रुशुः ।
बाणशब्दाश्च विविधाः सिंहनादाश्च पुष्कलाः ॥
प्रादुरासन्हर्षयन्तः सौभद्रमपलायिनम् ।
तन्नामृष्यन्त पुत्रास्ते शत्रोर्विजयलक्षणम् ॥
अथैनं सहसा सर्वे समन्तान्निशितैः शरैः ।
अभ्याकिरन्महाराज जलदा इव पर्वतम् ॥
तेषां च प्रियमन्विच्छन्सूतस्य च पराभवम् ।
आर्तायनिरमित्रघ्नः क्रुद्धः सौभद्रमभ्ययात् ॥ ॥
इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि एकादशदिवसयुद्धे चतुर्दशोऽध्यायः ॥ 14 ॥
5-14-5 शुचिसङ्क्षये ग्रीष्मान्ते ॥ 5-14-16 प्राणिन एव वाजिनः पक्षिणः ॥ 5-14-87 पराभवं प्रेक्ष्येति शेषः ॥ 5-14-14 चतुर्दशोऽध्यायः ॥
श्रीः