अध्यायः 035
					 जनमेजयेन वैशम्पायनम्प्रति बलरामस्य तीर्थयात्राप्रकारप्रश्नः ॥ 1 ॥ तेन तम्प्रति तत्कथनमुपक्रम्य प्रभासतीर्थस्य तत्पदवाच्यत्वे हेतुकथनम् ॥ 2 ॥ 
					
					
						पूर्वमेव यदा रामस्तस्मिन्युद्ध उपस्थिते ।
						आमन्त्र्य केशवं यातो वृष्णिभिः सहितः प्रभुः ॥
					 
					
						साहाय्यं धार्तराष्ट्रस्य न च कर्ताऽस्मि केशव ।
						न चैव पाण्डुपुत्राणां गमिष्यामि यथागतम् ॥
					 
					
						एवमुक्त्वा तदा रामो यातः शत्रुनिबर्हणः ।
						तस्य चागमनं भूयो ब्रह्मञ्शं सितुमर्हसि ॥
					 
					
						आख्याहि मे विस्तरशः कथं राम उपस्थितः ।
						कथं च दृष्टवान्युद्धं कुशलो ह्यसि सत्तम ॥
						वैशम्पायन उवाच । 
					 
					
						उपप्लाव्ये निविष्टेषु पाण्डवेषु महात्मसु ।
						प्रेषितो धृतराष्ट्रस्य समीपं मधुसूदनः ॥
					 
					
						शमं प्रति महाबाहो हितार्थं सर्वदेहिनाम् ॥
							स गत्वा हास्तिनपुरं धृतराष्ट्रं समेत्य च ।
						
					 
					
						उक्तवान्वचनं पथ्यं हितं चैव विशेषतः ॥
						
					 
					
						न च तत्कृतवान्राजा यथाऽख्यातं हि तत्पुरा ॥
						
					 
					
						अनवाप्य शमं तत्र कृष्णः पुरुषसत्तमः ।
						आगच्छत महाबाहुरुपप्लाव्यं जनाधिप ॥
					 
					
						ततः प्रत्यागतः कृष्णो धार्तराष्ट्रविसर्जितः ।
							आजगाम नरव्याघ्रः पाण्डवानामनीकिनीम् ।
						
						यथोक्तं च यथावृत्तं गत्वा पाण्डवमब्रवीत् ॥
						
					 
					
						न कुर्वन्ति वचो मह्यं कुरवः कालनोदिताः ।
						निर्गच्छध्व पाण्डवेयाः पुष्येण सहिता मया ॥
					 
					
						ततो विभज्यमानेषु बलेषु बलिनां वरः ।
						प्रोवाच भ्रातरं कृष्णं रौहिणेयो महामनाः ॥
					 
					
						तेषामपि महाबाहो साहाय्यं मधुसूदन ।
						क्रियतामिति तत्कृष्णो नास्य चक्रे वचस्तदा ॥
					 
					
						ततो मन्युपरीतात्मा जगाम यदुनन्दनः ।
							तीर्थयात्रां हलधरः सरस्वत्यां महायशाः ।
						
						मैत्रनक्षत्रयोगे स्म सहितः सर्वयादवैः ॥
						
					 
					
						आश्रयामास भोजस्तु दुर्योधनमरिन्दमः ।
						युयुधानेन सहितो वासुदेवस्तु पाण्डवान् ॥
					 
					
						रौहिणेये गते शूरे पुष्येण मधुसूदनः ।
						पाण्डवेयान्पुरस्कृत्य ययावभिमुखः कूरून् ॥
					 
					
						गच्छन्नेव पथिस्थस्तु रामः प्रेष्यानुवाच ह ।
						सम्भारांस्तीर्थयात्रायां सर्वोपकरणानि च ॥
					 
					
						आनयध्वं द्वारकाया अग्नीन्वै याजकांस्तथा ।
						सुवर्णरजनं चैव धैनूर्वासांसि वाजिनः ॥
					 
					
						कुञ्जरांश्च रथांश्चैव खरोष्ट्रं वाहनानि च ।
						क्षिप्रमानीयतां सर्वं तीर्थहेतोः परिच्छदम् ॥
					 
					
						प्रतिस्रोतः सरस्वत्या गच्छध्वं शीघ्रगामिनः ।
						ऋत्विजश्चानयध्वं वै शतशश्च द्विजर्षभान् ॥
					 
					
						एवं सन्दिश्य तु प्रेष्यान्बलदेवो महाबलः ।
						तीर्थयात्रां ययौ राजन्कुरूणां वैशसे तदा ॥
					 
					
						सरस्वत्याः प्रतिस्रोतः समुद्रादभिजग्मिवान ।
						रामो यदूत्तमः श्रीमांस्तीर्थयात्रामनुस्मरन् ॥
					 
					
						ऋत्विग्भिश्च सुहृद्भिश्च यथाऽन्यैर्द्विजसत्तमैः ।
							रथैर्गजैस्तथाऽश्वैश्च प्रेष्यैश्च भरतर्षभ ।
						
						गोखरोष्ट्रप्रयुक्तैश्च यानैश्च बहुभिर्वृतः ॥
						
					 
					
						श्रान्तानां क्लान्तबपुषां शिशूनां विपुलायुषाम् ।
						देशेदेशे तु देयानि दानानि विविधानि च ॥
					 
					
						अर्चायै चार्थिनां राजन्क्लृप्तानि बहुशस्तथा ।
						तानि यानीह देशेषु प्रतीक्षन्ति स्म भारत ॥
					 
					
						बुभुक्षितानामर्थाय क्लृप्तमन्नं समन्ततः ॥
						
					 
					
						योयो यत्र द्विजो भोज्यं भोक्तुं कामयते तदा ।
						तस्यतस्य तु तत्रैवमुपजह्रुस्तदा नृष ॥
					 
					
						तत्रतत्र स्थिता राजन्रौहिणेयस्य शासनात् ।
						भक्ष्यपेयस्य कुर्वन्ति राशींस्तत्र समन्ततः ॥
					 
					
						वासांसि च महार्हाणि पर्यङ्कास्तरणानि च ।
						पूजार्थं तत्र क्लृप्तानि विप्राणां सुखमिच्छताम् ॥
					 
					
						यत्र यः स्वपते विप्रो यो वा जागर्ति भारत ।
						तत्रतत्रैव सर्वस्य क्लृप्तं सर्वमपश्यत ॥
					 
					
						यथासुखं जनः सर्वो याति तिष्ठति वै तदा ।
						यातुकामस्य यानानि पानानि तृषितस्य च ॥
					 
					
						बुभुक्षितस्य चान्नानि स्वादूनि भरतर्षभ ।
						उपजह्रुर्नरास्तत्र वस्त्राण्याभरणानि च ॥
					 
					
						स पन्थाः प्रबभौ राजन्सर्वस्यैव सुखावहः ।
						स्वर्गोपमस्तदा वीर नराणां तत्र गच्छताम् ॥
					 
					
						नित्यप्रमुदितोपेतः स्वादुभक्ष्यो जलान्वितः ।
							विपण्यापणपण्यानं नानाजनशतैर्वृतः ।
						
						नानाद्रुमलतोपेतो नानारत्नविभूषितः ॥
						
					 
					
						ततो महात्मा नियतो मनस्विनां
							पुण्येषु तीर्थेषु वसूनि राजन् ।
						
						ददौ द्विजेभ्यः क्रतुदक्षिणाश्च
							यदुप्रवीरो हलभृत्प्रतीतः ॥
						
					 
					
						दोग्ध्रीश्च धेनूश्च सहस्रशो वै
							सुवाससः काञ्चनबद्धशृङ्गीः ।
						
						हयांश्च नानाविधदेशजातान्
							यानानि दासांश्च शुभान्द्विजेभ्यः ॥
						
					 
					
						रत्नानि मुक्तामणिविद्रुमं चा--
							प्यग्र्यं सुवर्णं रजतं सुशुन्द्वम् ।
						
						अयस्मयं ताम्रमयं च भाण्डं
							ददौ द्विजातिप्रवरेषु रामः ॥
						
					 
					
						एवं स वित्तं प्रददौ महात्मा
							सरस्वतीतीर्थगतेषु भूरि ।
						
						ययौ क्रमेणाप्रतिमप्रभाव--
							स्ततः कुरुक्षेत्रमुदारवृत्तः ॥
						
						जनमेजय उवाच । 
					 
					
						सारस्वतानां तीर्थानां गुणोत्पत्तिं वदस्व मे ।
						फलं च द्विपदां श्रेष्ठ कर्म निर्वृत्तिमेव च ॥
					 
					
						यथाक्रमेण भगवंस्तीर्थानामनुपूर्वशः ।
						ब्रूहि ब्रह्मविदां श्रेष्ठ परं कौतूहलं हि मे ॥
						वैशम्पायन उवाच । 
					 
					
						तीर्थानां च फलं राजन्गुणोत्पत्तिं चं सर्वशः ।
						मयोच्यमानं वै पुण्यं शृणु राजेन्द्र कृत्स्नशः ॥
					 
					
						पूर्वं महाराज यदुप्रवीर
							ऋत्विक्सुहृद्विप्रगणैश्च सार्धम् ।
						
						पुण्यं प्रभासं समुपाजगाम
							यत्रोडुराढ्यक्ष्मणा क्षीयमाणः ॥
						
					 
					
						विमुक्तशापः पुनराप्य तेजः
							सर्वं जगद्भासयते नरेन्द्र ।
						
						एतत्तु तीर्थप्रवरं पृथिव्यां
							प्रभासनात्तस्य ततः प्रभासः ॥ ॥
					 
					 इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टदशदिवसयुद्धे
						पञ्चत्रिंशोऽध्यायः ॥ 35 ॥ 
					 9-35-14 मैत्रनक्षत्रयोगे अनुराधायां ॥ 9-35-15 भोजः
						कृतवर्मा ॥ 9-35-16 पुष्येण हि पाण्डवेभ्यः प्रयाणं
						अनुराधातस्तीर्थयात्रार्थमिति विवेकः ॥ 9-35-34 विपणिः पाण्यवीथिका । आपणा
						हट्टाः । पण्यानि विक्रेयद्रव्याणि ॥ 9-35-35 कृतदक्षिणाश्चेति क.ङ.पाठः ॥ 9-35-39 गुणान् रमणीयत्वादीन् । उत्पत्तिं सम्भवम् । कर्मनिर्वृत्तिं
						तीर्थयात्राविदिसिद्धम् । निवृत्तिमपि कर्मणाम् इति क.ङ.पाठः ॥ 9-35-40 यथाकमेण
						तीर्थकमापेक्षया अनुपूर्वशः गुणोत्पत्त्यादिक्रमापेक्षया ॥ 9-35-43 प्रभासः
						प्रभासत्वम् ॥ 9-35-35 पञ्चत्रिंशोऽध्यायः ॥ 
					
					
					
					
					श्रीः